Vedyatra वेदयात्रा
検索

マハーバーラタ · 章 7.198

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

語の意味つきで読む

7.198.1

अर्जुनस्य वचः श्रुत्वा नोचुस्तत्र महारथाः ।
अप्रियं वा प्रियं वाऽपि महाराज धनञ्जयम् ॥ ७.१९८.१ ॥

大王よ、アルジュナの言葉を聞いて、そこの大戦車兵たちは、不快であれ快いものであれ、ダナンジャヤに何も言わなかった。

7.198.2

ततः क्रुद्धो महाबाहुर्भीमसेनोऽभ्यभाषत ।
कुत्सयन्निव कौन्तेयमर्जुनं भरतर्षभ ॥ ७.१९८.२ ॥

すると怒れる大腕のビーマセーナは、クンティーの子アルジュナを咎めるかのように彼に言った──バラタの牡牛よ!

7.198.3

मुनिर्यथाऽरण्यगतो भाषते धर्मसंहितम् ।
न्यस्तदण्डो यथा पार्थं ब्राह्मणः संशितव्रतः ॥ ७.१९८.३ ॥

森へ入った聖者が杖を置いて法にかなった言葉を語るように、誓いに堅固なバラモンはパールタに語りかける。

7.198.4

क्षतत्राता क्षताज्जीवन्क्षन्ता स्त्रीष्वपि साधुषु ।
क्षत्रियः क्षितिमाप्नोति क्षिप्रं धर्मं यशः श्रियः ॥ ७.१९८.४ ॥

傷から守る者、傷によって生きる者、女性や善人に対してさえ寛容な者であるクシャトリヤは、速やかに大地、法、名声、繁栄を得る。

7.198.5

स भवान्क्षत्रियगुणैर्युक्तः सर्वैः कुलोद्वहः ।
अविपश्चिद्यथा वाचं व्याहरन्नाद्य शोभसे ॥ ७.१९८.५ ॥

あなたは武士のすべての徳を備え家の名誉を担う者なのに、今日は愚か者のように話して輝いていない。

7.198.6

पराक्रमस्ते कौन्तेय शक्रस्येव शचीपतेः ।
न चातिवर्तसे धर्मं वेलामिव महोदधिः ॥ ७.१९८.६ ॥

クンティーの子よ、あなたの武勇はシャチーの夫インドラのようだ。大海が岸を越えないように、あなたも法を踏み越えない。

7.198.7

न पूजयेत्त्वां कोन्वद्य यत्त्रयोदशवार्षिकम् ।
अमर्षं पृष्ठतः कृत्वा धर्ममेवाभिकाङ्क्षसे ॥ ७.१९८.७ ॥

十三年の歳月を耐え抜いたあなたを、今日誰が敬わないことがあろうか。怒りを背後に置き、あなたはただダルマを望んでいる。

7.198.8

दिष्ट्या तात मनस्तेऽद्य स्वधर्ममनुवर्तते ।
आनृशंस्ये च ते दिष्ट्या बुद्धिः सततमच्युत ॥ ७.१९८.८ ॥

幸いにも、いとしき者よ、今日あなたの心は自らのダルマに従っている。幸いにも、あなたの知性は常に慈悲に安んじている、不動の者よ。

7.198.9

यत्तु धर्मप्रवृत्तस्य हृतं राज्यमधर्मतः ।
द्रौपदी च परामृष्टा सभामानीय शत्रुभिः ॥ ७.१९८.९ ॥

法に勤めるあなたから王国は不法に奪われ、ドラウパディーは敵によって集会へ引きずり出され、辱められた。

7.198.10

वनं प्रव्राजिताश्चास्म वल्कलाजिनवाससः ।
अनर्हमाणास्तं भावं त्रयोदश समाः परैः ॥ ७.१९८.१० ॥

