摩诃婆罗多 · 章 7.182
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
7.182.1
कथमस्मद्धितार्थं ते कैश्च योगैर्जनार्दन ।
जरासन्धप्रभृतयो घातिताः पृथिवीश्वराः ॥ ७.१८२.१ ॥
杰纳尔达那啊,你以何种方法、为了我们的利益,使耆罗桑陀及其他大地之王被杀?
7.182.2
जरासन्धश्चेदिराजो नैषादिश्च महाबलः ।
यदि स्युर्न हताः पूर्वमिदानीं स्युर्भयङ्कराः ॥ ७.१८२.२ ॥
若耆罗桑陀、遮提王和大力的尼沙陀之子不曾先前被杀,现在他们必定可怖。
7.182.3
दुर्योधनस्तानवश्यं वृणुयाद्रथसत्तमान् ।
तेऽस्मासु नित्यविद्विष्टाः संश्रयेयुश्च कौरवान् ॥ ७.१८२.३ ॥
难敌必定会选择那些最优秀的战车武士;而那些一向憎恨我们的人,会投靠俱卢族。
7.182.4
ते हि वीरा महेष्वासाः कृतास्त्रा दृढयोधिनः ।
धार्तराष्ट्रचमूं कृत्स्नां रक्षेयुरमरा इव ॥ ७.१८२.४ ॥
那些英雄、大弓箭手、精通武器的坚定战士,会像天神一样守护持国之子的全军。
7.182.5
सूतपुत्रो जरासन्धश्चेदिराजो निषादजः ।
सुयोधनं समाश्रित्य तपेरन्पृथिवीमिमाम् ॥ ७.१८२.५ ॥
御者之子、耆罗桑陀、遮提王与尼沙陀之子,投靠苏多那,必定会烧灼这片大地。
7.182.6
योगैरभिहता यैस्ते तन्मे शृणु धनञ्जय ।
अजय्या हि विना योगैर्मृधे ते दैवतैरपि ॥ ७.१८२.६ ॥
阿周那啊,请听我说他们是以何种计谋被杀的。若无计谋,他们在战场上即便天神也无法战胜。
7.182.7
एकैको हि पृथक् तेषां समस्तां रिपुवाहिनीम् ।
योधयेत्समरे पार्थ लोकपालाभिरक्षिताम् ॥ ७.१८२.७ ॥
般度之子啊,他们每一人单独就能在战场上与被世界守护者护卫的整个敌军作战。
7.182.8
जरासन्धो हि रुषितो रौहिणेयप्रधर्षितः ।
अस्मद्वधार्थं चिक्षेप गदां वै सर्वघातिनीम् ॥ ७.१८२.८ ॥
遭到罗希妮之子攻击的击杀者耶罗桑陀(Jarāsandha)愤怒起来,为了杀死我们,投出了能毁灭一切的铁杵。
7.182.9
सीमन्तमिव कुर्वाणा नभसः पावकप्रभा ।
अदृश्यतापतन्ती सा शक्रुमुक्ता यथाऽशनिः ॥ ७.१८२.९ ॥
在天空中如划出发际线一般,以火光闪耀,那铁杵坠落而来,宛如因陀罗投出的霹雳。
7.182.10
तामापतन्तीं दृष्ट्वैव गदां रोहिणिनन्दनः ।
प्रतिघातार्थमस्त्रं वै स्थूणाकर्णमवासृजत् ॥ ७.१८२.१० ॥
罗希妮之子(大力罗摩)一见那铁杵坠落,便放出名为斯图纳卡尔纳的神兵,以阻挡它。
7.182.11
अस्त्रवेगप्रतिहता सा गदा प्रापतद्भुवि ।
दारयन्ती धरां देवीं कम्पयन्तीव पर्वतान् ॥ ७.१८२.११ ॥
被神兵的力量所击退,那铁杵落到地上,劈开了大地女神,震动了群山。
