マハーバーラタ · 章 7.188
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
7.188.1
ते तथैव महाराज दंशिता रणमूर्धनि ।
सन्ध्यागतं सहस्रांशुमादित्यमुपतस्थिरे ॥ ७.१८८.१ ॥
大王よ、彼らも同様に鎧をまとい、戦場の先頭で、夕暮れに至った千の光線の太陽を礼拝した。
7.188.2
उदिते तु सहस्रांशौ तप्तकाञ्चनसप्रभे ।
प्रकाशितेषु लोकेषु पुनर्युद्धमवर्तत ॥ ७.१८८.२ ॥
灼けた黄金のような輝きの千光の太陽が昇り、世界が照らされると、再び戦いが起こった。
7.188.3
द्वन्द्वानि तत्र यान्यासन्संसक्तानि पुरोदयात् ।
तान्येवाभ्युदिते सूर्ये समसज्जन्त भारत ॥ ७.१८८.३ ॥
バーラタよ、日の出前にそこで行われていた一騎打ちは、太陽が昇るとすぐにまた始まった。
7.188.4
रथैर्हया हयैर्नागाः पादातैश्चापि कुञ्जराः ।
हयैर्हयाः समाजग्मुः पादाताश्च पदातिभिः ॥ ७.१८८.४ ॥
戦車は戦車と、馬は馬と、象は象と、歩兵は歩兵と相まみえた。象もまた歩兵と戦った。
7.188.5
रथा रथैरिभैर्नागास्तथैव भरतर्षभ ।
संसक्ताश्च वियुक्ताश्च योधाः सन्न्यपतन्रणे ॥ ७.१८८.५ ॥
戦車は戦車と、象は象と、バラタの牡牛よ。同様に戦士たちも、合わさり離れて、戦場で互いに襲いかかった。
7.188.6
ते रात्रौ कृतकर्माणः श्रान्ताः सूर्यस्य तेजसा ।
क्षुत्पिपासापरीताङ्गा विसंज्ञा बहवोऽभवन् ॥ ७.१८८.६ ॥
夜に各自の務めを果たし、太陽の熱に疲れ、飢えと渇きに身体を侵された彼らの多くは、意識を失った。
7.188.7
शङ्खबेरीमृदङ्गानां कुञ्जराणां च गर्जताम् ।
विष्फारितविकृष्टानां कार्मुकाणां च कूजताम् ॥ ७.१८८.७ ॥
ほら貝と太鼓と鼓の音、吼える象たち、そして極限まで引き絞られ鳴る弓の音。
7.188.8
शब्दः समभवद्राजन्दिविस्पृग्भरतर्षभ ।
द्रवतां च पदातीनां शस्त्राणां पततामपि ॥ ७.१८८.८ ॥
王よ、バラタの牡牛よ、空に届く音が起こった——逃げ惑う歩兵と落ちる武器の音である。
7.188.9
हयानां हेषतां चापि रथानां च निवर्तताम् ।
क्रोशतां गर्जतां चैव तदासीत्तुमुलं महत् ॥ ७.१८८.९ ॥
馬のいななき、退く戦車の音、叫び吼える戦士たち——それは大いなる騒乱であった。
7.188.10
विवृद्धस्तुमुलः शब्दो द्यामगच्छन्महांस्तदा ।
नानायुधनिकृत्तानां चेष्टतामातुरः स्वनः ॥ ७.१८८.१० ॥
その時、増大した騒音が空にまで昇った——様々な武器に切り裂かれ、身もだえする者たちの苦悶の叫びである。
7.188.11
भूमावश्रूयत महांस्तदाऽऽसीत्कृपणं महत् ।
पततां पात्यमानानां पत्त्यश्वरथदन्तिनाम् ॥ ७.१८८.११ ॥
その時、地上に大きく哀れな音が聞こえた——倒れ、倒されていく歩兵、馬、戦車、象の音である。
7.188.12
