摩诃婆罗多 · 章 7.186
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
7.186.1
ततो दुर्योधनो द्रोममभिगम्याब्रवीदिदम् ।
अमर्षवशमापन्नो जनयन्हर्षतेजसी ॥ ७.१८६.१ ॥
于是难敌走近德罗纳,被愤怒所支配,激起喜悦与精力,说了这番话。
7.186.2
न मर्षणीयाः सङ्ग्रामे विश्रमन्तः श्रमान्विताः ।
सपत्ना ग्लानमनसो लब्धलक्षा विशेषतः ॥ ७.१८६.२ ॥
在战斗中,不应容忍那些正在休息、疲惫、心志沮丧、已达成目标的敌人,尤其是这样的敌人。
7.186.3
यत्तु मर्षितमस्माभिर्भवतः प्रियकाम्यया ।
त एते परिविश्रान्ताः पाण्डवा बलवत्तराः ॥ ७.१८६.३ ॥
我们为了使您高兴而容忍了那些事,因此这些般度子弟充分休息后,变得更加强大。
7.186.4
सर्वथा परिहीनाः स्म तेजसा च बलेन च ।
भवता पाल्यमानास्ते विवर्धन्ते पुनःपुनः ॥ ७.१८६.४ ॥
我们在光辉与力量上全面衰弱,而他们在您的庇护下,一次又一次地壮大。
7.186.5
दिव्यान्यस्त्राणि सर्वाणि ब्राह्मादीनि च यानि ह ।
तानि सर्वामि तिष्ठन्ति भवत्येव विशेषतः ॥ ७.१८६.५ ॥
所有神圣的武器,从梵天之箭开始,都存留着,而且尤其存在于您身上。
7.186.6
न पाण्डवेया न वयं नान्ये लोके धनुर्धराः ।
युध्यमानस्य ते तुल्याः सत्यमेतद्ब्रवीमि ते ॥ ७.१८६.६ ॥
无论般度之子、我们,还是世上其他的弓箭手,都比不上正在作战的您;我对您说的是实话。
7.186.7
ससुरासुरगन्धर्वानिमाँलोकान्द्विजोत्तम ।
सर्वास्त्रविद्भवान्हन्याद्दिव्यैरस्त्रैर्न संशयः ॥ ७.१८६.७ ॥
婆罗门中最优秀者啊,你通晓一切兵器,以神圣的兵器便能毁灭这些世界,连同诸天、阿修罗与乾闼婆,此无疑问。
7.186.8
स भवान्मर्षयत्येनांस्तव तुल्यानवेत्य च ।
शिष्यत्वं वा पुरस्कृत्य मम वा मन्दभाग्यताम् ॥ ७.१८६.८ ॥
你知道他们与你相等却仍忍受他们,或是将弟子身份置于前,或是因我的不幸。
7.186.9
एवमुद्धर्षितो द्रोणः कोपितश्च सुतेन ते ।
समन्युरब्रवीद्राजन्दुर्योधनमिदं वचः ॥ ७.१८६.९ ॥
德罗纳被你的儿子这样激怒,满怀愤懑,王啊,对难敌说了这番话。
7.186.10
स्थविरः सन्परं शक्त्या घटे दुर्योधनाहवे ।
अतः परं मया कार्यं क्षुद्रं विजयगृद्धिना।
अनस्त्रविदयं सर्वो हन्तव्योऽस्त्रविदा जनः ॥ ७.१८६.१० ॥
我虽年老,仍将在难敌的战斗中竭尽全力。如今为求胜利,我必须行卑劣之事:凡是不通晓兵器的这些人,都该由精通兵器者杀死。
7.186.11
यद्भवान्मन्यते चापि शुभं वा यदि वाऽशुभम् ।
तद्वै कर्ताऽस्मि कौरव्य वचनात्तव नान्यथा ॥ ७.१८६.११ ॥
啊,俱卢之裔,你认为是善是恶的一切,我必依你的话而行,绝不违背。
7.186.12
निहत्य सर्वपाञ्चालान्युद्धे कृत्वा पराक्रमम् ।
विमोक्ष्ये कवचं राजन्सत्येनायुधमालभे ॥ ७.१८६.१२ ॥
王啊,我在战斗中杀尽所有般遮罗人,显示勇武之后,我将卸下铠甲;以真实之名,我将拿起武器。
