Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 7.193

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

7.193.1

सात्वतस्य तु तत्कर्म दृष्ट्वा दुर्योधनादयः ।
शैनेयं सर्वतः क्रुद्धा वारयामासुरञ्जसा ॥ ७.१९३.१ ॥

杜尔约达那等人见萨谛耶吉的此举,怒不可遏,从四面八方立即阻拦这位希尼之后。

7.193.2

कृपकर्णौ च समरे पुत्राश्च तव मारिष ।
शैनेयं त्वरयाऽभ्येत्य विनिघ्नन्निशितैः शरैः ॥ ७.१९३.२ ॥

在战斗中,俱利波与迦尔纳以及你的儿子们,大人啊,急速逼近希尼之后,用利箭击打他。

7.193.3

युधिष्ठिरस्ततो राजा माद्रीपुत्रौ च पाण्डवौ ।
भीमसेनश्च बलवान्सात्यकिं पर्यवारयन् ॥ ७.१९३.३ ॥

于是国王坚战、摩德利的两个儿子般度族人,以及强大的毗摩先那,围绕萨谛耶吉并保护了他。

7.193.4

कर्णश्च शरवर्षेण गौतमश्च महारथः ।
दुर्योधनादयस्ते च शैनेयं पर्यवारयन् ॥ ७.१९३.४ ॥

迦尔纳与以箭雨倾泻的大车士高答摩(俱利波),以及杜尔约达那等人,包围并阻挡了希尼之后。

7.193.5

तां वृष्टिं सहसा राजन्नुत्थितां घोररूपिणीम् ।
वारयामास शैनेयो योधयंस्तान्महारथान् ॥ ७.१९३.५ ॥

大王啊,希尼之后抵挡住了那突然升起的可怖箭雨,同时与那些大车士交战。

7.193.6

तेषामस्त्राणि दिव्यानि संहितानि महात्मनाम् ।
वारयामास विधिवद्दिव्यैरस्त्रैर्महामृधे ॥ ७.१९३.६ ॥

在大战中,希尼之后依法以神兵抵挡那些高尚者所备的神兵。

7.193.7

क्रूरमायोधनं जज्ञे तस्मिन्राजसमागमे ।
रुद्रस्येव हि क्रुद्धस्य निघ्नतस्तान्पशून्पुरा ॥ ७.१९३.७ ॥

在那群王相聚之中,爆发了残酷的战斗,仿佛昔日愤怒的楼陀罗在屠杀牲畜。

7.193.8

हस्तानामुत्तमाङ्गानां कार्मुकाणां च भारत ।
छत्राणां चापविद्धानां चामराणां च सञ्चयैः।
राशयः स्म व्यदृश्यन्त तत्रतत्र रणाजिरे ॥ ७.१९३.८ ॥

婆罗多之子啊,在那战场上到处可见堆积的手、头、弓、倒下的华盖和牦牛尾拂尘。

7.193.9

भग्नचक्रै रथैश्चापि पातितैश्च महाध्वजैः ।
सादिभिश्च हतैः शूरैः सङ्कीर्णा वसुधाऽभवत् ॥ ७.१९३.९ ॥

大地被车轮断裂的战车、倒下的大旗以及被杀的骑兵勇士所覆盖。

7.193.10

बाणपातनिकृत्तास्तु योधास्ते कुरुसत्तम ।
चेष्टन्तो विविधाश्चेष्टा व्यदृश्यन्त महाहवे ॥ ७.१९३.१० ॥

库鲁之最啊,那些被箭雨射断的勇士在那场大战中辗转挣扎,姿态各异。

7.193.11

वर्तमाने तथा युद्धे घोरे देवासुरोपमे ।
अब्रवीत्क्षत्रियांस्तत्र धर्मराजो युधिष्ठिरः ॥ ७.१९३.११ ॥

当这场如同天神与阿修罗之战的可怕战斗正在进行时,法王坚战在那里对刹帝利们说道。

7.193.12

अभिद्रवत संयत्ताः कुम्भयोनिं महारथाः ।
एषो हि पार्पतो वीरो भारद्वाजेन सङ्गतः ॥ ७.१९३.१२ ॥