तेषु सर्वेष्वनीकेषु व्यतिषक्तेष्वनेकशः ।
स्वे स्वाञ्जघ्नुः परे स्वांश्च स्वान्परेषां परे परान्। ॥ ७.१८८.१२ ॥
それら全ての軍勢が多くの仕方で入り乱れ、味方が味方を打った。敵は味方を、また敵の味方をも打ち、敵が敵を打った。
7.188.13
वीरबाहुविसृष्टाश्च योधेषु च गजेषु च ।
राशयः प्रत्यदृश्यन्त वाससां नेजनेष्विव ॥ ७.१८८.१३ ॥
勇士の腕から放たれたもの(武器)が歩兵や象の上に山と見え、洗濯場の衣類の山のようであった。
7.188.14
उद्यतप्रतिपिष्टानां खङ्गानां वीरबाहुभिः ।
स एव शब्दस्तद्रूपो वाससां निज्यतामिव ॥ ७.१८८.१४ ॥
勇士の腕によって振り上げられては幾度も打ち下ろされる剣の音は、衣類を絞るときの音のようであった。
7.188.15
अर्धासिभिस्तथा खङ्गैस्तोमरैः सपरश्वथैः ।
निकृष्टयुद्धं संसक्तं महदासीत्सुदारुणम् ॥ ७.१८८.१५ ॥
半剣、剣、槍、斧を用いた近接の凄まじい戦いが起こり、極めて恐ろしかった。
7.188.16
गजाश्वकायप्रभवां नरदेहप्रवाहिनीम् ।
शस्त्रमत्स्यसुसम्पूर्णां मांसशोणितकर्दमाम् ॥ ७.१८८.१६ ॥
象と馬の身体から生じ、人の身体を運んで流れ、武器という魚に満ち、肉と血の泥に覆われた川。
7.188.17
आर्तनादस्वनवतीं पताकाशस्त्रफेनिलाम् ।
नदीं प्रावर्तयन्वीराः परलोकौघगामिनीम् ॥ ७.१८८.१७ ॥
苦悶の叫び声に満ち、旗と武器の泡を立て、他界の大流へと向かうこの川を、英雄たちは流し続けた。
7.188.18
शरशक्त्यर्दिता क्लान्ता रात्रिमूढात्पचेतसः ।
विष्टभ्य सर्वगात्राणि व्यतिष्ठन्गजवाजिनः ॥ ७.१८८.१८ ॥
矢と槍に苦しめられ、疲れ果て、夜のためにいくぶん心が曇った象騎兵と馬騎兵は、全身を支えて踏みとどまった。
7.188.19
संशुष्कवदना वीराः शिरोभिश्चारुकुण्डलैः ।
युद्धोपकरणैश्चान्यैस्तत्रतत्र चकाशिरे ॥ ७.१८८.१९ ॥
英雄たちの乾いた顔、美しい耳飾りをつけた頭、その他の武具があちこちで輝いていた。
7.188.20
क्रव्यादसङ्घैराकीर्णं मृतैरर्धमृतैरपि ।
नासीद्रथपथस्तत्र सर्वमायोधनं प्रति ॥ ७.१८८.२० ॥
肉食の生き物の群れに覆われ、死者と半死者で埋め尽くされ、戦場全体に戦車の通る道はなかった。
7.188.21
मञ्जत्सु चक्रेषु रथान्सत्वमास्थाय वाजिनः ।
कथञ्चिदवहन्श्रान्ता वेपमानाः शरार्दिताः।
कुलसत्वबलोपेता वाजिनो वारणोपमाः ॥ ७.१८८.२१ ॥
車輪が沈んでいくなかでも、馬たちは気力を奮い起こして何とか戦車を引いた。疲れ、震え、矢に苛まれたその馬たちは、良い血統と気概と力を備え、象のようであった。
7.188.22
विह्वलं तूर्णमुद्धान्तं सभयं भारतातुरम् ।
बलमासीत्तदा सर्वमृते द्रोणार्जुनावुभौ ॥ ७.१८८.२२ ॥
バーラタよ、そのとき、ドローナとアルジュナの二人を除く全軍は、たちまち混乱し、うろたえ、恐れ、苦しんだ。
