摩诃婆罗多 · 章 7.174
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
7.174.1
ततः कर्णो रणे दृष्ट्वा पार्षतं परवीरहा ।
आजघानरोसि शरैर्दशभिर्मर्मभेदिभिः ॥ ७.१७४.१ ॥
此时,斩杀敌方勇士的迦尔纳在战场上见到般沙塔之子,怒气冲冲地以十支穿透要害的箭射向他。
7.174.2
प्रतिविव्याध तं तूर्णं धृष्टद्युम्नोपि मारिष ।
दशभिः सायकैर्हृष्टस्तिष्ठतिष्ठेति चाब्रवीत् ॥ ७.१७४.२ ॥
主公啊!德里斯塔德尤姆纳也立即以十支箭还击,并欢喜地喊道:“站住,站住!”
7.174.3
तावन्योन्यं शरैः सङ्ख्ये सञ्छाद्य सुमहारथैः ।
पुनः पूर्णायतोत्सृष्टैर्विव्यधाते परस्परम् ॥ ७.१७४.३ ॥
这两位大车将在战场上以箭互相遮蔽,然后又以满弓射出的箭彼此射伤。
7.174.4
ततः पाञ्चालमुख्यस्य धृष्टद्युम्नस्य संयुगे ।
सारथिं चतुरश्चाश्वान्कर्णो विव्याध सायकैः ॥ ७.१७४.४ ॥
于是,在战斗中,迦尔纳用箭射中了般遮罗之首德里斯塔德尤姆纳的御者和他的四匹马。
7.174.5
कार्मुकप्रवरं चापि प्रचिच्छेद शितैः शरैः ।
सारथिं चास्य भल्लेन रथनीडादपातयत् ॥ ७.१७४.५ ॥
他还用利箭射断了对方最好的弓,并以一支月牙箭将其御者从车座上射落。
7.174.6
धृष्टद्युम्नस्तु विरथो हताश्वो हतसारथिः ।
गृहीत्वा परिघं घोरं कर्णस्याश्वानपीडयत् ॥ ७.१७४.६ ॥
然而德里斯塔德尤姆纳失去了战车,马匹和御者都已阵亡,于是他拿起可怕的铁棍,也击打迦尔纳的马匹。
7.174.7
विद्धश्च बहुभिस्तेन शरैराशीविषोपमैः ।
ततो युधिष्ठिरानीकं पद्ध्यामेवान्वपद्यत ॥ ७.१७४.७ ॥
他以如毒蛇般的众多箭射中了他,于是坚战的军队便徒步退却。
7.174.8
आरुरोह रथं चापि सहदेवस्य मारिष ।
प्रयातुकामः कर्णाय वारितो धर्मसूनुना ॥ ७.१७४.८ ॥
大人啊,他登上了偕天的战车;想要前往迦尔纳处时,却被法之子制止了。
7.174.9
कर्णस्तु सुमहातेजाः सिंहनादविमिश्रितम् ।
धनुःशब्दं महच्चक्रे दध्मौ तारेण चाम्बुजम् ॥ ७.१७४.९ ॥
而极具光辉的迦尔纳则拉响了与狮吼相混的大弓之声,并高声吹响了法螺。
7.174.10
दृष्ट्वा विनिर्जितं युद्धे पार्षतं ते महारथाः ।
अमर्षवशमापन्नाः पाञ्चालाः सहसोमकाः ॥ ७.१७४.१० ॥
见般遮罗王子(德里斯塔德尤姆纳)在战斗中被击败,大车战士般遮罗人与索摩迦人被愤怒所控制。
7.174.11
सूतपुत्रवधार्थाय शस्त्राण्यादाय सर्वशः ।
प्रययुः कर्णमुद्दिश्य मृत्युं कृत्वा निवर्तनम् ॥ ७.१७४.११ ॥
为了杀死御者之子,他们执起各种兵器,以迦尔纳为目标向前冲去,以死亡作为唯一的归途。
7.174.12
कर्णस्यापि रथे वाहानन्यान्सूतोऽभ्ययोजयत् ।
