摩诃婆罗多 · 章 7.196
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
7.196.1
छद्मना निहतं श्रुत्वा पितरं पापकर्मणा ।
बाष्पेणापूर्यत द्रौणी रोषेण च नरर्षभ ॥ ७.१९६.१ ॥
德罗纳之子听闻父亲被一个作恶之人以诡计杀害,充满了泪水与愤怒,啊,人中之牛。
7.196.2
तस्य क्रुद्धस्य राजेन्द्र वपुर्दीप्तमदृश्यत ।
अन्तकस्येव भूतानि जिहीर्षोः कालपर्यये ॥ ७.१९६.२ ॥
啊,诸王之主,他愤怒而炽燃的身体显现出来,仿佛时末想要夺走众生的死神(安塔卡)。
7.196.3
अश्रूपुर्णे ततो नेत्रे व्यपमृज्य पुनः पुनः ।
उवाच कोपान्निःश्वस्य दुर्योधनमिदं वचः ॥ ७.१९६.३ ॥
然后,他一次又一次擦去充满泪水的双眼,因愤怒而叹息,向难敌说出了这些话。
7.196.4
पिता मम यथा क्षुद्रैर्न्यस्तशस्त्रो निपातितः ।
धर्मध्वजवता पापं कृतं तद्विदितं मम।
अनार्यं सुनृशंसं च धर्मपुत्रस्य मे श्रुतम् ॥ ७.१९६.४ ॥
我父亲放下武器之后仍被卑劣之人击倒,那罪行出自举着法之旗的人,我是知道的。我也听说了法之子那卑劣而极其残忍的行为。
7.196.5
युद्धेष्वपि प्रवृत्तानां ध्रुवं जयपराजयौ ।
द्वयमेतद्भवेद्राजन्वधस्तत्र प्रशस्यते ॥ ७.१९६.५ ॥
对于投身战斗的人,胜利与失败二者必然都会降临,啊,国王;而在那里,杀戮是受到赞扬的。
7.196.6
न्यायवृत्तो वधो यस्तु संङ्ग्रामे युध्यतो भवेत् ।
न स दुःखाय भवति तथा दृष्टो हि स द्विजैः ॥ ७.१९६.६ ॥
在战斗中依正义之道所行的杀戮,对于作战之人并不会成为悲痛之因;二生者也曾如此看待。
7.196.7
गतः स वीरलोकाय पिता मम न संशयः ।
न शोच्यः पुरुषव्याघ्र यस्तदा निधनं गतः ॥ ७.१९६.७ ॥
我的父亲已往英雄之界,此无疑问。人中之虎啊,那时殒命者不应悲叹。
7.196.8
यत्तु धर्मप्रवृतः सन्केशग्रहणमाप्तवान् ।
पश्यतां सर्वसैन्यानां तन्मे मर्माणि कृन्तति ॥ ७.१९६.८ ॥
然而他身居法道,却在诸军注视之下被揪住头发,这割裂了我的要害。
7.196.9
मयि जीवति यत्तातः केशग्रहमवाप्तवान् ।
कथमन्ये करिष्यन्ति पुत्रेभ्यः पुत्रिणः स्पृहाम् ॥ ७.१९६.९ ॥
我尚在世,父亲竟被揪住头发;那么其他有子之父,又将如何指望儿子呢?
