摩诃婆罗多 · 章 7.180
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
7.180.1
निहत्यालायुधं रक्षः प्रहृष्टात्मा घटोत्कचः ।
ननाद विविधान्नादान्वाहिन्या प्रमुखे तव ॥ ७.१८०.१ ॥
罗刹阿罗尤陀被杀后,心中欢喜的迦托迦查在你的军队前发出各种吼声。
7.180.2
तस्य तं तुमुलं शब्दं श्रुत्वा हृदयकम्पनम् ।
तावकानां महाराज भयमासीत्सुदारुणम् ॥ ७.१८०.२ ॥
大王啊,听到那令心颤抖的喧嚣之声,你的部众中生起了极为可怖的恐惧。
7.180.3
अलायुधविषक्तं तु भैमसेनिं महाबलम् ।
दृष्ट्वा कर्णो महाबाहुः पाञ्चालान्समुपाद्रवत् ॥ ७.१८०.३ ॥
然而,见到与阿罗尤陀缠斗的大力的毗摩之子,大臂的迦尔纳冲向般遮罗人。
7.180.4
दशभिर्दशभिर्बाणैर्धृष्टद्युम्नशिखण्डिनौ ।
दृढैः पूर्णायतोत्सृष्टैर्बिभेद नतपर्वभिः ॥ ७.१८०.४ ॥
迦尔纳以各十支坚固的箭,自满弓射出、节端弯曲的箭,刺穿了猛光与始建丁。
7.180.5
ततः परमनाराचैर्युधामन्यूत्तमौजसौ ।
सात्यकिं च रथोदारं कम्पयमास मार्गणैः ॥ ७.१८०.५ ॥
随后,迦尔纳以上等的铁箭,使优陀摩尼、乌塔摩陀阇以及车上的勇士萨谛奇颤抖。
7.180.6
तेषामप्यस्यतां सङ्ख्ये सर्वेषां सव्यदक्षिणम् ।
मण्डलान्येव चापानि व्यदृश्यन्त जनाधिप ॥ ७.१८०.६ ॥
人主啊,在战斗中射箭的他们所有人,左右两张弓看起来都成了圆圈。
7.180.7
तेषां ज्यातलनिर्घोषो रथनेमिस्वनश्च ह ।
मेघानामिव घर्मान्ते बभूव तुमुलो निशि ॥ ७.१८०.७ ॥
弓弦的响声与战车轮的轰鸣,在夜里如夏末的云团般化为喧嚣。
7.180.8
ज्यानेमिघोषस्तनयित्नुमान्वै ।
धनुस्तटिन्मण्डलकेतुशृङ्गः।
शरौघवर्षाकुलवृष्टिमांश्च ।
सङ्क्राममेघः स बभूव राजन् ॥ ७.१८०.८ ॥
弓弦与车轮之声是它的雷鸣,弓是它的闪电,环形的旌旗是它的山峰;充满箭雨倾泻的那片战云,就这样形成了,大王。
7.180.9
तदद्भुतं शैल इवाप्रकम्पो ।
वर्षं महाशैलसमानसारः।
विध्वंसयामास रणे नरेनद्र ।
वैकर्तनः शत्रुगणावमर्दी ॥ ७.१८०.९ ॥
那真是奇异:他如山岳般岿然不动,力量与大山相当。维卡尔塔纳(迦尔纳)摧毁敌军的众多部队,在战场上击碎了那场箭雨,人王啊。
7.180.10
ततोऽतुलैर्वज्रनिपातकल्पैः ।
शितैः शरैः काञ्चनचित्रपुङ्खैः।
शत्रून्व्यपोहत्समरे महात्मा ।
वैकर्तनः पुत्रहिते रतस्ते ॥ ७.१८०.१० ॥
于是,心怀善意为你的儿子们效力的大人物维卡尔塔纳(迦尔纳),在战场上以无与伦比、锋利如雷霆击落的箭矢,镶着金色斑纹羽翎,驱退了敌人。
7.180.11
सञ्छिन्नभिन्नध्वजिनश्च केचि… ।
त्केचिच्छरैरर्दितभिन्नदेहाः।
केचिद्विसूता विहयाश्च केचि… ।
द्वैकर्तनेनाशु कृता बभूवुः ॥ ७.१८०.११ ॥
其中有人的旌旗与战车被斩碎;有人被箭矢折磨,身体破裂;有人失去了御者与马匹;还有一些人……很快因维卡尔塔纳而落得如此。