7.188.23
तावेवास्तां निलयनं तावार्तायनमेव च ।
तावेवान्ये समासाद्य जग्मुर्वैवस्वतक्षयम् ॥ ७.१८८.२३ ॥
その二人だけが避難所であり、苦しむ者の拠り所であった。他の者たちは彼らに近づいた後、ヴァイヴァスヴァタの住処へ去っていった。
7.188.24
आविग्नमभवत्सर्वं कौरवाणां महद्बलम् ।
पाञ्चालानां च संसक्तं न प्राज्ञायत किञ्चन ॥ ७.१८८.२४ ॥
カウラヴァの大軍は動揺し、パーンチャーラの軍と入り混じって、何一つ見分けがつかなくなった。
7.188.25
अन्तकाक्रीडसदृशं भीरूणां भयवर्धनम् ।
पृथिव्यां राजवंश्यानामुत्थिते महति क्षये ॥ ७.१८८.२५ ॥
地上で王族の大いなる滅亡が起こったとき、それは死神の遊戯のようで、臆病者の恐怖を増大させた。
7.188.26
न तत्र कर्णं द्रोणं वा नार्जुनं न युधिष्ठिरम् ।
न भीमसेनं न यमौ न पाञ्चाल्यं न सात्यकिम् ॥ ७.१८८.२६ ॥
そこではカルナもドローナも、アルジュナもユディシュティラもビーマセーナも、双子も、パーンチャーリャも、サーティヤキも見えなかった。
7.188.27
न च दुःशासनं द्रौणिं न दुर्योधनसौबलौ ।
न कृपं मद्रराजं च कृतवर्माणमेव च ॥ ७.१८८.२७ ॥
ドゥフシャーサナもドローナの子も、ドゥルヨーダナとサウバラも、クリパも、マドラ王も、クリタヴァルマンも見えなかった。
7.188.28
न चान्यान्नैव चात्मानं न क्षितिं न दिशस्तथा ।
पश्याम राजन्संसक्तान्सैन्येन रजसा धृतान् ॥ ७.१८८.२८ ॥
他人も自分も、大地も方角も見えなかった。王よ、我らが見たのは、軍勢の塵に覆われ、互いに絡み合った戦士たちだけだった。
7.188.29
सम्भ्रान्ते तुमुले घोरे रजोमेघे समुत्थिते ।
त्रियामामिव संप्राप्ताममन्यन्त निशाचराः ॥ ७.१८८.२९ ॥
この恐ろしく混乱した騒動の中、塵の雲が立ち上ると、夜の徘徊者たちは夜が来たのだと思った。
7.188.30
न ज्ञायन्ते कौरवेया न पाञ्चाला न पाण्डवाः ।
न दिशो द्यौर्न चोर्वी च न समं विषमं तथा ॥ ७.१८८.३० ॥
クル族もパーンチャーラ族もパーンダヴァ族も見分けられず、方角も空も大地も、平らなものと起伏あるものとの区別もつかなかった。
7.188.31
हस्तसंस्पर्शमापन्नान्परानप्यथवा स्वकान् ।
न्यपातयंस्तदा युद्धे नराः स्म विजयैषिणः ॥ ७.१८८.३१ ॥
そのとき勝利を求める人々は、手と手が触れ合うほど近づいた敵をも、あるいは味方をさえも、戦いの中で倒していった。
7.188.32
उद्धूतत्वात्तु रजसः प्रसेकाच्छोणितस्य च ।
प्राशाम्यत रजो भौमं शीघ्रत्वादनिलस्य च ॥ ७.१८८.३२ ॥
砂塵が舞い上がっていたが、血の飛沫と風の速さによって、その大地の塵は鎮まった。
7.188.33
तत्र नागा हया योधा रथिनोऽथ पदातयः ।
पारिजातवनानीव व्यरोचन्रुधिरोक्षिताः ॥ ७.१८८.३३ ॥