7.182.12
तत्र सा राक्षसी घोरा जरानाम्नी सुविक्रमा ।
सन्दधे सा हि सञ्जातं जरासन्धमरिन्दमम् ॥ ७.१८२.१२ ॥
那里有一个名叫遮罗(Jarā)、极为凶猛威武的罗刹女;她把新生的、能制服敌人的耶罗桑陀接合在了一起。
7.182.13
द्वाभ्यां जातो हि मातृभ्यामर्धदेहः पृथक्पृथक् ।
जरया सन्धितो यस्माज्जरासन्धस्ततोऽभवत् ॥ ७.१८२.१३ ॥
他由两位母亲各自生下的半个身体而生,被罗刹女遮罗(Jarā)连接,因此成为遮罗桑陀。
7.182.14
सा तु भूमिं गता पार्थ हता ससुतबान्दवा ।
गदया तेन चास्त्रेण स्थूणाकर्णेन राक्षसी ॥ ७.१८२.१४ ॥
帕尔塔啊,那罗刹女与她的儿子和亲属一同被杀,倒在地上——被那根棍棒和名为“柱耳”(Sthūṇākarṇa)的武器所杀。
7.182.15
विनाभूतः स गदया जरासन्धो महामृधे ।
निहतो भीमसेनेन पश्यतस्ते धनञ्जय ॥ ७.१८२.१५ ॥
失去了棍棒的遮罗桑陀,在那场大战中被毗摩森那所杀——你,达难闍耶,亲眼目睹。
7.182.16
यदि हि स्याद्गदापाणिर्जरासन्धः प्रतापवान् ।
सेन्द्रा देवा न तं हन्तुं रणे शक्ता नरोत्तम ॥ ७.१८२.१६ ॥
人中之雄啊,若威猛的遮罗桑陀手持棍棒,即使因陀罗领衔的诸神也无法在战场上杀死他。
7.182.17
त्वद्धितार्थं च नैषादिरङ्गुष्ठेन वियोजितः ।
द्रोणेनाचार्यकं कृत्वा छद्मना सत्यविक्रमः ॥ ७.१८२.१७ ॥
为了你的利益,德罗纳以导师的身份,用诡计将真正勇武的尼沙陀王子的拇指斩断。
7.182.18
स तु बद्धाङ्गुलित्राणो नैषादिर्दृढविक्रमः ।
अतिमानी वचनरो बभौ राम इवापरः ॥ ७.१८२.१८ ॥
那位坚毅勇武的尼沙陀王子,手指缠着皮革护具,极为傲慢而善辩,光彩如同另一位罗摩。
7.182.19
एकलव्यं हि साङ्गुष्ठमशक्ता देवदानवाः ।
सराक्षसोरगाः पार्थ विजेतुं युधि कर्हिचित् ॥ ७.१८२.१९ ॥
帕尔塔啊,即便是诸神、檀那婆、罗刹与蛇众,也从未能在战场上战胜带着拇指的一迦罗毗耶。
7.182.20
किमु मानुषमात्रेण शक्यः स्यात्प्रतिवीक्षितुम् ।
दृढमुष्टिः कृती नित्यमस्यमानो दिवानिशम् ॥ ७.१८२.२० ॥
一个凡人怎能与他对阵?他手握坚定、技艺精湛,日夜不停地射箭。
7.182.21
त्वद्धितार्थं तु स मया हतः सङ्ग्राममूर्धनि ॥ ७.१८२.२१ ॥
为了你的利益,我在战阵前线杀死了他。
7.182.22
चेदिराजश्च विक्रान्तः प्रत्यक्षं निहतस्तव ।
स चाप्यशक्यः सङ्ग्रामे जेतुं सर्वसुरासुरैः ॥ ७.१८२.२२ ॥
勇猛的车底国王也在你面前被杀;即便是一切天神与阿修罗,也无法在战场上战胜他。
7.182.23
वधार्थं तस्य जातोऽहमन्येषां च सुरद्विषाम् ।