7.180.12
अविन्दमानास्त्वथ शर्म सङ्ख्ये ।
यौधिष्ठिरं ते बलमभ्यपद्यन्।
तान्प्रेक्ष्य भग्नान्विमुखीकृतांश्च ।
घटोत्कचो रोषमतीव चक्रे ॥ ७.१८०.१२ ॥
他们在战场上找不到庇护,便扑向坚战的军队。见他们溃散、转身逃窜,迦托迦查怒不可遏。
7.180.13
आस्थाय तं काञ्चनरत्नचित्रं ।
रथोत्तमं सिंहवत्सन्ननाद।
वैकर्तनं कर्णमुपेत्य चापि ।
विव्याध वज्रप्रतिमैः पृषत्कैः ॥ ७.१८०.१३ ॥
他登上那辆镶嵌金饰与宝石的良车,像狮子一样咆哮。他走近毗迦尔达那之子迦尔纳,用如雷霆般的箭射穿了他。
7.180.14
तौ कर्णिनाराचशिलीमुखैश्च ।
नालीकदण्डासनवत्सदन्तैः।
वराहकर्णैः सविपाठशृङ्गै-
क्षुरप्रवर्षैश्च विनेदतुः खम् ॥ ७.१८०.१४ ॥
二人以箭雨充满天空:有迦尔尼箭、那罗遮箭和尸利穆箭,有那利迦箭、棍箭、座箭和牛犊齿箭,有野猪耳箭,有毗波陀箭和角箭,还有剃刀箭。
7.180.15
तद्बाणधारावृतमन्तरिक्षं ।
तिर्यग्गताभिः समरे रराज।
सुवर्णपुङ्खज्वलितप्रभाभि… ।
र्विचित्रपुष्पाभिरिव प्रजाभिः ॥ ७.१८०.१५ ॥
被那箭雨遮蔽的天空,在战场上因横飞的金羽箭放出炽烈光辉而闪耀,仿佛布满了五彩斑斓的花朵。
7.180.16
समाहितावप्रतिमप्रभावा… ।
वन्योन्यमाजघ्नतुरुत्तमास्त्रैः।
तयोर्हि वीरोत्तमयोर्न कश्चि… ।
द्ददर्श तस्मिन्समरे विशेषम् ॥ ७.१८०.१६ ॥
二人力量无与伦比,心志专一,以上乘兵器互相攻击。在那场战斗中,无人能看出这两位英雄之间有任何高下之别。
7.180.17
अतीव तच्चित्रमतुल्यरूपं ।
बभूव युद्धं रविभीमसून्वोः।
समाकुलं शस्त्रनिपातघोरं ।
दिवीव राह्वंशुमतोः प्रमत्तम् ॥ ७.१८०.१७ ॥
日神之子与毗摩之子的那场战斗变得极为奇异,形貌无可比拟;兵器纷纷坠落,混乱而可怖,仿佛罗睺与太阳在天空中狂乱相撞。
7.180.18
घटोत्कचं यदा कर्णो न विशेषयते नृप ।
ततः प्रादुश्चकारोग्रमत्त्रमस्त्रविदां वरः ॥ ७.१८०.१८ ॥
大王,当迦尔纳无法胜过加托特迦恰时,精通兵器者中的最优者便施放出一件可怖的兵器。
7.180.19
तेनास्त्रेणावधीत्तस्य रथं सहयसारथिम् ।
विरथश्चापि हैडिम्बिः क्षिप्रमन्तरधीयत ॥ ७.१८०.१९ ॥
他以此兵器将其战车连同马匹与御者一并摧毁;希迪安跋之子失去战车,随即迅速隐没。
7.180.20
तस्मिन्नन्तर्हिते तूर्णं कुटयोधिनि राक्षसे ।
मामकैः प्रतिपन्नं यत्तन्ममाचक्ष्व सञ्जय ॥ ७.१८०.२० ॥
当那位诡战的罗刹迅速隐没之后,请告诉我,桑迦耶,我方的人做了什么。
7.180.21
अन्तर्हितं राक्षसेन्द्रं विदित्वा ।
सम्प्राक्रोशन्कुरवः सर्व एव।
कथं नायं राक्षसः कूटयोधी ।
हन्यात्कर्णं समरेऽदृश्यमानः ॥ ७.१८०.२१ ॥
诸俱卢得知罗刹王隐没,皆大声呼喊:“这诡诈的罗刹战士为何不在暗中于战场杀死迦尔纳?”