そこでは象も馬も戦士も戦車兵も歩兵も、血に濡れてパーリジャータの林のように輝いていた。
7.188.34
ततो दुर्योधनः कर्णो द्रोणो दुःशासनस्तथा ।
पाण्डवैः समसज्जन्त चतुर्भिश्चतुरो रथाः ॥ ७.१८८.३४ ॥
そのときドゥルヨーダナ、カルナ、ドローナ、ドゥッシャーサナはパーンダヴァと戦った。四人の戦車戦士が四人と対峙したのである。
7.188.35
दुर्योधनः सह भ्रात्रा यमाभ्यां समसज्जत ।
वृकोदरेण राधेयो भारद्वाजेन चार्जुनः ॥ ७.१८८.३५ ॥
ドゥルヨーダナは弟とともにヤマの二人の息子と戦い、ラーダーの子カルナはヴリコーダラと、バーラドヴァージャの子はアルジュナと戦った。
7.188.36
तद्धोरं महदाश्चर्यं युद्धं दैवासुरोपमम् ।
रथर्षभाणामुग्राणां सन्निपातममानुषम् ॥ ७.१८८.३६ ॥
その恐ろしく、偉大で、驚くべき戦いは神々と阿修羅の戦いのようであった。猛々しい戦車の勇者たちの衝突は、人間わざではなかった。
7.188.37
रथमार्गैर्विचित्रैस्तैर्विचित्ररथसङ्कुलम् ।
अपश्यन्रथिनो युद्धं विचित्रं चित्रयोधिनाम् ॥ ७.१८८.३७ ॥
あの多彩な戦車の道を通り、さまざまな戦車がひしめく中で、車上の戦士たちは戦いを見た。輝く戦士たちの驚くべき戦いであった。
7.188.38
यतमानाः पराक्रान्ताः परस्परजिगीषवः ।
जीमूता इव घर्मान्ते शरवर्षैरवाकिरन् ॥ ७.१८८.३८ ॥
奮闘し、勇猛で、互いに打ち勝つことを望み、夏の終わりの雲のように矢の雨を降らせた。
7.188.39
ते रथान्सूर्यसङ्काशानास्थिताः पुरुषर्षभाः ।
अशोभन्त यथा मेघाः शारदाश्चलविद्युतः ॥ ७.१८८.३९ ॥
太陽のような戦車に乗ったその人中の牡牛たちは、閃く稲妻を伴う秋の雲のように輝いた。
7.188.40
योधास्ते तु महाराज क्रोधामर्षसमन्विताः ।
स्पर्धिनश्च महेष्वासाः कृतयत्ना धनुर्धराः।
अभ्यगच्छंस्तथाऽन्योन्यं मत्ता गजवृषा इव ॥ ७.१८८.४० ॥
大王よ!怒りと不満に満ちたあの戦士たちは、互いに競い合う大弓の使い手で、努力して弓を握り、狂った雄象のように互いに向かって進んだ。
7.188.41
न नूनं देहभेदोऽस्ति काले राजन्ननागते ।
यत्र सर्वे न युगपद्व्यशीर्यन्त महारथाः ॥ ७.१८८.४१ ॥
王よ、まだ時は来ていなかった。ゆえに身体が砕かれることはなかった。大車の戦士たちが一度にすべて砕け散ったわけではないからである。
7.188.42
बाहुभिश्चपरणैश्चिन्नैः शिरोभिश्च सकुण्डलैः ।
कार्मुकैर्विशिखैः प्रासैः खङ्गैः परशुपट्टसैः ॥ ७.१८८.४२ ॥
切断された腕、耳飾りをつけた頭部、弓、矢、槍、剣、斧や鉈とともに。
7.188.43
नालीकैः क्षुद्रनाराचैर्नखरैः शक्तितोमरैः ।
अन्यैश्च विविधाकारैर्धौतैः प्रहरणोत्तमैः ॥ ७.१८८.४३ ॥
ナーリーカ矢と小さなナーラーチャ矢、爪状の武器、シャクティとトーマラ、その他さまざまな形の磨かれた最上の武器で。
7.188.44
