摩诃婆罗多 · 章 7.201
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
7.201.1
भीमसेनं समाकीर्णं दृष्ट्वाऽस्त्रेण धनञ्जयः ।
तेजसः प्रतिघातार्थं वारुणेन समावृणोत् ॥ ७.२०१.१ ॥
丹那阁耶见婆罗多的比目森那被四面包围,便以水神伐楼那之箭将他遮蔽,以抵消其威光。
7.201.2
नालक्षयत तत्कश्चिद्वारुणास्त्रेण संवृतम् ।
अर्जुनस्य लघुत्वाच्च संवृतत्वाच्च तेजसः ॥ ७.२०१.२ ॥
因阿周那的伐楼那箭而被遮蔽的他,无人能看见,因阿周那的箭轻盈,其光芒也被隐藏。
7.201.3
साश्वसूतरथो भीमो द्रोणपुत्रास्त्रसंवृतः ।
अग्नावग्निरिव न्यस्तो ज्वालामाली सुदुर्दृशः ॥ ७.२०१.३ ॥
婆罗多的比目森那——连同马匹、御者与战车——被德罗纳之子的箭所遮蔽,如同置于火中之火,缠绕着火焰之环,极难看清。
7.201.4
यथा रात्रिक्षये राजञ्ज्योतीष्यस्तगिरिं प्रति ।
समापेतुस्तथा बाणा भीमसेनरथं प्रति ॥ ७.२०१.४ ॥
大王啊,犹如夜尽之时,群星聚向沉落的山峦,箭矢也汇聚于婆罗多比目森那的战车。
7.201.5
स हि भीमो रथश्चास्य हयाः सूतश्च मारिष ।
संवृता द्रोणपुत्रेण पावकान्तर्गताऽभवन् ॥ ७.२०१.५ ॥
尊者啊,婆罗多本人、他的战车、马匹与御者,被德罗纳之子所遮蔽,仿佛已进入火焰之中。
7.201.6
यथा जग्ध्वा जगत्कृत्स्नं समये सचराचरम् ।
गच्छेद्वह्निर्विभोरास्यं तथाऽस्त्रं भीममावृणोत् ॥ ७.२०१.६ ॥
犹如时至之时,火吞噬整个世界及其动与不动之物,回归于主的口中,那神箭也这样遮蔽了婆罗多比目森那。
7.201.7
सूर्यमग्निः प्रविष्टः स्याद्यथा चाग्निं दिवाकरः ।
तथा प्रविष्टं तत्तेजो न आज्ञायत पाण्डवः ॥ ७.२०१.७ ॥
犹如火进入太阳,或太阳进入火,那已进入的光焰,般度之子竟不能察觉。
7.201.8
तदस्त्रं भीमहुङ्कारादपयाति पुनःपुनः ।
पुनः पुनस्तमायाति हुंकारात्तं विमुञ्चति।
ततो देवाः सगन्धर्वा भीमं दृष्ट्वा सुविस्मिताः ॥ ७.२०१.८ ॥
在毗摩的吼声中,那支箭屡次退去,又屡次回到他身边;他也凭吼声而放出它。于是诸天与乾达婆见到毗摩,无不惊异。
7.201.9
विकीर्णमस्त्रं तद्दृष्ट्वा तथा भीमरथं प्रति ।
उदीर्यमाणं द्रौणिं च निष्प्रतिद्वन्द्वमाहवे ॥ ७.२०१.९ ॥
见那支箭散落于毗摩的战车之前,又见德罗那之子在战场上无敌,正在发射它。
7.201.10
सर्वसैन्यं च पाण्डूनां न्यस्तशस्त्रमचेतनम् ।
युधिष्ठिरपुरोगांश्च विमुखांस्तान्महारथनान् ॥ ७.२०१.१० ॥
般度诸子的全军放下兵器,都仿佛失去知觉;那些走在坚战前面的大车战士,也被看到转身背向战场。
7.201.11
अर्जुनो वासुदेवश्च त्वरमाणौ महाद्युती ।
अवप्लुत्य रथाद्वीरौ भीममाद्रवतां ततः ॥ ७.२०१.११ ॥
于是阿周那与婆苏提婆这两位大光明的勇士,急忙跳下战车,奔向毗摩。
7.201.12
ततस्तद्द्रोणपुत्रस्य तेजोऽस्त्रबलसम्भवम् ।
विगाह्य तौ सुबलिनौ माययाऽविशतां तथा ॥ ७.२०१.१२ ॥
于是那两位极其有力的勇士,深入德罗那之子因神箭之力而生的光焰之中,以幻术如此进入其内。
7.201.13
न्यस्तशस्त्रौ ततस्तौ तु नादहत्सोऽस्त्रजोऽनलः ।
वारुणास्त्रप्रयोगाच्च वीर्यवत्त्वाच्च कृष्णयोः ॥ ७.२०१.१३ ॥
二人已放下武器,那由神箭所生之火却未能烧毁他们,因为施放了伐楼那箭,也因两位黑天的威力。
7.201.14
ततश्चकृषतुर्भीमं सर्वशस्त्रायुधानि च ।
नारायणास्त्रशान्त्यर्थं नरनारायणौ बलात् ॥ ७.२०१.१४ ॥
于是那罗与那罗衍那强行拉走了怖军及一切兵器,以平息那罗衍那神箭。
7.201.15
आकृष्यमाणः कौन्तेयो नदत्येव महारवम् ।
वर्धते चैव तद्वोरं द्रौणेरस्त्रं सुदुर्जयम् ॥ ७.२०१.१५ ॥
被拖拽的贡蒂之子发出巨大的吼声,而德罗纳之子那可怕而难以战胜的神箭仍在不断增长。
7.201.16
तमब्रवीद्वासुदेवः किमिदं पाण्डुनन्दन ।
वार्यमाणोऽपि कौन्तेय यद्युद्वान्न निवर्तसे ॥ ७.२०१.१६ ॥
婆苏提婆对他说:'般度之子啊,这是怎么回事?贡蒂之子啊,虽被阻止,你为何不从战斗中退回?'
