Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 7.2

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

7.2.1

हतं भीष्ममथाधिरथिर्विदित्वा ।
भिन्नां नावं वारिधावत्यगाधे।
सोदर्यवद्व्यसनात्सूतपुत्रः ।
संतारयिष्यंस्तव पुत्रस्य सेनाम् ॥ ७.२.१ ॥

得知毗湿摩已被杀,御者之子迦尔纳如同兄弟一般,想要救渡陷入灾难、宛如破船漂于无底大海中的你儿子的军队。

7.2.2

श्रुत्वा तु कर्णः पुरुषेन्द्रमच्युतं ।
निपातितं शान्तनवं महारथम्।
अथोपयायात्सहसारिकर्षणो ।
धनुर्धराणां प्रवरस्तदा नृप ॥ ७.२.२ ॥

闻知沙阇怒之子、大车将毗湿摩已被击倒,弓手中的第一人、折磨敌人的迦尔纳立即赶到了那里,大王。

7.2.3

हते तु रथसत्तमे परैर्निमज्जतीं नावमिवार्णवे कुरून् ।
पितेव पुत्रांस्त्वरितोऽभ्ययात्ततः सन्तारयिष्यंस्तव पुत्रस्य सेनाम् ॥ ७.२.३ ॥

当那位最优秀的车将被杀后,迦尔纳急速赶来,如同父亲奔向儿子,要救渡你儿子的军队,因为俱卢族人如沉船般在敌人中沉没。

7.2.4

सम्मृज्य दिव्यं धनुराततज्यं स रामदत्तं रिपुसङ्घहन्ता ।
बाणांश्च कालानलवायुकल्पानुल्लालयन्वाक्यमिदं बभाषे।
यस्मिन्धृतिर्बुद्धिपराक्रमौजः सत्यं स्मृतिर्वीरगुणाश्च सर्वे ।
अस्त्राणि दिव्यान्यथ संनतिह्रीः प्रिया च वागनसूया च भीष्मे ॥ ७.२.४ ॥

击溃敌军的迦尔纳擦拭了罗摩所赐的神弓,拉紧弓弦,挥动如时间、火与风般的箭,说出了这些话:毗湿摩身上有坚定、智慧、勇力与精神力,真实、记忆,一切英雄之德,神圣的武器,谦逊、羞耻心,以及悦耳而无嫉妒的言辞。

7.2.5

सदा कृतज्ञे द्विजशत्रुघातके सनातनं चन्द्रमसीव लक्ष्मीः ।
स चेत्प्रशान्तः परवीरहन्ता मन्ये हतानेव च सर्ववीरान् ॥ ७.२.५ ॥

若那位常怀感恩、杀灭婆罗门之敌、如月中永恒吉祥天女般的人如今已平息,那么我认为这位杀灭敌方英雄者也已与所有英雄一同被杀了。

7.2.6

नेह ध्रुवं किङ्चन जातु विद्यते। लोके ह्यस्मिन्कर्मणोऽनित्ययोगात् ।
सूर्योदये को हि विमुक्तसङ्शयो भावं कुर्वीतार्यमहाव्रते हते ॥ ७.२.६ ॥

在这个世界上,一切都不是确定的,因为行为的联系是无常的。日出之时,谁能毫无疑虑地为在高贵者的大誓中被杀的人保持平静的心境呢?

7.2.7

वसुप्रभावे वसुवीर्यसंभवे गते वसूनेव वसुंधराधिपे ।
वसूनि पुत्रांश्च वसुंधरां तथा कुरूंश्च शोचध्वमिमां च वाहिनीम् ॥ ७.२.७ ॥

你啊,具有如婆苏般光辉,生于婆苏之力的人!既然如婆苏般的大地之主已经离去,你们应为婆苏、为诸子、为大地,同样为俱卢族和这支军队而悲伤。

7.2.8

महाप्रभावे वरदे निपातिते लोकेश्वरे शास्तरि चामितौजसि ।
पराजितेषु भरतेषु दुर्मनाः कर्णो भृशं न्यश्वसदश्रु वर्तयन् ॥ ७.२.८ ॥

当大光辉、施予恩惠、世界之主、力量无量的统治者倒下,婆罗多族被击败时,忧伤的迦尔纳深深叹息,泪流不止。

7.2.9

इदं च राधेयवचो निशम्य सुताश्च राजंस्तव सैनिकाश्च ह ।
परस्परं चुक्रुशुरार्तिजं मुहुस्तदाश्रु नेत्रैर्मुमुचुश्च शब्दवत् ॥ ७.२.९ ॥