शङ्खवर्णान्महावेगान्सैन्धवान्साधुवाहिनः ॥ ७.१७४.१२ ॥
迦尔纳的战车上,御者也套上了另一批马——如贝壳般白色,速度极快,出自信度,善于驾驭牵引。
7.174.13
लब्धलक्षस्तु राधेयः पञ्चालानां महारथान् ।
अभ्यपीडयदायस्तः शरैर्मेघ इवाचलम् ॥ ७.१७४.१३ ॥
御者之子迦尔纳目标明确、不知疲倦,以箭射击般遮罗的大车战士,如云笼罩山岳。
7.174.14
सा पीड्यमाना कर्णेन पाञ्चालानां महाचमूः ।
सम्प्राद्रवत्सुसन्त्रस्ता सिंहेनेवार्दिता मृगी ॥ ७.१७४.१४ ॥
般遮罗的大军被迦尔纳逼迫,极度惊恐,溃散奔逃,如同被狮子追赶的母鹿。
7.174.15
पतितास्तुरगेभ्यश्च गजेभ्यश्च महीतले ।
रथेभ्यश्च नरास्तूर्णमदृश्यन्त ततस्ततः ॥ ७.१७४.१५ ॥
从马、象和战车上跌落的人们很快便在地上四处可见。
7.174.16
धावमानस्य योधस्य क्षुरप्रैः स महामृधे ।
बाहू चिच्छेद वै कर्णः शिरश्चैव सकुण्डलम् ॥ ७.१७४.१६ ॥
在大战中奔逃的一名战士,迦尔纳以新月箭斩断其双臂,并连同耳环斩下其头颅。
7.174.17
ऊरू चिच्छेद चान्यस्य गजस्थस्य विशाम्पते ।
वाजिपृष्ठगतस्यापि भूमिष्ठस्य च मारिष ॥ ७.१७४.१७ ॥
他又斩断另一人的大腿——那人坐在象上,哦民之主;又斩断骑在马背上者和站立于地上者的大腿,哦尊贵者。
7.174.18
नाज्ञासिषुर्धावमाना बहवश्च महारथाः ।
सञ्छिन्नान्यात्मगात्राणि वाहनानि च संयुगे ॥ ७.१७४.१८ ॥
许多逃跑的大车战士甚至没有察觉,自己的肢体和坐骑在战斗中已被斩断。
7.174.19
ते वध्यमानाः समरे पाञ्चालाः सृञ्जयैः सह ।
तृणप्रस्पन्दनाच्चापि सूतपुत्रं स्म मेनिरे ॥ ७.१७४.१९ ॥
般遮罗人与斯利阳阇人一同在战场上被杀,他们连一根草的晃动都当作是御者之子(迦尔纳)。
7.174.20
अपि स्वं समरे योधं धावमानं विचेतसम् ।
कर्णमेवाभ्यमन्यन्त ततो भीता द्रवन्ति ते ॥ ७.१७४.२० ॥
即使是自己那位在战场上惊慌奔逃、心神迷乱的战士,他们也当作是迦尔纳;因此他们惊恐地逃窜。
7.174.21
तान्यनीकानि भग्नानि द्रवमाणानि भारत ।
अभ्यद्रवद्द्रुतं कर्णः पृष्ठतो विकिरञ्छरान् ॥ ७.१७४.२१ ॥
婆罗多啊,迦尔纳从后面迅速冲向那些溃散逃奔的军队,四处射出箭矢。
7.174.22
अवेक्षमाणास्त्वन्योन्यं सुसम्मूढा विचेतसः ।
नाशक्नुवन्नवस्थातुं काल्यमाना महात्मना ॥ ७.१७४.२२ ॥
他们彼此相望,极度迷惑,心神错乱,被那位大德者所逼迫,无法站稳脚跟。
7.174.23
कर्णेनाभ्याहता राजन्पाञ्चालाः परमेषुभिः ।
द्रोणेन च दिशः सर्वा वीक्षमाणाः प्रदुद्रुवुः ॥ ७.१७४.२३ ॥
大王啊,般遮罗人被迦尔纳的至高箭矢所击,又因德罗纳的进攻而环顾四方,于是逃散了。
7.174.24
ततो युधिष्ठिरो राजा स्वसैन्यं प्रेक्ष्य विद्रुतम् ।
