摩诃婆罗多 · 章 7.170
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
7.170.1
नकुलं रभसं युद्धे निघ्नन्तं वाहिनीं तव ।
अभ्ययात्सौबलः क्रुद्धस्तिष्ठतिष्ठेति चाब्रवीत् ॥ ७.१७०.१ ॥
苏跋罗之子怒气冲冲地冲向在战场上猛烈击杀你军队的无种,说道:“站住,站住!”
7.170.2
कृतवैरौ तु तौ वीरावन्योन्यवधकाङ्क्षिणौ ।
शरैः पूर्णायतोत्सृष्टैरन्योन्यमभिजघ्नतुः ॥ ७.१७०.२ ॥
这两位英雄怀着仇恨,都渴望对方死亡,用满弓射出的箭彼此射击。
7.170.3
यथैव नकुलो राजञ्शरवर्षाण्यमुञ्चत ।
तथैव सौबलश्चापि शिक्षां सन्दर्शयन्युधि ॥ ७.१७०.३ ॥
大王啊,正如无种降下箭雨,苏跋罗之子也在战场上展示他的技艺,降下箭雨。
7.170.4
तावुभौ समरे शूरौ शरकण्टकिनौ तदा ।
व्यराजेतां महाराज श्वाविधौ शललैरिव ॥ ७.१७०.४ ॥
大王啊,那时两位英雄身上插满箭矢如同荆棘,在战场上闪耀,仿佛豪猪竖起了刺。
7.170.5
रुक्मपुङ्खैरजिह्माग्रैः शरैश्छिन्नतनुच्छदौ ।
रुधिरौघपरिक्लिन्नौ व्यभ्राजेतां महामृधे ॥ ७.१७०.५ ॥
两人的铠甲与身体被金羽直锋的箭射穿,浸透在血流之中,在那场大战中闪耀。
7.170.6
तपनीयनिभौ चित्रो कल्पवृक्षाविव द्रुमौ ।
किंशुकाविव चोत्फुल्लौ प्रकाशेते रणाजिरे ॥ ७.१७०.६ ॥
二人如金般闪耀,光彩夺目,如同两棵如意树,又如两株盛开的金苏木,在战场上熠熠生辉。
7.170.7
तावुभौ समरे शूरौ शरकण्टकिनौ तदा ।
व्यराजेतां महारान्कण्टकैरिव शाल्मली ॥ ७.१७०.७ ॥
在战场上,那两位英雄身上插满箭矢如同荆棘,当时闪耀如同满是荆刺的莎尔玛利树,大王啊。
7.170.8
सुजिह्मं प्रेक्षमाणौ च राजन्विवृतलोचनौ ।
क्रोधसंरक्तनयनौ निर्दहन्तौ परस्परम् ॥ ७.१७०.८ ॥
大王啊,二人斜视而望,睁大双眼,怒目通红,彼此燃烧着对方。
7.170.9
श्यालस्तु तव सङ्क्रुद्धो माद्रीपुत्रं हसन्निव ।
कर्णिनैकेन विव्याध हृदये निशितेन ह ॥ ७.१७०.९ ॥
你的内兄愤怒地,仿佛在嘲笑一般,用一支锋利的箭射穿了摩德利之子的心。
7.170.10
नकुलस्तु भृशं विद्वः श्यालेन तव धन्विना ।
निषसाद रथोपस्थे कश्मलं चाविशन्महत् ॥ ७.१७०.१० ॥
然而,那鞭挞的那伽罗,被你那善射的内兄重创,坐在战车的座台上,一阵巨大的昏厥袭上了他。
7.170.11
अत्यन्तवैरिणां दृप्तं दृष्ट्वा शत्रुं तथाऽऽगतम् ।
ननाद शकुनी राजंस्तपान्ते जलदो यथा ॥ ७.१७०.११ ॥
大王啊,沙恭尼看见骄傲而不共戴天的敌人如此逼近,便咆哮起来,如同夏末的云团。
7.170.12
प्रतिलभ्य ततः संज्ञां नकुलः पाण्डुनन्दनः ।
अभ्ययात्सौबलं भूयो व्यात्तानन इवान्तकः ॥ ७.१७०.१२ ॥
随后,苏醒过来的般度之子那古罗再次冲向苏跋罗之子,如张开大口的死神一般。
7.170.13
सङ्क्रुद्धः शकुनिं षष्ट्या विव्याध भरतर्षभ ।
