摩诃婆罗多 · 章 7.17
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
7.17.1
ते सेने शिबिरं गत्वा न्यविशेतां विशाम्पते ।
यथाभागं यथान्यायं यथागुल्मं च सर्वशः ॥ ७.१७.१ ॥
两军至营地,民之主啊,依各部分、依法度、依各队,全部入驻。
7.17.2
कृत्वाऽवहारं सैन्यानां द्रोणः परमदुर्मनाः ।
दुर्योधनमभिप्रेक्ष्य सव्रीडमिदमब्रवीत् ॥ ७.१७.२ ॥
德罗纳使军队撤退后,心中极为烦恼,看着难敌,带着羞愧说了这番话。
7.17.3
उक्तमेतन्मया पूर्वं न तिष्ठति धन्जये ।
शक्यो ग्रहीतुं सङ्ग्रामे देवैरपि युधिष्ठिरः ॥ ७.१७.३ ॥
我先前已说过:只要阿周那在,战场上连诸神也无法擒获坚战。
7.17.4
इति तद्वः प्रयततां कृतं पार्थेन संयुगे ।
मा विशङ्कीर्वचो मह्यमजेयौ कृष्णपाण्डवौ ॥ ७.१७.४ ॥
因此你们要谨慎;普利塔之子在战斗中正是如此行事。不要怀疑我的话:克里希那与般度五子是不可战胜的。
7.17.5
अपनीते तु योगेन केनचिच्छ्वेतवाहने ।
तत एष्यति ते राजन्वशमेष युधिष्ठिरः ॥ ७.१७.५ ॥
大王啊,若以某种计谋使白马的阿周那离开,那么这位坚战就会落入你的掌控。
7.17.6
कश्चिदाहूय तं सङ्ख्ये देशमन्यं प्रकर्षतु ।
तमजित्वा न कौन्तेयो निवर्तेत कथञ्चन ॥ ७.१७.६ ॥
让某人在战场上挑战他,把他引到别处;若不战胜他,贡蒂之子无论如何也不会返回。
7.17.7
एतस्मिन्नन्तरे शून्येधर्मराजमहं नृप ।
ग्रहीष्यामि चमूं भित्त्वा धृष्टद्युम्नस्य पश्यतः ॥ ७.१७.७ ॥
此时,大王,我将穿过空隙冲破军阵,在坚慧眼前擒获法王。
7.17.8
अर्जुनेन परित्यक्तो न चेत्त्रासात्पलायते ।
मामुपायान्तमालोक्य गृहीतं विद्धि पाण्डवम् ॥ ७.१७.८ ॥
若被阿周那遗弃的般度之子不因恐惧而逃走,见我前来,便知般度之子已被擒。
7.17.9
एवं तेऽहं महाराज धर्मपुत्रं युधिष्ठिरम् ।
समानेष्यामि सगणं वशमद्य न संशयः ॥ ७.१७.९ ॥
大王,如此,今日我必将法之子坚战连同其随从置于您的掌控之下,毫无疑问。
7.17.10
यदि तिष्ठति सङ्ग्रामे मुहूर्तमपि पाण्डवः ।
अथापयाति सङ्ग्रामाद्विजयात्तद्विशिष्यते ॥ ७.१७.१० ॥
若般度之子在战斗中哪怕坚持片刻,随后退出战斗,那便被视为胜于胜利。
7.17.11
द्रोणस्य तद्वचः श्रुत्वा त्रिगर्ताधिपतिस्तदा ।
भ्रातृभिः सहितो राजन्निदं वचनमब्रवीत् ॥ ७.१७.११ ॥
大王,特里迦尔塔之主闻德罗纳此言,便与其兄弟一同说出了这番话。
7.17.12
वयं विनिकृता राजन्सदा गाण्डीवधन्वना ।
अनागःस्वपि चागस्तत्कृतमस्मासु तेन वै ॥ ७.१७.१२ ॥
大王,我等始终受执持甘狄拔弓者的欺凌;虽无过错,却被他加以罪名。
7.17.13
ते वयं स्मरमाणास्तान्विनिकारान्पृथग्विधान् ।