अपयाने मनः कृत्वा फल्गुनं वाक्यमब्रवीत् ॥ ७.१७४.२४ ॥
于是国王坚战见自己的军队溃散,决心撤退,便对法尔古那(阿周那)说了这番话。
7.174.25
पश्य कर्णं महेष्वासं धनुष्पाणिमवस्थितम् ।
निशीथे दारुणे काले तपन्तमिव भास्करम् ॥ ७.१७४.२५ ॥
看那大弓手迦尔纳,手持弓箭站立,在可怕的午夜时分如太阳般炽烈。
7.174.26
कर्णसायकनुन्नानां क्रोशतामेष निःस्वनः ।
अनिशं श्रूयते पार्थ त्वद्बन्धूनामनाथवत् ॥ ७.१७४.२६ ॥
啊,帕尔塔,迦尔纳箭下中伤而哭喊的人们的声音不断传来,那是你亲族的声音,如同无依无靠之人。
7.174.27
यथा विसृजतश्चास्य सन्दधानस्य चाशुगान् ।
पश्यामि नान्तरं पार्थ क्षपयिष्यति नो ध्रुवम् ॥ ७.१७४.२७ ॥
啊,帕尔塔,我看不到他发射与搭箭之间有任何间隙;他必定会毁灭我们。
7.174.28
यदत्रानन्तरं कार्यं प्राप्तकाल च पश्यसि ।
कर्णस्य वधसंयुक्तं तत्कुरुष्व धनञ्जय ॥ ७.१७४.२८ ॥
此时此地接下来该做的事,即你认为合时并与杀死迦尔纳相关的事,那就去做吧,财主啊。
7.174.29
एवमुक्तो महाराज पार्थः कृष्णमथाब्रवीत् ।
भीतः कुन्तीसुतो राजा राधेयस्याद्य विक्रमात् ॥ ७.१७४.२९ ॥
大王啊,被这样说之后,帕尔塔对黑天说道;贡蒂之子国王,今日因罗陀之子迦尔纳的勇猛而恐惧。
7.174.30
एवं गते प्राप्तकालं कर्णानीके पुनः पुनः ।
भवान्व्यवस्यतु क्षिप्रं द्रवते हि वरूथिनी ॥ ७.१७४.३० ॥
事已至此,每当迦尔纳军中合适的时机一次又一次出现时,你要迅速决断,因为军队正在溃逃。
7.174.31
द्रोणसायकनुन्नानां भग्नानां मधुसूदन ।
कर्णेन त्रास्यमानानामवस्थानं न विद्यते ॥ ७.१७४.३१ ॥
摩豆须陀啊!被德罗纳之箭击伤击溃、又被迦尔纳惊吓的人,已无处可以站稳。
7.174.32
पश्यामि च तथा कर्णं विचरन्तमभीतवत् ।
द्रवमाणान्रथोदारान्किरन्तं निशितैः शरैः ॥ ७.१७४.३२ ॥
我看见迦尔纳仿佛无所畏惧地奔走,向逃散的高贵车战士们倾泻锐利的箭雨。
7.174.33
नैनं शक्ष्यामि संसोढुं चरन्तं रणमूर्धनि ।
प्रत्यक्षं वृष्णिशार्दूल पादस्पर्शमिवोरगः ॥ ७.१७४.३३ ॥
维里尼族的雄虎啊!我无法忍受他在战场前线的奔走,正如蛇无法忍受脚的触碰。
7.174.34
स सवांस्तत्र यात्वाशु यत्र कर्णो महारथः ।
अहमेनं हनिष्यामि मां वैष मधुसूदन ॥ ७.१७४.३४ ॥
让他迅速前往大车将迦尔纳所在之处。我将杀死他——摩豆须陀啊,此人本应与我对阵。
7.174.35
पश्यामि कर्णं कौन्तेय देवराजमिवाहवे ।
विचरन्तं नरव्याघ्रमतिमानुषविक्रमम् ॥ ७.१७४.३५ ॥
昆提之子啊,我看见迦尔纳在战场上奔走,如同诸神之王因陀罗——人中之虎,拥有超凡的勇武。
7.174.36