7.201.17
यदि युद्वेन जेयाः स्युरिमे कौरवनन्दनाः ।
वयमप्यत्र युध्येम तथा चेमे नरर्षभाः ॥ ७.२०१.१७ ॥
若这些俱卢之子能以战斗取胜,我们也会在此作战,这些人中之牛也会如此。
7.201.18
रथेभ्यस्त्ववतीर्णाः स्म सर्व एव हि तावकाः ।
तस्मात्त्वमपि कौन्तेय रथात्तूर्णमपाक्रम ॥ ७.२०१.१८ ॥
但你的人都已从战车上下来了;因此,贡蒂之子啊,你也快从战车上下来吧。
7.201.19
एवमुक्त्वा तु तं कृष्णो रथाद्भूमिमवर्तयत् ।
निःश्वसन्तं यथा नागं क्रोधसंरक्तलोचनम् ॥ ७.२०१.१९ ॥
克里希纳如此说后,让他从战车上下到地面——他像大象一样喘息,眼睛因愤怒而通红。
7.201.20
यदाऽपकृष्टः स रथान्न्यासितश्चायुधं भुवि ।
ततो नारायणास्त्रं तत्प्रशान्तं शत्रुतापनम् ॥ ७.२०१.२० ॥
当他被拉下战车、武器放置于地上时,那能折磨敌人的那罗延武器便平息了。
7.201.21
तस्मिन्प्रशान्ते विधिना तेन तेजसि दुःसहे ।
बभूवुर्विमलाः सर्वा दिशः प्रदिश एव च ॥ ७.२०१.२१ ॥
当那难以承受的光辉依仪轨平息后,所有方向和次方向都变得清澈明净。
7.201.22
प्रववुश्च शिवा वाताः प्रशान्ता मृगपक्षिणः ।
वाहनानि च हृष्टानि प्रशान्तेऽस्त्रे सुदुर्जये ॥ ७.२०१.२२ ॥
吉祥的风开始吹拂;鹿和鸟儿安静下来;当那不可战胜的武器平息时,坐骑都欢喜起来。
7.201.23
व्यपोढे च ततो घोरे तस्मिंस्तेजसि भारत ।
बभौ भीमो निशापाये धीमान्सूर्य इवोदितः ॥ ७.२०१.२३ ॥
婆罗多之子啊,当那可怕的光辉退去后,毗摩如同夜尽时升起的智慧之日般光耀。
7.201.24
हतशेषं बलं तत्तु पाण्डवानामतिष्ठत ।
अस्त्रव्युपरमाद्वृष्टं तव पुत्रजिघांसया ॥ ७.२०१.२४ ॥
般度之子军中残存的部队站立不动,因为那为杀害你的儿子而倾泻的武器已经停止。
7.201.25
व्यवस्थिते बले तस्मिन्नेस्त्रे प्रतिहते तथा ।
दुर्योधनो महाराज द्रोणपुत्रमथाब्रवीत् ॥ ७.२०१.२५ ॥
大王啊,军队重新列阵,那支武器也同样被挡住了,于是难敌对德罗纳之子说道。
7.201.26
अश्वत्थामन्पुनः शीघ्रमस्त्रमेतत्प्रयोजय ।
अवस्थिता हि पाञ्चालाः पुनरेते जयैषिणः ॥ ७.२०१.२६ ॥
阿湿婆达摩,快速再次发出这件武器吧。渴求胜利的般遮罗人又重新站稳了脚跟。
7.201.27
अश्वत्थामा तथोक्तस्तु तव पुत्रेण मारिष ।
सुदीनमभिनिः श्वस्य राजानमिदमब्रवीत् ॥ ७.२०१.२७ ॥
大人啊,你的儿子这样说后,阿湿婆达摩非常沮丧,长叹一声,对国王说了这番话。
7.201.28
नैतदावर्तते राजन्नस्त्रं द्विर्नोपपद्यते ।
आवृतं हि निवर्तेत प्रयोक्तारं न संशयः ॥ ७.२०१.२८ ॥
大王啊,这件武器不会返回,也不能使用两次;但如果它被挡住,就会反转到发射者身上,这一点毫无疑问。
7.201.29
एष चास्त्रप्रतीघातं वासुदेवः प्रयुक्तवान् ।
अस्य तु ह्येष वै दाता मानुषेषु न विद्यते ॥ ७.२०१.२९ ॥
而化解这件武器的,正是婆苏提婆(黑天)本人;人间再无像他那样的施予者。
7.201.30
परावरज्ञो लोकानां न तदस्ति न वेत्ति यत् ।
तदेतदस्त्रं प्रशमं यातं कृष्णस्य मन्त्रितैः ॥ ७.२०१.३० ॥
通晓诸世界之高下者,没有他不知道的事。这件武器因黑天的谋略而平息了。
7.201.31
द्विविधो विहितः सङ्ख्ये वधः शस्त्रोर्जनाधिप ।
पराजयो वा मृत्युर्वा श्रेयान्मृत्युर्न निर्जयः ॥ ७.२०१.३१ ॥
人主啊,战斗中以武器杀戮有两种既定之法:败北或死亡。死亡更好,而非胜利。
7.201.32
विजिताश्चारयो ह्योते शस्त्रोत्सर्गान्मृतोपमाः ॥ ७.२०१.३२ ॥
这些敌人因弃置武器,实已被征服,如同死人。
7.201.33
आचार्यपुत्र यद्येतद्द्विरस्त्रं न प्रयुज्यते ।
अन्यैर्गुरुघ्ना वध्यन्तामस्त्रैरस्त्रविदां वर ॥ ७.२०१.३३ ॥
师之子啊,若不施用此第二件神兵,愿弑师者死于他人之兵器,善知兵者中之最上者啊。
7.201.34
त्वयि शस्त्राणि दिव्यानि त्र्यम्बके चामितौजसि ।
घ्नतैतान्सुमहावीर्य शात्रवान्युद्वकोविदः।
इच्छतो न हि ते मुच्येत्सङ्क्रुद्धो हि पुरन्दरः ॥ ७.२०१.३४ ॥
你身上有神兵,无量威力的三眼神(湿婆)身上也有。大勇者、善战者啊,击杀这些敌人吧。即便你想放下,它也不会离开你,愤怒的因陀罗亦然。
7.201.35
तस्मिन्नस्त्रे प्रतिहते द्रोणे चोपधिना हते ।
तथा दुर्योधनेनोक्तो द्रौणिः किमकरोत्पुनः ॥ ७.२०१.३५ ॥
那神兵被阻,德罗纳又以诡计被杀,杜尔约檀那如此说后,德罗纳之子又做了什么?
