Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 7.179

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

7.179.1

संदृश्य समरे भीमं रक्षसा ग्रस्तमन्तिकात् ।
वासुदेवोऽव्रवीद्राजन्घटोत्कचमिदं वचः ॥ ७.१७९.१ ॥

桑闪耶说:大王,Vāsudeva 在战场上见到附近被罗刹抓住的怖军,便对迦吐特迦说了这些话。

7.179.2

पश्य भीमं महाबाहो रक्षसा ग्रस्तमाहवे ।
पश्यतां सर्वसैन्यानां तव चैव महाद्युते ॥ ७.१७९.२ ॥

看那怖军在战场上被罗刹抓住,大臂者啊,当所有军队和你都在看着的时候,光辉者啊。

7.179.3

स कर्णं त्वं समुत्सृज्य राक्षसेन्द्रमलायुधम् ।
जहि क्षिप्रं महाबाहो पश्चात्कर्णं बधिष्यसि ॥ ७.१७९.३ ॥

放下迦尔纳,快速杀死那罗刹之王阿罗由陀,大臂者啊;之后你将杀死迦尔纳。

7.179.4

स वार्ष्णेयवचः श्रुत्वा कर्णमुत्सृज्य वीर्यवान् ।
युयुधे राक्षसेन्द्रेण बकभ्रात्रा घटोत्कचः ॥ ७.१७९.४ ॥

他听了 Vārṣṇeya(黑天)的话,离开迦尔纳,勇猛的迦吐特迦便与那罗刹之王——巴卡之兄——交战。

7.179.5

तयोः सुतुमुलं युद्धं बभूव निशि रक्षसोः ।
अलायुधस्य चैवोग्रं हेडिम्बेश्चापि भारत ॥ ७.१७९.५ ॥

夜间,那两个罗刹——阿罗由陀与希丁巴之子迦吐特迦——之间爆发了极其混乱而猛烈的战斗,婆罗多啊。

7.179.6

अलायुधस्य योधांश्च राक्षसान्भीमदर्शनान् ।
वेगेनापततः शूरान्प्रगृहीतशरासनान् ॥ ७.१७९.६ ॥

阿罗由陀的战士们和看去可怖的罗刹们,英雄们迅速扑来,手中握着已备好的弓。

7.179.7

आत्तायुधः सुसङ्क्रुद्धो युयुधानो महारथः ।
नकुलः सहदेवश्च चिच्छिदुर्निशितैः शरैः ॥ ७.१७९.७ ॥

手持武器、极其愤怒的大车将尤尤陀那,与那枸罗、萨诃提婆一起,以锐利的箭矢斩杀了敌人。

7.179.8

सर्वांश्च समरे राजन्किरीटी क्षत्रियर्षभान् ।
परिचिक्षेप बीभत्सुः सर्वतः प्रकिरञ्छरान् ॥ ७.१७९.८ ॥

大王!在战斗中,持冠者(阿周那)以四面射出的箭雨,包围了所有刹帝利中的雄牛。

7.179.9

कर्णश्च समरे राजन्व्यद्रावयत पार्थिवान् ।
धृष्टद्युम्नशिखण्ड्यादीन्पाञ्चालानां पहारथान् ॥ ७.१७९.९ ॥

大王!在战斗中,迦尔纳使诸王溃逃,也使般遮罗的大车武士如猛光、尸犍底等败走。

7.179.10

तान्वध्यमानान्दृष्ट्वाऽथ भीमो भीमपराक्रमः ।
अभ्ययात्त्वरितः कर्णं विशिखान्प्रकिरन्रणे ॥ ७.१७९.१० ॥

见他们被杀,威力可怖的怖军迅速冲向迦尔纳,在战场上倾泻箭雨。

7.179.11

ततस्तेऽप्याययुर्हत्वा राक्षसान्यत्र सूतजः ।
नकुलः सहदेवश्च सात्यकिश्च महारथः।
ते कर्णे योधयामासुः पाञ्चाला द्रोणमेव तु ॥ ७.१७९.११ ॥

随后,他们斩杀罗刹后,也来到了御者之子(迦尔纳)所在之处——那枸罗、萨诃提婆与大车将萨谛奇。般遮罗人与迦尔纳交战,也与德罗纳交战。

7.179.12

अलायुधस्तु सङ्क्रुद्धो घटोत्कचमरिन्दमम् ।
परिघेणातिकायेन ताडयामास मूर्धनि ॥ ७.१७९.१२ ॥

然而愤怒的阿罗尤陀,用一根巨大的铁棒击中了降敌者迦托特迦恰的头部。

7.179.13

स तु तेन प्रहारेण भैमसेनिर्महाबलः ।
ईषन्मूर्छितमात्मानमस्तम्भयत वीर्यवान् ॥ ७.१७९.१३ ॥

