Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 7.168

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

7.168.1

सहदेवमथायान्तं द्रोणप्रेप्तुं विशाम्पते ।
कर्णो वैकर्तनो युद्धे वारयामास भारत ॥ ७.१६८.१ ॥

人主啊,当偕提婆欲前往德罗纳处时,毗迦尔塔那之子迦尔纳在战中阻拦了他,婆罗多之后。

7.168.2

सहदेवस्तु राधेयं विद्ध्वा नवभिराशुगैः ।
पुनर्विव्याध दशभिर्विशिखैर्नतपर्वभिः ॥ ७.१६८.२ ॥

然而偕提婆以九支迅疾之箭射中罗陀之子迦尔纳,又以十支弯曲箭头之箭再次射伤他。

7.168.3

तं कर्णः प्रतिविव्याध शतेन नतपर्वणाम् ।
सज्यं चास्य धनुः शीघ्रं चिच्छेद लघुहस्तवत् ॥ ७.१६८.३ ॥

迦尔纳以一百支弯曲箭头之箭还击,并以轻巧的手法迅速斩断了他的弓与弦。

7.168.4

ततोऽन्यद्धनुरादाय माद्रीपुत्रः प्रतापवान ।
कर्णं विव्याध विंशत्या तदद्भुतमिवाभवत् ॥ ७.१६८.४ ॥

于是,威猛的玛德丽之子取了另一张弓,以二十支箭射中迦尔纳,这看来几乎如同奇迹。

7.168.5

तस्य कर्णो हयान्हत्वा शरैः सन्नतपर्वभिः ।
सारथिं चास्य भल्लेन द्रुतं निन्ये यमक्षयम् ॥ ७.१६८.५ ॥

迦尔纳以弯曲箭头之箭射杀了他的马,并以一支投枪箭迅速将其御者送往阎摩之境。

7.168.6

विरथः सहदेवस्तु खङ्गं चर्म समाददे ।
तदप्यस्य शरैः कर्णो व्यधमत्प्रहसन्निव ॥ ७.१६८.६ ॥

于是偕提婆失去战车,拿起剑与盾;迦尔纳仿佛笑着,又以箭将它们射碎。

7.168.7

अथ गुर्वीं महाघोरां हेमचित्रां महागदाम् ।
प्रेषयामास सङ्क्रुद्धो वैकर्तनरथं प्रति ॥ ७.१६८.७ ॥

于是他愤怒地将一柄沉重、极其可怖、饰以黄金的大铁锤投向迦尔纳的战车。

7.168.8

तामापतन्तीं सहसा सहदेवप्रचोदिताम् ।
व्यष्टम्भयच्छरैः कर्णो भूमौ चैनामपातयत् ॥ ७.१६८.८ ॥

迦尔纳看到萨哈德瓦所投之锤突然飞向自己,便以箭将其挡住,使之坠落于地。

7.168.9

गदां विनिहतां दृष्ट्वा सहदेवस्त्वरान्वितः ।
शक्तिं चिक्षेप कर्णाय तामप्यस्याच्छिनच्छरैः ॥ ७.१६८.९ ॥

萨哈德瓦见锤被击落,急忙向迦尔纳投出一支矛;迦尔纳也以箭将其斩断。

7.168.10

ससम्भ्रमं ततस्तूर्णमवप्लुत्य रथोत्तमात् ।
सहदेवो महाराज दृष्ट्वा कर्णं व्यवस्थितम् ॥ ७.१६८.१० ॥

大王啊!于是萨哈德瓦慌忙迅速地从上好的战车跳下,看见迦尔纳屹立不动。

7.168.11

रथचक्रं प्रगृह्याजौ मुमोचाधिरथं प्रति ।
तदापतद्वै सहसा कालचक्रमिवोद्यतम्।
शरैरनेकसाहस्रैराच्छिनत्सूतनन्दनः ॥ ७.१६८.११ ॥

他在战斗中抓起一个车轮,投向阿迪拉塔(迦尔纳)。它突然飞来,高举如时间之轮;但御者之子以数千支箭将其斩成碎片。

7.168.12

तस्मिंस्तु निहते चक्रे सूतजेन महात्मना ।
ईषादण्डकयोक्रांश्च युगानि विविधानि च ॥ ७.१६८.१२ ॥