国王啊,你的儿子们和士兵们听到罗陀之子的这些话,便彼此悲痛地呼喊;他们一次又一次地从眼中流下泪水,并放声痛哭。

7.2.10

प्रवर्तमाने तु पुनर्महाहवे विगाह्यमानासु चमूषु पार्थिवैः ।
अथाब्रवीद्धर्षकरं तदा वचो रथर्पभान्सर्वमहारथर्षभः ॥ ७.२.१० ॥

大战再次展开,诸王的军队纷纷投入其中,那位在所有大战车武士中居首者,于是向诸车士之中的勇士说出了令人振奋的话。

7.2.11

जगत्यनित्ये सततं प्रधावति प्रचिन्तयन्नस्थिरमद्य लक्षये ।
भवत्सु तिष्ठत्स्विह पातितो मृधे निरिप्रकाशः कुरुपुङ्गवः कथम् ॥ ७.२.११ ॥

在这无常的世界里,一切都在不停奔逝;我思及此,今日看到了这种不稳定。你们都在此地,而这位库鲁之牛怎会在战场上倒下、失去光辉?

7.2.12

निपातिते शान्तनवे महारथे दिवाकरे भूतलमास्थिते यथा ।
न पार्थिवाः सोढुमलं धनंजयं गिरिप्रवोढारमिवानिलं द्रुमाः ॥ ७.२.१२ ॥

当大战车武士、山塔努之子如太阳落于大地般倒下后,诸王便无法抵挡阿尔朱那,正如树木无法承受撼动山岳的狂风。

7.2.13

हतप्रधानं त्विदमार्तरूपं परैर्हतोत्साहमनाथमद्य वै ।
मर्या कुख्णां परिपाल्यमाहवे बलं यथा तेन महात्मना तथा ॥ ७.२.१३ ॥

此军统帅已被杀,陷于悲苦之境;敌人已夺去其斗志,今日无人庇护。那位大德昔日如何在战中护持它,今日也当如此……

7.2.14

समाहिते चात्मनि भारमीदृशं जगत्तथाऽनित्यमिदं च लक्षये ।
निपातितं चाहवशौण्डमाहखे कथं नु कुर्यामहमीदृशे भयम् ॥ ७.२.१४ ॥

我心中怀着如此重负,见此世界如此无常,又见那以战勇自负者倒在战中,在这样的恐惧中,我又该如何是好?

7.2.15

अहं तु तान्कुरुवृषभानजिह्मगैः प्रवेशयन्यमसदनं चरन्रणे ।
यशः परं जगति विभाव्य वर्तिता परैर्हतो भुवि शयिताथवा पुनः ॥ ७.२.१५ ॥

我在战场上往来,以笔直的箭将那些俱卢族的雄牛送往阎摩之居。念及世间至高的荣誉,或被敌人杀死,躺卧在大地上。

7.2.16

युधिष्ठिरो धृतिमतिसत्यसत्ववान् वृकोदरो गजशततुल्यविक्रमः ।
तथार्जुनस्त्रिदशवरात्मजो युवा न तद्बलं सुजयमिहामरैरपि ॥ ७.२.१६ ॥

坚定、智慧、真实且有力量的坚战;勇力如百象的狼腹;同样,天神之主之子、年轻的阿周那——他们的军队即便诸天神在此也难以轻易战胜。

7.2.17

यमौ रणे यत्र यमोपमौ बले ससात्यकिर्यत्र च देवकीसुतः ।
न तद्बलं कापुरुषोऽभ्युपेयिवान्निवर्तते भृत्युमुखादिवासुभृत् ॥ ७.२.१७ ॥

那里有两位在战场上如阎摩一般的兄弟,还有萨提亚基与德瓦基之子(黑天)——怯懦之人若靠近那支军队,便会转身退去,如同从死亡之口逃回的生灵。

7.2.18

तपोऽभ्युदीर्णं तपसैव बाध्यते बलं बलेनैव तथा मनस्विभिः ।
मनश्च मे शत्रुनिवारणे ध्रुं स्वरक्षणे चाचलवद्व्यवस्थितम् ॥ ७.२.१८ ॥

高涨的苦行只能以苦行制伏,强力只能以强力制伏,坚毅之人亦然。我的心也如山岳般坚定,用以阻挡敌人、保护自身。

7.2.19

एवं चैषां बाधमानः प्रभावं गत्वैवाहं ताञ्जयाम्यद्य सूत ।
मित्रद्रोहो मर्षणीयो न मेऽयं भग्ने सैन्ये यः समेयात्स मित्रम् ॥ ७.२.१९ ॥

