Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 7.175

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

7.175.1

दृष्ट्वा घटोत्कचं राजन्सूतपुत्ररथं प्रति ।
आयान्तं तु तथायुक्तं जिघांसुं कर्णमाहवे।
अब्रवीत्तत्र पुत्रस्ते दुःशासनमिदं वचः ॥ ७.१७५.१ ॥

大王啊,见到瞿陀迦一身装备、朝着御者之子(迦尔纳)的战车而来,欲在战场上杀死迦尔纳,你的儿子于是对难降说了这些话。

7.175.2

एतद्रक्षो रणे तूर्णं दृष्ट्वा कर्णस्य विक्रमम् ।
अभियाति द्रुतं कर्णं तद्वारय महारथम् ॥ ७.१७५.२ ॥

这个罗刹见到迦尔纳在战场上的勇猛,迅速朝迦尔纳冲来;因此,去阻挡那位大战车武士。

7.175.3

वृतः सैन्येन महता याहि यत्र महाबलः ।
कर्णो वैकर्तनो युद्धे राक्षसेन युयुत्सति ॥ ७.१७५.३ ॥

你应率领大军前往,那里是大力的毗迦尔坦之子迦尔纳想要在战场上与罗刹交战的地方。

7.175.4

रक्ष कर्णं रणे यत्तो वृतः सैन्येन मानद ।
मा कर्णं राक्षसो घोरः प्रमादान्नाशयिष्यति ॥ ७.१७५.४ ॥

赐予荣誉者啊,你要警惕地被大军围绕,在战场上保护迦尔纳,以免可怕的罗刹因疏忽而毁灭迦尔纳。

7.175.5

एतस्मिन्नन्तरे राजञ्जटासुरसुतो बली ।
दुर्योधनमुपागम्य प्राह प्रहरतां वरः ॥ ७.१७५.५ ॥

此时,大王啊,恶魔遮陀苏罗之有力的儿子走近难敌,说道——他是击打者中最优秀的。

7.175.6

दुर्योधन तवामित्रान्प्रख्यातान्युद्धदुर्मदान् ।
पाण्डवान्हन्तुमिच्छामि त्वयाऽऽज्ञप्तः सहानुगान् ॥ ७.१७५.६ ॥

难敌啊,我愿奉你之命,连同他们的随从,杀死你那些著名的、在战斗中骄狂的敌人般度五子。

7.175.7

जटासुरो मम पिता रक्षसां ग्रामणीः पुरा ।
प्रयुज्य कर्म रक्षोघ्नं क्षुद्रैः पार्थैर्निपातितः ॥ ७.१७५.७ ॥

我的父亲阇吒修罗(Jaṭāsura)昔日是罗刹的首领。他在行诛灭罗刹之事时,被卑劣的普利塔之子击倒。

7.175.8

तस्यापचितिमिच्छामि शत्रुशोणितपूजया ।
शत्रुमांसैश्च राजेन्द्र मामनुज्ञातुमर्हसि ॥ ७.१७५.८ ॥

我愿以敌人的血和肉祭祀他,以报其仇。王中之王啊,您应当允许我。

7.175.9

तमब्रवीत्ततो राजा प्रीयमाणः पुनःपुनः ।
द्रोणकर्मादिभिः सार्धं पर्याप्तोऽहं द्विषद्वधे ॥ ७.१७५.९ ॥

于是国王心中欢喜,一再对他说:「与德罗纳等人在一起,我足以诛灭敌人。」

7.175.10

त्वं तु गच्छ मयाऽऽज्ञप्तो जहि युद्धे घटोत्कचम् ।
राक्षसं क्रूरकर्माणं रक्षोमानुषसम्भवम् ॥ ७.१७५.१० ॥

你去吧,奉我之命,在战场上杀死घटोत्कच(Ghaṭotkaca),那个行事残忍、罗刹与人所生的罗刹。

7.175.11

पाण्डवानां हितं नित्यं हस्त्यश्वरथघातिनम् ।
वैहायसगतं युद्धे प्रेषयेर्यमसादनम् ॥ ७.१७५.११ ॥