诸位大车武士,整装待发,冲向瓶生的德罗纳吧;这位英雄般利的阿周那正与婆罗堕阁之子交战。

7.193.13

घटते च यथाशक्ति भारद्वाजस्य नाशने ।
यादृशानि हि रूपाणि दृश्यन्तेऽस्य महारणे ॥ ७.१९३.१३ ॥

他竭尽所能要毁灭婆罗堕阇(德罗纳);在这场大战中,可以看到他显出这样的形态。

7.193.14

अद्य द्रोणं रणे क्रुद्धो घातयिष्यति पार्पतः ।
ते यूयं सहिता भूत्वा युध्यध्वं कुम्भसम्भवम्। ॥ ७.१९३.१४ ॥

今日,愤怒的般沙塔之子将促使德罗纳在战斗中被杀。你们全体联合起来,与瓶生者(德罗纳)作战。

7.193.15

युधिष्ठिरसमाज्ञप्ताः सृञ्जयानां महारथाः ।
अभ्यद्रवन्त संयत्ता भारद्वाजजिघांसवः ॥ ७.१९३.१५ ॥

在坚战的命令下,准备就绪的般遮罗族大车战士们冲上前去,欲杀婆罗堕阇。

7.193.16

तान्समापततः सर्वान्भारद्वाजो महारथः ।
अभ्यवर्तत वेगेन मर्तव्यमिति निश्चितः ॥ ७.१९३.१६ ॥

婆罗堕阇见他们全部向自己扑来,便决意“必当一死”,迅速转身迎向他们。

7.193.17

प्रयाते सत्यसन्धे तु समकम्पत मेदिनी ।
ववुर्वाताः सनिर्घातास्त्रासयाना वरूथिनीम् ॥ ७.१९३.१७ ॥

当守誓者前进时,大地全都震动;伴随着雷鸣的狂风吹起,使军队惊恐。

7.193.18

पपात महती चोल्का आदित्यान्निश्चरन्त्युत ।
दीपयन्ती उभे सेने शंसन्तीव महद्भयम् ॥ ७.१९३.१८ ॥

一颗大流星从太阳坠落,照亮了两军,仿佛预示着巨大的恐惧。

7.193.19

जज्वलुश्चैव शस्त्राणि भारद्वाजस्य मारिष ।
रथाः स्वनन्ति चात्यर्थं हयाश्चाश्रूण्यवासृजन् ॥ ७.१९३.१९ ॥

啊,贤君!婆罗堕阇(德罗纳)的兵器燃烧起来,战车剧烈作响,马匹流下了眼泪。

7.193.20

हतौजा इव चाप्यासीद्भारद्वाजो महारथः ।
प्रास्फुरन्नयनं चास्य वामबाहुस्तथैव च ॥ ७.१९३.२० ॥

婆罗堕阇(德罗纳)大车将仿佛失去了力量;他的眼睛和左臂也同样跳动起来。

7.193.21

विमनाश्चाभवद्युद्धे दृष्ट्वा पार्षतमग्रतः ॥ ७.१९३.२१ ॥

战斗中,他见到面前的般沙多之子(德里斯塔敦牟那),心中沮丧。

7.193.22

ऋषीणां ब्रह्मवादानां स्वर्गस्य गमनं प्रति ।
सुयुद्धेन ततः प्राणानुत्स्रष्टुमुपचक्रमे ॥ ७.१९३.२२ ॥

于是,他如同宣说梵书的仙人那样向往天界,决心在一场壮烈的战斗中舍弃生命。

7.193.23

ततश्चतुर्दिशं सैन्यैर्द्रुपदस्याभिसंवृतः ।
निर्दहन्क्षत्रियव्रातान्द्रोणः पर्यचरद्रणे ॥ ७.१९३.२३ ॥