7.180.22
ततः कर्णो लघुचित्रास्त्रयोधी ।
सर्वा दिशः प्रावृणोद्बाणजालैः।
न वै किञ्चित्प्रापतत्तत्र भूतं ।
तमोभूते सायकैरन्तरिक्षे ॥ ७.१८०.२२ ॥
于是迦尔纳,这位迅捷、精通奇妙兵器的战士,以箭网覆盖了所有方位;天空被箭矢遮暗,那里没有任何生灵坠落。
7.180.23
नैवाददानो न च सन्दधानो ।
न चेषुधीस्पृशमानः कारग्रैः।
अदृश्यद्वै लाघवात्सूतपुत्रः ।
सर्वं बाणैश्छादयानोऽन्तरिक्षम् ॥ ७.१८०.२३ ॥
他既不取箭,也不搭箭,不触箭袋,只用指尖,御者之子凭借敏捷之技显现,以箭遮蔽整个天空。
7.180.24
ततो मायां दारुणामन्तरिक्षे ।
घोरां भीमां विहितां राक्षसेन।
अपश्याम लोहिताभ्रप्रकाशां ।
देदीप्यन्तीमग्निशिखामिवोग्राम् ॥ ७.१८०.२४ ॥
于是我们在天空中看见一个可怖、骇人、由罗刹所造的幻术,它闪耀如赤云,燃烧如猛烈的火焰。
7.180.25
ततस्तस्यां विद्युतः प्रादुरास… ।
न्नुल्काश्चापि ज्वलिताः कौरवेन्द्र।
घोपश्चास्यः प्रादुरासीत्सुघोरः ।
सहस्रशो नदतां दुन्दुभीनाम् ॥ ७.१८०.२५ ॥
于是其中出现了闪电和燃烧的流星,考茹瓦之主啊;从中升起了极为可怖的吼声,仿佛千面战鼓齐鸣。
7.180.26
ततः शराः प्रापतन्रुक्मपुङ्खाः ।
शक्त्यृष्टिप्रासमुसलान्यायुधानि।
परश्वथास्तैलधौताश्च खङ्गाः ।
प्रदीप्ताग्रास्तोमराः पट्टसाश्च ॥ ७.१८०.२६ ॥
于是金羽的箭纷纷落下,还有矛、枪、标枪、铁杵等兵器;战斧、以油洗净的剑、顶端燃烧的投枪,以及弯刀。
7.180.27
मयूखिनः परिघा लोहबद्धा ।
गदाश्चित्राः शितधाराश्च शूलाः।
गुर्व्यो गदा हेमपट्टावनद्धाः ।
शतघ्न्यश्च प्रादुरासन्समन्तात् ॥ ७.१८०.२७ ॥
闪耀的铁杵,以铁箍紧扣;奇异的铁锤与锋利的长矛;以金带缠绕的沉重铁锤;连百杀器也从四面八方出现。
7.180.28
महाशिलाश्चापतंस्तत्रतत्र ।
सहस्रशः साशनयश्च वज्राः।
चक्राणि चानेकशतक्षुराणि ।
प्रादुर्बभूवुर्ज्वलनप्रभाणि ॥ ७.१८०.२८ ॥
巨石到处坠落,成千上万的雷电与霹雳,以及有数百锋刃的飞轮出现了,燃烧如火。
7.180.29
तां शक्तिपाषाणपरश्वथानां ।
प्रासासिवज्राशनिमुद्गराणाम्।
वृष्टिं विशालां ज्वलितां पतन्तीं ।
कर्णः शरौघैर्न शशाक हन्तुम् ॥ ७.१८०.२९ ॥
那如暴雨般倾泻而下的巨大燃烧之雨——矛、石、斧、枪、剑、霹雳、雷电与棍棒——迦尔纳无法以箭雨将其阻挡。
7.180.30
शराहतानां पततां हयानां ।
वज्राहतानां च तथा गजानाम्।
शिलाहतानां च महारथानां ।
महान्निनादः पततां बभूव ॥ ७.१८०.३० ॥
中箭倒下的马匹、被雷electrum击中的象群、被巨石击中的大战车武士,在坠落时发出巨大的轰鸣。
7.180.31
