摩诃婆罗多 · 章 7.172
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
7.172.1
ततस्ते प्राद्रवन्सर्वे त्वरिता युद्धदुर्मदाः ।
अमृष्यमाणाः संरब्धा युयुधानरथं प्रति ॥ ७.१७२.१ ॥
于是他们都急速冲上前去,因战斗的狂热而昏乱,不能忍耐,愤怒不已,直扑 Yuyudhāna 的战车。
7.172.2
ते रथैः कल्पितै राजन्हेमरूप्यविभूषितैः ।
सादिभिश्च गजैश्चैव परिवव्रुः समन्ततः ॥ ७.१७२.२ ॥
大王啊,他们以装饰着金银、已列阵的战车,以及骑兵和象群,从四面八方将他团团围住。
7.172.3
अथैनं कोष्ठकीकृत्य सर्वतस्ते महारथाः ।
सिंहनादांस्ततश्चक्रुस्तर्जयन्ति स्म सात्यकिम् ॥ ७.१७२.३ ॥
随后,他们从四面将他围成堡垒一般,那些大车战士发出狮吼,并且斥责威吓萨提亚基。
7.172.4
तेऽभ्यवर्षञ्छरैस्तीक्ष्णैः सात्यकिं सत्यविक्रमम् ।
त्वरमाणा महावीरा माधवस्य वधैषिणः ॥ ७.१७२.४ ॥
那些大英雄急速前来,意图杀害摩陀婆(克里希那),向具有真实勇力的萨提亚基倾下锐利的箭雨。
7.172.5
तान्दृष्ट्वा पततस्तूर्णं शैनेयः परवीरहा ।
प्रत्यगृह्णान्महाबाहुः प्रमुञ्चन्विशिखान्बहून् ॥ ७.१७२.५ ॥
见他们迅速扑来,那位击杀敌方英雄的、大臂的希尼之裔(萨提亚基)射出许多箭,迎战他们。
7.172.6
तत्र वीरो महेष्वासः सात्यकिर्युद्धदुर्मदः ।
निचकर्त शिरांस्युग्रैः शरैः सन्नतपर्वभिः ॥ ७.१७२.६ ॥
在那里,这位英雄、大弓箭手萨提亚基,因战斗的狂热,以凶猛的、节部弯曲的箭斩下了他们的头颅。
7.172.7
हस्तिहस्तान्हयग्रीवा बाहूनपि च सायुधान् ।
क्षुरप्रैः शातयामास तावकानां स माधवः ॥ ७.१७२.७ ॥
那位摩陀婆(萨谛奇)以剃刀头箭斩断了你方士兵的象鼻、马颈和持械的手臂。
7.172.8
पतितैश्चामरैश्चैव श्वेतच्छत्रैश्च भारत ।
बभूव धरणी पूर्णा नक्षत्रैर्द्यौरिव प्रभो ॥ ७.१७२.८ ॥
婆罗多之后啊,主啊,倒地的拂尘和白伞遍布大地,如同星辰充满天空。
7.172.9
एतेषां युयुधानेन युध्यतां युधि भारत ।
बभूव तुमुलः शब्दः प्रेतानां क्रन्दतामिव ॥ ७.१७२.९ ॥
婆罗多之后啊,在这些战斗者之间,因优由陀那(萨谛奇)而起的喧嚣,如同亡灵的哀号。
7.172.10
तेन शब्देन महता पूरिताऽभूद्वसुन्धरा ।
रात्रिः समभवच्चैव तीव्ररूपा भयावहा ॥ ७.१७२.१० ॥
那巨大的声音充满了大地,夜晚也变得凶猛可怖,令人恐惧。
7.172.11
दीर्यमाणं बलं दृष्ट्वा युयुधानशराहतम् ।