那车轮被毁之后,这位高贵的御者之子又斩断了车辕、车轭杆、轭木及各式车具。

7.168.13

हस्त्यङ्गानि तथाश्वांश्च मृतांश्च पुरुषान्बहून् ।
चिक्षेप कर्णमुद्दिश्य कर्णस्तान्व्यधमच्छरैः ॥ ७.१६८.१३ ॥

他将象的肢体、马匹以及许多尸体投向迦尔纳;迦尔纳以箭将它们射得粉碎。

7.168.14

स निरायुधमात्मानं ज्ञात्वा माद्रवतीसुतः ।
वार्यमाणस्तु विशिखैः सहदेवो रणं जहौ ॥ ७.१६८.१४ ॥

摩德罗的儿子(马德丽之子)知道自己已无武器,被箭矢所阻,于是离开了战场。

7.168.15

तमभिद्रुत्य राधेयो मुहूर्ताद्भरतर्षभ ।
अब्रवीत्प्रहसन्वाक्यं सहदेवं विशाम्पते ॥ ७.१६८.१५ ॥

骁勇的婆罗多之牛啊,人民之主啊,拉达之子迦尔纳瞬间冲向他,笑着对偕天说了这些话。

7.168.16

मा युध्यस्व रणेऽधीर विशिष्टै रथिभिः सह। ॥ ७.१६८.१६ ॥

怯懦之人啊,不要在战场上与更强的车士交战。

7.168.17

सदृशैर्युध्य माद्रेय वचो मे मा विशङ्किथाः ।
अथैनं धनुषोग्रेण तुदन्भूयोऽब्रवीद्वचः ॥ ७.१६८.१७ ॥

摩德罗之子啊,与你的同等之人作战吧;不要怀疑我的话。随后他以猛烈的弓箭刺激对方,再次说出这些话。

7.168.18

एषोऽर्जुनो रणे तूर्णं युध्यते कुरुभिः सह ।
तत्र गच्छस्व माद्रेय गृहं वा यदि मन्यसे ॥ ७.१६८.१८ ॥

看哪,阿周那正在战场上迅速与俱卢人交战;摩德罗之子啊,若你愿意,就去那里,或者回家去吧。

7.168.19

एवमुक्त्वा तु तं कर्णो रथेन रथिनां वरः ।
प्रायात्पाञ्चालपाण्डूनां सैन्यानि प्रदहन्निव ॥ ७.१६८.१९ ॥

卡尔纳对他如此说后,车士中的翘楚乘车前行,仿佛要焚烧般特拉王和般度之子的军队。

7.168.20

वधं प्राप्तं तु माद्रेयं नावधीत्समरेऽरिहा ।
कुन्त्याःस्मृत्वा वचो राजन्सत्यसन्धो महायशाः ॥ ७.१६८.२० ॥

大王啊,那位杀敌者在战斗中并未杀死已临近死亡的玛德丽之子;誓言真实、大名远扬者想起了贡蒂的话,故而如此行事。

7.168.21

सहदेवस्ततो राजन्विमनाः शरपीडितः ।
कर्णवाक्शरतप्तश्च जीवितान्निरविद्यत ॥ ७.१६८.२१ ॥

大王啊,于是,萨哈德瓦心灰意懒,被箭所伤,又被迦尔纳的话语与箭矢所灼,对生命感到厌倦。

7.168.22

आरुरोह रथं चापि पाञ्चाल्यस्य महात्मनः ।
जनमेजयस्य समरे त्वरायुक्तो महारथः ॥ ७.१६८.२२ ॥

这位大车士急促地登上了般遮罗王子、大德的遮摩若阇耶之车,在战斗中向前推进。

7.168.23

विराटं सहसेनं तु द्रोणार्थे द्रुतमागतम् ।
मद्रराजः शरौघेण च्छादयामास धन्विनम् ॥ ७.१६८.२३ ॥

然而摩德罗王以箭雨遮蔽了为德罗纳而急速赶来的毗罗吒及其军队,那位弓箭手。

7.168.24

तयोः समभवद्युद्धं समरे दृढधन्विनोः ।
यादृशं ह्यभवद्राजञ्जम्भवासवयोः पुरा ॥ ७.१६८.२४ ॥

大王啊,那两位坚定的弓箭手之间展开了战斗,正如往昔禅婆与婆娑(因陀罗)之间的战斗一样。

7.168.25

मद्रराजो महाराज विराटं वाहिनीपतिम् ।
आजघ्ने त्वरितस्तूर्णं शतेन नतपर्वणाम् ॥ ७.१६८.२५ ॥

