Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 7.18

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

7.18.1

ततः संशप्तका राजन्समे देशे व्यवस्थिताः ।
व्यूढानीकै रथैरेव चन्द्रार्धाख्यैर्मुदा युताः ॥ ७.१८.१ ॥

于是,大王,三伏战士在平地上列阵,以名为半月的战车与军队,满怀喜悦地驻扎。

7.18.2

ते किरीटिनमायान्तं दृष्ट्वा हर्षेण मारिष ।
अतीव सम्प्रहृष्टास्ते ह्युपलक्ष्य धनञ्जयम्।
उदक्रोशन्नरव्याघ्राः शब्देन महता तदा ॥ ७.१८.२ ॥

尊者啊,见戴冠者(阿周那)来到,他们极为欢喜;认出了财征(阿周那),那些人中虎便大声呼喊起来。

7.18.3

स दिशः प्रदिशः सर्वा नभश्चैव समावृणोत् ।
आवृतत्वाच लोकस्य नासीत्तत्र प्रतिस्वनः ॥ ७.१८.३ ॥

那声音遍覆一切方位、副方位与天空;因世界被如此笼罩,那里便没有回响。

7.18.4

सोऽतीव संप्रहृष्टांस्तानुपलभ्य धनञ्जयः ।
किञ्चिदभ्युत्स्मयन्कृष्णमिदं वचनमब्रवीत् ॥ ७.१८.४ ॥

见他们极为欢喜,财征微微一笑,对黑天说了这番话。

7.18.5

देवकीपुत्र पश्येमान्मुमूर्षूनद्य संयुगे ।
भ्रातॄंस्त्रैगर्तकानेतान्रोदितव्ये प्रहर्षितान् ॥ ७.१८.५ ॥

德婆基之子啊,看这些兄弟——三伏族人,今日想要在战斗中死去;虽然他们本应被哭泣,却满心欢喜。

7.18.7

आससाद रणे व्यूढां त्रिगर्तानामनीकिनीम् ॥ ७.१८.७ ॥

他在战场上抵达了三伏族排列整齐的军队。

7.18.8

स देवदत्तमादाय शङ्खं हेमपरिष्कृतम् ।
दध्मौ वेगेन महता घोषेणापूरयन्दिशः ॥ ७.१८.८ ॥

他取出饰有黄金的海螺“提婆达多”,以巨大的力量吹响,用其雄壮的声音充满了所有方向。

7.18.9

तेन शब्देन वित्रस्ता संशप्तकवरूथिनी ।
विचेष्टाऽवस्थिता सङ्ख्ये ह्यश्मसारमयी यथा ॥ ७.१८.९ ॥

被那声音吓住的三坎乡军队,在战场上一动不动地站立,仿佛是坚硬的石头所造。

7.18.10

सा सेना भरतश्रेष्ठ निश्चेष्टा शुशुभे तदा ।
चित्रे पटे यथा न्यस्ता कुशलैः शिल्पिभिर्नरैः ॥ ७.१८.१० ॥

婆罗多族的最优秀者啊!那支军队当时一动不动地闪耀着,就像熟练的工匠画在布上的图画。

7.18.11

स्वनेन तेन सैन्यानां दिवमावृण्वता तदा ।
सस्वना पृथिवी सर्वा तथैव च महोदधिः।
स्वनेन तेन सैन्यानां कर्णास्तु बधिरीकृताः ॥ ७.१८.११ ॥

那声音遮蔽了天空,于是整个大地和大海也都回响起来;军队的那阵喧声使耳朵都变得聋了。

7.18.12

वाहास्तेषां विवृत्ताक्षाः स्तब्धकर्णशिरोधराः ।
विष्टब्धचरणा मूत्रं रुधिरं च प्रसुस्रुवुः।
ततो व्युपारमच्छब्दः प्रहृष्टास्ते ततोऽभवन् ॥ ७.१८.१२ ॥