नैतस्यान्योऽस्ति सङ्ग्रामे प्रत्युद्याता धनञ्जय ।
ऋते त्वां पुरुषव्याघ्र राक्षसाद्वा घटोत्कचात् ॥ ७.१७४.३६ ॥
财富征服者啊,战场上除你之外无人能与他相抗,人中之虎啊——或是罗刹迦托特迦恰。
7.174.37
न तु तावदहं मन्ये प्राप्तकालं तवानघ ।
समागमं महाबाहो सूतपुत्रेण संयुगे ॥ ७.१७४.३७ ॥
无垢者啊,大臂者啊,我认为你与御者之子在战斗中相遇的恰当时机尚未到来。
7.174.38
दीप्यमाना महोल्केव तिष्ठत्यस्य हि वासवी ।
त्वदर्थं हि महाबाहो सूतपुत्रेण संयुगे ॥ ७.१७४.३८ ॥
大臂者啊,因陀罗的那件武器如大流星般闪耀,正为你之故,在与御者之子的战斗中留在他那里。
7.174.39
रक्ष्यते शक्तिरेषा हि रौद्रां रूपं बिभर्ति च ।
घटोत्कचस्तु राधेयं प्रत्युद्यातु महाबलः ॥ ७.१७४.३९ ॥
此力量被守护着,并呈现可怕的形态;但愿伟大的迦陀迦卡去迎战罗陀之子罗德耶。
7.174.40
स हि भीमेन बलिना जातः सुरपराक्रमः ।
तस्मिन्नस्त्राणि दिव्यानि राक्षसान्यासुराणि च ॥ ७.१७४.४० ॥
他是由大力的毗摩所生,具有诸天的勇武;他身中有天界、罗刹和阿修罗的武器。
7.174.41
सततं चानुरक्तो वो हितैषी च घटोत्कचः ।
विजेष्यति रणे कर्णमिति मे नात्र संशयः ॥ ७.१७४.४१ ॥
迦陀迦卡始终对你们忠诚并怀有善意,他将在战斗中战胜迦尔纳,这一点我毫不怀疑。
7.174.42
एवमुक्तो महाबाहुः पार्थः पुष्करलोचनः ।
आजुहावाथ तद्रक्षस्तच्चासीत्प्रादुरप्रतः ॥ ७.१७४.४२ ॥
被这样告知后,大臂的贝塔、莲花眼者呼唤那罗刹,那罗刹便出现在他面前。
7.174.43
कवची सशरः खङ्गी सधन्वा च विशाम्पते ।
अभिवाद्य ततः कृष्णं पाण्डवं च धनञ्जयम्।
अब्रवीच्च तदा कृष्णमयमस्म्यनुशाधि माम् ॥ ७.१७४.४३ ॥
披甲持箭,携剑执弓,哦,人民之主!他先向黑天、般度之子和财主致敬,然后对黑天说:“我在这里,请吩咐我。”
7.174.44
ततस्तं मेघसङ्काशं दीप्तास्यं दीप्तकुण्डलम् ।
अभ्यभाषत हैडिम्बिं दाशार्हः प्रहसन्निव ॥ ७.१७४.४४ ॥
于是达沙尔哈的黑天,仿佛微笑着,对那位如云般、面容焕发、耳环闪亮的希丁巴之子说道。
7.174.45
घटोत्कच विजानीहि यत्त्वां वक्ष्यामि पुत्रक ।
प्राप्तो विक्रमकालोऽयं तव नान्यस्य कस्याचित्।
स त्वं निमज्जतां युद्धे बन्धूनां बान्धवो भव ॥ ७.१७४.४५ ॥
阁陀迦恰啊,听我说,我的孩子:你展现勇武的时刻已经到来,并非属于他人。在战斗中沉没的亲人,你要做他们的亲人。
7.174.46
यावन्ति च तवास्त्राणि सन्ति मायाश्च राक्षसीः ।
अद्यैव समयस्तेषां मायानां चैव राक्षस ॥ ७.१७४.४६ ॥
你所有的兵器和罗刹幻术,它们的时刻就在今天,哦,罗刹。
7.174.47