7.201.36
दृष्ट्वा पार्थांश्च सङ्ग्रामे युद्धाय समुपस्थितान् ।
नारायणास्त्रनिर्मुक्तांश्चरतः पृतनामुखे ॥ ७.२०१.३६ ॥
见普利塔之子(般度五子)在战场上准备战斗,在军队前列行进,已脱离那罗延神兵。
7.201.37
जानन्पितुः स निधनं सिंहलाङ्गूलकेतनः ।
सक्रोधो भयमुत्सृज्य सोऽभिदुद्राव पार्षतम् ॥ ७.२०१.३७ ॥
他得知父亲的死讯,旗帜上有狮尾的他怒气冲冲,抛去恐惧,向般跋多之子猛扑过去。
7.201.38
अभिद्रुत्य च विंशत्या क्षुद्रकाणां नरर्षभ ।
पञ्चभिश्चातिवेगेन विव्याध पुरुषर्षभः ॥ ७.२०१.३८ ॥
他猛扑向二十名小战士,啊,人中之雄,这位人中之雄以极快的速度用五支箭射穿了他们。
7.201.39
धृष्टद्युम्नस्ततो राजञ्ज्वलन्तमिव पावकम् ।
द्रोणपुत्रं त्रिषष्ट्या तु राजन्विव्याध पत्रिणाम् ॥ ७.२०१.३९ ॥
于是,啊国王,德里什塔云那用六十三支箭射穿了如燃烧之火般的德罗纳之子,啊国王。
7.201.40
सारथिं चास्य विंशत्या स्वर्णपुङ्खैः शिलाशितैः ।
हयांश्च चतुरोऽविध्यच्चतुर्भिर्निशितैः शरैः ॥ ७.२०१.४० ॥
他用二十支在石上磨利、饰有金羽的箭射穿了其御者,又用四支锐利的箭射穿了四匹马。
7.201.41
विद्व्वा विद्वाऽनदद्द्रौणिं कम्पयन्निव मेदिनीम् ।
आददे सर्वलोकस्य प्राणानिव महारणे ॥ ७.२०१.४१ ॥
他一次又一次地射穿德罗纳之子,怒吼之声使大地震颤,仿佛在这场大战中夺取了所有世界的生气。
7.201.42
पार्षतस्तु बली राजन्कृतास्त्रः कृतनिश्चयः ।
द्रौणिमेवाभिदुद्राव मृत्युं कृत्वा निवर्तनम् ॥ ७.२०१.४२ ॥
于是,啊国王,强壮、善用兵器且意志坚定的般跋多之子直扑德罗纳之子,仿佛要让死亡本身退回。
7.201.43
ततो बाणमयं वर्षं द्रोणपुत्रस्य मूर्धनि ।
अवासृजदमेयात्मा पाञ्चाल्यो रथिनांवरः ॥ ७.२०१.४३ ॥
此时,心志无量的般遮罗王子,乃车战者中之最,向德罗纳之子的头顶倾泻箭雨。
7.201.44
तं द्रौणिः समरे क्रुद्धं छादयामास पत्रिभिः ।
विव्याध चैनं दशभिः पितुर्वधमनुस्मरन् ॥ ७.२०१.४४ ॥
德罗纳之子在战斗中以箭覆盖了那愤怒的敌人,并追念父亲之死,以十箭射中了他。
7.201.45
द्वाभ्यां च सुविसृष्टाभ्यां क्षुराभ्यां ध्वजकार्मुके ।
छित्त्वा पाञ्चालराजस्य द्रौणिरन्यैः समार्दयत् ॥ ७.२०१.४५ ॥
德罗纳之子以两支发射精准的剃刀箭斩断了般遮罗王的旗帜与弓,又以其他箭压制了他。
7.201.46
व्यश्वसूतरथं चैनं द्रौणिश्चक्रे महाहावे ।
तस्य चानुचरान्सर्वान्क्रुद्धः प्राद्रावयच्छरैः ॥ ७.२०१.४६ ॥
在大战中,德罗纳之子使他的车子失去了马匹与御者;他愤怒地以箭驱散了他的所有随从。
7.201.47
ततः प्रदुद्रुवे सैन्यं पाञ्चालानां विशाम्पते ।
सम्भ्रान्तरूपमार्तं च न परस्परमैक्षत ॥ ७.२०१.४७ ॥
于是,人主啊,般遮罗人的军队溃逃了;他们惊慌而痛苦,甚至彼此都不相顾。
7.201.48
दृष्ट्वा तु विमुखान्योधान्धृष्टद्युम्नं च पीडितम् ।
शैनेयोऽचोदयत्तूर्णं रथं द्रौणिरथं प्रति ॥ ७.२०१.४८ ॥
见战士们转身败走、德里什塔笃姆那受困,施尼之裔(萨提亚基)便迅速驱车朝德罗纳之子的战车奔去。
7.201.49
अष्टभिर्निशितैर्बाणैरश्वत्थामानमार्दयत् ।
विंशत्या पुनराहत्य नानारूपैरमर्षणः।
विव्याध च तथा सूतं चतुर्भिश्चतुरो हयान् ॥ ७.२०१.४९ ॥
他以八支锐利的箭折磨阿奢婆摩。随后又以二十支箭再次击中他,不能忍受之下,以各式各样的箭射穿了他。同样,他以四支箭射中御者,并射中四匹马。
7.201.50
धनुर्ध्वजं संयत्तश्चिच्छेद कृतहस्तवत् ।