他们的马睁大了眼睛,耳朵和脖子僵硬,腿脚麻木,流出了尿和血。随后声音停息,他们便欢喜起来。

7.18.13

उपलभ्य ततः संज्ञामवस्थाप्य च वाहिनीम् ।
युगपत्पाण्डुपुत्राय चिक्षिपुः कङ्कपत्रिणः ॥ ७.१८.१३ ॥

随后他们恢复了知觉,稳定了军队,一齐向般度之子射出了带有鹭羽的箭。

7.18.14

तानर्जुनः सहस्राणि दशपञ्चभिराशुगैः ।
अनागतानेव शरैश्चिच्छेदाशु पराक्रमी ॥ ७.१८.१४ ॥

勇猛的阿周那以十五支迅疾之箭,在敌箭未至之前便迅速将其数千支箭斩断。

7.18.15

ततोऽर्जुनं शितैर्बाणैर्दशभिर्दशभिः पुनः ।
प्राविध्यन्त ततः पार्थस्तानविध्यत्त्रिभिस्त्रिभिः ॥ ७.१८.१५ ॥

随后他们各以十支利箭再次射向阿周那。于是普利塔之子以三支箭射穿了他们每一人。

7.18.16

एकैकस्तु ततः पार्थं राजन्विव्याध पञ्चभिः ।
स च तान्प्रतिविव्याध द्वाभ्यां द्वाभ्यां पराक्रमी ॥ ७.१८.१६ ॥

随后,他们每人以五支箭射中普利塔之子,大王啊。而那位勇士则以两支箭还射他们每一人。

7.18.17

भूय एव तु सङ्क्रुद्धास्त्वर्जुनं सहकेशवम् ।
आपूरयञ्शरैस्तीक्ष्णैस्तटाकमिव वृष्टिभिः ॥ ७.१८.१७ ॥

他们更加愤怒,以利箭将阿周那与黑天一同覆盖,犹如池塘被雨水注满。

7.18.18

ततः शरसहस्राणि प्रापतन्नर्जुनं प्रति ।
भ्रमराणामिव व्राताः फुल्लं द्रुमगणं वने ॥ ७.१८.१८ ॥

于是数千支箭射向阿周那,犹如蜜蜂群扑向林中盛开的树林。

7.18.19

ततः सुबाहुस्त्रिंशद्भिरद्रिसारमयैः शरैः ।
अविध्यदिषुभिर्गाढं किरीटे सव्यसाचिनम् ॥ ७.१८.१९ ॥

于是苏巴忽以三十支用山岳精华制成的箭,深深射中了持左手弓的阿周那的头冠。

7.18.20

तैः किरीटि किरीटस्थैर्हेमपुङ्खैरजिह्मगैः ।
शातकुम्भमयापीडो बभौ यूप इवोच्छ्रितः ॥ ७.१८.२० ॥

那些金羽直飞的箭落在冠冕之上,使允许以冠饰的羯利底(阿周那)的精金头饰闪耀,如同高高竖起的祭柱。

7.18.21

हस्तावापं सुबाहोस्तु भल्लेन युधि पाण्डवः ।
चिच्छेद तं चैव पुनः शरवर्षैरवाकिरत् ॥ ७.१८.२१ ॥

在战斗中,般度之子以阔头箭斩断了苏巴忽的手护(弓的护臂),又以箭雨将他覆盖。

7.18.22

ततः सुशर्मा दशभिः सुरथस्तु किरीटिनम् ।
सुधर्मा सुधनुश्चैव सुबाहुश्च समार्पयत् ॥ ७.१८.२२ ॥

于是苏尚尔曼以十箭,苏罗陀攻击戴冠者,苏达尔曼、苏达努与苏巴忽也一同向他发起进攻。

7.18.23

तांस्तु सर्वान्पृथग्बाणैर्वानरप्रवरध्वजः ।
प्रत्यविध्यद्ध्वजांश्चैषां भल्लैश्चिच्छेद सायकान् ॥ ७.१८.२३ ॥