विचित्रैर्विविधाकारैः शरीरावरणैरपि ।
विचित्रैश्च रथैर्भग्नैर्हतैश्च गजवाजिभिः ॥ ७.१८८.४४ ॥
さまざまな形の多彩な鎧、砕け壊れた多彩な戦車、そして殺された象と馬とともに。
7.188.45
शून्यैश्चैव नगाकारैर्हतयोधध्वजै रथैः ।
अमनुष्यैर्हयैस्त्रस्तैः कृष्यमाणैस्ततस्ततः ॥ ७.१८८.४५ ॥
空になった山のような戦車、戦士と旗を失った戦車、そして騎手のない怯えた馬々がここかしこに引きずられて。
7.188.46
वातायमानैरसकृद्धतवीरैरलंकृतैः ।
व्यजनैः कङ्कटैश्चैव ध्वजैश्च विनिपातितैः ॥ ७.१८८.४६ ॥
風に幾度も揺れる払子、倒れた英雄たちに飾られたもの、鎧の板、そして倒された旗とともに。
7.188.47
छत्रैराभरणैर्वस्त्रैर्माल्यैश्च ससुगन्धिभिः ।
हारैः किरीटैर्मुकुटैरुष्णीषैः किङ्किणीगणैः ॥ ७.१८८.४७ ॥
天蓋、装身具、衣服、芳香の花輪、首飾り、冠、王冠、ターバン、小鈴の群れとともに。
7.188.48
उरस्थैर्मणिभिर्निष्कैश्चूडामणिभिरेव च ।
आसीदायोधनं तत्र नभस्तारागणैरिव ॥ ७.१८८.४८ ॥
そこの戦場は、胸に着けた宝石、金の装飾、頭頂の宝珠によって、星の群れがある空のようであった。
7.188.49
ततो दुर्योधनस्यासीन्नकुलेन समागमः ।
अमर्षितेन क्रुद्धस्य क्रुद्धेनामर्षितस्य च ॥ ७.१८८.४९ ॥
そのときドゥルヨーダナはナクラと出会った。怒れる者は怒れる者と、憤る者は憤る者と。
7.188.50
अपसव्यं चकाराथ माद्रीपुत्रस्तवात्मजम् ।
किरञ्छरशतैर्हृष्टस्तत्र नादो महानभूत् ॥ ७.१८८.५० ॥
そのときマードリーの息子は喜び、百の矢を降らせながら、あなたの息子を左回りにさせた。そこに大きなどよめきが起こった。
7.188.51
अपसव्यं कृतं सङ्ख्ये भ्रातृव्येनात्यमर्षिणा ।
नामृष्यत तमप्याजौ प्रतिचक्रे परन्तपः।
पुत्रस्तव महाराज राजा दुर्योधनो द्रुतम् ॥ ७.१८८.५१ ॥
戦いの中、極めて怒りやすい従兄弟がそれを左回りに変えた。しかし敵を苦しめる者はそれを耐えられず、すぐに反撃した——あなたの息子、大王ドゥルヨーダナである。
7.188.52
ततः प्रतिचिकीर्षन्तमपसव्यं तु ते सुतम् ।
न्यवारयत तेजस्वी नकुलश्चित्रमार्गवित् ॥ ७.१८८.५२ ॥
そのとき、輝き、多様な戦法に通じたナクラは、左回りに報復しようとしたあなたの息子を止めた。
7.188.53
स सर्वतो निवार्यैनं शरजालेन पीडयन् ।
विमुखं नकुलश्चक्रे तत्सैन्याः समपूजयन् ॥ ७.१८८.५३ ॥
四方から彼を阻み、矢の網で苦しめて、ナクラは彼を退かせた。その軍勢は彼を大いに称えた。
7.188.54
तिष्ठतिष्ठेति नकुलो बभाषे तनयं तव ।
संस्मृत्य सर्वदुःखानि तव दुर्मन्त्रितं च तत् ॥ ७.१८८.५४ ॥
「止まれ、止まれ!」とナクラはあなたの息子に言った。あらゆる苦しみと、あなたのその誤った謀りごとを思い起こしながら。