私たちは森へと追われ、樹皮と鹿皮をまとい、その境遇に値しないまま、敵のせいで十三年の間を過ごした。

7.198.11

बहूनि क्षाम्य शत्रूणां सत्यधर्मरता वयम् ।
तथा तन्मर्षयित्वा तु यथा ते उत्पथे स्थिताः ॥ ७.१९८.११ ॥

敵の多くの罪を私たちは赦した。真実と法を喜ぶ私たちは、彼らが邪道に立っていることにも耐え忍んだ。

7.198.12

एतान्यमर्षस्थानानि मर्षितानि त्वयाऽघन ।
क्षत्रधर्मप्रसक्तेन सर्वमेतदनुष्ठितम् ॥ ७.१९८.१२ ॥

ああ、無垢なる者よ。クシャトリヤのダルマに勤めるあなたは、これらの怒りの因を耐え忍んだ。そのすべてをあなたは遂行したのだ。

7.198.13

तमधर्ममपाकृष्टं स्मृत्वाऽद्य सहितस्त्वया ।
सानुबन्धान्हनिष्यामि क्षुद्रान्राज्यहरानहम् ॥ ७.१९८.१३ ॥

我らを引きずり去った不正を今日思い起こし、あなたと共に、従者たちとともに、王国を奪ったあの卑しい者どもを私は討ち滅ぼすであろう。

7.198.14

त्वया हि कथितं पूर्वं युद्धायाभ्यागता वयम् ।
घटामहे यथाशक्ति त्वं तु नोऽद्य जुगुप्ससे ॥ ७.१९८.१४ ॥

あなたは以前、我々は戦いのために来たと言われた。我々は力の限り努めているのに、今日あなたは我々を蔑んでいる。

7.198.15

स्वधर्मं नेच्छसे ज्ञातुं वृथा वचनमेव ते ।
भयार्दितानामस्माकं वाचा मर्माणि कृन्तसि ॥ ७.१९८.१५ ॥

あなたは自分の本分を知ろうとしない。あなたの言葉は空しい。恐怖に苦しむ我々の急所を、あなたは言葉で切り裂く。

7.198.16

वपन्व्रणे क्षारमिव क्षतानां शत्रुकर्शन ।
विदीर्यते मे हृदयं त्वया वाक्शल्यपीडितम् ॥ ७.१९८.१६ ॥

敵を苦しめる者よ、傷口に塩を撒くように、傷ついた我々の上にあなたの言葉の矢に苦しめられて、私の心は裂けそうだ。

7.198.17

अधर्ममेन विपुलं धार्मिकः सन्न बुध्यसे ।
यत्त्वमात्मानमस्मांश्च प्रशंस्यान्न प्रशंससि ॥ ७.१९८.१७ ॥

あなたは義にかなう者でありながら、この大きな不正を見抜かない。あなた自身も我々も称賛に値するのに、あなたは称賛しない。

7.198.18

वासुदेवे स्थिते चापि द्रोणपुत्रं प्रशंससि ।
यः कलां षोडशीं पूर्णां धनञ्जय न तेऽर्हति ॥ ७.१९८.१८ ॥

ヴァースデーヴァ(クリシュナ)が居られるのに、あなたはドローナの子を称賛する。ダナンジャヤよ、彼はあなたの十六の完全な分身にさえ値しない。

7.198.19

स्वयमेवात्मनो दोषान्ब्रुवाणः किं न लज्जसे ॥ ७.१९८.१९ ॥

自分自身の過ちを語りながら、なぜ恥じないのか。

7.198.20

मम नागायुतं पार्थ बलं बाह्वोर्विधीयते ।
दारयेयं महीं क्रोधाद्विकिरेयं च पर्वतान् ॥ ७.१९८.२० ॥

プリター の子よ、私の両腕には一万頭の象の力がある。怒れば大地を裂き、山々を散らすことができる。

7.198.21

आविध्यैतां गदां गुर्वी भीमां काञ्चनमालिनीम् ।
गिरिप्रकाशान्क्षितिजान्भञ्जेयमनिलो यथा ॥ ७.१९८.२१ ॥