而旗上有猴中最上者的那位,以各自不同的箭回击了他们所有人,并以阔头箭斩断了他们的旗帜与箭。

7.18.24

सुधन्वनो धनुश्छित्त्वा हयांश्चास्यावधीच्छरैः ।
अथास्य सशिरस्त्राणं शिरः कायादपातयत् ॥ ७.१८.२४ ॥

斩断苏达凡的弓,以箭杀死他的马,然后将他连同头盔的头颅从身上砍落。

7.18.25

जहार पार्थः सैन्येषु सहस्रे द्वे च योधिनाम् ।
तस्मिन्निपतिते वीरे त्रस्तास्तस्य पदानुगाः ॥ ७.१८.२५ ॥

普利塔之子在两军之中夺去了两千名战士的性命;那位英雄倒下后,他的随从们惊恐万分。

7.18.26

भूयिष्ठं प्रतिरुद्धा ये हतैर्योधैर्यशस्विनः ।
व्यद्रवन्त भयाद्भीता यत्र दौर्योधनं बलम् ॥ ७.१८.२६ ॥

那些大多被倒下的战士所阻挡的著名勇士,因恐惧而逃往难敌的军队所在之处。

7.18.27

ततो जघानं सङ्क्रुद्धो वासविस्तां महाचमूम् ।
शरजालैरविच्छिन्नैस्तमः सूर्य इवांशुभिः ॥ ७.१८.२७ ॥

于是愤怒的婆娑之子(阿周那)以连绵不断的箭网击杀那支大军,犹如太阳以不间断的光芒驱散黑暗。

7.18.28

ततो भग्ने बले तस्मिन्विप्रलीने समन्ततः ।
सव्यसाचिनि सङ्क्रुद्वे त्रैगर्तान्भयमाविशत् ॥ ७.१८.२८ ॥

于是,当那支军队被击溃、四散奔逃,而善用左右手的阿周那正在愤怒之时,恐惧便侵入了三界国人(三乡人)之心。

7.18.29

ते वध्यमानाः पार्थेन शरैः सन्नतपर्वभिः ।
अमुह्यंस्तत्रतत्रैव त्रस्ता मृगगणा इव ॥ ७.१८.२९ ॥

被普利塔之子(阿周那)以弯曲箭杆的利箭射中,他们惊慌失措,四处迷乱,如受惊的鹿群。

7.18.30

ततस्त्रिगर्तराट् क्रुद्धस्तानुवाच महारथान् ।
अलं द्रुतेन वः शूरा न भयं कर्तुमर्हथ ॥ ७.१८.३० ॥

于是三界国王愤怒地对那些大车勇士说:“够了,你们不要逃了!勇士们,你们不应当恐惧。”

7.18.31

शप्त्वाऽथ शपथान्घोरान्सर्वसैन्यस्य पश्यतः ।
गत्वा दौर्योधनं सैन्यं किं वै वक्ष्यथ मुख्यशः। ॥ ७.१८.३१ ॥

在全军注视之下发下可怕的誓言之后,你们回到难敌的军队中,主要将说些什么呢?

7.18.32

नावहास्याः कथं लोके कर्मणाऽनेन संयुगे ।
भवेम सहिताः सर्वे निवर्तध्वं यथाबलम् ॥ ७.१८.३२ ॥

在这场战斗中做出这样的事,我们怎能在世上不成为众人嘲笑的对象?你们大家一起,依各自的力量返回吧。

7.18.33

एवमुक्तास्तु ते राजन्नुदक्रोशन्मुहुर्मुहुः ।
शङ्खांश्च दध्मिरे वीरा हर्षयन्तः परस्परम् ॥ ७.१८.३३ ॥

大王,听他这样说,他们一再高声呼喊,勇士们吹响海螺,彼此激励。

7.18.34

ततस्ते सन्न्यवर्तन्तं संशप्तकगणाः पुनः ।
नारायणाश्च गोपाला मृत्युं कृत्वाऽनिवर्तनम् ॥ ७.१८.३४ ॥

于是,三摩舍波多迦的各队、那罗延军和牧人们再次返身,以死亡作为不退的决心。