于是,德罗纳被般遮罗王德鲁帕达的军队四面包围,他焚烧刹帝利的军队,在战场上往来奔走。

7.193.24

हत्वा विंशतिसाहस्रान्क्षत्रियानरिमर्दनः ।
दशायुतानि करिणामवधीद्विशिखैः शितैः ॥ ७.१९३.२४ ॥

这摧敌者杀了两万刹帝利,并以利箭杀死了十万头大象。

7.193.25

सोऽतिष्ठदाहवे यत्तो विधूमोऽग्निरिव ज्वलन् ।
क्षत्रियाणामभावाय ब्राह्ममस्त्रं समास्थितः ॥ ७.१९३.२५ ॥

他在战场上严阵以待,如同无烟之火般燃烧,手持婆罗门神箭,要消灭刹帝利。

7.193.26

पाञ्चाल्यं विरथं भीमो हतसर्वायुधं बली ।
सुविपण्णं महात्मानं त्वरमाणः समभ्ययात् ॥ ७.१९३.२६ ॥

强大的怖军看见那位高尚的般遮罗王子无车、武器全失、极度沮丧,便急忙向他奔去。

7.193.27

ततः स्वरथमारोप्य पाञ्चाल्यमरिमर्दनः ।
अब्रवीदभिसम्प्रेक्ष्य द्रोणमस्यन्तमन्तिकात् ॥ ७.१९३.२७ ॥

于是灭敌者怖军把般遮罗王子扶上自己的战车,望着近处正在射箭的德罗纳,说道。

7.193.28

न त्वदन्य इहाचार्यं योद्धुमुत्सहते पुमान् ।
त्वरस्व प्राग्वधायैव त्वयि भारः समाहितः ॥ ७.१९३.२८ ॥

此地除你之外,无人敢与老师交战。快去将他诛杀;重任已落在你身上。

7.193.29

स तथोक्तो महाबाहुः सर्वभारसहं धनुः ।
अभिपत्याददे क्षिप्रमायुधप्रवरं दृढम् ॥ ७.१९३.२९ ॥

他听了这话,长臂的怖军迅速上前,拿起那张能承受一切重负的坚固强弓,那是最好的兵器。

7.193.30

संरब्धश्च शरानस्यन्द्रोणं दुर्वारणं रणे ।
विवारयिपुराचार्यं शरवर्षैरवाकिरत् ॥ ७.१९३.३० ॥

怖军怒火中烧,想要阻挡在战场上难以抵挡的德罗纳,于是射出箭矢,以箭雨覆盖了老师。

7.193.31

तौ न्यवारयतां श्रेष्ठौ संरब्धौ रणशोभिनौ ।
उदीरयेतां ब्राह्माणि दिव्यान्यस्त्राण्यनेकशः ॥ ७.१९३.३१ ॥

这两位最优秀的勇士,怒火中烧,装点着战场,彼此阻挡,并屡次发出神圣的梵天神箭。

7.193.32

स महास्त्रैर्महाराज द्रोणमाच्छादयद्रणे ।
निहत्य सर्वाण्यस्त्राणि भारद्वाजस्य पार्षतः ॥ ७.१९३.३२ ॥

大王啊,他在战场上以大神箭遮蔽了德罗纳,摧毁了婆罗堕阇之子的一切兵器,此人即般遮罗之子。

7.193.33

स वसातीञ्शिवींस्चैव वाह्लीकान्कौरवानपि ।
रक्षिष्यमाणान्सङ्ग्रामे द्रोणं व्यधमदच्युतः ॥ ७.१९३.३३ ॥

那位不坠者击倒了婆萨提人、尸毗人、婆利迦人,甚至包括在战场上守护德罗纳的俱卢人。

7.193.34

धृष्टद्युम्नस्तथा राजन्गभस्तिभिरिवांशुमान् ।
वभौ प्रच्छादयन्नाशाः शरजालैः समन्ततः ॥ ७.१९३.३४ ॥

大王啊,持暴亦如太阳以光芒照耀,以箭网从四面八方遮蔽了诸方。

7.193.35

तस्य द्रोणो धनुश्छित्त्वा विद्ध्वा चैनं शिलीमुखैः ।
मर्माण्यभ्यहनद्भूयः स व्यथां परमामगात् ॥ ७.१९३.३५ ॥