स साश्वं व्यधमच्चापि रथं हेमपरिष्कृतम्।
हृदि विव्याध समरे त्रिंशता सायकैर्भृशम् ॥ ७.२०१.५० ॥
他全神贯注,如同手艺精湛者,斩断了他的弓和旗帜。他还连同马一起摧毁了饰以黄金的战车。战场上,他以三十支箭猛烈地射中了他的胸膛。
7.201.51
एवं स पीडितो राजन्नश्वत्थामा महाबालः ।
शरजालैः परिवृतः कर्तव्यं नान्वपद्यत ॥ ७.२०१.५१ ॥
大王啊,阿奢婆摩如此受苦,被箭网所包围,竟不知该如何是好。
7.201.52
एवं गते गुरोः पुत्रे तव पुत्रो महारथः ।
कृपकर्णादिभिः सार्धं शरैः सात्वतमावृणोत् ॥ ७.२०१.५२ ॥
老师之子既已如此,你的大车战士之子与克里帕、迦尔纳等人一起,以箭遮蔽了萨提亚基。
7.201.53
दुर्योधनस्तु विंशत्या कृपः शारद्वतस्त्रिभिः ।
कृतवर्माऽथ दशभिः कर्णः पञ्चाशता शरैः ॥ ७.२०१.५३ ॥
难敌以二十支箭,沙罗陀婆之子克里帕以三支,随后胜军以十支,迦尔纳以五十支箭(射击)。
7.201.54
दुःशासनः शतेनैव वृषसेनश्च सप्तभिः ।
सात्यकिं विव्यधुस्तूर्णं समन्तान्निशितैः शरैः ॥ ७.२०१.५४ ॥
难降以百支箭,毗梨沙犀那以七支箭,迅速从四面以锐利的箭射穿了萨提亚基。
7.201.55
ततः स सात्यकी राजन्सर्वानेव महारथान् ।
विरथान्विमुखांश्चैव क्षणेनैवाकरोन्नृप ॥ ७.२०१.५५ ॥
于是萨提亚基,大王啊,在片刻之间使所有大车战士失去战车并转身退却。
7.201.56
अश्वत्थामा तु सम्प्राप्य चेतनां भरतर्षभ ।
चिन्तयामास दुःखार्तो निःश्वसंश्च पुनःपुनः ॥ ७.२०१.५६ ॥
然而阿什瓦塔曼,婆罗多的雄牛啊,恢复知觉后,被悲痛折磨,屡屡叹息,开始思索。
7.201.57
अथो रथान्तरं द्रौणिः समारुह्य परन्तपः ।
सात्यकिं वारयामास किरञ्शरशतान्बहून् ॥ ७.२०१.५७ ॥
于是敌人的折磨者德罗纳之子登上另一辆战车,射出数百支箭,阻挡萨提亚基。
7.201.58
तमापतन्तं सम्प्रेक्ष्य भारद्वाजसुतं रणे ।
विरथं विमुखं चैव पुनश्चक्रे महारथः ॥ ७.२०१.५८ ॥
战场上,他看见婆罗堕遮之子向自己冲来,那位大车战士又使他失去战车,转身退却。
7.201.59
ततस्ते पाण्डवा राजन्दृष्ट्वा सात्यकिविक्रमम् ।
शङ्खशब्दान्भृशं चक्रुः सिंहनादांश्च नेदिरे ॥ ७.२०१.५९ ॥
大王啊,般度子看到萨提亚基的勇武,便大声吹响海螺,并发出狮子般的吼声。
7.201.60
एवं तं विरथं कृत्वा सात्यकिः सत्यविक्रमः ।
जघान वृषसेनस्य त्रिसाहस्रान्महारथान् ॥ ७.२०१.६० ॥
如此使他失去战车之后,真正勇猛的萨提亚基杀死了伐楼娑纳的三千名大车战士。
7.201.61
अयुतं दन्तिनां सार्धं कृपस्य निजघान सः ।
पञ्चायुतानि चाश्वानां शकुनेर्निजघान ह ॥ ७.२०१.६१ ॥
他连同克里帕的一万头象一并将其击杀;又杀死了沙恭尼的五万匹马。
7.201.62
ततो द्रौणिर्महाराज रथमारुह्य वीर्यवान् ।
सात्यकिं प्रति सङ्क्रुद्धः प्रययौ तद्वधेप्सया। ॥ ७.२०१.६२ ॥
大王,于是勇猛的德罗纳之子登上战车,怒气冲冲,欲置萨提亚基于死地,径直向他冲去。
7.201.63
पुनस्तमागतं दृष्ट्वा शनेयो निशितैः शरैः ।
अदारयत्क्रुरतरैः पुनःपुनररिन्दम ॥ ७.२०१.६३ ॥
见他又来,沙伊尼耶以锐利而极为残酷的箭一次次射穿他,啊,降伏敌人者。
7.201.64
सोऽतिविद्धो महेष्वासो नानालिङ्गैरमर्षणः ।
युयुधानेन वै द्रौणिः प्रहसन्वाक्यमब्रवीत् ॥ ७.२०१.६४ ॥
那位大弓箭手、怀恨的德罗纳之子,被尤尤丹那各式各样的箭射得遍体鳞伤,他笑着说出了这些话。
7.201.65
शैनेयाब्युपपत्तिं ते जानाम्याचार्यघातिनि ।
न चैनं त्रास्यसि मया ग्रस्तमात्मानमेव च ॥ ७.२०१.६५ ॥