पश्य कर्णेन हैडिम्बे पाण्डवानामनीकिनीम् ।
काल्यमानां रणे तात सिंहनेवेतरान्मृगान् ॥ ७.१७४.४७ ॥
看啊,希丁巴之子,般度之军正被迦尔纳在战场上斩杀,亲爱的,就像狮子捕杀其他鹿群一样。
7.174.48
एष कर्णो महेष्वासो मतिमान्दृढविक्रमः ।
पाण्वानामनीकेषु निहन्ति क्षत्रियर्षभान् ॥ ७.१७४.४८ ॥
这位大弓箭手迦尔纳,智慧而勇武坚定,正在般度的军队中杀戮刹帝利中的雄牛。
7.174.49
किरन्तः शरवर्षाणि महान्ति दृढधन्विनः ।
न शक्नुवन्त्यवस्थातुं पीड्यमानाः शरार्चिषा ॥ ७.१७४.४९ ॥
虽然这些强弓手倾泻大量箭雨,却因箭焰的灼烧而无法站稳。
7.174.50
निशीथे सूतपुत्रेण शरवर्षेण पीडिताः ।
एते द्रवन्ति पाञ्चालाः सिंहेनेवार्दिता मृशाः ॥ ७.१७४.५० ॥
午夜时分,这些般遮罗人被车夫之子的箭雨所折磨,逃散而去,仿佛被狮子猛烈追逐一般。
7.174.51
एतस्यैवं प्रवृद्धस्य सूतपुत्रस्य संयुगे ।
निषेद्धा विद्यते नान्यस्त्वामृते भीमविक्रम ॥ ७.१७४.५१ ॥
在战场上,能够阻挡这位已如此强大的车夫之子的,除你之外再无他人,哦,威猛无比的勇士。
7.174.52
स त्वं कुरु महाबाहो कर्म युक्तमिहात्मनः ।
मातुलानां पितॄणां च तेसजोऽस्त्रबलस्य च ॥ ७.१७४.५२ ॥
因此,哦,大臂者,请做此处适合你的事:守护你的舅舅们、祖先们,以及武器的力量。
7.174.53
एतदर्थे हि हैडिम्बे पुत्रानिच्छन्ति मानवाः ।
कथं नस्तारयेद्दुःखात्स त्वं तारय बान्धवान् ॥ ७.१७४.५३ ॥
正为此故,希迭姆芭之子啊,世人才渴望儿子;能够使我们度过苦难的,正是你——请救度你的亲族吧。
7.174.54
इच्छन्ति पितरः पुत्रान्स्वार्थहेतोर्घटोत्कच ।
हहलोकात्परे लोके तारयिष्यन्ति ये हिताः ॥ ७.१७४.५४ ॥
祖先们为了自身的利益而希望有子嗣,哦,迦托特迦查;那些怀有善意的子嗣将把他们从此世救度到彼岸。
7.174.55
तव ह्यत्र बलं भीमं मायाश्च तव दुस्तराः ।
सङ्क्रामे युध्यमानस्य सततं भीमनन्दन ॥ ७.१७४.५५ ॥
这里你的力量可怕,你的幻术难以克服,婆罗多之子,你在战斗中不停地战斗。
7.174.56
पाण्डवानां प्रभग्नानां कर्णेन निशि सायकैः ।
मज्जतां धार्तराष्ट्रेषु भव पारं परन्तप ॥ ७.१७४.५६ ॥
般度之子在夜间被迦尔纳的箭所击溃,沉没于持国之子之中;折磨敌人者啊,请成为他们的彼岸。
7.174.57
रात्रौ हि राक्षसा भूयो भवन्त्यमितविक्रमाः ।
बलवन्तः सुदुर्धर्षाः शूरा विक्रान्तचारिणः ॥ ७.१७४.५७ ॥
夜间罗刹又变得武勇无比;他们强大、极难抵挡,是勇猛行动的英雄。
7.174.58
जहि कर्णं हमेष्वासं निशीथे मायया रणे ।
पार्था द्रोणं वधिष्यन्ति धृष्टद्युम्नपुरोगमाः ॥ ७.१७४.५८ ॥