德罗纳斩断他的弓,以箭射穿他,又击中他的要害,他陷入了极大的痛苦。

7.193.36

ततो भीमो दृढक्रोधो द्रोणस्याश्लिष्य तं रथम् ।
शनकैरिव राजेन्द्र द्रोणं वचनमब्रवीत् ॥ ७.१९३.३६ ॥

于是,怒气坚定的婆罗摩仙人毗摩靠近德罗纳的战车,王中之王啊,缓缓地对德罗纳说了这些话。

7.193.37

यदि नाम न युध्येरञ्शिक्षिता ब्रह्मबन्धवः ।
स्वकर्मभिरसन्तुष्टा न स्म क्षत्रं क्षयं व्रजेत् ॥ ७.१९३.३७ ॥

若受过教育的婆罗门同族不参与战斗,且不对自己的本分感到不满,刹帝利便不会走向毁灭。

7.193.38

अहिंसां सर्वभूतेषु धर्मं ज्यायस्तरं विदुः ।
तस्य च ब्राह्मणो मूलं भवांश्च ब्रह्मवित्तमः ॥ ७.१९३.३८ ॥

他们认为对一切众生的不害是更高的法;其根本是婆罗门,而您是吠陀智者中最为博学的。

7.193.39

श्वपाकवन्म्लेच्छगणान्हत्वा चान्यान्पृथग्विधान् ।
भरन्ति हि सुतान्दारांस्तद्वदज्ञानमोहिताः ॥ ७.१९३.३९ ॥

他们杀死了如狗肉者一般的蛮族群体及其他各种人,却因无知而迷惑,仍然养活妻子与儿子。

7.193.40

अज्ञानान्मूढवद्ब्रह्मन्पुत्रदारधनेप्सया ।
एकस्यार्थे बहून्हत्वा पुत्रस्याधर्मविद्यया।
स्वकर्मस्थान्विकर्मस्थो न व्यपत्रपसे कथम् ॥ ७.१९३.४० ॥

婆罗门啊,你因无知如愚人一般,为了儿子、妻子和财富的欲望,为了一人而杀害众多,以不义之学,身处非法行为之中,面对那些安于本分的人,你为何不感到羞耻?

7.193.41

आचारहीन निर्लज्ज ब्रह्मवन्धो वरायुध ।
इदानीं तिष्ठ दुर्बुद्धे न मे जीवन्विमोक्ष्यसे ॥ ७.१९३.४१ ॥

你这无品行、无羞耻的婆罗门同族,最优秀的持械者!现在站住,恶念者;你不会活着从我手中脱身。

7.193.42

यस्यार्थे शस्त्रमादाय यमपेक्ष्य च जीवसि ।
स चाद्य पतितः शेते पृष्टेनावेदितस्तवः ॥ ७.१९३.४२ ॥

你为之拿起武器、顾虑阎摩而活着的那个人,如今倒地躺卧——你问及时,这就是告诉你的答案。

7.193.43

स वै च निहतः शेते तव पुत्रः सुमन्दधीः ।
धर्मराजस्य तद्वाक्यं नाभिशङ्कितुमर्हसि ॥ ७.१९३.४३ ॥

你那愚钝的儿子已被杀死躺在那里。你不应怀疑法王的那番话。

7.193.44

एवमुक्तस्ततो द्रोणो भीमेनोत्सृज्य तद्वनुः ।
सन्न्यासाय शरीरस्य योक्ष्यमाणः स वै द्विजः।
सर्वाण्यस्त्राणि धर्मात्मा हातुकामोऽभ्यभापत ॥ ७.१९३.४४ ॥

毕摩如此说后,德罗纳放下了那张弓。那位婆罗门即将投身瑜伽以舍弃身体,正直的他想放下一切兵器,于是说道:

7.193.45

कर्णं दुर्योधनं राजंस्त्वरमाणः पराक्रमम् ।
कर्णकर्ण महेष्वास कृप दुर्योधनेति च ॥ ७.१९३.४५ ॥

大王啊,他急忙呼喊勇猛的迦尔纳:“迦尔纳,迦尔纳,大弓手!克里帕!难敌!”