如此,我将压制他们的威势,今日前去战胜他们,御者啊。对朋友的背叛我不能容忍;军队溃散之时来到我身边的,才是朋友。

7.2.20

कर्तास्म्येतत्सत्पुरुषार्यकर्म त्यक्त्वा प्राणाननुयास्यामि भीष्मम् ।
सर्वान्सङ्ख्ये शत्रुशङ्घान्हनिष्ये हतस्तैर्वा वीरलोकं प्रपत्स्ये ॥ ७.२.२० ॥

我将完成这件善士与高贵者所应为的事业。舍弃生命,我将追随毗湿摩。在战斗中,我将杀尽所有敌军;或者被他们杀死,我将抵达英雄之界。

7.2.21

संप्राक्रुष्टे रुदितस्त्रीकुमारे पराहते पौरुषे धार्तराष्ट्रे ।
मया कृत्यमिति जानामि सूत तस्माद्राज्ञस्त्वद्य शत्रून्विजेष्ये ॥ ७.२.२१ ॥

妇女与孩童痛哭高呼,持国之子的勇武已被击败。御者啊,我知道这是我的职责;因此今日我将征服国王的敌人。

7.2.22

कुरून्रक्षन्पाण्डुपुत्राञ्जिघांसंस्त्यक्त्वा प्राणान्घोररूपे रणेऽस्मिन् ।
सर्वान्सङ्ख्ये शत्रुसङ्घान्निहत्य दास्याम्यहं धर्म… ॥ ७.२.२२ ॥

守护俱卢族,欲杀般度之子,在此可怖的战场上舍弃生命,在战斗中杀尽所有敌军,我将奉献……法……

7.2.23

निबध्यतां मे कवचं विचित्रं हैमं शुभ्रं मणिरत्नावभासि ।
शिरस्त्राणं चार्कसमानभासं धनुः शरांश्चाग्निविपाहिकल्पान् ॥ ७.२.२३ ॥

请为我系上那华丽的金甲,它闪耀着宝石与珍玉的光辉;再备一顶如太阳般闪耀的头盔,一张弓,以及如火焰和毒蛇般的箭。

7.2.24

उपासङ्गान्पोडश योजयन्तु धनूम्पि दिव्यानि तथाऽऽहरन्तु ।
असींश्च शक्तीश्च गदाश्च गुर्वीः शङ्खं च जाम्बूनदचित्रनालम् ॥ ७.२.२४ ॥

系上十六个箭袋,取来神圣的弓;取来剑、矛和沉重的铁锤,也取来那以闪光的江浮金为柄的海螺。

7.2.25

इमां रौक्मीं नागकक्ष्यां विचित्रां ध्वजं जैत्रं दिव्यमिन्दीवराङ्कम् ।
श्लक्ष्णैर्वस्त्रैर्विप्रमृज्यानयन्तु चित्रां मालां चारुबद्धां सलाजाम् ॥ ७.२.२५ ॥

把这金色的象腹带、奇异的胜利旗、以蓝莲为记的神圣旗帜,用柔软布巾擦净后取来;也取来那精巧系好的彩色花环,连同爆米花一并取来。

7.2.26

अश्वानग्र्यान्पाण्डुराभ्रप्रकाशान् पुष्टान्स्नातान्मन्त्रपूताभिरद्भिः ।
तप्तैर्भाण्डैः काञ्चनैरभ्युपेतान् शीघ्राञ्शीघ्रं सूतपुत्रानयस्व ॥ ७.२.२६ ॥

快快地,御者之子们啊,把那些优良的马牵来——它们像白云般闪耀,膘肥体壮,已用咒语净化的水沐浴,并以烧红的金器装饰。

7.2.27

रथं चाग्र्यं हेममालावनद्धं रत्नैश्चित्रं सूर्यचन्द्रप्रकाशैः ।
द्रव्यैर्युक्तं सम्प्रहारोपपन्नैर्बाहैर्युक्तं तूर्णमावर्तयस्व ॥ ७.२.२७ ॥

迅速掉转回来,把那辆优良的战车牵来——它以金色花环缠绕,嵌满宝石,光辉如日月,配备战具,并已套上挽畜。

7.2.28

चित्राणि चापानि च वेगवन्ति ज्याश्चोत्तमाः सन्नहनोपपन्नाः ।
तूणांश्च पूर्णान्महतः शराणामासाद्य गात्रावरणानि चैव ॥ ७.२.२८ ॥