金の花環で飾られた、重く恐ろしいこの棍棒を振り回し、風が吹くように、大地に生え山のようにそびえる木々を折ってしまえる。

7.198.22

द्रावयेयं शरैश्चापि सेन्द्रान्देवान्समागतान् ।
सराक्षसगणान्पार्थ सासुरोरगमानवान् ॥ ७.१९८.२२ ॥

プリター の子よ、矢によって、インドラと共に集まった神々をも、羅刹の群れ、阿修羅、蛇、人間をも追い散らすことができる。

7.198.23

स त्वमेवंविधं जानन्भ्रातरं मां नरर्षभ ।
द्रोणपुत्राद्भयं कर्तुं नार्हस्यमितविक्रम ॥ ७.१९८.२३ ॥

人中の雄牛よ、無量の勇猛なる者よ。私のような兄弟を知りながら、ドローナの子によって恐れを抱くべきではない。

7.198.24

अथवा तिष्ठ बीभत्सो सह सर्वैः सहोदरैः ।
अहमेनं गदापाणिर्जेष्याम्येको महाहवे ॥ ७.१९८.२४ ॥

あるいは、ビービャツ(アルジュナ)よ、お前は兄弟たちすべてと共にとどまれ。私は一人、手に棍棒を持って、あの大戦でかれに勝つだろう。

7.198.25

ततः पाञ्चालराजस्य पुत्रः पार्थमथाब्रवीत् ।
सङ्क्रुद्धमिव नर्दन्तं हिरण्यकशिपुर्हरिम् ॥ ७.१९८.२५ ॥

するとパーンチャーラ王の息子は、怒り吠えるライオンに向かうかのように、パールタに語った。

7.198.26

बीभत्सो विप्रकर्माणि विहितानि मनीषिभिः ।
याजनाध्यापने दानं यथा यज्ञप्रतिग्रहौ ॥ ७.१९८.२६ ॥

ビーバトゥス よ、賢者は婆羅門の務めを定めた。供犠を執り行い、教え、施しをし、供犠の布施を受けることである。

7.198.27

षष्ठमध्ययनं नाम तेषां कस्मिन्प्रतिष्ठितः ।
हतो द्रोणो मया ह्येवं किं मां पार्थ विगर्हसे ॥ ७.१९८.२७ ॥

その中で六番目の学習と呼ばれる務めは、何に基づいているのか。こうしてドローナは私に殺された。パールタよ、なぜ私を責めるのか。

7.198.28

अपक्रान्तः स्वधर्माच्च क्षात्रधर्मं व्यपाश्रितः ।
अधर्मेण हतस्तस्मादस्त्रेण क्षुद्रकर्मकृत् ॥ ७.१९८.२८ ॥

自らの務めから外れ、武士の務めを取ったので、彼は不正によって殺された。ゆえに武器をもって卑しい行いをなした者(が殺された)。

7.198.29

तथा मायां प्रयुञ्जानमसह्यं ब्राह्मणब्रुवम् ।
प्रतिमायी निहन्याद्यो न युक्तं पार्थ तत्र किम् ॥ ७.१९८.२९ ॥

同様に、欺瞞を用い、婆羅門を自称する耐え難い者を、欺瞞で応じる者が殺したとして、パールタよ、それの何が不適切であろうか。

7.198.30

तस्मिंस्तथा मया शस्ते यदि द्रौणायनी रुषा ।
कुरुते भैरवं नादं तत्र किं मम हीयते ॥ ७.१९८.३० ॥

もし彼(ドローナ)が私によってこのように打たれ、ドローナの息子が怒りで恐ろしい咆哮をあげるなら、それによって私の何が損なわれるだろうか。

7.198.31

न चाद्भुतमिदं मन्ये यद्द्रौणिश्चात्र गर्जति ।
घातयिष्यति कौरव्यान्परित्रातुमशक्नुवन् ॥ ७.१९८.३१ ॥