क्रोधाग्निना दह्यमाना ह्यशेमहि सदा निशि ॥ ७.१७.१३ ॥
我们追忆那些种种屈辱,被愤怒之火焚烧,常常整夜不眠。
7.17.14
स नो दिष्ट्याऽस्त्रसम्पन्नश्चक्षुर्विषयमागतः ।
कर्तारः स्मरयं कर्म यच्चिकीर्षाम हृद्गतम् ॥ ७.१७.१४ ॥
幸运的是,精通兵器者已来到我们眼前。让我们记起心中所愿的事业,去成就它。
7.17.15
भवतश्च प्रियं यत्स्यादस्माकं च यशस्करम् ।
वयमेनं हनिष्यामो निकृष्यायोधनाद्बहिः ॥ ७.१७.१५ ॥
做那将令您欢喜、也为我们带来荣耀的事,我们将把他拖出战场,将他杀死。
7.17.16
अद्यास्त्वनर्जुना भूमिरत्रिगर्ताऽवा पुनः ।
सत्यं ते प्रतिजानीमो नैतन्मिथ्या भविष्यति ॥ ७.१७.१६ ॥
今日愿这大地没有阿周那,或者让三乡之人再次获胜。我们向您真诚许诺,此言不会是虚假的。
7.17.17
एवं सत्यरथश्चोक्त्वा सत्यवर्मा च भारत ।
सत्यव्रतश्च सत्येषुः सत्यकर्मा तथैव च ॥ ७.१७.१७ ॥
婆罗多啊,萨提耶罗陀与萨提耶瓦尔曼如此说,萨提耶跋罗多、萨提耶舍与萨提耶羯摩也同样说了。
7.17.18
सहिता भ्रातरः पञ्च रथानामयुतेन च ।
न्यवर्तन्त महाराज कृत्वा शपथमाहवे ॥ ७.१७.१८ ॥
大王啊,五兄弟与一万辆战车一同,在战场上发誓后便掉头回去了。
7.17.19
मालवास्तुण्डिकेराश्च रथानामयुतैस्त्रिभिः ।
सुशर्मा च नरव्याघ्रस्त्रिगर्तः प्रस्थलाधिपः ॥ ७.१७.१९ ॥
摩罗人与屯迪刻罗人以三万(阿尤塔)战车同行;人中虎苏沙尔曼,三伽尔塔及普拉斯塔拉之主。
7.17.20
मावेल्लकैर्ललित्थैश्च सहितो मद्रकैरपि ।
रथानामयुतेनैव सोऽगमद्धातृभिः सह ॥ ७.१७.२० ॥
与摩韦拉卡、拉利特ha及摩德拉卡同行,他率一阿尤塔战车与兄弟们一同前往。
7.17.21
नानाजनपदेभ्यश्च रथानामयुतं पुनः ।
समुत्थितं विशिष्टानां शपथार्थमुपागमत् ॥ ७.१७.२१ ॥
来自各个国度的一阿尤塔战车再次集结,前来为显贵者的誓约而至。
7.17.22
ततो ज्वलनमानर्च्य हुत्वा सर्वे पृथक्पृथक् ।
जगृहुः कुशचीराणि चित्राणि कवचानि च ॥ ७.१७.२२ ॥
随后,他们礼敬火神,各自分别献祭,然后都穿上吉祥草的衣服,并取了彩色的甲胄。
7.17.23
ते च बद्धतनुत्राणा घृताक्ताः कुशचीरिणः ।
मौर्वीमेखलिनो वीराः सहस्रशतदक्षिणाः ॥ ७.१७.२३ ॥
那些英雄身披铠甲,涂抹酥油,穿着吉祥草衣,腰系弓弦,以千与百之数布施。
7.17.24
यज्वानः पुत्रिणो लोक्याः कृतकृत्यास्तनुत्यजः ।
योक्ष्यमाणास्तदाऽऽत्मानं यशसा विजयेन च ॥ ७.१७.२४ ॥
他们是行祭者、有子者,名播世间,已尽其职,准备舍弃身躯,将以荣誉与胜利来成就自身。
7.17.25
ब्रह्मचर्युश्रुतिमुखैः क्रतुभिश्चाप्तदक्षिणैः ।
प्राप्याँल्लोकान्सुयुद्धेन क्षिप्रमेव यियासवः ॥ ७.१७.२५ ॥
那些以梵行、诵读典籍及施以丰厚酬金的祭祀而获得诸界者,渴望借善战迅速前往那些世界。
7.17.26