7.186.13
मन्यसे यच्च कौन्तेयमर्जुनं श्रान्तमाहवे ।
तस्य वीर्यं महाबाहो शृणु सत्येन कौरव ॥ ७.१८६.१३ ॥
强臂的俱卢子孙啊,请如实听闻你以为在战场上已疲惫的贡蒂之子阿周那的威力。
7.186.14
तं न देवा न गन्धर्वा न यक्षा न च राक्षसाः ।
उत्सहन्ते रणे जेतुं कुपितं सव्यसाचिनम् ॥ ७.१८६.१४ ॥
当愤怒的萨维亚萨钦(阿周那)在战场上时,无论天神、乾闼婆、夜叉还是罗刹,都不敢将其击败。
7.186.15
खाण्डवे येन भगवान्प्रत्युद्यातः सुरेश्वरः ।
सायकैर्वारितश्चापि वर्षमाणो महात्मना ॥ ७.१८६.१५ ॥
正是这位大德,在坎达瓦林中以箭矢阻止了降雨的尊贵天神之主因陀罗。
7.186.16
यक्षा नागास्तथा दैत्या ये चान्ये बलगर्विताः ।
निहताः पुरुषेन्द्रेण तच्चापि विदितं तव ॥ ७.१८६.१६ ॥
夜叉、龙蛇、阿修罗及其他仗恃武力者,都被人中之雄(阿周那)所杀;此事你也是知道的。
7.186.17
गन्धर्वा घोषयात्रायां चित्रसेनादयो जिताः ।
यूयं तैर्ह्रियमाणाश्च मोक्षिता दृढधन्वना ॥ ७.१८६.१७ ॥
在牧场之行中,当以质多犀那为首的乾闼婆战胜你们并将你们掳走时,正是那位坚定的弓手救出了你们。
7.186.18
निवातकवचाश्चापि देवानां शत्रवस्तथा ।
सुरैरवध्याः सङ्ग्रामे तेन वीरेण निर्जिताः ॥ ७.१८६.१८ ॥
众神之敌尼瓦塔卡伐恰们,即使诸神也无法在战斗中杀死,却被那位英雄征服了。
7.186.19
दानवानां सहस्राणि हिरण्यपुरवासिनाम् ।
विजिग्ये पुरुषव्याघ्रः स शक्यो मानुषैः कथम् ॥ ७.१८६.१९ ॥
人中之虎战胜了居住在黄金城的数千名檀那婆;凡人怎能做到这一点?
7.186.20
प्रत्यक्षं चैव ते सर्वं यथा बलमिदं तव ।
क्षपितं पाण्डुपुत्रेण चेष्टतां नो विशाम्पते ॥ ७.१८६.२० ॥
众生之主啊,你亲眼所见,你的全部兵力都被般度之子摧毁了;我们的努力也是如此。
7.186.21
तं तदाऽभिप्रशंसन्तमर्जुनं कुपितस्तदा ।
द्रोणं तव सुतो राजन्पुनरेवेदमब्रवीत् ॥ ७.१८६.२१ ॥
国王啊,你的儿子因德罗纳极力称赞阿周那而愤怒,便再次对德罗纳说了这番话。
7.186.22
अहं दुःशासनः कर्णः शकुनिर्मातुलश्च मे ।
हनिष्यामोऽर्जुनं सङ्ख्ये द्विधा कृत्वाऽद्य भारतीम्।
तिष्ठ स त्वं महाबाहो नित्यं शिष्यः प्रियस्तव ॥ ७.१८६.२२ ॥
我、难降、迦尔纳,以及我的舅舅沙古尼,今日将在战场上分割婆罗多军,杀死阿周那。大臂者啊,你就留在这里吧;你始终是我钟爱的弟子。
7.186.23
तस्य तद्वचनं श्रुत्वा भारद्वाजो हसन्निव ।
अन्ववर्तत राजानं स्वस्ति तेऽस्त्विति चाब्रवीत् ॥ ७.१८६.२३ ॥
德罗纳(婆罗堕遮之子)听到他的这些话,仿佛在笑,转向国王说道:“愿你平安吉祥。”
7.186.24
को हि गाण्डीवधन्वानं ज्वलन्तमिव तेजसा ।
अक्षयं क्षपयेत्कश्चित्क्षत्रियः क्षत्रियर्षभम् ॥ ७.१८६.२४ ॥
谁能毁灭那执持甘狄拔弓、光辉如燃烧之火、是刹帝利中雄牛的不朽者呢?