然而被那一击所打,力大的薄吉色那之子(迦托迦查)略感昏迷;这位勇士却稳住了自己。

7.179.14

ततो दीप्ताग्निसङ्काशां शतघण्टामलङ्कृताम् ।
चिक्षेप तस्मै समरे गदां काञ्चनभूषिताम् ॥ ७.१७९.१४ ॥

于是他在战斗中向他掷出一柄如燃烧之火的铁杵,上有百个铃铛,镶饰金饰。

7.179.15

सा हयांश्च रथं चास्य सारथिं च महास्वना ।
चूर्णयामास वेगेन विसृष्टा भीमकर्मणा ॥ ७.१७९.१५ ॥

那柄由行为可怖者以力掷出的铁杵,伴随巨响,将他的马匹、战车与御者全部碾碎。

7.179.16

स भग्नहयचक्राक्षाद्विशीर्णध्वजकूबरात् ।
उत्पपात रथात्तूर्णं मायामास्थाय राक्षसीम् ॥ ७.१७९.१६ ॥

从那辆马匹、车轮与车轴俱碎、旗帜与车辕皆毁的战车上,他迅速跃起,借助罗刹幻术。

7.179.17

स समास्थाय मायां तु ववर्ष रुधिरं बहु ।
विद्युद्विभ्राजितं चासीत्तुमुलाभ्राकुलं नभः ॥ ७.१७९.१७ ॥

他借助幻术降下大量血雨;天空被汹涌的乌云充满,闪电照耀。

7.179.18

ततो वज्रनिपाताश्च साशनिस्तनयित्नवः ।
महांश्चटचटाशब्दस्तत्रासीच्च महाहवे ॥ ७.१७९.१८ ॥

于是在那场大战中,响起了巨大的噼啪之声,伴随着雷击、闪电与隆隆雷鸣。

7.179.19

तां प्रेक्ष्य महतीं मायां राक्षसो राक्षसस्य च ।
ऊर्ध्वमुत्पत्य हैडिम्बिस्तां मायां माययाऽवधीत् ॥ ७.१७९.१९ ॥

希丁巴之子迦托特迦查看见罗刹的那巨大幻术,便跃向空中,以幻术摧毁了那幻术。

7.179.20

सोऽभिवीक्ष्य हतां मायां मायावी माययैव हि ।
अश्मवर्षं सुतुमुलं विससर्ज घटोत्कचे ॥ ७.१७९.२० ॥

那幻术师见自己的幻术被毁,便以幻术对迦托特迦降下极为猛烈的石雨。

7.179.21

अश्मवर्षं स तं घोरं शरवर्षेण वीर्यवान् ।
दिक्षु विध्वंसयामास तदद्भुतमिवाभवत् ॥ ७.१७९.२१ ॥

这位勇武者以箭雨将那可怕的石雨驱散于四方,那情景仿佛奇迹一般。

7.179.22

ततो नानाप्रहरणैरन्योन्यमभिवर्षताम् ।
आयसैः परिघैः शूलैर्गदामुसलमुद्गरैः ॥ ७.१७९.२२ ॥

此时,他们彼此以各种兵器相互攻击——铁棒、长矛、战锤、木杵与铁锤——,

7.179.23

पिनाकैः करवालैश्च तोमरप्रासकम्पनैः ।
नाराचैर्निशितैर्भल्लैः शरैश्चक्रैः परश्वथैः ॥ ७.१७९.२३ ॥

以弓与剑、投枪、长矛与颤动之枪,以锋利的铁箭、宽刃箭、箭矢、飞轮与斧头。

7.179.24

अयोगुडैर्भिण्डिपालैर्गोशीर्षोलूखलैरपि ।
उत्पाटितैर्महाशाखैर्विविधैर्जगतीरुहैः ॥ ७.१७९.२४ ॥

以铁球、投枪、牛头与臼形投射物,也以从大地拔起的各种大枝树木。

7.179.25

शमीपीलूकदम्बैश्च चम्पकैश्चैव भारत ।
इङ्गुदैर्बदरीभिश्च कोविदारैश्च पुष्पितैः ॥ ७.१७९.२५ ॥

婆罗多之子啊,以沙弥、毗卢和迦丹婆树,也以金色花树,以及因古陀、菩提枣和盛开的考维陀罗树。

7.179.26

पलाशैश्चारिमेदैश्च प्लुक्षन्यग्रोधपिप्पलैः ।
महद्भिः समरे तस्मिन्न्योन्यमभिजघ्नतुः ॥ ७.१७९.२६ ॥

以拔罗沙、阿里梅达,以及普拉克沙、榕树和毕波罗等巨树,在那场战斗中,他们彼此相击。

7.179.27

विपुलैः पर्वताग्रैश्च नानाधातुभिराचितैः ।
तेषां शब्दो महानासीद्वज्राणां भिद्यतामिव ॥ ७.१७९.२७ ॥