此人常助般杜之子,摧毁象、马与战车,在天空中飞行——在战斗中你应将他送往阎摩之所。

7.175.12

तथेत्युक्त्वा महाकायः समाहूय घटोत्कचम् ।
जाटासुरिर्भैमसेनिं नानाशस्त्रैरवाकिरत् ॥ ७.१७५.१२ ॥

他说道:「就这样吧。」于是这位身躯巨大的阇吒修罗之子召唤了घटोत्कच,并以种种兵器倾泻于般杜之子身上。

7.175.13

अलम्बलं च कर्णं च कुरुसैन्यं च दुस्तरम् ।
हैडिम्बिः प्रममाथैको महाबातोम्बुदानिव ॥ ७.१७५.१३ ॥

希狄姆芭之子独自摧毁了阿兰巴罗、迦尔纳与难以抵挡的俱卢大军,如狂风吹散云团。

7.175.14

ततो मायाबलं दृष्ट्वा रक्षस्तूर्णमलम्बलः ।
घटोत्कचं शरव्रातैर्नानालिङ्गैः समार्पयत् ॥ ७.१७५.१४ ॥

此时罗刹阿兰巴罗见到迦托迦之幻术之力,迅速以箭雨和种种兵器攻击他。

7.175.15

विद्धा च बहुभिर्बाणैर्भैमसेनिं महाबलः ।
व्यद्रावयच्छरव्रातैः पाण्डवानामनीकिनीम् ॥ ७.१७५.१५ ॥

大力的阿兰巴罗以众多箭射伤了毗摩之子,并以箭雨驱散了般度的军队。

7.175.16

तेन विद्राव्यमाणानि पाण्डुसैन्यानि भारत ।
निशीथे विप्रकीर्यन्ते वातनुन्ना घना इव ॥ ७.१७५.१६ ॥

婆罗多之子啊,被他驱散的般度大军在午夜时分四散,如同被风吹动的云朵。

7.175.17

घटोत्कचशरैर्नुन्ना तथैव तव वाहिनी ।
निशीथे प्राद्रवद्राजन्नुत्सृज्योल्काः सहस्रशः ॥ ७.१७५.१७ ॥

国王啊,你的军队同样被迦托迦之箭驱赶,在午夜时分丢下成千上万的火把逃走了。

7.175.18

अलम्बलस्ततः क्रुद्धो भैमसेनिं महामृधे ।
आजघ्ने दशभिर्बाणैस्तोत्रैरिव महाद्विपम् ॥ ७.१७५.१८ ॥

于是愤怒的阿兰巴罗在那场大战中以十支箭射击毗摩之子,犹如以钩子刺大象。

7.175.19

तिशस्तस्य संवाहं सूतं सर्वायुधानि च ।
घटोत्कचः प्रचिच्छेद प्रणदंश्चातिदारुणम् ॥ ७.१७५.१९ ॥

迦托迦查以每件各三支箭射断了他的马匹、御者和所有兵器,并发出极为可怖的吼声。

7.175.20

ततः कर्णं शरव्रातैः कुरूनन्यान्सहस्रशः ।
अलम्बलं चाभ्यवर्षन्मेघो मेरुमिवाचलम् ॥ ७.१७५.२० ॥

随后他向迦尔纳和其他俱卢人成千地倾注箭雨,也向阿兰布沙倾注,如乌云倾注于须弥山。

7.175.21

ततः सञ्चुक्षुभे सैन्यं कुरूणां राक्षसार्दितम् ।
उपर्युपरि चान्योन्यं चतुरङ्गं ममर्द ह ॥ ७.१७५.२१ ॥

于是,受罗刹折磨的俱卢大军陷入混乱,四军相互不断践踏。

7.175.22

जाटासुरिर्महाराज विरथो हतसारथिः ।
घटोत्कचं रणे क्रुद्धो मुष्टिनाऽभ्यहनद्दृढम् ॥ ७.१७५.२२ ॥

大王啊,罗陀苏里失去战车,御者被杀,在战中愤怒,以拳头猛击迦托迦查。

7.175.23

मुष्टिनाऽभ्याहतस्तेन प्रचचाल घटोत्कचः ।
क्षितिकम्पे यथा शैलः सवृक्षस्तृणगुल्मवान् ॥ ७.१७५.२३ ॥