सुभीमनानाविधशस्त्रपातै… ।
र्घटोत्कचेनाभिहतं समन्तात्।
दौर्योधनं वै बलमार्तरूप… ।
मावर्तमानं ददृशे भ्रमत्तत् ॥ ७.१८०.३१ ॥
杜尔约达那的军队四面被迦托特迦恰以种种可怖兵器的猛烈打击,只见他们痛苦地旋转、踉跄。
7.180.32
हाहाकृतं सम्परिवर्तमानं ।
संलीयमानं च विषण्णरूपम्।
ते त्वार्यभावात्पुरुषप्रवीराः ।
पराङ्मुखा नो बभूवुस्तदानीम् ॥ ७.१८०.३२ ॥
哀号着“哎呀”,旋转奔逃、藏匿,神色颓丧,那些勇士们因为高贵的气节,当时便背对着我们。
7.180.33
तां राक्षसीं भीमरूपां सुघोरां ।
वृष्टिं महाशस्त्रमयीं पतन्तीम्।
दृष्ट्वा बलौघांश्च निपात्यमाना… ।
न्महद्भयं तव पुत्रान्विवेश ॥ ७.१८०.३३ ॥
见那可怖形状、极为恐怖的罗刹之雨,满是大型武器,倾泻而下,见军队的大群被击倒……你的儿子们心中生起了大恐惧。
7.180.34
शिवाश्च वैश्वानरदीप्तजिह्वाः ।
सुभीमनादाः शतशो नदन्तीः।
रक्षोगणान्नर्दतश्चापि वीक्ष्य ।
नरेन्द्र योधा व्यथिता बभूवुः ॥ ७.१८०.३४ ॥
人主啊,见那些舌头如火焰燃烧、成百上千发出可怖嚎叫的豺狼,以及咆哮的罗刹群,战士们都痛苦不堪。
7.180.35
ते दीप्तजिह्वानलतीक्ष्णदंष्ट्रा ।
विभीषणाः शैलनिकाशकायाः।
नभोगताः शक्तिविषक्तहस्ता ।
मेघा व्यमुञ्चन्निव वृष्टिमुग्राम् ॥ ७.१८०.३५ ॥
他们舌头如燃烧之火,獠牙锋利,可怖如山,在空中飞行,手中紧握长矛,犹如乌云倾泻猛烈的暴雨。
7.180.36
तैराहतास्ते शरशक्तिशूलै… ।
र्गदाभिरुग्रैः परिघैश्च दीप्तैः।
वज्रैः पिनाकैरशनिप्रहारैः ।
शतघ्निचक्रैर्भथिताश्च पेतुः ॥ ७.१८०.३६ ॥
他们被箭矢、长矛和戟所击……被猛烈的棍棒、燃烧的铁闩、金刚杵、弓、雷击、百杀器和飞轮碾压,纷纷倒下。
7.180.37
शूला भुशुण्ड्योऽश्मगुडाः शतघ्न्यः ।
स्थूलाश्च कार्ष्णायसपट्टनद्वाः।
तेऽवाकिरंस्तव पुत्रस्य सैन्यं ।
ततो रौद्रं कश्मलं प्रादुरासीत् ॥ ७.१८०.३७ ॥
长矛、婆舒衍底、石球、百杀器,以及以黑铁带捆扎的沉重兵器——这一切都倾泻在你儿子的军队上。于是可怕的混乱随之升起。
7.180.38
विकीर्णान्त्रा विहतैरुत्तमाङ्गैः ।
सम्भग्नाङ्गः शिश्यिरे तत्र शूराः।
छिन्ना हयाः कुञ्जराश्चापि भग्ना ।
न मुच्यन्ते याचमानाः सुभीताः ॥ ७.१८०.३८ ॥
肠子散落,头颅被斩,肢体折断,英雄们横卧在那里。被斩的马匹和大象也碎裂倒地。即使是极度恐惧而哀求的人,也未被饶过。
7.180.39
एवं महच्छस्त्रवर्षं सृजन्त… ।
स्ते यातुधाना भुवि घोररूपाः।
मायाः सृष्टास्तत्र घटोत्कचेन ।
नामुञ्चन्वै याचमानं न भीतम् ॥ ७.१८०.३९ ॥