पुनश्चैनं शतेनैव नाराचानां स्तनान्तरे ॥ ७.१७०.१३ ॥
婆罗多族的雄牛啊!他愤怒地以六十支箭射中沙恭尼,又以一百支铁箭射中他的胸膛之间。
7.170.14
अथास्य सशरं चापं मृष्टिदेशेऽच्छिनत्तदा ।
ध्वजं च त्वरितं छित्त्वा रथाद्भूमावपातयत् ॥ ७.१७०.१४ ॥
随即他在握柄处斩断了他的弓连同箭,并迅速砍断旗帜,将其从战车上打落在地。
7.170.15
विशिखेन च तीक्ष्णेन पीतेन निशितेन च ।
ऊरू निर्भिद्य चैकेन नकुलः पाण्डुनन्दनः।
श्येनं सपक्षं व्याधेन पातयामास तं तदा ॥ ७.१७०.१५ ॥
以一支锐利、黄羽、锋利的箭穿透他的双股,般度之子那拉当时便将他射落,犹如猎人射落一只展翅的鹰。
7.170.16
सोऽतिविद्धो महाराज रथोपस्थ उपाविशत् ।
ध्वजयष्टिं परिक्लिश्य कामुकः कामिनीं यथा ॥ ७.१७०.१६ ॥
大王啊,他身受重创,坐到了战车的底板上,紧抓着旗杆,犹如情人紧抱爱人。
7.170.17
तं विसंज्ञं निपतितं दृष्ट्वा श्यालं तवानघ ।
अपोवाह रथेनाशु सारथिर्ध्वजिनीमुखात् ॥ ७.१७०.१७ ॥
无罪的人啊,见你的内弟昏倒在地,御者便迅速用战车把他从军阵前方载走了。
7.170.18
ततः सञ्चुक्रुशुः पार्था ये च तेषां पदानुगाः ॥ ७.१७०.१८ ॥
于是普利塔的诸子及其随从高声呼喊起来。
7.170.19
निर्जित्य च रणे शत्रुं नकुलः शत्रुतापनः ।
अब्रवीत्सारथिं क्रुद्धो द्रोणानीकायं मां वह ॥ ७.१७०.१९ ॥
纳库拉在战场上击败敌人后,这位使敌人痛苦的勇士愤怒地对御者说:“带我向德罗纳的军队前进。”
7.170.20
तस्य तद्वचनं श्रुत्वा माद्रीपुत्रस्य सारथिः ।
प्रायात्तेन तदा राजन्यत्र द्रोणो व्यवस्थितः ॥ ७.१७०.२० ॥
御者听到摩提之子的话后,大王啊,便驱车前往德罗纳所在之处。
7.170.21
शिखण्डिनं तु समरे द्रोणप्रेप्सुं विशाम्पते ।
कृपः शारद्वतो यत्तः प्रत्यगच्छत्स वेगितः ॥ ७.१७०.२१ ॥
然而,王啊,渴望在战场上接近德罗纳的尸犍底,遇到的是沙罗陀婆多之子克里帕,他已准备就绪,迅速迎上前去。
7.170.22
गौतमं द्रुतमायान्तं द्रोणानीकमरिन्दमम् ।
विव्याध नवभिर्भल्लैः शिखण्डी प्रहसन्निव ॥ ७.१७०.२२ ॥
尸犍底看到摧敌者乔达摩(克里帕)迅速奔向德罗纳的军队,便仿佛含笑般用九支钩箭射穿了他。
7.170.23
तमाचार्यो महाराज विद्धा पञ्चभिराशुगैः ।
पुनर्विव्याध विंशत्या पुत्राणां प्रियकृत्तव ॥ ७.१७०.२३ ॥
大王啊,老师(德罗纳)以五支迅捷之箭射穿了他,随后又以二十支箭再次射中,使你的儿子们欢喜。
7.170.24
महद्युद्धं तयोरासीद्धोररूपं भयानकम् ।
यथा देवासुरे युद्धे शम्बरामरराजयोः ॥ ७.१७०.२४ ॥
二人之间爆发了一场大战,形态可怖、令人恐惧,如同天神与阿修罗之战中,商跋罗与天王之间的那场战斗。
7.170.25
शरजालावृतं व्योम चक्रतुस्तौ महारथौ ।