ドローナの息子がここで吠えることに私は不思議を感じない。クル族を守れず、彼は彼らを殺させるだろう。

7.198.32

यच्च मां धार्मिको भूत्वा ब्रवीषि गुरुघातिनम् ।
तदर्थमहमुत्पन्नः पाञ्चाल्यस्य सुतोऽनलात् ॥ ७.१९८.३२ ॥

あなたは正義を自任して私を師殺しと呼ぶ。まさにそのために、私はパーンチャーラ王の子として火から生まれたのだ。

7.198.33

यस्य कार्यमकार्यं वा युध्यतः स्यात्समं रणे ।
तं कथं ब्राह्मणं ब्रूयाः क्षत्रियं वा धनञ्जय ॥ ७.१९८.३३ ॥

ダナンジャヤよ、戦って戦う者にとって義務と非義務が等しいなら、あなたはその人を婆羅門と呼ぶか、それともクシャトリヤと呼ぶのか。

7.198.34

यो ह्यनस्त्रविदो हन्याद्ब्रह्मास्त्रैः क्रोधमूर्च्छितः ।
सर्वोपायैर्न स कथं वध्यः पुरुषसत्तम ॥ ७.१९८.३४ ॥

怒りに我を失い、武芸を知らぬ者を梵の武器で殺す者は、人中の最上者よ、どうしてあらゆる手段で殺されるべきでないことがあろうか。

7.198.35

विशेषात्पितृहन्ता मे न स वध्यः कथं मया ।
योऽयं पापः सुदुर्मेधा बान्धवान्युधि जघ्निवान्।
तस्य विप्रब्रुववधे कथं पापं भवेन्मम ॥ ७.१९८.३५ ॥

とりわけ父を殺した者を、どうして殺さずにいられようか。この罪深く愚かな男は、戦で親族を殺した。婆羅門と呼ばれる者を殺して、どうして私に罪があろうか。

7.198.36

विधर्मिणं धर्मविद्भिः प्रोक्तं तेषां विषोपमम् ।
जानन्धर्मार्थतत्त्वज्ञ किं मामर्जुन गर्हसे ॥ ७.१९८.३६ ॥

アルジュナよ、法と利の真理を知るあなたが、法を知る者たちから毒のようで法を捨てた者と言われた私を、なぜ責めるのか。

7.198.37

नृशंसः स मयाऽऽक्रम्य रथ एव निपातितः ।
तन्मामनिन्द्यं बीभत्सो किमर्थं नाभिनन्दसे ॥ ७.१९८.३७ ॥

その残忍な男は私に襲われ、戦車の上で倒された。それなのに、ビーバトス(アルジュナ)よ、無垢な私をなぜ称賛しないのか。

7.198.38

कालानलसमं पार्थ ज्वलार्कविषोपमम् ।
भीमं द्रोणशिरश्छिन्नं न प्रशंससि मे कथम् ॥ ७.१९८.३८ ॥

プリターの子よ、時の火のように、燃える太陽と毒のように恐ろしいドローナの首が斬られた。なぜ私を称賛しないのか。

7.198.39

योऽसौ ममैव नान्यस्य बान्धवान्युधि जघ्निवान् ।
छित्त्वाऽपि तस्य मूर्धानं नैवास्मि विगतज्वरेः ॥ ७.१९८.३९ ॥

戦いで私自身の親族を殺したあの男の首を斬り落としても、私はなお悲しみから解放されていない。

7.198.40

तच्च मे कृन्तते मर्म यन्न तस्य शिरो मया ।
निषादविषये क्षिप्तं जयद्रथशिरो यथा ॥ ७.१९८.४० ॥

私が彼の首を、ニシャーダの地にジャヤドラタの首を投げ捨てたように投げ捨てていないこと、それが私の急所を断ち切る。

7.198.41

अथावधश्च शत्रूणामधर्मः श्रूयतेऽर्जुन ।
क्षत्रियस्य हि धर्मोऽयं हन्याद्धन्येत वा पुनः ॥ ७.१९८.४१ ॥