7.196.10
कामात्क्रोधादविज्ञानाद्वर्षाद्बाल्येन वा पुनः ।
विधर्मकाणि कुर्वन्ति तथा परिभवन्ति च ॥ ७.१९६.१० ॥
因为欲望、愤怒、无知、年老或年少,人们再次行非法之事,并且也加以轻慢。
7.196.11
तदिदं पार्षतेनेह महदाधर्मिकं कृतम् ।
अवज्ञाय च मां नूनं नृशंसेन दुरात्मना ॥ ७.१९६.११ ॥
此处,波利沙塔之子犯下了这大非法之事,必是轻视了我,那残忍而心怀恶念之人。
7.196.12
तस्यानुबन्धं द्रष्टाऽसौ धृष्टद्युम्नः सुदारुणम् ।
अकार्यं परमं कृत्वा मिथ्यावादी च पाण्डवः ॥ ७.१९६.१२ ॥
他见到其后果,那持盾者丹丹顿(德利斯塔笛欧摩)极为可怖;做了至上的不当之事,那般坦王子亦是说谎者。
7.196.13
यो ह्यसौ छद्मनाऽऽचार्यं शस्त्रं सन्न्यासयत्तदा ।
तस्याद्य धर्मराजस्य भूमिः पास्यति शोणितम् ॥ ७.१९६.१३ ॥
那个当时以诡计使师尊放下武器的人,今日法王之地将饮他的血。
7.196.14
शपे सत्येन कौरव्य इष्टापूर्तेन चैव ह ।
अहत्वा सर्वपाञ्चालाञ्जीवेयं न कथञ्चन ॥ ७.१९६.१४ ॥
俱卢之子啊,我以真理及祭祀布施的功德发誓:若不杀尽般遮罗族人,我绝不能苟活。
7.196.15
सर्वोपायैर्यतिष्यामि पाञ्चालानामहं वधे ।
धृष्टद्युम्नं च समरे हन्ताऽहं पापकारिणम् ॥ ७.१९६.१५ ॥
我将以一切手段努力杀尽般遮罗族人;在战场上,我亲手杀死那作恶的德里什塔尤姆那。
7.196.16
कर्मणा येन तेनेह मृदुना दारुणेन च ।
पाञ्चालानां वधं कृत्वा शान्तिं लब्धास्मि कौरव ॥ ७.१९६.१६ ॥
俱卢之子啊,无论以何种行为,温和或残酷,我在杀尽般遮罗族人之后将得到平静。
7.196.17
यदर्थं पुरुषव्याघ्र पुत्रानिच्छन्ति मानवाः ।
प्रेत्य चेह च सम्प्राप्तात्त्रायन्ते महतो भयात् ॥ ७.१९६.१७ ॥
人中之虎啊,人们为之而渴望儿子,因为得到的儿子能在死后与此世中救护人们脱离大恐惧。
7.196.18
पित्रा तु मम साऽवस्था प्राप्ता निर्बन्धुना यथा ।
मयि शैलप्रतीकाशे पुत्रे शिष्ये च जीवति ॥ ७.१९६.१८ ॥
我父亲的处境竟如同无亲无眷之人,而我如山岳般尚在,儿子与弟子也都还活着。
7.196.19
धिङ्ममास्त्राणि दिव्यानि धिग्बाहू धिक्पराक्रमम् ।
यं स्म द्रोणः सुतं प्राप्य केशग्रहमवाप्तवान् ॥ ७.१९६.१९ ॥
羞辱我的神圣武器,羞辱我的双臂,羞辱我的勇力!德罗纳得了儿子,却遭受了被揪住头发的羞辱。
7.196.20
स तथाहं करिष्यासि यथा भरतसत्तम ।
परलोकगतस्यापि भविष्याम्यनृणः पितुः ॥ ७.१९६.२० ॥
婆罗多中最优秀的人啊,我将如此行事,即使对已往生他界的父亲,我也将不再负债。
7.196.21
आर्येण हि न वक्तव्या कदाचित्स्तुतिरात्मनः ।
पितुर्वधममृष्यंस्तु वक्ष्याम्यद्येह पौरुषम् ॥ ७.१९६.२१ ॥
高尚的人绝不应自我夸赞;然而我无法忍受父亲被杀,今日便在此宣告我的勇武。
7.196.22
अद्य पश्यन्तु मे वीर्यं पाण्डवाः सजनार्दनाः ।
मृद्गतः सर्वसैन्यानि युगान्तमिव कुर्वतः ॥ ७.१९६.२२ ॥
愿今日般度之子与杰纳尔达那一同看见我的威力——我碾碎一切军队,如同时代的终结。
7.196.23
न हि देवा न गन्धर्वा नासुरा न च राक्षसाः ।