啊,杀害师尊之人,我知道沙伊尼耶是你的倚仗;然而被我擒住的他,连你自己,你也救不了。
7.201.66
शपेत्मनाऽहं शैनेय सत्येन तपसा तथा ।
अहत्वा सर्वपाञ्चालान्यदि शान्तिमहं लभे ॥ ७.२०१.६६ ॥
啊,沙伊尼耶,我以自身、以真理、以苦行起誓:若我未杀尽所有般遮罗人而得享安宁。
7.201.67
यद्बलं पाण्डवेयानां वृष्णीनामपि यद्बलम् ।
क्रियतां सर्वमेवेह निहनिष्यामि सोमकान् ॥ ७.२०१.६७ ॥
无论般度之子与毗瑟尼族有多大力量,都在此全部施展吧。我将杀尽索摩迦人。
7.201.68
एवमुक्त्वाऽर्करम्याभं सुतीक्ष्णं तं शरोत्तमम् ।
व्यसृजत्सात्वते द्रौणिर्वज्रं वृत्रे यथा हरिः ॥ ७.२०१.६८ ॥
说完,德罗纳之子将那支如日光般明亮、极其锋利的上等箭射向萨特瓦塔,正如因陀罗向弗栗多投出金刚杵一般。
7.201.69
स तं निर्भिद्य तेनास्तः सायकः शरावरम् ।
विवेश वसुधां भित्त्वा श्वसन्बिलमिवोरगः ॥ ७.२०१.६९ ॥
那支箭穿透了他,由他发出,贯穿盾牌,劈开大地而没入其中,如同嘶嘶作响的蛇钻入洞穴。
7.201.70
स भिन्नकवचः शूरस्तोत्रार्दित इव द्विपः ।
विमुच्य सशरं चापं भूरिव्रणपरिस्रवः ॥ ७.२०१.७० ॥
铠甲被刺穿,这位英雄如同被象钩折磨的大象,放下了带箭的弓,身上多处伤口淌着血。
7.201.71
सीदन्रुधिरसिक्तश्च रथोपस्थ उपाविशत् ।
सूतेनापहृतस्तूर्णं द्रोणपुत्राद्रथान्तरम् ॥ ७.२०१.७१ ॥
浑身血污、精疲力竭的他坐在车厢底板上;御者迅速将他从德罗纳之子面前带到另一辆战车上。
7.201.72
अथान्येन सुपुङ्खेन शरेणानतपर्वणा ।
आजघान भ्रवोर्मध्ये धृष्टद्युम्नं परन्तपः ॥ ७.२०१.७२ ॥
那位焚敌者又以另一支羽毛美好、节部弯曲的箭,射中了德里斯塔迪尤姆纳的双眉之间。
7.201.73
स पूर्वमतिविद्धश्च भृशं पस्चाच्च पीडितः ।
ससदाथ च पाञ्चाल्यो व्यपाश्रयत च ध्वजम् ॥ ७.२०१.७३ ॥
他先前已被猛烈射穿,之后又极度痛苦。于是般遮罗王子坐倒下来,依靠在旗杆上。
7.201.74
तं नागमिव सिंहेन दृष्ट्वा राजञ्शरार्दितम् ।
जवेनाभ्यद्रवञ्छूराः पञ्च पाण्डवतो रथाः ॥ ७.२०१.७४ ॥
大王啊,看见他被箭折磨,如同狮子所攻击的大象,般度之子的五位英勇车战者迅速向他冲去。
7.201.75
किरीटी भीमसेनश्च वृद्वक्षत्रश्च पौरवः ।
युवराजश्च चेदीनां मालवश्च सुदर्शनः ॥ ७.२०१.७५ ॥
冠者(阿周那)、怖军、补卢族的吠陀克沙特罗、支提王的太子,以及摩罗婆的苏达尔莎那。
7.201.76
एते हाहाकृताः सर्वे प्रगृहीतशरासनाः ।
वीरं द्रौणायनिं वीराः सर्वतः पर्यवारयन् ॥ ७.२०१.७६ ॥
他们都惊呼起来,举起弓,从四面八方包围了英雄德罗纳之子。
7.201.77
ते विंशतिपदे यत्ता गुरुपुत्रममर्षणम् ।
पञ्चभिः पञ्चभिर्बाणैरभ्यघ्नन्सर्वतः समम् ॥ ७.२०१.७७ ॥
他们在二十步之外严阵以待,从四面八方同时以每人五支箭射击这位不肯罢休的师子。
7.201.78
आशीविषाभैर्विंशत्या पञ्चभिस्तु शितैः शरैः ।
चिच्छेद युगपद्द्रौणिः पञ्चविंशतिसायकान् ॥ ७.२०१.७८ ॥
德罗纳之子以二十支、五支锋利的箭,如毒蛇般,一次斩断了二十五支箭。
7.201.79
सप्तभिस्तु शितैर्बाणैः पौरवं द्रौणिरार्दयत् ।
मालवं त्रिभिरेकेन पार्थं ष़ड्भिर्वृकोदरम्। ॥ ७.२०१.७९ ॥
德罗纳之子以七支利箭射中补卢王;以三箭射中摩罗婆,以一箭射中阿周那,以六箭射中狼腹。
7.201.80
ततस्ते विव्यधुः सर्वे द्रौणिं राजन्महारथाः ।
युगपच्च पृथक्चैव रुक्मपुङ्खैः शिलाशितैः ॥ ७.२०१.८० ॥
于是那些大车战士,哦国王,或齐发或单发,以饰金羽、磨于石上的利箭射穿了德罗纳之子。
7.201.81