7.193.46

सङ्ग्रामे क्रियतां यत्नो ब्रवीम्येष पुनःपुनः ।
पाण्डवेभ्यः शिवं वोस्तु शस्त्रमभ्युत्सृजाम्यहम्।
इति तत्र महाराज प्राक्रोशद्द्रौणिमेव च ॥ ७.१९३.४६ ॥

“你们在战斗中努力吧,我一再这样说。愿般度之子平安吉祥。我放下武器。”大王啊,他在那里说完这些,也呼唤了德罗纳之子。

7.193.47

उत्सृज्य च रणे शस्त्रं रथोपस्थे निविश्य च ।
अभयं सर्वभूतानां प्रददौ योगमीयिवान् ॥ ७.१९३.४७ ॥

他在战斗中放下武器,坐在战车的底板上,给予一切众生以无畏,进入了瑜伽。

7.193.48

तस्य तच्छिद्रनाज्ञाय धृष्टद्युम्नः प्रतापवान् ।
सशरं तद्वनुर्घोरं सन्न्यस्याथ रथे ततः।
खङ्गी रथादवप्लुत्य सहसा द्रोणमभ्ययात् ॥ ७.१९३.४८ ॥

德律史塔尤姆那看出了他的破绽,便将那张可怕的弓连同箭放在战车上,随即手持利剑从车上跃下,突然朝德罗纳冲去。

7.193.49

प्रद्रुते त्वथ द्रोणाय धृष्टद्युम्ने महारथे ।
हाहाकृतानि भूतानि मानुषाणीतराणि च ॥ ७.१९३.४९ ॥

当大车将德律史塔尤姆那冲向德罗纳时,人类与其他众生齐声哀叫:“哎呀!哎呀!”

7.193.50

द्रोणं तथागतं दृष्ट्वा धृष्टद्युम्नवशं गतम् ।
हाहाकारं भृशं चक्रुरहो धिगिति चाबुवन् ॥ ७.१९३.५० ॥

众人见德罗纳就这样落入德律史塔尤姆那之手,纷纷大声哀叫,说道:“啊!真可耻!”

7.193.51

द्रोणोऽपि शस्त्राण्युत्सृज्य परमं साङ्ख्यमास्थितः ।
तथोक्त्वा योगमास्थाय ज्योतिर्भूतो महातपाः ॥ ७.१९३.५१ ॥

德罗纳也放下武器,依止至上的数论;如此说完便入于瑜伽,这位大苦行者化为光明。

7.193.52

पुराणं पुरुषं विष्णुं जगाम मनसा परम् ।
मुखं किञ्चित्समुन्नाम्य विष्टब्योरस्तथाग्रतः ॥ ७.१९३.५२ ॥

他以心意趋向古老的补卢沙、至上的毗湿奴;微微抬起面孔,挺起胸膛向前,就这样立住了。

7.193.53

निमीलिताक्षः सत्वस्थो निक्षिप्य हृदि धारणाम् ।
ओमित्येकाक्षरं ब्रह्म ज्योतिर्भूतो महातपाः ॥ ७.१९३.५३ ॥

闭目而住于善性,将专注安置于心中,念诵“唵”——这一音节的梵,那位大苦行者化为光明。

7.193.54

स्मरित्वा देवदेवेशमक्षरं परमं प्रभुम् ।
दिवमाक्रामदाचार्यः साक्षात्सद्भिर्दुराक्रमाम् ॥ ७.१९३.५४ ॥

учитель(德罗纳)想起诸神之神、至高不灭的主,升上天界——即使善人也难以直接抵达的天界。

7.193.55

मूर्धानं तस्य निर्भिद्य ज्योती राजन्महात्मनः ।
जगाम परमं स्थानं देहं न्यस्य रथोत्तमे ॥ ७.१९३.५५ ॥