अद्य शक्ता रणे जेतुं रथस्थं मां नरर्षभाः ॥ ७.१९६.२३ ॥
诸人中的雄牛啊,今日即便天神、乾闼婆、阿修罗,甚至罗刹,也无力在战场上战胜站在战车中的我。
7.196.24
मदन्यो नास्ति लोकेऽस्मिन्नर्जुनाद्वाऽस्त्रवित्क्वचित् ।
अहं हि ज्वलतां मध्ये मयूखानामिवांशुमान्।
प्रयोक्ता देवसृष्टानामस्त्राणां पृतनागतः ॥ ७.१९६.२४ ॥
在这世上,除我与阿周那之外,再无他人通晓兵器。我如烈焰光芒中的太阳,进入军中,乃是运用天神所造神兵之人。
7.196.25
भृशमिष्वसनादद्य मत्प्रयुक्ता महाहवे ।
दर्शयन्तः शरा वीर्यं प्रमथिष्यन्ति पाण्डवान् ॥ ७.१९६.२५ ॥
今日,我从弓中射出的箭矢,在大战中显示其威力,将彻底摧毁般度之子。
7.196.26
अद्य सर्वा दिशो राजन्धाराभिरिव सङ्कुलाः ।
आवृताः पत्रिभिस्तीक्ष्णैर्द्रष्टारो मामकैरिह ॥ ७.१९६.२६ ॥
大王,今日四方将被锐利的箭矢充满遮蔽,如同雨流一般,而我的人们在此将成为目睹者。
7.196.27
विकिरञ्छरजालानि सर्वतो भैरवस्वनान् ।
शत्रून्निपातयिष्यामि महावात इव द्रुमान् ॥ ७.१९६.२७ ॥
我将四面散布发出可怖声响的箭网,像大风吹倒树木一样击倒敌人。
7.196.28
न हि जानाति बीभत्सुस्तदस्त्रं न जनार्दनः ।
न भीमसेनो न यमौ न च राजा युधिष्ठिरः ॥ ७.१९६.२८ ॥
的确,毗跋蹉(阿周那)不知那件兵器,遮那陀那(黑天)也不知,毗摩సేna(怖军)也不知,双生子也不知,国王坚战也不知。
7.196.29
न पार्षतो दुरात्माऽसौ न शिखण्डी न सात्यकिः ।
यदिदं मयि कौरव्य सकल्यं सनिवर्तनम् ॥ ७.१९६.२९ ॥
那恶心的般磨族之子(持国子)不知,尸gan底不知,萨提亚吉也不知——哦,俱卢后裔,我身中的此物,其全部及其回返。
7.196.30
नारायणाय मे पित्रा प्रणम्य विधिपूर्वकम् ।
उपहारः पुरा दत्तो ब्रह्मरूप उपस्थितः ॥ ७.१९६.३० ॥
往昔我父亲依照仪轨向那罗延(Nārāyaṇa)顶礼,将此礼物献给了那现身为梵之形的神。
7.196.31
तं स्वयं प्रतिगृह्याथ भगवान्स वरं ददौ ।
वव्रे पिता मे परममस्त्रं नारायणं ततः ॥ ७.१९६.३१ ॥
他亲自接受了它,尊者便赐予恩惠。随后我的父亲选择了至高的武器——那罗延。
7.196.32
अथैनमब्रवीद्राजन्भागवान्देवसत्तमः ।
भविता त्वत्समो नान्यः कश्चिद्युधि नरः क्वचित् ॥ ७.१९६.३२ ॥
于是,诸神中最优秀的尊者对他说,王啊:在战场上,将来再也不会有与你匹敌的人。
7.196.33
न त्विदं सहसा ब्रह्मन्प्रयोक्तव्यं कथञ्चन ।
न ह्येतदस्त्रमन्यत्र वधाच्छत्रोर्निवर्तते ॥ ७.१९६.३३ ॥
但是,婆罗门啊,绝不可轻率地使用此物,因为此武器除非杀死敌人,否则不会收回。
7.196.34
न चैतच्छक्यते जेतुं को न वध्येत वै प्रभो ।
अवध्यमपि हन्याद्वि तस्मान्नैतत्प्रयोजयेत् ॥ ७.१९६.३४ ॥
此物也无法被战胜。主啊,谁不会被它杀死?它甚至能杀死不可杀者;因此不应使用它。
7.196.35
अथ सङ्ख्ये रथस्यैव शस्त्राणां च विसर्जनम् ।
प्रयाचनं च शत्रूणां गमनं शरणस्य च ॥ ७.१९६.३५ ॥
随后在战斗中:下车,放下武器,向敌人恳求,并前往投降寻求庇护。