迦托迦查被他的拳头击中,踉跄摇晃,如同大地震中连同树木、草丛和灌木的山岳震动。

7.175.24

ततः स परिघाभेन द्विट्सङ्घघ्नेन बाहुना ।
जाटासुरिं भैमसेनिरवधीन्मुष्टिना भृशम् ॥ ७.१७५.२४ ॥

于是,毗摩之子以如铁杵般、能杀敌众的手臂,以拳猛烈地击杀了罗陀苏里。

7.175.25

तं प्रमथ्य ततः क्रुद्धस्तूर्णं हैडिम्बिराक्षिपत् ।
दोर्भ्यामिन्द्रध्वजाभाभ्यां निष्पिपेष च भूतले ॥ ७.१७५.२५ ॥

于是愤怒的希迪姆巴之子迅速抓住他,将其抛下,并以如因陀罗旗幡般的双臂把他压碎在地上。

7.175.26

जाटासुरिर्मोक्षयित्वा आत्मानं च घटोत्कचात् ।
पुनरुत्थाय वेगेन घटोत्कचमुपाद्रावत् ॥ ७.१७५.२६ ॥

遮陀苏利从迦陀迦恰手中挣脱自身,又迅速起身,冲向迦陀迦恰。

7.175.27

अलम्बलोऽपि विक्षिप्य समुत्क्षिप्य च राक्षसम् ।
घटोत्कचं रणे रोषान्निष्पिपेष च भूतले ॥ ७.१७५.२७ ॥

阿兰波罗在战斗中也怒不可遏,将罗刹迦陀迦恰举起抛出,随即将他压碎在地上。

7.175.28

तयो समभवद्युद्धं गर्जतोरतिकाययोः ।
घटोत्कचालम्बलयोस्तुमुलं रोमहर्षणम् ॥ ७.१७५.२८ ॥

咆哮的两位巨人迦陀迦恰与阿兰波罗之间爆发了一场喧嚣而令人毛骨悚然的激战。

7.175.29

विशेषयन्तावन्योन्यं मायाभिरतिमायिनौ ।
युयुधाते महावीर्याविन्द्रवैरोचनाविव ॥ ७.१७५.२९ ॥

二人各以幻术争相胜过对方,两位大幻术师、威力巨大者如因陀罗与毗卢遮那般激战。

7.175.30

पावकाम्बुनिधी भूत्वा पुनर्गरुडतक्षकौ ।
पुनर्मेघमहाबत्तौ पुनर्वज्रमहाचलौ ॥ ७.१७५.३० ॥

化为火与海洋,又化为金翅鸟与龙蛇,又化为大云,又化为金刚杵与大山。

7.175.31

पुनः कुञ्जरशार्दूलौ पुनः स्वर्भानुभास्करौ ।
एवं मायाशतसृजावन्योन्यवधकाङ्क्षिणौ।
भृशं चित्रमयुध्येतामलम्बलघटोत्कचौ ॥ ७.१७५.३१ ॥

他们又如象与虎,又如罗睺与太阳,化作百种幻术,各欲置对方于死地,奇异地激斗——阿兰布沙与迦托迦奇。

7.175.32

परिघैश्च गदाभिश्च प्रासमुद्ररपट्टसैः ।
मुसलैः पर्वताग्रैश्च तावन्योन्यं विजघ्नतुः ॥ ७.१७५.३२ ॥

他们以铁杵、铁锤、长矛、棍棒与刀剑,以杵臼与山峰,彼此击打。

7.175.33

हयाभ्यां च गजाभ्यां च रथाभ्यां च पदातिभिः ।
युयुधाते महामायौ राक्षसप्रवरौ युधि ॥ ७.१७५.३३ ॥

以马、象、车与步卒,两位大幻术师、罗刹之最,在阵中相斗。

7.175.34

ततो घटोत्कचो राजन्नलम्बलवधेप्सया ।
उत्पतात भृशं क्रुद्धः श्येनवन्निपपात च ॥ ७.१७५.३४ ॥