युवराजश्च विंशत्या द्रौणिं विव्याध पत्रिभिः ।
पार्थश्च पुनरष्टाभिस्तथा सर्वे त्रिभिस्त्रिभिः ॥ ७.२०१.८१ ॥
太子以二十支箭射中德罗纳之子;阿周那又以八箭,其余诸人各以三箭。
7.201.82
ततोऽर्जुनं षड्भिरथाजघान ।
द्रौणायनिर्दशभिर्वासुदेवम्।
भीमं दशार्धैर्युवारजं चतुर्भि- ॥ ७.२०१.८२ ॥
于是德罗纳之子以六箭射阿周那,以十箭射婆苏提婆,以五箭射怖军,以四箭射太子。
7.201.83
र्द्वाभ्यां द्वाभ्यां मालवं पौरवं च ।
सूतं विद्व्वाः भीमसेनस्य षड्भि…
र्द्वाभ्यां विद्व्वा कार्मुकं च ध्वजं च ।
पुनः पार्थं शरवर्षेण विद्व्वा
द्रौणिर्घोरं सिंहनादं ननाद ॥ ७.२०१.८३ ॥
他以二箭射中摩罗婆与补卢,以六箭射中怖军的御者,又以二箭射断弓与旗,再以箭雨射阿周那,德罗纳之子发出可怖的狮吼。
7.201.84
तस्यास्यतस्तान्निशितान्पीतधारा… ।
न्द्रौणेः शरान्पृष्ठतश्चाग्रतश्च।
धरा वियद्द्यौः प्रदिशो दिशश्च ।
च्छन्ना बाणैरभवन्धोररूपैः ॥ ७.२०१.८४ ॥
他射出的锐利、金尖之箭……德罗纳之子前后射来的箭,遮蔽了大地、天空、天界、各方向与各隅,皆是可怖形状的箭矢。
7.201.85
आसन्नस्य स्वरथं तीव्रतेजाः ।
सुदर्शनस्येन्द्रकेतुप्रकाशौ।
भुजौ शिरश्चेन्द्रसमानवीर्य… ।
स्त्रिभिः शरैर्युगपत्सञ्चकर्त ॥ ७.२०१.८५ ॥
那位在自己战车附近、光芒猛烈的苏达尔沙那(阿周那)的两臂——如因陀罗旗般闪耀——以及与因陀罗同等勇力的头颅……他以三支箭同时斩断。
7.201.86
स पौरवं रथशक्त्या निहत्य ।
च्छित्त्वा रथं तिलशश्चास्य बाणैः।
छित्त्वा च बाहू वरचन्दनाक्तौ ।
भल्लेन कायाच्छिर उच्चकर्त ॥ ७.२०१.८६ ॥
他以战车枪杀死了波罗婆,又以箭将其战车斩成芝麻般的碎片,斩断两条涂着上等檀香的手臂,又以阔头箭从身上斩下了头颅。
7.201.87
युवानमिन्दीवरदामवर्णं ।
चेदिप्रभुं युवराजं प्रसह्य।
बाणैस्त्वरावाञ्ज्वलिताग्निकल्पै… ।
र्विद्व्वा प्रादान्मृत्येव साश्वसूतम् ॥ ७.२०१.८७ ॥
他以如烈火般迅疾的箭,强力射穿了那位年轻、肤色如蓝莲花花环般黝黑的遮提之主的太子……他与马匹、御者一同将其杀死,如同死神本身。
7.201.88
मालवं पौरवं चैव युवराजं च चेदिपम् ।
दृष्ट्वा समक्षं निहतं द्रोणपुत्रोण पाण्डवः।
भीमसेनो महाबाहुः क्रोधमाहारयत्परम् ॥ ७.२०१.८८ ॥
眼见摩罗婆、波罗婆、太子与遮提之主在自己眼前被德罗纳之子杀死,大臂的般度之子怖军怒不可遏。
7.201.89
ततः शरशतैस्तीक्ष्णैः सङ्क्रुद्धाशीविषोपमैः ।
छादयामास समरे द्रोणपुत्रं परन्तपः ॥ ७.२०१.८९ ॥
于是这位折磨敌人的英雄在战场上以数百支锐利的箭,如同愤怒的毒蛇,覆盖了德罗纳之子。
7.201.90
ततो द्रौणिर्महातेजाः शरवर्षं निहत्य तम् ।
विव्याध निशितैर्बाणैर्भीमसेनममर्षणः ॥ ७.२०१.९० ॥
于是德罗纳之子,光辉伟大且不能忍受侮辱,摧毁了那阵箭雨,用锐利的箭射穿了婆罗摩森那。
7.201.91
ततो भीमो महाबाहुद्रौणेर्युधि महाबलः ।
क्षुरप्रेण धनुश्छित्त्वा द्रौणिं विव्याध पत्रिणा ॥ ७.२०१.९१ ॥
于是臂力强大、力量超凡的婆罗摩,在战斗中用剃刀头的箭斩断德罗纳之子的弓,并以有羽的箭射穿了德罗纳之子。
7.201.92
तदपास्य धनुश्छिन्नं द्रोणपुत्रो महामनाः ।
अन्यत्कार्मुकमादाय भीमं विव्याध पत्रिभिः ॥ ७.२०१.९२ ॥
于是心胸宽广的德罗纳之子抛开断弓,另取一张弓,用箭射穿了婆罗摩。
7.201.93
तौ द्रौणिभीमौ समरे पराक्रान्तौ महाबलौ ।
अवर्षतां शरवर्षं वृष्टिमन्ताविवाम्बुदौ ॥ ७.२०१.९३ ॥