ब्राह्ममांस्तर्पयित्वा च निष्कान्दत्वा पृथक्पृथक् ।
गाश्च वासांसि च पुनः समाभाष्य परस्परम् ॥ ७.१७.२६ ॥
在使婆罗门满足之后,分别赠予金币、牛和衣物,然后彼此再次交谈。
7.17.27
द्विजमुख्यैः समुदितैः कृतस्वस्त्ययनाशिषः ।
मुदिताश्च प्रहृष्टाश्च जलं संस्पृश्य निर्मलम् ॥ ७.१७.२७ ॥
在众多上等再生者聚集所作的吉祥祝福之后,他们欢喜而喜悦,触摸洁净的水。
7.17.28
प्रज्वाल्य कृष्णवर्त्मानमुपागम्य रणव्रतम् ।
तस्मिन्नग्नौ तदा चक्रुः प्रतिज्ञां दृढनिश्चयाः ॥ ७.१७.२८ ॥
点燃名为“黑道”的火,走近它并受持战誓,意志坚定的他们随即在那火中立下誓言。
7.17.29
शृण्वतां सर्वभूतानामुच्चैर्वाचो बभाषिरे ।
सर्वे धनञ्जयवधे प्रतिज्ञां चापि चक्रिरे। ॥ ७.१७.२९ ॥
众生聆听之时,他们高声说出誓言;所有人也都立誓要杀死财富征服者(阿周那)。
7.17.30
ये वै लोकाश्चाव्रतिनां ये चैव ब्रह्मघातिनाम् ।
मद्यपस्य च ये लोका गुरुदाररतस्य च ॥ ७.१७.३० ॥
那些属于无戒者的世界,属于杀害婆罗门者的世界,属于饮酒者的世界,以及属于贪恋师妻者的世界。
7.17.31
ब्रह्मस्वहारिणश्चैव राजपिण्डापहारिणः ।
शरणागतं च त्यजतो याचमानं तथा घ्नतः ॥ ७.१७.३१ ॥
盗取婆罗门财物者、夺取国王供品者,抛弃或杀害求庇护者与乞求者的人。
7.17.32
अगारदाहिनां चैव ये च गां निघ्नतामपि ।
अपकारिणां च ये लोका ये च ब्रह्मद्विषामपि ॥ ७.१७.३२ ॥
放火烧屋者、杀牛者、作恶者以及憎恨婆罗门者的世界。
7.17.33
स्वभार्यामृतुकालेषु मोहाद्वै नाभिगच्छताम् ।
श्राद्धमैथुनिकानां च ये चाप्यात्मापहारिणाम् ॥ ७.१७.३३ ॥
因迷惑而不在经期时亲近自己妻子的人、在祭祖日行房的人,以及自我毁灭者的世界。
7.17.34
न्यासापहारिणां ये च श्रुतं नाशयतां च ये ।
क्लीबने युध्यमानानां ये च नीचानुसारिणाम् ॥ ७.१७.३४ ॥
侵占寄托之物者、毁坏学问者、怯懦作战者以及追随卑劣之人者的世界。
7.17.35
नास्तिकानां च ये लोका येऽग्निमातृपितृत्यजाम् ।
तानाप्नुयामहे लोकान्ये च पापकृतामपि ॥ ७.१७.३५ ॥
无神论者的世界、弃绝圣火、母亲与父亲者的世界,以及作恶者的世界——愿我们获得那些世界。
7.17.36
यद्यहत्वा वयं युद्धे निवर्तेम धनञ्जयम् ।
तेन चाभ्यर्दितास्त्रासाद्भवेमहि पराङ्मुखाः ॥ ७.१७.३६ ॥
若我们未杀死财主(阿周那)便在战场上撤退,那么被他逼迫,我们将因恐惧而转身逃走。
7.17.37
यदि त्वसुकरं लोके कर्म कुर्याम संयुगे ।
इष्टाँल्लोकान्प्राप्नुयामो वयमद्य न संशयः ॥ ७.१७.३७ ॥
若我们在战斗中做出世间不易之事,今日必能获得所愿之境界,毫无疑问。
7.17.38
एवमुक्त्वा तदा राजंस्तेऽभ्यवर्तन्त संयुगे ।
आह्वयन्तोऽर्जुनं वीराः पितृजुष्टां दिशं प्रति ॥ ७.१७.३८ ॥