श्रुत्वा च विपुलं नादं निशीथे रोमहर्षणे ॥ ७.१७२.११ ॥
见军队被优由陀那的箭矢击中而溃裂,又在午夜听到那巨大、令人毛骨悚然的吼声……
7.172.12
सुतस्तवाब्रवीद्राजन्सारथिंरथिनां वरः ।
यत्रैष शब्दस्तत्राश्वांश्चोदयेति पुनःपुनः ॥ ७.१७२.१२ ॥
国王啊,你那最优秀的车手之子一再对御者说:'驾马驶向这声音所在之处。'
7.172.13
तेन सञ्चोद्यमानस्तु ततस्तांस्तुरगोत्तमान् ।
सूतः सञ्चोदयामास युयुधानरथं प्रति ॥ ७.१७२.१३ ॥
受他催促,御者便驱动那些良驹朝着猛护的战车而去。
7.172.14
ततो दुर्योधनः क्रुद्धो दृढधन्वा जितक्लमः ।
शीघ्रहस्तश्चित्रयोधी युयुधानमुपाद्रवत् ॥ ७.१७२.१४ ॥
于是杜尔约达那愤怒地冲向猛护,他弓箭坚定,不知疲倦,手法迅捷,是精妙的战士。
7.172.15
ततः पूर्णायतोत्सृष्टैः शरैः शोणितभोजनैः ।
दुर्योधनं द्वादशभिर्माधवः प्रत्यविध्यत ॥ ७.१७२.१५ ॥
于是摩陀婆以十二支满弓射出、饮血的箭射中杜尔约达那。
7.172.16
दुर्योधनस्तेन तथा पूर्वमेवार्दितः शरैः ।
शैनेयं दशभिर्बाणैः प्रत्यविध्यदमर्षितः ॥ ७.१७२.१६ ॥
杜尔约达那先前已被他的箭所伤,愤怒之下以十支箭反击施尼耶。
7.172.17
ततः समभवद्युद्धं तुमुलं भरतर्षभ ।
पाञ्चालानां च सर्वेषां भरतानां च दारुणम् ॥ ७.१७२.१७ ॥
于是,婆罗多之牛啊,般遮罗人与所有婆罗多人之间爆发了喧嚣而可怖的大战。
7.172.18
शैनेयस्तु रणे क्रुद्धस्तव पुत्रं महारथम् ।
सायकानामशीत्या तु विव्याधोरसि भारत ॥ ७.१७२.१८ ॥
施尼耶在战中愤怒,以八十支箭射穿了你那位大车勇士之子的胸膛,婆罗多啊。
7.172.19
ततोऽस्य वाहान्समरे शरैर्निन्ये यमक्षयम् ।
सारथिं च रथात्तूर्णं पातयामास पत्रिणा ॥ ७.१७२.१९ ॥
随后他在战斗中以箭将其马匹送往阎摩之所,并立即以一箭将御者从车上射落。
7.172.20
हताश्वे तु रथेऽतिष्ठन्पुत्रस्तव विशाम्पते ।
मुमोच निशितान्बाणाञ्शैनेयस्य रथं प्रति ॥ ७.१७२.२० ॥
人主啊,你的儿子站在马已被杀死的战车上,向沙因耶的战车射出锐利的箭。
7.172.21
शरान्पञ्छसतांस्तस्मै शैनेयः कृतहस्तवत् ।
चिच्छेद समरे राजन्प्रेषितांस्तनयेन ते ॥ ७.१७२.२१ ॥
大王啊,沙因耶以熟练的手在战斗中斩断了你的儿子射向他的五百支箭。
7.172.22
अथापरेण भल्लेन मुष्टिदेशे महद्धनुः ।
चिच्छेद तरसा युद्धे तव पुत्रस्य माधव ॥ ७.१७२.२२ ॥
随后,他以另一支钩箭,哦摩陀婆,在战斗中迅速斩断了你儿子握持处的大弓。
7.172.23