午夜时分在战斗中以幻术杀死持弓者迦尔纳;由猛光领导的般度之子将杀死德罗纳。
7.174.59
केशवस्य वचः श्रुत्वा बीभत्सुरपि राक्षसम् ।
अभ्यभाषत कौरव्य घटोत्कचमरिन्दमम् ॥ ७.१७४.५९ ॥
俱卢后裔啊,听了克沙婆的话,比毗特苏(阿周那)也对罗刹迦托迦查——制伏敌人者——说道。
7.174.60
घटोत्कच भवांश्चैव दीर्घबाहुश्च सात्यकिः ।
मतौ मे सर्वसैन्येषु भीमसेनश्च पाण्डवः ॥ ७.१७४.६० ॥
迦托迦查,你和长臂的萨提亚基,依我看来,在所有军队中,还有毗摩先那和般度之子也是(最强的)。
7.174.61
तद्भवान्यातु कर्णेन द्वैरथं युध्यतां निशि ।
सात्यकिः पृष्ठगोपस्ते भविष्यति महारथः ॥ ७.१७४.६१ ॥
因此,你去找夜间单独作战的迦尔纳吧。大车战士萨提亚基将作你的后卫。
7.174.62
जहि कर्णं रणे शूरं सात्वतेन सहायवान् ।
यथेन्द्रस्तारकं पूर्वं स्कन्देन सह जघ्निवान् ॥ ७.१७४.६२ ॥
借助萨特瓦塔(萨提亚基)之力,在战场上杀死英勇的迦尔纳,正如往昔因陀罗与斯堪达共同杀死塔拉卡。
7.174.63
एवमेव महाबाहो यथा वदसि मां प्रभो ।
त्वया नियुक्तो गच्छामि कर्णस्य बधकाङ्क्षया ॥ ७.१७४.६३ ॥
大力臂者啊,主啊,就如你对我所说的那样。受你差遣,我怀着杀死迦尔纳的愿望前去。
7.174.64
अलमेवास्मि कर्णाय द्रोणायालं च भारत ।
अन्येषां क्षत्रियाणां च कृतास्त्राणां महात्मनाम् ॥ ७.१७४.६४ ॥
婆罗多之子啊,我足以对付迦尔纳,也足以对付德罗纳,以及其他精通武艺的大德刹帝利。
7.174.65
अद्य दास्यामि सङ्ग्रामं सूतपुत्राय तं निशि ।
यं जनाः सम्प्रवक्ष्यन्ति यावद्भूमिर्धरिष्यति ॥ ७.१७४.६५ ॥
今夜我要给御者之子一场战斗,只要大地存在,人们便会谈论它。
7.174.66
न चात्र शूरान्मोक्ष्यामि न भीतान्न कृताञ्जलीन् ।
सर्वानेव वधिष्यामि राक्षसं धर्ममास्थितः ॥ ७.१७४.६६ ॥
在此我既不放过英雄,也不放过恐惧者,也不放过合掌求饶者;我遵循罗刹之法,将杀死他们所有人。
7.174.67
एवमुक्त्वा महाबाहुर्हैडिम्बिः परवीरहा ।
अभ्ययात्तुमुले कर्णं तव सैन्यं विभीषयन् ॥ ७.१७४.६७ ॥
说罢,大臂的希迭姆毗之子、诛灭敌方英雄的瓶肚(Ghaṭotkaca)在混乱中冲向迦尔纳,使你的军队惊恐。
7.174.68
तमापतन्तं सङ्क्रुद्धं दीप्तास्यं दीप्तमूर्धजम् ।
प्रहसन्पुरुषव्याघ्रः प्रतिजग्राह सूतजः ॥ ७.१७४.६८ ॥
那人怒气冲冲、面如烈火、发如火焰地扑来,人中之虎的御者之子却笑着迎上前去接住了他。
7.174.69
तयोः समभवद्युद्धं कर्णराक्षसयोर्निशि ।
गर्जतो राजशार्दूल शक्रप्रह्लादयोरिव ॥ ७.१७४.६९ ॥
夜间,迦尔纳与那罗刹之间爆发了二者的战斗;王中之虎啊,他们吼声如雷,犹如因陀罗与钵罗诃罗陀之战。