巨大的山峰和堆满各种矿石的岩石,使他们的声响震天,仿佛金刚杵被劈裂一般。

7.179.28

युद्धं समभवद्धोरं भैम्यलायुधयोर्नृप ।
हरीन्द्रयोर्यथा राजन्वालिसुग्रीवयोः पुरा ॥ ७.१७९.२८ ॥

大王啊,毗摩之子与阿罗尤陀之间爆发了可怕的战斗,正如往昔猴王婆林与须羯哩婆之间的战斗一样。

7.179.29

तौ युद्ध्वा विविधैर्घोरैरायुधैर्विशिखैस्तथा ।
उत्सृज्य च शितौ खङ्खागवन्योमभिपेततुः ॥ ७.१७९.२९ ॥

二者以各种可怕的兵器与箭矢交战,又投掷锋利的剑、巨石与树木,彼此猛扑过去。

7.179.30

तावन्योन्यमभिद्रुत्य केशेषु सुमहाबलौ ।
भुजाभ्यां पर्यगृह्णीतां महाकायौ महाबलौ ॥ ७.१७९.३० ॥

二人都极其强大、身躯庞大,彼此猛扑过去,抓住对方的头发,用双臂紧紧抱住。

7.179.31

तौ स्विन्नगात्रौ प्रस्वेदं सुस्रुवाते जनाधिप ।
रुधिरं च महाकायावतिवृष्टाविवाम्बुदौ ॥ ७.१७९.३१ ॥

人主啊,那两位身躯庞大的勇士,浑身汗水淋漓,流出汗与血,如同降下暴雨的两朵乌云。

7.179.32

अथाभिपत्य वेगेन समुद्धाम्य च राक्षसम् ।
बलेनाक्षिप्य हैडिम्बिश्चकर्तास्य शिरो महत् ॥ ७.१७९.३२ ॥

于是希迪巴之子疾速扑上,将罗刹高高举起,用力摔下,斩下了他那巨大的头颅。

7.179.33

सोऽपहृत्य शिरस्तस्य कुण्डलाभ्यां विभूपितम् ।
तदा सुतुमुलं नादं ननाद सुमहाबलः ॥ ७.१७९.३३ ॥

他拔下那颗戴着耳环的头颅,那位大力者随即发出震天的怒吼。

7.179.34

हतं दृष्ट्वा महाकायं बकज्ञातिमरिन्दमम् ।
पाञ्चालाः पाण्डवाश्चैव सिंहनादान्विनेदिरे ॥ ७.१७९.३४ ॥

见那身躯庞大、降伏敌人的巴克之族被杀,般遮罗人与般度之子齐发狮子般的吼声。

7.179.35

ततो भेरीसहस्राणि शङ्खानामयुतानि च ।
अवादयन्पाण्डवेया राक्षसे निहते युधि ॥ ७.१७९.३५ ॥

于是罗刹在战中被杀,般度之子敲响了千面战鼓,吹响了万支海螺。

7.179.36

अतीव सा निशा तेषां बभूव विजयावहा ।
विद्योतमाना विबभौ समन्ताद्दीपमालिनी ॥ ७.१७९.३६ ॥

那夜对他们而言极为吉利、带来胜利;四面悬挂着灯火之鬘,光辉闪耀,熠熠生辉。

7.179.37

अलायुधस्य तु शिरो भैमसेनिर्महाबलः ।
दुर्योधनस्य प्रमुखे चिक्षेप गतचेतसः ॥ ७.१७९.३७ ॥

然而,大力的毗摩森之子将失去知觉的阿罗由陀之首投到难敌面前。

7.179.38

अथ दुर्योधनो राजा दृष्ट्वा हतमलायुधम् ।
बभूव परमोद्विग्नः सह सैन्येन भारत ॥ ७.१७९.३८ ॥

于是国王难敌见阿罗由陀被杀,与军队一同大为震惊,婆罗多啊。

7.179.39

तेन ह्यस्य प्रतिज्ञातं भीमसेनमहं युधि ।
हन्तेति स्वयमागम्य स्मरता वैरमुत्तमम् ॥ ७.१७९.३९ ॥

他亲自上前,念及大仇,发誓要在战场上杀死毗摩森。

7.179.40

ध्रुवं स तेन हन्तव्य इत्यमन्यत पार्थिवः ।
जीवितं चिरकालं भ्रातॄणां चाप्यमन्यत ॥ ७.१७९.४० ॥

国王认为他(毗摩)必定会被那人所杀,并且也认为兄弟们的性命将长久存续。

7.179.41

स तं दृष्ट्वा विनिहतं भीमसेनात्मजेन वै ।
प्रतिज्ञां भीमसेनस्य पूर्णामेवाभ्यमन्यत ॥ ७.१७९.४१ ॥

见他被毗摩森之子所杀,他认为毗摩森的誓言确已实现。