विरथो विधनुष्कश्च सर्वलोकेश्वरः प्रभुः ।
आरुरोह रथं तूर्णं भास्वरं कृतवर्मणः ॥ ७.१७२.२३ ॥
失去战车与弓的那位诸世界之主、强大者,迅速登上了克里塔瓦尔曼那辉煌的战车。
7.172.24
दुर्योधने परावृत्ते शैनेयस्तव वाहिनीम् ।
द्रावयामास विशिखैर्निशामध्ये विशाम्पते ॥ ७.१७२.२४ ॥
当难敌退回之后,哦人主,沙因耶在半夜以箭驱散了你的军队。
7.172.25
शकुनिश्चार्जुनं राजन्परिवार्य समन्ततः ।
रथैरनेकसाहस्रैर्गजैश्चापि सहस्रशः।
तथा हयसहस्रैश्च नानाशस्त्रैरवाकिरत् ॥ ७.१७२.२५ ॥
大王啊,沙恭尼从四面包围阿周那,以数千辆战车、大象和骏马,用各种兵器向他倾泻。
7.172.26
ते महास्त्राणि सर्वाणि विकिरन्तोऽर्जुनं प्रति ।
अर्जुनं योधयन्ति स्म क्षत्रियाः कालचोदिताः ॥ ७.१७२.२६ ॥
他们将所有大兵器射向阿周那,被时间驱使的刹帝利与阿周那交战。
7.172.27
तान्यर्जुनः सहस्राणि रथवारणवाजिनाम् ।
प्रत्यवारयदायस्तः प्रकुर्वन्विपुलं क्षयम् ॥ ७.१७२.२७ ॥
阿周那全力以赴,造成巨大杀戮,将那数千辆战车、大象与骏马一一挡住。
7.172.28
ततस्तु समरे शूरः शकुनिः सौबलस्तदा ।
विव्याध निशितैर्बाणैरर्जुनं प्रहसन्निव ॥ ७.१७२.२८ ॥
此时,苏巴拉之子英勇的沙恭尼仿佛含笑,用利箭射穿了阿周那。
7.172.29
पुनश्चैव शतेनास्य संरुरोध महारथम् ॥ ७.१७२.२९ ॥
他又用一百支箭阻住了那位大车将。
7.172.30
तमर्जुनस्तु विंशत्या विव्याध युधि भारत ।
अथेतरान्महेष्वासांस्त्रिभिस्त्रिभिरविध्यत ॥ ७.१७२.३० ॥
婆罗多啊,阿周那在战斗中以二十支箭射中他,又以各三支箭射中其他大弓箭手。
7.172.31
निवार्य तान्बाणगणैर्युधि राजन्धनञ्जयः ।
जघान तावकान्योधान्वज्रपाणिरिवासुरान् ॥ ७.१७२.३१ ॥
大王啊,持金刚杵的因陀罗击杀阿修罗,阶级之中,财胜(阿周那)以箭雨阻挡他们,在战场上杀死了你的战士。
7.172.32
भुजैश्छिन्नैर्महीपाल हस्तिहस्तोपमैर्मृधे ।
समाकीर्णा मही भाति पञ्चास्यैरिव पन्नगैः ॥ ७.१७२.३२ ॥
护国之王啊,战场上满布如象鼻般被斩断的手臂,大地看起来仿佛被五头蛇覆盖,闪耀着光芒。
7.172.33
शिरोभिः सकिरीटैश्च सुनसैश्चारुकुण्डलैः ।
सन्दष्टौष्ठपुटैः क्रुद्धैस्तथैवोद्वृत्तलोचनैः ॥ ७.१७२.३३ ॥
带着王冠、秀美鼻子与精美耳环的头颅,牙齿咬紧嘴唇,愤怒地,双眼翻白。
7.172.34
निष्कचूडामणिधरैः क्षत्रियाणां पियंवदैः ।