大王啊,那位大德的光明穿透他的头顶,留下身体于上好的战车上,前往至高之处。

7.193.56

द्वौ सूर्याविति नो बुद्धिरासीत्तस्मिंस्तथागते ।
एकरूपमिवाभासीज्योतिर्भिः पूरितं नभः ॥ ७.१९३.५६ ॥

他这样离去时,我们觉得那里仿佛有两个太阳;充满光明的天空看起来像是同一个形状。

7.193.57

समपद्यत चोल्काभं द्रोणस्य निधने तदा ।
निमेषमात्रेण च तज्ज्योतिरन्तरधीयत ॥ ७.१९३.५७ ॥

德罗纳死时,它如流星般出现;转瞬之间,那光明便消失了。

7.193.58

आसीत्किलकिलाशब्दः प्रहृष्टानां दिवौकसाम् ।
ब्रह्मलोकगते द्रोणे धृष्टद्युम्ने च मोहिते ॥ ७.१९३.५८ ॥

德罗纳前往梵天界、德里斯塔笃姆那陷于迷惘时,欢喜的诸神发出了欢呼之声。

7.193.59

वयमेव तदाऽद्राक्ष्म पञ्च मानुषयोनयः ।
योगयुक्तं महात्मानं गच्छन्तं परमां गतिम् ॥ ७.१९३.५९ ॥

当时,只有我们这五个人类出生者,看见那位与瑜伽相应的大德走向至高的归宿。

7.193.60

अहं धनञ्जयः पार्थः कृपः शारद्वतो द्विजः ।
वासुदेवश्च वार्ष्णेयो धर्मपुत्रश्च पाण्डवः ॥ ७.१९३.६० ॥

我是達那闍耶、普利塔之子、沙羅堕婆多之子婆羅門克利巴、婆蘇提婆、筏利溪耶,以及法之子般度族人。

7.193.61

अन्ये तु सर्वे नापश्यन्भारद्वाजस्य धीमतः ।
महिमानं महाराज योगयुक्तस्य गच्छतः।
ब्रह्मलोकं महद्दिव्यं देवगुह्यं हि तत्परम् ॥ ७.१९३.६१ ॥

然而其他人,大王啊,都没有看见智慧的婆罗堕遮之子在瑜伽中走向梵天的广大神圣世界时的那种光耀;那是诸神的最高秘密。

7.193.62

गतिं परमिकां प्राप्तमजानन्तो नृयोनयः ।
नापश्यन्गच्छमानं हि तं सार्धमृषिपुङ्गवैः।
आचार्यं योगमास्थाय ब्रह्मलोकमरिन्दमम् ॥ ७.१९३.६२ ॥

人类出身的人们不知道他已达到那最高境界,没有看见他与最优秀的仙人们一道,依托瑜伽,那位导师走向梵天之界,啊,降伏敌人者。

7.193.63

वितुन्नाङ्गं शरव्रातैरन्यस्तायुधमसृक्क्षरम् ।
विकृष्य पार्षतः खङ्गं क्रोधामर्षवशं गतः।
दृश्यमानः सर्वभूतैः केशपक्षे परामृशत् ॥ ७.१९३.६३ ॥

他看见其身躯被箭雨穿透,兵器已被抛下,鲜血流淌,于是普利沙塔之子(达利瑟塔笃输那),被愤怒与忿恨所驱使,拔出剑来,在一切众生面前揪住了他的头发。

7.193.64

तस्य मूर्धानमालम्ब्य गतसत्वस्य देहिनः ।
किञ्चिदब्रुवतः कायाद्विचकर्तासिना शिरः ॥ ७.१९३.६४ ॥

他抓住其头颅,从那已失去生命、一言不发的躯体上,用剑将头斩下。

7.193.65

हर्षेण महता महता युक्तो भारद्वाजे निपातिते ।
सिंहनादरवं चक्रे भ्रामयन्खङ्गमाहवे ॥ ७.१९३.६५ ॥