如此,投下大量兵器的可怖形貌的罗刹立于大地上。迦托迦查在那里造出了幻术;然而他们连哀求的人、无所畏惧的人也不放过。
7.180.40
तस्मिन्घोरे कुरुवीरावमर्दे ।
कालोत्सृष्टे क्षत्रियाणामभावे।
ते वै भग्नाः सहसा व्यद्रवन्त ।
प्राक्रोशन्तः कौरवाः सर्व एव ॥ ७.१८०.४० ॥
在那可怕的库鲁英雄大屠杀中,当时间所遣的刹帝利已不复存在时,他们溃散,突然向四面逃去。所有的俱卢人都边呼喊边逃走。
7.180.41
पलायध्वं कुरवो नैतदस्ति ।
सेन्द्रा देवा घ्नन्ति नः पाण्डवार्थे।
तथा तेषां मज्जतां भारतानां ।
तस्मिन्द्वीपः सूतपुत्रो बभूव ॥ ७.१८०.४१ ॥
诸俱卢啊,快逃!并非如此:因陀罗率诸神为般度之子而击杀我们。对于沉没的婆罗多人,那里的御者之子成了岛屿。
7.180.42
तस्मिन्सङ्क्रन्दे तुमुले वर्तमाने ।
सैन्ये भग्ने लीयमाने कुरूणाम्।
अन्नीकानां प्रविभागे प्रकाशे ।
न ज्ञायन्ते कुरवो नेतरे च ॥ ७.१८०.४२ ॥
在那喧嚣的混乱中,俱卢大军溃散隐匿,各部在旷野中四散,俱卢人与其他人都已无法辨认。
7.180.43
निर्मर्यादे विद्रवे घोररूपे ।
सर्वा दिशः प्रेक्षमाणाः स्म शून्याः।
तां शस्त्रवृष्टिमुरसा गाहमानं ।
कर्णं स्मैकं तत्र राजन्नपश्यन् ॥ ७.१८०.४३ ॥
在那无边无际、可怖的溃逃中,四方皆空,大王啊,他们看见卡尔纳独自一人,以胸膛冲入那箭雨之中。
7.180.44
ततो बाणैरावृणोदन्तरिक्षं ।
दिव्यां मायां योधयन्राक्षसस्य।
हीमान्कुर्वन्दुष्करं चार्यकर्म ।
नैवामुह्यत्संयुगे सूतपुत्रः ॥ ७.१८०.४४ ॥
于是他以箭遮蔽天空,与罗刹的神圣幻术搏斗。这位御者之子虽然知耻、做着艰难而高尚的事,在战斗中却未曾迷惑。
7.180.45
ततो भीताः समुदैक्षन्त कर्णं ।
राजन्सर्वे सैन्धवा बाह्लिकाश्च।
असम्मोहं पूजयन्तोऽस्य सङ्ख्ये ।
सम्पश्यन्तो विजयं राक्षसस्य ॥ ७.१८०.४५ ॥
那时,惊恐的信度人与巴赫利卡人,哦国王,都望向迦尔纳,敬重他在战斗中的不动摇,并看着罗刹的胜利。
7.180.46
तेनोत्सृष्टा चक्रयुक्ता शतघ्नी ।
समं सर्वांश्चतुरोऽश्वाञ्जघान।
ते जानुभिर्जगतीमन्वपद्य… ।
न्गतासवो निर्दशनाक्षिजिह्वाः ॥ ७.१८०.४६ ॥
他投出的带轮百杀器一同击毙了四匹马。它们跪倒在地……气绝身亡,牙齿、眼睛和舌头都凸露在外。
7.180.47
ततो हताश्वादवरुह्य याना… ।
दन्तर्मनाः कुरुषु प्राद्रुवत्सु।
दिव्ये चास्त्रे मायया वध्यमाने ।
नैवामुह्यच्चिन्तयन्त्प्राप्तकालम् ॥ ७.१८०.४७ ॥
于是,马匹被杀后他下了战车……在俱卢人逃散时心怀忧伤,尽管被神兵与幻术击中,他却丝毫不迷惑,思量着恰当的时机。
7.180.48
ततोऽब्रुवन्कुरवः सर्व एव ।
कर्णं दृष्ट्वा घोररूपां च मायाम्।