さて、アルジュナよ、敵を殺すことは不義だと言われる。しかし戦士の義務はこうである。殺すか、殺されるかだ。

7.198.42

स शत्रुर्निहतः सङ्ख्ये मया धर्मेण पाण्डव ।
यथा त्वया हतः शूरो भगदत्तः पितुः सखा ॥ ७.१९८.४२ ॥

パーンダヴァよ、そのような敵を私は戦いで正しく殺した。あなたが父の友である勇士バガダッタを殺したように。

7.198.43

पितामहं रणे हत्वा मन्यसे धर्ममात्मनः ।
मया शत्रौ हते कस्मात्पापे धर्मं न मन्यसे ॥ ७.१९८.४३ ॥

戦場で祖父を殺しておきながら、それを自分の法と見なすのか。私が敵を殺したときには、罪人よ、なぜそれを法と見なさないのか。

7.198.44

सम्बन्धावनतं पार्थ न मां त्वं वक्तुमर्हसि ।
स्वगात्रकृतसोपानं निषण्णमिव दन्तिनम् ॥ ७.१९८.४४ ॥

プリター の子よ、血縁によって身を屈めた私にそのように言うべきではない。自らの肢体で階段を作って座った象のように。

7.198.45

क्षमामि ते सर्वमेव वाग्व्यतिक्रममर्जुन ।
द्रौपद्या द्रौपदेयानां कृते नान्येन हेतुना ॥ ७.१९८.४५ ॥

アルジュナよ、お前の言葉の一切の逸脱を私は許す。しかし私がそうしたのはドラウパディーとドラウパディーの息子たちのためであり、他の理由によるのではない。

7.198.46

कुलक्रमागतं वैरं ममाचार्येण विश्रुतम् ।
तथा जानात्ययं लोको न यूयं पाण्डुनन्दनाः ॥ ७.१९८.४६ ॥

家系から受け継いだ私の敵意は、師によって知られている。この世はそれを知っているが、パーンドゥの子らであるお前たちは知らない。

7.198.47

नानृती पाण्डवो ज्येष्ठो नाहं वाऽधार्मिकोऽर्जुन ।
न क्षत्रिय इति प्राहुर्यो न हन्ति रणाजिरे ॥ ७.१९८.४७ ॥

アルジュナよ、パーンダヴァの長兄は偽りを語らず、私も不正ではない。戦場で殺さない者を、人はクシャトリヤとは呼ばない。

7.198.48

पितरं वा गुरुं वाऽपि जिघांसु पुत्रशिष्ययोः ।
जिह्मेन वाऽप्यजिह्मेन हन्यादेवाविचारयन् ॥ ७.१९८.४८ ॥

息子や弟子を殺そうとする者は、父であれ師であれ、策略によってでも正面からでも、熟慮せずに殺すべきである。

7.198.49

इत्युक्तं ब्रह्मणा पूर्वं क्षत्रियाणां द्विषद्वधे ।
तस्माच्छिष्येण निहतः शत्रुर्मे ब्राह्मणब्रुवः ॥ ७.१९८.४९ ॥

かつてブラフマーは、クシャトリヤが敵を殺すことについてこのように語った。ゆえに、バラモンのように話していた私の敵は、弟子によって殺された。

7.198.50

यः क्षत्रियसुतो हन्यात्पितरं वा गुरुं च वा ।
अनिष्टं क्षत्रियो हन्यात्स वै क्षत्रिय उच्यते।
शिष्यद्रोही हतः पापो युध्यस्व विजयस्तव ॥ ७.१९८.५० ॥

クシャトリヤの息子が父や師を殺すとしても、あるいはクシャトリヤが害をなす者を殺すとしても、その者こそが真のクシャトリヤと呼ばれる。弟子を裏切った罪深き者は殺された。戦え、勝利が汝のものとなるように。