7.196.36
एते प्रशमने योगा महास्त्रस्य परन्तप ।
सर्वथा पीडितो हिंस्यादवध्यान्पीडयन्रणे ॥ ७.१९६.३६ ॥
这些是平息大武器的方法,啊,焚烧敌人者。完全受困的人,即使在战斗中逼迫不可杀者,也可以杀死他们。
7.196.37
तज्जग्राह पिता मह्यमब्रवीच्चैव स प्रभुः ।
त्वं वधिष्यसि सर्वाणि शस्त्रवर्षाण्यनेकशः।
अनेनास्त्रेण सङ्ग्रामे तेजसा च ज्वलिष्यसि ॥ ७.१९६.३७ ॥
父亲接过了它,那位主宰对我说:“你将以此神兵在战场上以种种方式倾下各种兵器之雨,并因你的威光而光耀。”
7.196.38
एवमुक्त्वा स भगवान्दिवमाचक्रमे प्रभुः ।
एतन्नारायणादस्त्रं तत्प्राप्तं पितृबन्धुना ॥ ७.१९६.३८ ॥
说完这些话,那位世尊主宰便升上了天界。此神兵得自那罗延,是由我父亲的亲属所获得的。
7.196.39
तेनाहं पाण्डवांश्चैव पाञ्चालान्मात्स्यकेकयान् ।
विद्रावयिष्यामि रणे शचीपतिरिवासुरान् ॥ ७.१९६.३९ ॥
我将以此神兵,在战场上驱散般度子孙、般遮罗人、摩差人与迦迦耶人,正如舍吉之夫(因陀罗)驱散阿修罗。
7.196.40
यथायथाऽहमिच्छेयं तथा भूत्वा शरा मम ।
निपतेयुः सपत्नेषु विक्रमत्स्वपि भारत ॥ ७.१९६.४० ॥
我如何愿望,我的箭便如何成就,并落在敌人身上,哦,婆罗多,即便是那些英勇作战之人。
7.196.41
यथेष्टमश्मवर्षेण प्रवर्षिष्ये रणे स्थितः ।
अयोमुखैश्च विहगैर्द्रावयिष्ये महारथान् ॥ ७.१९६.४१ ॥
我将站在战场上,随心所欲地降下石雨,并以铁头的箭鸟驱散大战车武士。
7.196.42
परश्वथांश्च निशितानुत्स्रक्ष्येऽहमसंशयम् ॥ ७.१९६.४२ ॥
我也毫无疑问地要放出锋利的战斧。
7.196.43
सोऽहं नारायणास्त्रेण महता शत्रुतापनः ।
शत्रून्विध्वंसयिष्यामि कदर्थीकृत्य पाण्डवान् ॥ ७.१९६.४३ ॥
我以大那罗延神箭,使般度之子蒙受轻蔑,并毁灭敌人,我这灼烧敌人者。
7.196.44
मित्रब्रह्मगुरुद्रोही जाल्मकः सुविगर्हितः ।
पाञ्चालापशदश्चाद्य न मे जीवन्विमोक्ष्यते ॥ ७.१९६.४४ ॥
背叛朋友、婆罗门与师长、卑劣而极受唾弃的般遮罗败类,今日不会被我放过性命。
7.196.45
तच्छ्रुत्वा द्रोणपुत्रस्य पर्यवर्तत वाहिनी ।
ततः सर्वे महाशङ्खान्दध्मुः पुरुषसत्तमाः।
भेरीश्चाभ्यहनन्हृष्टा डिण्डिभांश्च सहस्रशः ॥ ७.१९६.४५ ॥
德罗纳之子的军队听闻此事后转身回来。于是众位英雄吹响大螺号,欢欣地敲响成千上万的鼓与铙。
7.196.46
तथा ननाद वसुधा खुरनेमिप्रपीडिता ।
स शब्दस्तुमुलः खं द्यां पृथिवीं च व्यनादयत् ॥ ७.१९६.४६ ॥
大地被马蹄与车轮的边缘辗压,如此轰鸣起来。那震耳的声音使天空、天界与大地都回响起来。
7.196.47
तं शब्दं पाण्डवाः श्रुत्वा पर्जन्यनिनदोपमम् ।
समेत्य रथिनां श्रेष्ठाः सहिताश्चाप्यमन्त्रयन् ॥ ७.१९६.४७ ॥
般度之子闻听那如雷云般的声音,车战勇士中的翘楚们聚集一处,共同商议。
7.196.48
तथोक्त्वा द्रोणपुत्रस्तु वार्युपस्पृश्य भारत ।
प्रादुश्चकार तद्दिव्यमस्त्रं नारायणं तदा ॥ ७.१९६.४८ ॥
婆罗多后裔啊,德罗纳之子说完这番话,以水净身,随即显现了那神圣的那罗延神箭。