Bhāradvāja倒下时,他满怀巨大的喜悦,挥舞着剑,在战场上发出狮吼。

7.193.66

आकर्णपलितः श्यामो वयसाऽशीतिपञ्चकः ।
त्वत्कृते व्यचरत्सङ्ख्ये स तु षोडशवर्षवत् ॥ ७.१९३.६६ ॥

他头发斑白至耳,肤色黝黑,已八十五岁,却为了你在战场上如同十六岁少年般奔走。

7.193.67

उक्तवाश्च महाबाहुः कुन्तीपुत्रो धनञ्जयः ।
जीवन्तमानयाचार्यं मा वधीर्द्रुपदात्मज ॥ ७.१९३.६७ ॥

大臂的昆提之子持财者(阿周那)说道:“德鲁帕达之子啊,把老师活着带来,不要杀他。”

7.193.68

न हन्तव्यो न हन्तव्य इति ते सैनिकाश्च ह ।
उत्क्रोशन्नर्जुनश्चैव सानुक्रोशस्तमाव्रजत् ॥ ७.१९३.६८ ॥

士兵们呼喊:“不可杀,不可杀!”充满怜悯的阿周那也大声呼喊,奔向他。

7.193.69

क्रोशमानेऽर्जुने चैव पार्थिवेषु च सर्वशः ।
धृष्टद्युम्नोऽवधीद्द्रोणं रथतल्पे नरर्षभम् ॥ ७.१९३.६९ ॥

阿周那与众王从四面呼喊之时,持国子德里斯塔迅米纳杀死了躺在战车床上的人中之杰德罗纳。

7.193.70

शोणितेन परिक्लिन्नो रथाद्भूमिमथापतत् ।
लोहिताङ्ग इवादित्यो दुर्धर्षः समपद्यत ॥ ७.१९३.७० ॥

浑身浸透鲜血,他从战车跌落到地上;如同四肢赤红的太阳,这位不可战胜者(渐渐西沉)。

7.193.71

एवं तं निहतं सङ्ख्ये ददृशे सैनिको जनः ।
धृष्टद्युम्नस्तु तद्राजन्भारद्वाजशिरोऽहरत् ॥ ७.१९३.७१ ॥

如此,士兵们在战场上看到他被杀;王啊,然后德里斯塔迅那斩下了婆罗堕阇之子的头颅。

7.193.72

तावकानां महेष्वासः प्रमुखे तत्समाक्षिपत् ।
ते तु दृष्ट्वा शिरो राजन्भारद्वाजस्य तावकाः ॥ ७.१९३.७२ ॥

您的大弓手将它抛向前方;王啊,您的人看见婆罗堕阇之子的头颅——

7.193.73

पलायनकृतोत्साहा दुद्रुवः सर्वतोदिशम् ।
द्रोणस्तु दिवमास्थाय नक्षत्रपथमाविशत् ॥ ७.१९३.७३ ॥

他们唯求逃跑,四散奔逃;而德罗纳升上天空,进入了星辰之路。

7.193.74

अहमेव तदाऽद्राक्षं द्रोणस्य निधनं नृप ।
ऋषेः प्रसादात्कृष्मस्य सत्यवत्याः सुतस्य च ॥ ७.१९३.७४ ॥

王啊,那时我亲眼见到了德罗纳之死——凭仙人的恩典、黑天的恩典,以及萨提亚瓦蒂之子的恩典。

7.193.75

विधूमामिह संयान्तीमुल्कां प्रज्वलितामिव ।
अपश्याम दिवं स्तब्ध्वा गच्छन्तं तं महाद्युतिम् ॥ ७.१९३.७५ ॥

我们看见他如同一颗无烟的燃烧流星升向天空;我们屏息站立,目送那位光辉巨大的人升入天空。

7.193.76

हते द्रोणे निरुत्साहाः कुरुपाण्डवसृञ्जयाः ।
अभ्यद्रवन्महावेगास्ततः सैन्यं व्यदीर्यत ॥ ७.१९३.७६ ॥