त्वत्सहायो नरव्याघ्र लोकानां हितकाम्यया ॥ ७.१८२.२३ ॥
我降生便是为了诛杀他和其他诸神的敌人。人中之虎啊,我愿为世界谋福,做你的助手。
7.182.24
हिडिम्बबककिर्मीरा भीमसेनेन पातिताः ।
रावणेन समप्राणा ब्रह्मयज्ञविनाशनाः ॥ ७.१८२.२४ ॥
希迪姆巴、巴卡与基尔米拉都被怖军击倒。他们的生命力与罗波那相当,是破坏梵祭的恶魔。
7.182.25
हतस्तथैव मायावी हैडिम्बेनाप्यलायुधः ।
हैडिम्बश्चाप्युपायेन शक्त्या कर्णेन घातितः ॥ ७.१८२.२५ ॥
同样,幻术师阿拉由陀被海丁巴之子杀死,海丁巴之子也以计策被迦尔纳用长矛击倒。
7.182.26
यदि ह्येनं नाहनिष्यत्कर्णः शक्त्या महामृधे ।
मयां वध्योऽभविष्यत्स भैमसेनिर्घटोत्कचः। ॥ ७.१८२.२६ ॥
若非迦尔纳在大战中以长矛杀死他,婆摩森之子瓶足本应被我所杀。
7.182.27
मया न निहतः पूर्वमेष युष्मत्प्रियेप्सया ।
एष हि ब्राह्मणद्वेषी यज्ञद्वेषी च राक्षसः।
धर्मस्य लोप्ता पापात्मा तस्मादेव निपातितः ।
व्यंसिता चाप्यूपायेन शक्रदत्ता मयाऽनघ ॥ ७.१८२.२७ ॥
出于为你们谋福之心,我先前未杀他。他是憎恨婆罗门与祭祀的罪恶罗刹,破坏法度,因此被击倒。哦,无瑕者,因陀罗所赐的长矛也被我以计策使之失效。
7.182.28
येहि धर्मस्य लोप्तारो वध्यास्ते मम पाण्डव ।
धर्मसंस्थापनार्थं हि प्रतिज्ञैषा ममाव्यया ॥ ७.१८२.२८ ॥
哦,般度之子,凡破坏法度者,都应被我所杀。为了确立法度,这是我不变的誓言。
7.182.29
ब्रह्म सत्यं दमः शौचं धर्मो हीः श्रीर्धृतिः क्षमा ।
यत्र तत्र रमे नित्यमहं सत्येन ते शपे ॥ ७.१८२.२९ ॥
吠陀、真实、克己、清净、法、羞耻、吉祥、坚定与忍耐所在之处,我恒常喜乐;我以真理向你发誓。
7.182.30
न विषादस्त्वया कार्यः कर्णं वैकर्तनं प्रति ।
उपदेक्ष्याम्युपायं ते येन तं प्रसहिष्यसि ॥ ७.१८२.३० ॥
关于毗迦尔塔纳之子迦尔纳,你不该沮丧;我将教你一种办法,凭此你必能制服他。
7.182.31
सुयोधनं चापि रणे हनिष्यति वृकोदरः ।
तस्यापि च वधोपायं वक्ष्यामि तव पाण्डव ॥ ७.१८२.३१ ॥
在战斗中,狼腹(怖军)也将杀死苏由陀那。般度之子啊,我也将告诉你杀死他的方法。
7.182.32
वर्धते तुमुलस्त्वेष शब्दः पचरमूं प्रति ।
विद्रवन्ति च सैन्यानि त्वदीयानि दिशो दश ॥ ७.१८२.३२ ॥
这阵喧嚣正向帕恰拉穆迫近,你的军队向十方溃散。
7.182.33
लब्धलक्ष्या हि कौरव्या विधमन्ति चमूं तव ।
दहत्येष च वः सैन्यं द्रोणः प्रहरतां वरः ॥ ७.१८२.३३ ॥
俱卢族已找到目标,正在冲散你的军队;战士中最杰出的德罗纳正在焚烧你们的部队。