大王啊,摩德罗国王迅速地立即以一百支弯曲关节的箭射中了统帅毗罗吒。

7.168.26

प्रतिविव्याध तं राजन्नवभिर्निशितै शरैः ।
पुनश्चैनं त्रिसप्तत्या भूयश्चैव शतेन तु ॥ ७.१६८.२६ ॥

大王啊,他以九支锐利的箭回击他,然后又以七十三支、再以一百支射穿了他。

7.168.27

तस्य मद्राधिपो हत्वा चतुरो रथवाजिनः ।
सूतं ध्वजं च समरे शराभ्यां सन्न्यपातयत् ॥ ७.१६८.२७ ॥

摩德罗之主在战斗中杀死了他的四匹战车马,并以两支箭射倒了他的御者和旗帜。

7.168.28

हताश्वात्तुं रथात्तूर्णमवप्लुत्य महारथः ।
तस्थौ विष्फारयंश्चापं विमुञ्चंश्च शिताञ्छरान् ॥ ७.१६८.२८ ॥

马匹被杀后,这位大车将迅速从战车跳下,站立着拉开弓,射出锐利的箭。

7.168.29

शतानीकस्ततो दृष्ट्वा भ्रातरं हतवाहनम् ।
रथेनाभ्यपतत्तूर्णं सर्वलोकस्य पश्यतः ॥ ७.१६८.२९ ॥

于是,沙塔尼迦看见他的兄弟失去了车乘,便驾着战车在众人注视下迅速冲向他。

7.168.30

शतानीकमथायान्तं मद्राराजो महामृधे ।
विशिखैर्बहुभिर्विद्ध्वा ततो निन्ये यमक्षयम् ॥ ७.१६८.३० ॥

在大战中见沙塔尼迦前来,摩德罗王以许多箭射穿了他,随后将他送往阎摩之境。

7.168.31

तस्मिंस्तु निहते वीरे विराटो रथसत्तमः ।
आरुरोह रथं तूर्णं तमेव ध्वजमालिनम् ॥ ७.१६८.३१ ॥

那位英雄被杀后,车师中最优秀的毗罗吒迅速登上了那辆饰有旗幡的战车。

7.168.32

ततो विष्फार्य नयने क्रोधाद्द्विगुणविक्रमः ।
मद्रराजरथं तूर्णं छादयामास पत्रिभिः ॥ ७.१६८.३२ ॥

于是,怒目圆睁的毗罗吒以加倍的勇猛,迅速用箭雨遮蔽了摩德罗王的战车。

7.168.33

ततो मद्राधिपः क्रुद्धः शरेणानतपर्वणा ।
आजघानोरसि दृढं विराटं वाहिनीपतिम् ॥ ७.१६८.३३ ॥

于是愤怒的摩德罗之主以一支弯曲节部的箭,重重射中了统帅毗罗吒的胸膛。

7.168.34

सोऽतिविद्धो महाराज रथोपस्थ उपाविशत् ।
कश्मलं चाविशत्तीव्रं विराटो भरतर्षभ।
सारथिस्तमपोवाह समरे शरविक्षतम् ॥ ७.१६८.३४ ॥

大王,他受到重创,坐倒在车厢底板上,剧烈的昏厥袭来。婆罗多族之雄牛啊,他的御者将中箭受伤的他带离了战场。

7.168.35

ततः सा महती सेना प्राद्रवन्निशि भारत ।
वध्यमाना शरशतैः शल्येनाहवशोभिना ॥ ७.१६८.३५ ॥

婆罗多啊,那支庞大的军队在夜间溃逃,被以战中生辉著称的沙利耶的数百支箭所射。

7.168.36

तां दृष्ट्वा विद्रुतां सेनां वासुदेवधनञ्जयौ ।
प्रयातौ तत्र राजेन्द्र यत्र शल्यो व्यवस्थितः ॥ ७.१६८.३६ ॥

帝王之主啊,见那支溃逃的军队,婆苏提婆与持财者便前往沙利耶所站立之处。

7.168.37

तौ तु प्रत्युद्ययौ राजन्राक्षसेन्द्रो ह्यलायुधः ।
अष्टचक्रसमायुक्तमास्थाय प्रवरं रथम् ॥ ७.१६८.३७ ॥

