摩诃婆罗多 · 章 7.195
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
7.195.1
अधर्मेण हतं श्रुत्वा धृष्टद्युम्नेन सञ्जय ।
ब्राह्मणं पितरं वृद्धमश्वत्थामा किमब्रवीत् ॥ ७.१९५.१ ॥
桑惹耶啊,听闻他年迈的婆罗门父亲被德里斯塔德尤姆纳以非法手段杀害,马嘶说了什么?
7.195.2
मानवं वारुणाग्नेयं ब्राह्ममस्त्रं च वीर्यवान् ।
ऐन्द्रं नारायणं चैव यस्मिन्नित्यं प्रतिष्ठितम् ॥ ७.१९५.२ ॥
在勇猛的马嘶身上,常驻有摩那婆、伐楼那、火、梵天、因陀罗与那罗延等神兵。
7.195.3
तमधर्मेण धर्मिष्ठं धृष्टद्युम्नेन संयुगे ।
श्रुत्वा निहतमाचार्यं सोऽश्वत्थामा किमब्रवीत् ॥ ७.१९५.३ ॥
听闻那位最为正直的导师在战中被德里斯塔德尤姆纳以非法手段杀害,马嘶说了什么?
7.195.4
येन रामादवाप्येह धनुर्वेदं महात्मना ।
प्रोक्तान्यस्त्राणि दिव्यानि पुत्राय गुणकाङ्क्षिणा ॥ ७.१९५.४ ॥
那位大德者在此从罗摩处获得射箭之学,为求儿子的德行,将神圣的武器传授给他。
7.195.5
एकमेव हि लोकेऽस्मिन्नात्मतो गुणवत्तरम् ।
इच्छन्ति पुरुषाः पुत्रं लोके नान्यं कथञ्चन ॥ ७.१९५.५ ॥
在这世上,人们只愿有一个比自己更有德行的儿子,绝不会要别的。
7.195.6
आचार्याणां भवन्त्येव रहस्यानि महात्मनाम् ।
तानि पुत्राय वा दद्युः शिष्यायानुगताय वा ॥ ७.१९५.६ ॥
大德的导师确实有秘诀;他们可以将其传给儿子,或传给追随他们的弟子。
7.195.7
स शिष्यः प्राप्य तत्सर्वं सविशेषं च सञ्जय ।
शूरः शारद्वतीपुत्रः सङ्ख्ये द्रोणादनन्तरः ॥ ७.१९५.७ ॥
桑闍耶啊,那位弟子获得了这一切及其细节,英雄、沙罗陀婆提之子,在战斗中仅次于德罗纳。
7.195.8
रामस्य तु समः शस्त्रे पुरन्दरसमो युधि ।
कार्तवीर्यसमो वीर्ये बृहस्पतिसमो मतौ ॥ ७.१९५.८ ॥
在武器上他与罗摩相等;在战斗中与补兰达罗(因陀罗)相等;在勇力上与迦尔塔维利亚相等;在谋略上与布利哈斯帕蒂相等。
7.195.9
महीधरसमः स्थैर्ये तेजसाऽग्निसमो युवा ।
समुद्र इव गाम्भीर्ये क्रोधे चाशीविषोपमः ॥ ७.१९५.९ ॥
在坚定上他如山岳;年轻,光辉与火相等;深沉如大海;愤怒时如毒蛇。
7.195.10
स रथी प्रथमो लोके दृढधन्वा जितक्लमः ।
शीघ्रोऽनिल इवाक्रन्दे चरन्क्रुद्ध इवान्तकः ॥ ७.१९५.१० ॥
他是世上第一的战车武士,是坚定的弓手,战胜了疲劳;在战吼中疾如风,行动如愤怒的死神。
7.195.11
अस्यता येन सङ्ग्रामे धरण्यभिनिपीडिता ।
मेघस्तनितनिर्घोषं कम्पते भयविह्वलाः।
यो न व्यथति सङ्ग्रमे वीरः सत्यपराक्रमः ॥ ७.१९५.११ ॥
当他在战斗中射出箭矢时,大地受到重压,在恐惧中颤抖,发出如雷云般的轰鸣。他是在战斗中不动摇的英雄,真正勇武的人。
7.195.12
वेदस्नातो व्रतस्नातो धनुर्वेदे च पारगः ।
महोदधिरिवाक्षोभ्यो रामो दाशरथिर्यथा ॥ ७.१९५.१२ ॥
沐浴于吠陀,以誓愿净化,精通弓箭之学;如大海般不可动摇,如十车王之子罗摩。
7.195.13
तमधर्मेण धर्मिष्ठं धृष्टद्युम्नेन संयुगे ।
श्रुत्वा निहतमाचार्यमश्वत्थामा किमब्रवीत् ॥ ७.१९५.१३ ॥
听闻那位最为正直的师尊在战斗中被Dhṛṣṭadyumna以不义之方杀死,Aśvatthāman说了什么?
7.195.14
धृष्टद्युम्नस्य यो मृत्युः सृष्टस्तेन महात्मना ।
यथा द्रोणस्य पाञ्चाल्यो यज्ञसेनसुतोऽभवत् ॥ ७.१९५.१४ ॥
那位大德为Dhṛṣṭadyumna所定的死亡,却由Yajñasena之子、般遮罗王子降临到德罗纳身上。
7.195.15
तं नृशंसेन पापेन क्रूरेणादीर्घदर्शिना ।
श्रुत्वा निहतमाचार्यमश्वत्थामा किमब्रवीत् ॥ ७.१९५.१५ ॥
听闻师尊被那残忍、有罪、凶狠而短视之人杀害,Aśvatthāman说了什么?