शक्त्या रक्षो जहि कर्णाद्य तूर्णं ।
नश्यन्त्येते कुरवो धार्तराष्ट्राः ॥ ७.१८०.४८ ॥
于是众俱卢人见到那恐怖形状的幻术,对迦尔纳说:“迦尔纳啊,现在快用长矛杀死那罗刹;这些俱卢人,即持国之子,正在灭亡。”
7.180.49
करिष्यतः किञ्च नो भीमपार्थौ ।
तपन्तमेनं जहि पापं निशीथे।
यो नः सङ्ग्रामाद्धोररूपाद्विमुच्ये… ।
त्स नः पार्थान्सबालान्योधयेत ॥ ७.१८०.४९ ॥
比摩与帕尔塔会对我们做什么?午夜时分杀死这个燃烧的恶人吧。那形貌可怖、能使我们脱离此战之人……会迫使帕尔塔们连同他们的孩子一同作战。
7.180.50
तस्मादेनं राक्षसं घोररूपं ।
शक्त्या जहि त्वं दत्तया वासवेन।
मा कौरवाः सर्व एवेन्द्रकल्पा ।
रात्रियुद्धे कर्ण नेशुः सयोधाः ॥ ७.१८०.५० ॥
因此,你要用因陀罗所赐的长矛杀死这形貌可怖的罗刹。迦尔纳啊,愿与因陀罗相等的俱卢们不要连同他们的战士在夜战中全部覆灭。
7.180.51
स वध्यमानो रक्षसा वै निशीथे ।
दृष्ट्वा राजंस्त्रास्यमानं बलं च।
महच्छ्रुत्वा निनदं कौरवाणां ।
मतिं दध्रे शक्तिमोक्षाय कर्णः ॥ ७.१८०.५१ ॥
大王啊,午夜时分被罗刹折磨,看到大军恐惧,听到俱卢们巨大的哭喊,迦尔纳便决心掷出长矛。
7.180.52
स वै क्रुद्धः सिंह इवात्यमर्षी ।
नामर्षयन्प्रतिघातं रणेऽसौ।
शक्तिं श्रेष्ठां वैजयन्तीमसह्यां ।
समाददे तस्य वधं चिकीर्षन् ॥ ७.१८०.५२ ॥
他如发怒的狮子,极为不能容忍,不能忍受战场上的阻挡,想要杀死它,于是拿起了最好的、无法承受的毗阇延提长矛。
7.180.53
याऽसौ राजन्निहिता वर्षपूगा… ।
न्वधायाजौ सत्कृता फल्गुनस्य।
यां वै प्रादात्सूत पुत्राय शक्रः ।
शक्तिं श्रेष्ठां कुण्डलाभ्यां निमाय ॥ ७.१८०.५३ ॥
啊,国王,那支长年保存、在战斗中为杀害法尔古那(阿周那)而被珍视的殊胜长矛,是因护耳宝环而由因陀罗赠予御者之子的。
7.180.54
तां वै शक्तिं लेलिहानां प्रदीप्तां ।
पाशैर्युक्तामन्तकस्येव जिह्वाम्।
मृत्योः स्वसारं ज्वलितामिवोल्कां ।
वैकर्तनः प्राहिणोद्राक्षसाय ॥ ७.१८०.५४ ॥
那支如舌头般跳动、燃烧、系着死神绳索的长矛——如阎摩之舌,如死亡之妹,如燃烧的流星——毗迦尔探那(迦尔纳)向罗刹投去。
7.180.55
तामुत्तमां परकायावहन्त्रीं ।
दृष्ट्वा शक्तिं बाहुसंस्थां ज्वलन्तीम्।
भीतं रक्षो विप्रदुद्राव राजन् ।
कृत्वाऽऽत्मानं विन्ध्यतुल्यप्रमाणम् ॥ ७.१८०.५५ ॥
啊,国王,罗刹见那殊胜、燃烧、能摧毁敌身的长矛握在臂中,便惊恐不已,将自身化为如同毗陀耶山般巨大,仓皇逃走。
7.180.56
दृष्ट्वा शक्तिं कर्णबाह्वन्तरस्थां ।
नेदुर्भूतान्यन्तरिक्षे नरेन्द्र।