德罗纳之子与婆罗摩二人,在战斗中英勇强大,如同两朵降雨的云,倾泻下一阵箭雨。
7.201.94
भीमनामाङ्किता बाणाः स्वर्णपुङ्खाः शिलाशिताः ।
द्रौणिं सञ्छादयामासुर्घनौघा इव भास्करम् ॥ ७.२०१.९४ ॥
刻有婆罗摩之名、带有金羽、在石上磨砺的箭,覆盖了德罗纳之子,如同云团遮蔽太阳。
7.201.95
तथैव द्रौणिनिर्मुक्तैर्भीमः सन्नतपर्वभिः ।
अवाकीर्यत स क्षिप्रं शरैः शतसहस्रशः ॥ ७.२०१.९५ ॥
同样,德罗纳之子所射的带弯曲节的箭,使毗摩迅速被成百上千的箭所覆盖。
7.201.96
स च्छाद्यमानः समरे द्रौणिना रणशालिना ।
न विव्यथे महाराज तदद्भुतमिवाभवत् ॥ ७.२०१.९६ ॥
大王啊,虽然在战斗中被善战的德罗纳之子覆盖,他并不痛苦;那真是奇迹般的事。
7.201.97
ततो भीमो महाबाहुः कार्तस्वरविभूषितान् ।
नाराचान्दश सम्प्रैषीद्यमदण्डनिभाञ्छितान् ॥ ७.२०१.९७ ॥
于是臂力强大的毗摩放出十支饰金的利箭,锐利如阎摩的杖。
7.201.98
ते जत्रुदेशमासाद्य द्रोणपुत्रस्य मारिष ।
निर्भिद्य विविशुस्तूर्णं वल्मीकमिव पन्नगाः ॥ ७.२०१.९८ ॥
尊贵者啊,它们抵达德罗纳之子的锁骨部位,穿透后迅速钻入,如同蛇钻入蚁穴。
7.201.99
सोऽतिविद्धो भृशं द्रौणिः पाण्डवेन महात्मना ।
ध्वजयष्टिं समासाद्य न्यमीलयत लोचने ॥ ७.२०१.९९ ॥
德罗纳之子被高尚的般度之子射得重伤,他抓住旗杆,闭上了眼睛。
7.201.100
स मुहूर्तात्पुनः संज्ञां लब्ध्वा द्रौणिर्नराधिप ।
क्रोधं परममातस्थौ समरे रुधिरोक्षितः ॥ ७.२०१.१०० ॥
人主啊,片刻之后,德罗纳之子重新恢复了知觉,他浑身浸满鲜血,在战场上燃起了极大的愤怒。
7.201.101
दृढं सोऽभिहतस्तेन पाण्डवेन महात्मना ।
वेगं चक्रे महाबाहुर्भीमसेनरथं प्रति ॥ ७.२०१.१०१ ॥
被大德的般度之子重创后,这位大臂者迅猛地冲向了怖军的战车。
7.201.102
तत आकर्णपूर्णानां शराणां तिग्मतेजसाम् ।
शतमाशीविषाभानां प्रेषयामास भारत ॥ ७.२०१.१०२ ॥
于是,婆罗多之子啊,他射出了一百支拉至耳边、锐利如毒蛇的箭。
7.201.103
भीमोऽपि समरश्लाघी तस्य वीर्यमचिन्तयत् ।
तूर्णं प्रासृजदुग्राणि शरवर्षाणि पाण्डवः ॥ ७.२०१.१०३ ॥
好战自豪的怖军也衡量了对方的勇力,般度之子随即倾下猛烈的箭雨。
7.201.104
ततो द्रौणिर्महाराज च्छित्त्वाऽस्य विशिखैर्धनुः ।
आजघानोरसि क्रुद्धः पाण्डवं निशितैः शरैः ॥ ७.२०१.१०४ ॥
大王啊,愤怒的德罗纳之子以箭斩断他的弓,又以利箭射中般度之子的胸膛。
7.201.105
ततोऽन्यद्धनुरादाय भीमसेनो ह्यमर्षणः ।
विव्याध निशितैर्बाणैर्द्रौणिं पञ्चभिराहवे ॥ ७.२०१.१०५ ॥
于是不甘示弱的怖军又取一弓,在战场上以五支利箭射穿了德罗纳之子。
7.201.106
जीमूताविव घर्मान्ते तौ शरौघप्रवर्षिणौ ।
अन्योन्यक्रोधताम्राक्षौ छादयामासतुर्युधि ॥ ७.२०१.१०६ ॥
二人如同夏末的两朵乌云,倾泻箭雨,双目因彼此的怒火而赤红,在战场上相互遮蔽。
7.201.107
तलशब्दैस्ततो घोरैस्त्रासयन्तौ परस्परम् ।
अयुध्येतां सुसंरब्धौ कृतप्रतिकृतैषिणौ ॥ ७.२०१.१०७ ॥
于是,二人以可怕的拍击声彼此恐吓,极度愤怒,欲以牙还牙,交战起来。
7.201.108
ततो विष्फार्य सुमहच्चापं रुक्मविभूषितम् ।
भीमं प्रैक्षत स द्रौणिः शरानस्यन्तमन्तिकात्।
शरद्यहर्मध्यगतो द्रीप्तार्चिरिव भास्करः ॥ ७.२०१.१०८ ॥
于是,德罗纳之子拉开镶金的巨弓,注视着怖军,近距离射出箭矢,如同秋日正午光芒耀眼的太阳。
7.201.109