मेघाविव तपापाये वीरौ समरदुर्मदौ।
प्रकृत्या घोररूपं तदासीद्धोरतरं पुनः ॥ ७.१७०.२५ ॥
两位大车战士以箭网遮蔽了天空。这两位沉醉于战斗的英雄,如同酷暑将尽时的云,景象变得更加可怖。
7.170.26
रात्रिश्च भरतश्रेष्ठ योधानां युद्धशालिनाम् ।
कालरात्रिनिभा ह्यासीद्धोररूपा भयानका ॥ ७.१७०.२६ ॥
婆罗多之最啊,那一夜对投身战斗的战士们而言,如同死亡之夜,形貌可怖,令人恐惧。
7.170.27
शिखण्डी तु महाराज गौतमस्य महद्धनुः ।
अर्धचन्द्रेण चिच्छेद सज्यं सविशिखं तदा ॥ ७.१७०.२७ ॥
大王啊,那时,尸剑(Śikhaṇḍin)以半月箭斩断了瞿昙(Gautama,即Kṛpa)的大弓,连同弓弦与箭矢。
7.170.28
तस्य क्रुद्धः कृपो राजञ्शक्तिं चिक्षेप दारुणाम् ।
स्वर्णदण्डामकुण्ठाग्रां कर्मारपरिमार्जिताम् ॥ ७.१७०.२८ ॥
大王啊,克里帕对他怒火中烧,掷出一支可怖的长矛,柄为金制,锋刃未钝,经铁匠打磨。
7.170.29
तामापतन्तीं चिच्छेद शिखण्डी बहुभिः शरैः ।
सापतन्मेदिनीं कृत्ता भासयन्ती महाप्रभा ॥ ७.१७०.२९ ॥
尸剑以众多箭矢斩断了那支飞向他的长矛。长矛被斩断后,带着强烈光芒坠落于地。
7.170.30
अथान्यद्धनुरादाय गौतमो रथिनां वारः ।
प्राच्छादयच्छितैर्बाणैर्महाराज शिखण्डिनम् ॥ ७.१७०.३० ॥
于是,车士中的翘楚瞿昙取了另一张弓,大王啊,以利箭遮蔽了尸剑。
7.170.31
स च्छाद्यमानः समरे गौतमेन यशस्विना ।
न्यषीदत रथोपस्थे शिखण्डी रथिनां वरः ॥ ७.१७०.३१ ॥
在战斗中被著名的乔多摩所遮蔽,车战勇士中的最佳者湿婆坎丁坐在了战车的底板上。
7.170.32
सीदन्तं चैनमालोक्य कृपः शारद्वतो युधि ।
आजघ्ने बहुभिर्बाणैर्जिघांसन्निव भारत ॥ ७.१७०.३२ ॥
婆罗多之子啊,看到他下沉,沙罗陀瓦之子克里帕在战斗中以许多箭射击他,仿佛要杀死他。
7.170.33
विमुखं तु रणे दृष्ट्वा याज्ञसेनिं महारथम् ।
पाञ्चालाः सोमकाश्चैव परिवव्रुः समन्ततः ॥ ७.१७०.३३ ॥
看到大车战勇士、耶阇塞纳之子在战斗中转身,般遮罗人与索摩迦人从四面八方将他包围。
7.170.34
तथैव तव पुत्राश्च परिवव्रुर्द्विजोत्तमम् ।
महत्या सेनया सार्धं ततो युद्धमवर्तत ॥ ७.१७०.३४ ॥
同样,你的儿子们与庞大的军队一起包围了那位再生者中的最佳者;于是战斗开始了。
7.170.35
रथानां च रणे राजन्नन्योन्यमभिधावताम् ।
बभूव तुमुलः शब्दो मेघानां गर्जतामिव ॥ ७.१७०.३५ ॥
大王啊,在战斗中,互相冲击的战车发出一阵喧嚣,如同雷鸣的云层。
7.170.36
द्रवतां सादिनां चैव गजानां च विशाम्पते ।
अन्योन्यमभितो राजन्क्रूरमायोधनं बभौ ॥ ७.१७०.३६ ॥
人民之主啊,大王,奔逃的骑兵与象群,使战场四面都显得残酷可怖。
7.170.37
पत्तीनां द्रवतां चैव पादशब्देन मेदिनी ।
अकम्पत महाराज भयत्रस्तेव चाङ्गना ॥ ७.१७०.३७ ॥