大王,说完这些,那些英雄便在战斗中前进,向阿周那挑战,朝着祖先所喜爱的方向而去。
7.17.39
आहूतस्तैर्नरव्याघ्रैः पार्थः परपुरञ्चयः ।
धर्मराजमिदं वाक्यमपदान्तरमब्रवीत् ॥ ७.१७.३९ ॥
被那些人中虎所挑战,征服敌城的般度之子不作停顿,向法王说出了这番话。
7.17.40
आहूतो न निवर्तेयमिति मे व्रतमाहितम् ।
संशप्तकाश्च मां राजन्नाह्वयन्ति महामृधे ॥ ७.१७.४० ॥
“受到挑战,我不会退缩”,这是我坚定的誓愿。大王,在大战中,三誓者正在挑战我。
7.17.41
एष च भ्रातृभिः सार्धं सुशर्माऽऽह्वयते रणे ।
वधाय सगणस्यास्य मामनुज्ञातुमर्हसि ॥ ७.१७.४१ ॥
苏沙尔曼与他的兄弟们在战场上挑战。您应允许我诛杀他和他的随从。
7.17.42
नैतच्छक्नोमि संसोढुमाह्वानं पुरुषर्षभ ।
सत्यं ते प्रतिजानामि हतान्विद्धि परान्युधि ॥ ७.१७.४२ ॥
人中雄牛啊,我不能忍受此挑战。我真实地向您立誓:请知道敌人已在战斗中被杀。
7.17.43
श्रुतं ते तत्त्वतस्तात यद्द्रोणस्य चिकीर्षितम् ।
यथा तदनृतं तस्य भवेतत्त्वं समाचर ॥ ७.१७.४३ ॥
亲爱的孩子,你已如实听闻德罗纳的打算。为使他的话不成为虚言,你应当据此行事。
7.17.44
द्रोणो हि बलवाञ्शूरः कृतास्त्रश्च जितश्रमः ।
प्रतिज्ञातं च तेनैतद्ग्रहणं मे महारथ ॥ ७.१७.४४ ॥
德罗纳强大、英勇,精通武器,不畏疲劳。伟大的车战勇士啊,他已发誓要俘获我。
7.17.45
अयं वै सत्यजिद्राजन्नद्य त्वां रक्षिता युधि ।
ध्रियमाणे च पाञ्चाल्ये नाचार्यः काममाप्स्यति ॥ ७.१७.४५ ॥
国王啊,今日萨提亚吉特将在战场上保护你。只要般遮罗王子尚存,老师便无法达成所愿。
7.17.46
हते तु पुरुषव्याघ्रे रणे सत्यजिति प्रभो ।
सर्वैरपि समेतैर्वा न स्थातव्यं कथंचन ॥ ७.१७.४६ ॥
主公啊,若人中猛虎萨提亚吉特在战斗中被杀,即便众人聚集,也绝不可留在那里。
7.17.47
अनुज्ञातस्ततो राज्ञा परिष्वक्तश्च फल्गुनः ।
प्रेम्णा दृष्टश्च बहुधा ह्याशिषश्चास्य योजिताः ॥ ७.१७.४७ ॥
于是国王准许阿周那离去,拥抱了他,满怀爱意地多次注视他,并为他献上祝福。
7.17.48
विहायैनं ततः पार्थस्त्रिगर्तान्प्रत्ययाद्बली ।
क्षुधितः क्षुद्विघातार्थं सिंहो मृगगणानिव ॥ ७.१७.४८ ॥
于是强大的普利塔之子离开他,坚定地冲向三界人,正如饥饿的狮子扑向鹿群以解饥渴。
7.17.49
ततो दौर्योधनं सैन्यं मुदा परमया युतम् ।
ऋतेऽर्जुनं भृशं क्रुद्धं धर्मराजस्य निग्रहे ॥ ७.१७.४९ ॥
那时,难敌的军队充满至高的喜悦,唯有阿周那例外;他因法王坚战被阻而极为愤怒。
7.17.50
ततोऽन्योन्येन ते सैन्ये समाजग्मतुरोजसा ।
गङ्गासरय्वौ वेगेन प्रावृषीवोल्बणोदके ॥ ७.१७.५० ॥
于是两军以巨力相互冲撞,恰如雨季中恒河与萨拉尤河水势汹涌,急速汇合。