于是,大王啊,欲杀阿兰布沙,迦托迦奇满怀愤怒跃起,如鹰隼般猛扑而下。

7.175.35

गृहीत्वा च महाकायं राक्षसेन्द्रमलम्बलम् ।
उद्यम्य न्यवधीद्भूमौ मयं विष्णुरिवाहवे ॥ ७.१७५.३५ ॥

他抓住巨大身躯的罗刹王阿兰布沙,将其高举,在阵中摔倒于地,如毗湿奴在战中击倒摩耶一般。

7.175.36

ततो घटोत्कचः खङ्गमुद्वृत्याद्भुतदर्शनम् ।
रौद्रस्य कायाद्वि शिरो भीमं विकृतदर्शनम् ॥ ७.१७५.३६ ॥

于是迦托迦奇拔出那奇妙的剑,从那凶猛的身躯上斩下了头颅——可怖而丑陋。

7.175.37

स्फुरतस्तस्य समरे नदतश्चातिभैरवम् ।
निचकर्त महाराज शत्रोमितविक्रमः ॥ ७.१७५.३७ ॥

大王啊,那仍在战场上挣扎、发出极其可怖吼声的敌人,被那位威力无量者斩下了头颅。

7.175.38

शिरस्तच्चापि सङ्गृह्य केशेषु रुधिरोक्षितम् ।
ययौ घटोत्कचस्तूर्णं दुर्योधनरथं प्रति ॥ ७.१७५.३८ ॥

迦托迦查抓住那颗沾满鲜血的头颅的发髻,迅速奔向难敌的战车。

7.175.39

द्रोणकर्णकृपान्योधानतीत्य सुमहाबलः ।
अभ्येत्य च महाबाहुः स्मयमानः स राक्षसः ॥ ७.१७५.३९ ॥

越过德罗纳、迦尔纳、克里帕等勇士,那位极其强大、臂膀有力的罗刹微笑着走近。

7.175.40

शिरो रथेऽस्य निक्षिप्य विकृताननमूर्धजम् ।
प्राणदद्भैरवं नादं प्रावृषीव वलाहकः ॥ ७.१७५.४० ॥

他将那颗面目扭曲、头发散乱的头颅放在战车上,发出可怖的吼声,如同雨季的云层。

7.175.41

अब्रवीच्च ततो राजन्दुर्योधनमिदं वचः ॥ ७.१७५.४१ ॥

然后,大王啊,他对难敌说了这些话。

7.175.42

एष ते निहतो बन्धुस्त्वया दृष्टोऽस्य विक्रमः ।
पुनर्द्रष्टासि कर्णस्य निष्ठामेतां तथाऽऽत्मनः ॥ ७.१७५.४२ ॥

你的亲族已被杀死,你亲眼见到了他的勇武。你还将亲眼看到迦尔纳和你自己也将走向这样的结局。

7.175.43

स्वधर्ममर्थं कामं च त्रितयं योऽभिवाञ्छति ।
रिक्तपाणिर्न पश्येत राजानं ब्राह्मणं स्त्रियम्।
तिष्ठस्व तावत्सुप्रीतो यावत्कर्णं वधाम्यहम् ॥ ७.१७५.४३ ॥

欲求自法、财富与欲乐三者之人,不应空手去见国王、婆罗门或女子。你且暂且安心等候,待我杀死迦尔纳。

7.175.44

एवमुक्त्वा ततः प्रायात्कर्णं प्रति नरेश्वरः ।
किरञ्छरगणांस्तीक्ष्णान्रुषितो रणमूर्धनि ॥ ७.१७५.४४ ॥

说完这些,那位人主便向迦尔纳冲去,满怀愤怒,在战阵前列洒下一片片锐利的箭雨。

7.175.45

ततः समभवद्युद्धं घोररूपं भयानकम् ।
विस्मापनं महाराज नरराक्षसयोर्मृधे ॥ ७.१७५.४५ ॥

于是爆发了一场形貌惨烈、令人恐惧的战斗;大王啊,那场人与罗刹之间的交战令人震惊。