ववुर्वातास्तुमुलाश्चापि राज… ।
न्सनिर्घाता चाशनिर्गां जगाम ॥ ७.१८०.५६ ॥
啊,人王,见那长矛置于迦尔纳双臂之间,天空中众生齐声呼喊,狂暴的风刮起,国王……雷霆万钧,霹雳落于大地。
7.180.57
सा तां मायां भस्म कृत्वा ज्वलन्ती ।
भित्त्वा गाढं हृदयं राक्षसस्य।
ऊर्ध्वं ययौ दीप्यमाना निशायां ।
नक्षत्राणामन्तराण्याविवेश ॥ ७.१८०.५७ ॥
她将那幻术化为灰烬,燃烧着深深刺穿罗刹的心脏,随后在夜空中闪耀着向上飞去,进入群星之间。
7.180.58
स निर्भिन्नो विविधैरस्त्रपूगै… ।
र्दिव्यैर्नागैर्मानुषै राक्षसैश्च।
नदन्नादान्विविधान्भैरवांश्च ।
प्राणानिष्टांस्त्याजितः शक्रशक्त्या ॥ ७.१८०.५८ ॥
他被各种神器、蛇族、人类与罗刹的兵器群所刺穿,发出种种可怖的吼声,在因陀罗之矛的力量下被迫舍弃了心爱的生命。
7.180.59
इदं चान्यच्चित्रमाश्चर्यरूपं ।
चकारासौ कर्म शत्रुक्षयाय।
तस्मिन्काले शक्तिनिर्भिन्नमर्मा ।
बभौ राजञ्शैलमेघप्रकाशः ॥ ७.१८०.५९ ॥
他又为消灭敌人做了另一件奇妙非凡的事。那时,他的要害被长矛刺穿,大王啊,他如山间云朵般闪耀。
7.180.60
ततोऽन्तरिक्षादपतद्गतासुः ।
स राक्षसेन्द्रो भुवि भिन्नदेहः।
अवाक्शिराः स्तब्धगात्रो विजिह्वो ।
घटोत्कचो महदास्थाय रूपम् ॥ ७.१८०.६० ॥
于是,罗刹之王迦托迦恰从空中坠落大地,已无生气,身体破碎,头朝下,四肢僵直,舌头伸出,仍保持着巨大的形体。
7.180.61
स तद्रूपं भैरवं भीमकर्मा ।
भीमं कृत्वा भैमसेनिः पपात।
हतोऽप्येवं तव सैन्यैकदेश… ।
मपोथयत्स्वेन देहेन राजन् ॥ ७.१८०.६१ ॥
毗摩之子、行事可怖的罗刹,化作那可怖、骇人的形体倒下。虽如此殒命,大王啊,他仍以自己的身躯碾压了您军队的一部分。
7.180.62
पतद्रक्षः स्वेन कायेन तूर्ण… ।
मतिप्रमाणेन विवर्धता च।
प्रियं कुर्वन्पाण्डवानां गतासु… ।
रक्षौहिणीं तव तूर्णं जघान ॥ ७.१८०.६२ ॥
那坠落的罗刹以自身之躯迅速……长得极其巨大,使般度之子欢喜,迅速杀死了你的罗刹军一部。
7.180.63
ततो मिश्राः प्राणदन्सिंहनादै… ।
र्भेर्यः शङ्खा मुरजाश्चानकाश्च।
दग्धां मायां निहतं राक्षसं च ।
दृष्ट्वा हृष्ट्वाः प्राणदन्कौरवेयाः ॥ ७.१८०.६३ ॥
于是,与狮吼声混杂……战鼓、海螺、穆拉贾鼓和阿那伽鼓齐鸣;见幻术被焚、罗刹被杀,欢喜的俱卢人咆哮起来。
7.180.64
ततः कर्णः कुरुभिः पूज्यमानो ।
यथा शक्रो वृत्रवधे मरुद्भिः।
अन्वारूढस्तव पुत्रस्य यानं ।
हृष्टश्चापि प्राविशत्तत्स्वसैन्यम् ॥ ७.१८०.६४ ॥
于是,受俱卢人尊敬的迦尔纳,如同在杀死弗栗多时被摩录多围绕的因陀罗,登上你儿子的战车,欢喜地进入了自己的军队。