पङ्कजैरिव विन्यस्तैः पर्वतैर्विबभौ मही ॥ ७.१७२.३४ ॥
那些佩戴金饰与顶上宝珠、言语和悦的刹帝利之头,如莲花般散落四处;大地因此仿佛布满山岳般闪耀。
7.172.35
कृत्वा तत्कर्म बीभत्सुरुग्रमुग्रपराक्रमः ।
विव्याध शकुनिं भूयः पञ्चभिर्नतपर्वभिः ॥ ७.१७२.३५ ॥
完成此壮举后,勇猛的比跋蹉(阿周那)又以五支弯节之箭射中沙恭尼。
7.172.36
अताडयदुलूकं च त्रिभिरेव तथा शरैः ।
उलूकं पुनराजघ्ने त्रिभिरेव महायशाः ॥ ७.१७२.३६ ॥
他同样用三支箭射中乌卢卡,那位大名声者又用三支箭再次击中乌卢卡。
7.172.37
स तु तेन समाविद्ध क्रोधाद्द्विगुणविक्रमः ।
शरैरनेकसाहस्रैः सोऽर्जुनं प्रत्यविध्यत ॥ ७.१७२.३७ ॥
他被击中后,因愤怒而勇气倍增,以成千上万支箭射向阿周那。
7.172.38
तमुलूकस्तथा विद्धा वासुदेवमताडयत् ।
ननाद च महानादं पूरयन्निव मेदिनीम् ॥ ७.१७२.३८ ॥
乌卢迦同样受创,击打了婆苏提婆,并发出巨大的吼声,仿佛要充满大地。
7.172.39
अर्जुनः शकुनेश्चापं सायकैरच्छिनद्रणे ।
निन्ये च चतुरो वाहान्यमस्य सदनं प्रति ॥ ७.१७२.३९ ॥
阿周那在战斗中以箭斩断沙恭尼的弓,并将他的四匹马送往阎摩之境。
7.172.40
ततो रथादवप्लुत्य सौबलो भरतर्षभ ।
उलूकस्य रथं तूर्णमारुरोह विशाम्पते ॥ ७.१७२.४० ॥
于是,婆罗多之牛啊,苏巴拉之子从自己的战车上跃下,迅速登上了乌卢迦的战车,人主啊。
7.172.41
तावेकरथमारूढौ पितापुत्रौ महारथौ ।
पार्थं सिषिचतुर्बाणैर्गिरिं मेघाविवाम्बुभिः ॥ ७.१७२.४१ ॥
父子二人同乘一辆战车,皆为大战车勇士,向般度子(阿周那)倾泻箭雨,如两朵乌云向山上降下雨水。
7.172.42
तौ तु विद्धा महाराज पाण्डवो निशितैः शरैः ।
विद्रावयंस्तव चमूं शतशो व्यधमच्छरैः ॥ ७.१७२.४२ ॥
大王啊,般度子以利箭射穿那二人,并冲散您的军队,用箭对其打击了上百次。
7.172.43
अनिलेन यथाऽभ्राणि विच्छिन्नानि समन्ततः ।
विच्छिन्नानि तथा राजन्बलान्यासन्विशाम्पते ॥ ७.१७२.४३ ॥
如风吹云散四方,王啊,人主啊,军队也如此四散。
7.172.44
तद्बलं भरतश्चेष्ठ वध्यमानं तदा निशि ।
प्रदुद्राव दिशः सर्वा वीक्षमाणं भयार्दितम् ॥ ७.१७२.४४ ॥
婆罗多之最啊,那支军队在夜里被屠戮,因恐惧而痛苦,四处张望,向各个方向逃窜。
7.172.45
उत्सृज्य वाहान्समरे चोदयन्तस्तथाऽपरे ।
सम्भ्रान्ताः पर्यधावन्त तस्मिंस्तमसि दारुणे ॥ ७.१७२.४५ ॥
有人在战斗中弃下坐骑,有人则驱策着坐骑,惊慌失措地在那可怕的黑暗中奔走。