7.186.25
तं न वित्तपतिर्नेन्द्रो न यमो न जलेश्वरः ।
नासुरोरगरक्षांसि क्षपयेयुः सहायुधम् ॥ ७.१८६.२५ ॥
财神、因陀罗、阎摩、水神,以及阿修罗、龙蛇与罗刹,都无法连同他的武器将他毁灭。
7.186.26
मूढास्त्वेतानि भाषन्ते यानीमान्यात्थ भारत ।
युद्धे ह्यर्जुनमासाद्य स्वस्तिमान्को व्रजेद्गृहान् ॥ ७.१८६.२६ ॥
婆罗多之子啊,你所说的这些话是愚人之言。谁在战场上遭遇阿周那,还能平安回家呢?
7.186.27
त्वं तु सर्वाभिशङ्कित्वान्निष्ठुरः पापनिश्चयः ।
श्रेयसस्त्वद्धिते युक्तांस्तत्तद्वक्तुमिहेच्छसि ॥ ७.१८६.२७ ॥
你因疑忌一切,变得冷酷,心怀恶念。在此你却想说的,只是对你自己有益的话。
7.186.28
गच्छ त्वमपि कौन्तेयमात्मार्थे जहि माचिरम् ।
त्वमप्याशंससे योद्धुं कुलजः क्षत्रियो ह्यसि ॥ ७.१८६.२८ ॥
你也去吧,为了你自己,立刻杀死贡蒂之子。你也想要作战,因为你是出身高贵的刹帝利。
7.186.29
इमान्किं क्षत्रियान्सर्वान्घातयिष्यस्यनागसः ।
त्वस्य मूलं वैरस्य तस्मादासादयार्जुनम् ॥ ७.१८६.२९ ॥
为何你要使这些无辜的刹帝利全部被杀?你是这场仇怨的根源,所以去面对阿周那吧。
7.186.30
एष ते मातुलः प्राज्ञः क्षत्रधर्ममनुव्रतः ।
दुर्द्युतदेवी गान्धारे प्रयात्वर्जुनमाहवे ॥ ७.१८६.३० ॥
你这位明智的舅舅,遵循刹帝利的职责,愿他,甘陀利之子啊,在战场上前去迎战阿周那。
7.186.31
एषोऽक्षकुशलो जिह्मो द्यूतकृत्कितवः शठः ।
देविता निकृतिप्रज्ञो युधि जेष्यति पाण्डवान् ॥ ७.१८६.३१ ॥
此人精通骰戏,狡诈,是赌博的主办者,骗子,欺诈,诡计多端,将在战场上战胜般度之子。
7.186.32
त्वया कथितमत्यर्थं कर्णेन सह हृष्टवत् ।
असकृच्छून्यवन्मोहाद्वृतराष्ट्रस्य शृण्वतः ॥ ७.१८६.३२ ॥
你与迦尔纳一同欣喜地反复宣说,而持国王因迷惑而听着,仿佛空洞无物。
7.186.33
अहं च तात कर्णश्च भ्राता दुःशानश्च मे ।
पाण्डुपुत्रान्हनिष्यामः सहिताः समरे त्रयः ॥ ७.१८६.३३ ॥
我、亲爱的,还有迦尔纳和我的兄弟难降——我们三人合力将在战场上杀死般度之子。
7.186.34
इति ते कत्थमानस्य श्रुतं संसदिसंसदि ।
अनुतिष्ठ प्रतिज्ञां तां सत्यवाग्भव तैः सह ॥ ७.१८६.३४ ॥
你的夸口在一次又一次的集会中都被听到了。去履行那个誓言吧;与他们在言语上要守诚实。
7.186.35
एष ते पाण्डवः शत्रुरविशङ्कोऽग्रतः स्थितः ।
क्षत्रधर्ममवेक्षस्व श्लाघ्यस्तव वधो जयात् ॥ ७.१८६.३५ ॥
看,你的敌人般度之子无所畏惧地站在你面前。请顾及刹帝利的职责;若因胜利而死,你的死也值得称颂。
7.186.36
दत्तं भुक्तमधीतं च प्राप्तमैश्वर्यमीप्सितम् ।
कृतकृत्योऽनृणश्चासि मा भैर्युध्यस्व पाण्डवम् ॥ ७.१८६.३६ ॥
你已布施、享受、学习,并获得了所求的权威。你已完成本分,无债在身;不要害怕,与般度之子作战吧。
7.186.37
इत्युक्त्वा समरे द्रोणो न्यवर्तत यतः परे ।
द्वैधीकृत्य ततः सेनां युद्धं समभवत्तदा ॥ ७.१८६.३७ ॥
德罗纳说完此言,便在战场上转向敌人所在之处。随后他将军队分为两部,战斗于是爆发。