大王,罗刹之主阿腊尤陀乘坐一辆八轮的上好战车,迎面而来。

7.168.38

तुरङ्गममुखैर्युक्तं पिशाचैर्घोरदर्शनैः ।
लोहितार्द्रपताकं तं रक्तमाल्यविभूषितम्।
कार्ष्णायसमयं घोरमृक्षचर्मसमावृतम् ॥ ७.१६८.३८ ॥

那辆战车由马首的、看上去可怖的毕舍遮所驾;其旗帜被鲜血浸湿,饰以红色花环,由黑铁制成,形貌骇人,蒙着熊皮。

7.168.39

रौद्रेण चित्रपक्षेण विवृताक्षेण कूजता ।
ध्वजेनोच्छ्रितदण्डेन गृध्रराजेन राजता।
स बभौ राक्षसो राजन्भिन्नाञ्जनचयोपमः ॥ ७.१६८.३९ ॥

其上高竿之顶,一面凶猛的旗帜闪耀着,旗上是飞禽之王——羽翼斑斓、双目圆睁、嘶鸣不止。大王,那罗刹光耀如一堆碎裂的黑膏。

7.168.40

रुरोधार्जुनमायान्तं प्रभञ्जनमिवाद्रिराट् ।
किरन्बाणगणान्राजञ्शतशोऽर्जुनमूर्धनि ॥ ७.१६८.४० ॥

犹如山王阻挡狂风,他阻挡着前来的阿周那,大王,向阿周那的头上倾泻数百支箭。

7.168.41

अतितीव्रं महाद्युद्धं नरराक्षसयोस्तदा ।
द्रष्टॄणां प्रीतिजननं सर्वेषां तत्र भारत।
गृध्रकाकबलोलूककङ्कगोमायुहर्षणम् ॥ ७.१६८.४१ ॥

于是人与罗刹之间爆发了极为猛烈的大战,婆罗多之子啊,使一切旁观者欢喜,也使秃鹫、乌鸦、猫头鹰、鹭鸶和豺狼欢欣。

7.168.42

तमर्जुनः शतेनैव पत्रिणां समताडयत् ।
नवभिश्च शितैर्बाणैर्ध्वजं चिच्छेद भारत ॥ ७.१६८.४२ ॥

阿周那以百支箭射中了他,又以九支利箭,婆罗多之子啊,斩断了他的旗帜。

7.168.43

सारथिं च त्रिभिर्बाणैस्त्रिभिरेव त्रिवेणुकम् ।
धनुरेकेन चिच्छेद चतुर्भिश्चतुरो हयान् ॥ ७.१६८.४३ ॥

他用三支箭射断御者,用三支箭断三辕战车,一箭断弓,四箭断四匹马。

7.168.44

पुनः सज्यं कृतं चापं तदप्यस्य द्विधाऽच्छिनत् ।
विरथस्योद्यतं खङ्गं शरेणास्य द्विधाऽकरोत् ॥ ७.१६८.४४ ॥

他又将那人已上弦的弓射成两段;那失去战车、高举的剑,也被他一箭斩为两段。

7.168.45

अथैनं निशितैर्बाणैश्चतुर्भिर्भरतर्षभ ।
पार्थोऽविध्यद्राक्षसेन्द्रं स विद्वः प्राद्रवद्भयात् ॥ ७.१६८.४५ ॥

然后,婆罗多中的雄牛啊,普利塔之子以四支利箭射中那罗刹王;他受伤后惊恐逃走。

7.168.46

तं विजित्यार्जुनस्तूर्णं द्रोणान्तिकमुपाययौ ।
किऱञ्शरगणान्राजन्नरवारणवाजिषु ॥ ७.१६८.४६ ॥

阿周那击败了他,迅速来到德罗纳附近,大王,他向人、象、马群中倾泻箭雨。

7.168.47

वध्यमाना महाराज पाण्डवेन यशस्विना ।
सैनिका न्यपतन्नुर्व्यां वातनुन्ना इव द्रुमाः ॥ ७.१६८.४७ ॥

大王啊,被那位著名的般度之子所杀,士兵们倒在地上,如同被风吹倒的树木。

7.168.48

तेषु तूत्साद्यमानेषु फल्गुनेन महात्मना ।
सम्प्राद्रवद्बलं सर्वं पुत्राणां ते विशाम्पते ॥ ७.१६८.४८ ॥

当他们被大德的法尔古那所歼灭时,人主啊,你的儿子们的全军四散奔逃。