德罗纳被杀后,俱卢、般度和娑罗奈人都失去了斗志;随后他们以极快的速度冲上前去,军队于是溃散。

7.193.77

निहता हतभूयिष्ठाः सङ्ग्रामे निशितैः शरैः ।
तावका निहते द्रोणे गतासव इवाभवन् ॥ ७.१९३.७७ ॥

德罗纳被杀之后,你的士兵大多被利箭射死于战场,仿佛失去了生命。

7.193.78

पराजयमथावाप्य परत्र च महद्भयम् ।
उभयेनैव ते हीना व्यनिन्दन्मतिमात्मनः ॥ ७.१९३.७८ ॥

既遭败绩,又在来世怀有巨大恐惧,两者皆失,他们便责备自己的智慧。

7.193.79

अन्विच्छन्तः शरीरं तु भारद्वाजस्य पार्थिवाः ।
नान्वगच्छन्महाराज कबन्धायुतसङ्कुले ॥ ७.१९३.७९ ॥

众王寻找婆罗堕遮(德罗纳)的遗体,大王啊,在那片布满成千上万无头躯干的战场上,他们没有找到。

7.193.80

पतिते त्वथ संरब्धे सेनायां तत्र भारत ।
उदिष्ठन्कबन्धानां सहस्राण्येकविंशतिः ॥ ७.१९३.८० ॥

then,婆罗多啊,当军中愤怒的战士倒在那里时,有两万一千具无头躯干站了起来。

7.193.81

शोणितेन परिक्लिन्ना रणभूमिश्च भारत ।
लोहितार्द्र इवादित्यो दुर्दर्शश्चाभवत्तदा ॥ ७.१९३.८१ ॥

婆罗多啊,被鲜血浸透的战场那时变得难以直视,如同被血浸湿的太阳。

7.193.82

पाण्डवास्तु जयं लब्ध्वा परत्र च महद्यशः ।
बाणशङ्खरवांश्चक्रुः सिंहनादांश्च पुष्कलान् ॥ ७.१९३.८२ ॥

般度之子获得胜利,并在来世获得大名,于是发出箭矢与海螺之声,以及众多狮子吼。

7.193.83

भीमसेनस्ततो राजन्धृष्टद्युम्नश्च पार्षतः ।
वरूथिन्यामनृत्येतां परिष्वज्य परस्परम् ॥ ७.१९३.८३ ॥

大王,于是毗摩世那与般遮之子德瑞斯塔笃姆那在军中相互拥抱而舞。

7.193.84

अब्रवीच्च तदा भीमः पार्षतं शत्रुतापनम् ।
भूयोऽहं त्वां परिष्वज्य परिवक्ष्यामि पार्षत।
सूतपुत्रे हते पापे धार्तराष्ट्रे च संयुगे ॥ ७.१९३.८४ ॥

于是毗摩对般遮之子这位令敌人灼热的人说道:"般遮啊,待那恶人御者之子与持国之子在战斗中被杀,我将再次拥抱你。"

7.193.85

एतावदुक्त्वा भीमस्तु हर्षेण महता युतः ।
बाहुशब्देन पृथिवीं कम्पयामास पाण्डवः ॥ ७.१९३.८५ ॥

毗摩说完这些,满怀巨大的喜悦,这位般度之子以双臂的声响使大地震动。

7.193.86

तस्य शब्देन वित्रस्ताः प्राद्रवंस्तावका युधि ।
क्षत्रधर्मं समुत्सृज्य पलायनपरायणाः ॥ ७.१९३.८६ ॥

你们的战士被那声响吓得惊恐,在战斗中舍弃了刹帝利的职责,一心只想逃跑。

7.193.87

पाण्डवास्तु जयं लब्धा हृष्टा ह्यासन्विशाम्पते ।
अरिक्षयं च सङ्ग्रामे तेन ते सुखमाप्नुवन् ॥ ७.१९३.८७ ॥

人主啊,般度之子们获得胜利而欢喜;因战场上敌人的覆灭,他们得到了安乐。