大王啊,逃散步兵的脚步声震得大地颤抖,如同受惊的女子一般。
7.170.38
रथिनो रथमारुह्य प्रद्रुता वेगवत्तरम् ।
अगृह्णन्बहवो राजञ्शलभान्वायसा इव ॥ ७.१७०.३८ ॥
大王啊,车兵登车,疾速奔逃,许多人被捉住,如同乌鸦捕捉蝗虫一般。
7.170.39
तथा गजान्प्रभिन्नांश्च सम्प्रभिन्ना महागजाः ।
तस्मिन्नेव पदे यत्ता निगृह्णन्ति स्म भारत ॥ ७.१७०.३९ ॥
同样,发狂的象和完全发狂的大象,在那同一地点被警觉的人们捉住了,婆罗多啊。
7.170.40
सादी सादिनमासाद्य पत्तयश्च पदातिनम् ।
समासाद्य रणेऽन्योन्यं संरब्धा नातिचक्रमुः ॥ ७.१७०.४० ॥
骑兵遇到骑兵,步兵遇到步兵,在战场上彼此相遇;他们怒火中烧,互相之间竟无法越过对方。
7.170.41
धावतां द्रवतां चैव पुनरावर्ततामपि ।
बभूव तत्र सैन्यानां शब्दः सुविपुलो निशि ॥ ७.१७०.४१ ॥
夜间那里,奔跑、逃散与又折返的军队,发出了巨大的喧嚣之声。
7.170.42
दीप्यमानाः प्रदीपाश्च रथवारणवाजिषु ।
अदृश्यन्त महाराज महोल्का इव खाच्च्युताः ॥ ७.१७०.४२ ॥
大王啊,车上、象上、马上燃烧的灯火,看起来就像从天空坠落的大流星。
7.170.43
सा निशा भरतश्रेष्ठ प्रदीपैरवभासिता ।
दिवसप्रतिमा राजन्बभूव रणमूर्धनि ॥ ७.१७०.४३ ॥
婆罗多中最优秀者啊,大王,那夜被灯火照亮,在战场前沿如同白昼。
7.170.44
आदित्येन यथा व्याप्तं तमो लोके प्रणश्यति ।
तथा नष्टं तमो घोरं दीपैर्दीप्तैरितस्ततः ॥ ७.१७०.४४ ॥
如同被太阳笼罩的黑暗在世间消逝,那可怕的黑暗也被燃烧的灯火到处驱散。
7.170.45
दिवं च पृथिवीं चैव दिशश्च प्रदिशस्तथा ।
रजसा तमसा व्याप्ता द्योतिताः प्रभया पुनः ॥ ७.१७०.४५ ॥
天空与大地,方向与副方向,原本被尘土和黑暗笼罩,又被光芒照亮了。
7.170.46
अस्त्राणां कवचनानां च मणीनां च महात्मनाम् ।
अन्तर्दधुः प्रभाः सर्वा दीपैस्तैरवभासिताः ॥ ७.१७०.४६ ॥
兵器、铠甲与大德者的宝珠之光,全都因那些灯火照耀而隐没了。
7.170.47
तस्मिन्कोलाहले युद्धे वर्तमाने निशामुखे ।
न किञ्चिद्विदुरात्मानमयमस्मीति भारत ॥ ७.१७०.४७ ॥
婆罗多啊,在夜幕降临时进行的那场喧嚣战斗中,没有人能认出自己是谁。
7.170.48
अवधीत्समरे पुत्रं पिता भरतसत्तम ।
पुत्रश्च पितरं मोहात्सखायं च सखा तथा।
स्वस्रीयं मातुलश्चापि स्वस्रीयश्चापि मातुलम् ॥ ७.१७०.४८ ॥
婆罗多中最优秀者啊,在战斗中父亲杀了儿子,儿子因迷惑杀了父亲;朋友杀了朋友,姐妹之子杀了舅父,舅父杀了姐妹之子。
7.170.49
स्वे स्वान्परे परांश्चापि निजघ्नुरितरेतरम् ।
निर्मर्यादमभूद्युद्धं रात्रौ भीरुभयानकम् ॥ ७.१७०.४९ ॥
自己人杀自己人,敌人杀敌人,彼此相互残杀。夜间这场战斗失去了界限,连怯懦者也为之恐惧。