7.172.46
विजित्य समरे योधांस्तावकान्भरतर्षभ ।
दध्मतुर्मुदितौ शङ्खौ वासुदेवधनञ्जयौ ॥ ७.१७२.४६ ॥
婆罗多之牛啊,在战斗中战胜你的战士后,婆薮提婆与财主欢喜地吹响了他们的海螺。
7.172.47
धृष्टद्युम्नो महाराज द्रोणं विद्धा त्रिभिः शरैः ।
चिच्छेद धनुषस्तूर्णं ज्यां शरेण शितेन ह ॥ ७.१७२.४७ ॥
大王啊,达湿多永纳以三支箭射中德罗纳,随即用一支锐利的箭迅速割断了他弓上的弦。
7.172.48
तन्निधाय धनुर्भूमौ द्रोणः क्षत्रियमर्दनः ।
आददेऽन्यद्धनुः शूरो वेगवत्सारवत्तरम् ॥ ७.१७२.४८ ॥
德罗纳放下那张弓,这位击溃刹帝利的英雄,又拿起了另一张更为迅捷、更为坚韧的弓。
7.172.49
धृष्टद्युम्नं ततो द्रोणो विद्धा सप्तभिराशुगैः ।
सारथिं पञ्चभिर्बाणै राजन्विव्याध संयुगे ॥ ७.१७२.४९ ॥
于是德罗纳以七支迅捷之箭射中德里什塔德尤姆纳,王啊,又以五支箭射中他的御者。
7.172.50
तं निवार्य शरैस्तूर्णं धृष्टद्युम्नो महारथः ।
व्यधमत्कौरवीं सेनामासुरीं मघवानिव ॥ ७.१७२.५० ॥
德里什塔德尤姆纳以箭迅速阻住他,这位大车将击溃了俱卢军,如因陀罗击溃阿修罗军。
7.172.51
वध्यमाने बले तस्मिंस्तव पुत्रस्य मारिष ।
प्रावर्तत नदी घोरां शोणितौघतरङ्गिणी ॥ ७.१७२.५१ ॥
尊者啊,当你儿子的那支军队被杀戮时,一条可怕的河流涌现,河中波涛是血流的洪波。
7.172.52
उभयोः सेनयोर्मध्ये नराधद्विपवाहिनी ।
तथा वैतरणी राजन्यतराजुपुरं प्रति ॥ ७.१७२.५२ ॥
在两军之间,它卷走人与象,王啊,宛如流向阎摩之域的毗多兰尼河。
7.172.53
द्रावयित्वा तु तत्सैन्यं धृष्टद्युम्नः प्रतापवान् ।
अभ्यराजत तेजस्वी शक्रो देवगणेष्विव ॥ ७.१७२.५३ ॥
驱散了那支军队,威猛而光辉的德里什塔德尤姆纳在诸天神之中闪耀,如因陀罗一般。
7.172.54
अथ दध्मुर्महाशङ्खान्धृष्टद्युम्नशिखण्डिनौ ।
यमौ च युयुधानश्च पाण्डक्य वृकोदरः ॥ ७.१७२.५४ ॥
于是德里什塔德尤姆纳与尸甘丁、那对孪生者、尤尤丹那、般度之子和狼腹同吹大螺。
7.172.55
जित्वा रथसहस्राणि तावकानां महारथाः ।
सिंहनादरवांश्चक्रुः पाण्डवा जितकाशिनः ॥ ७.१७२.५५ ॥
般度之子们战胜了你方数千辆战车,那些大战车武士自认为得胜,发出如狮子吼般的声响。
7.172.56
पश्यतस्तव पुत्रस्य कर्णस्य च रणोत्कटाः ।
तथा द्रोणस्य शूरस्य द्रौणेश्चैव विशाम्पते ॥ ७.१७२.५६ ॥
人主啊,当你的儿子、迦尔纳、勇猛的德罗纳和德罗纳之子在旁观看时,好战的般度之子们做了这一切。