取来花纹的弓、迅疾上好的弓弦、配有护甲的装备、盛满大箭的箭袋,以及护身甲胄。

7.2.29

प्रायात्रिकं चानयताशु सर्वं पूर्णं कान्त्या वीरकांस्यां च हैमम् ।
आनीय मालामवबध्य चाङ्गे प्रवादयन्त्वाशु जयाय भेरीः ॥ ७.२.२९ ॥

迅速取来全部行装,以及光彩熠熠的英雄青铜与黄金之物;系上花环,佩戴于身,并立即擂响战鼓以求胜利。

7.2.30

प्रयाहि मूताशु यतः किरीटी वृकोदरो धर्मसुतो यमौ च ।
तान्वा हनिष्यामि समेत्य सङ्ख्ये भीष्मो यथैष्यामि हतो द्विषद्भिः ॥ ७.२.३० ॥

御者啊,快驱车前往冠者(阿周那)、狼腹(怖军)、法之子以及双生子所在之处;我将在战场上与他们相遇并杀死他们,或如毗湿摩那样被敌人所杀而去。

7.2.31

यस्मिन्राजा सत्यधृतिर्युधिष्ठिरः समास्थितो भीमसेनार्जुनौ च ।
वासुदेवः सात्यकिः सृंजयाश्च मन्ये बलं तदजय्यं महीपैः ॥ ७.२.३१ ॥

我认为,坚守真实的国王坚战与怖军、阿周那、婆苏提婆、萨蒂亚奇及苏琼遮人所在的那支军队,是诸王无法战胜的。

7.2.32

तं चेन्मृत्युः सर्वहरोऽभिरक्षेत्सदाऽप्रमत्तः समरे किरीटिनम् ।
तथापि हन्तास्मि समेत्य सङ्ख्ये यास्यामि वा भीष्ममुखो यमाय ॥ ७.२.३२ ॥

即便夺取一切的死神在战场上时刻警觉地守护冠者,我仍将在战场上与他相遇并杀死他;或者在毗湿摩引领下前往阎摩之处。

7.2.33

न त्वेवाहं न गमिष्यामि तेषां मध्ये शराणां तत्र चाहं ब्रवीमि ।
मित्रद्रुहो दुर्बलभक्तयो ये पापात्मानो न ममैते सहायाः ॥ ७.२.३३ ॥

但我不会走入他们的箭雨之中;在那里我说:背叛朋友、忠诚薄弱、心怀恶念的人,都不是我的助手。

7.2.34

समृद्धिमन्तं रथमुत्तमं दृढं सकूबरं हेमपरिष्कृतं शुभम् ।
पताकिनं वातजवैर्हयोत्तमैर्युक्तं समास्थाय ययौ जयाय ॥ ७.२.३४ ॥

他登上一辆装备齐全、上好、坚固、带车厢、饰以黄金、吉祥、插着旗帜的战车,驾着疾如风的良马,为求胜利而出发。

7.2.35

सम्पूज्यमानः कुरुभिर्महात्मा रथर्षभो देवगणैर्यथेन्द्रः ।
ययौ तदायोधनमुग्रधन्वा यत्रावसानं भरतर्षभस्य ॥ ७.२.३५ ॥

受到俱卢人尊敬的大德、车士中的雄牛、猛烈的弓手,前往那片战场,如同受众神礼敬的因陀罗;那里将是婆罗多族之雄的终结之处。

7.2.36

वरूथिना महता सध्वजेन सुवर्णमुक्तामणिरत्नमालिना ।
सदश्वयुक्तेन रथेन कर्णो मेघस्वनेनार्क इवामितौजाः ॥ ७.२.३६ ॥

迦尔纳以如云雷般的轰鸣,乘坐一辆有大华盖和旗帜、以金、珍珠、宝石、珠玉为串饰、驾着良马的战车,犹如威力无量的太阳而行。

7.2.37

हुताशनाभः स हुताशनप्रभे शुभः शुभे वै स्वरथे धनुर्धरः ।
स्थितो रराजाधिरथिर्महारथः स्वयं विमाने सुरराडिवास्थितः ॥ ७.२.३७ ॥

如火般光耀,站在自己那吉祥而火光明亮的战车上,手持弓的阿提罗陀之子大车士,闪耀着,如同天神之王自己立于天车之上。