आददनास्य विशिखान्सन्दधानस्य चाशुगान् ।
विकर्षतो मुञ्चतश्च नान्तरं ददृशुर्जनाः ॥ ७.२०१.१०९ ॥
他取箭、搭弦、拉弓、放箭,人们看不到其间有任何间隔。
7.201.110
अलातचक्रप्रतिमं तस्य मण्डलमायुधम् ।
द्रौणेरासीन्महाराज बाणान्विसृजतस्तदा ॥ ७.२०१.११० ॥
大王啊,德罗纳之子放箭时,他的弓如同火把之轮,呈现出一个圆圈。
7.201.111
धनुश्च्युताः शरास्तस्य शतशोऽथ सहस्रशः ।
आकाशे प्रत्यदृश्यन्त शलभानामिवायतीः ॥ ७.२०१.१११ ॥
从他弓上射出的成百上千支箭在天空中显现,如同长长的蝗虫行列。
7.201.112
ते तु द्रौणिविनिर्मुक्ताः शरा हेमविभूषिताः ।
अजस्रमन्वकीर्यन्त घोरा भीमरथं प्रति ॥ ७.२०१.११२ ॥
德罗纳之子射出的那些镶金的可怕箭矢,不停地向怖军的战车倾泻而下。
7.201.113
तत्राद्भुतकमपश्याम भीमसेनस्य विक्रमम् ।
बलं वीर्यं प्रभावं च व्यवसायं च भारत ॥ ७.२०१.११३ ॥
在那里我们目睹了比摩那的非凡勇武:他的力量、气概、威势与决心,婆罗多的后裔啊。
7.201.114
तां स मेघादिवोद्भूतां बाणवृष्टिं समन्ततः ।
जलवृष्टिं महाघोरां तपान्त इव चिन्तयन् ॥ ७.२०१.११४ ॥
那如乌云涌起、遍洒四方的箭雨,猛烈如暴雨,他仿佛置身于暑季将尽时而凝神观望。
7.201.115
द्रोणपुत्रवधप्रेप्सुर्भीमो भीमपराक्रमः ।
अमुञ्चच्छरवर्षाणि प्रावृषीव बलाहकः ॥ ७.२०१.११५ ॥
勇猛可怖的比摩,欲杀德罗纳之子,如雨季的云般降下箭雨。
7.201.116
तद्रुक्मपृष्टं भीमस्य धनुर्घारं महारणे ।
विकृष्यमाणं विबभौ शक्रचापमिवापरम् ॥ ७.२०१.११६ ॥
在大战中,比摩那镶金背的可怖之弓被拉开,闪耀如另一道帝释天的彩虹。
7.201.117
तस्माच्छराः प्रादुरासञ्छतशोऽथ सहस्रशः ।
सञ्छादयन्तः समरे द्रौणिमाहवशोभिनम् ॥ ७.२०१.११७ ॥
从弓中先是成百上千地涌出箭矢,遮蔽了在战场上威仪赫赫的德罗纳之子。
7.201.118
तयोर्विसृजतोरेवं शरजालानि मारिष ।
वायुरप्यन्तरा राजन्नाशक्नोत्प्रतिसर्पितुम् ॥ ७.२०१.११८ ॥
当这二人如此不断发射箭网时,啊主公,连风也无法穿行于二人之间,啊大王。
7.201.119
तथा द्रौणिर्महाराज शरान्हेमविभूषितान् ।
तैलधौतान्प्रसन्नाग्रान्प्राहिणोद्वधकाङ्क्षया ॥ ७.२०१.११९ ॥
大王,德罗纳之子同样射出饰以黄金、以油洗净、锋尖明亮的箭,欲将敌人杀死。
7.201.120
तानन्तरिक्षे विशिखैस्त्रिधैकैकमशातयत् ।
विशेषयन्द्रोणसुतं तिष्ठतिष्ठेति चाब्रवीत् ॥ ७.२०१.१२० ॥
他在空中用箭将每一支都截成三段,并对德罗纳之子喊道:“站住,站住!”
7.201.121
पुनश्च शरवर्षाणि घोराण्युग्राणि पाण्डवः ।
व्यसृजद्बलवानक्रुद्धो द्रोणपुत्रवधेप्सया ॥ ७.२०१.१२१ ॥
强大的般度之子虽未愤怒,仍再次射出可怖猛烈的箭雨,欲杀德罗纳之子。
7.201.122
ततोऽस्त्रमायया तूर्णं शरवृष्टिं निवार्य ताम् ।
धनुश्चिच्छेद भीमस्य द्रोणपुत्रो महास्त्रवित्।
शरैश्चैनं सुबहुभिः क्रुद्धः सङ्ख्ये पराभिनत् ॥ ७.२०१.१२२ ॥
于是精通大武器的德罗纳之子以武器幻术迅速挡住了那阵箭雨,斩断了怖军的弓,并愤怒地在战场上用众多箭射伤了他。
7.201.123
स छिन्नधन्वा बलवान्रथशक्तिं सुदारुणाम् ।
वेगेनाविध्य चिक्षेप द्रोणपुत्ररथं प्रति ॥ ७.२०१.१२३ ॥
他的弓虽已折断,这位强者仍以力量挥舞一支极其可怖的车枪,投向德罗纳之子的战车。
7.201.124
तामापतन्तीं सहसा महोल्काभां शितैः शरैः ।
चिच्छेद समरे द्रौणिर्दर्शयन्पाणिलाघवम् ॥ ७.२०१.१२४ ॥
德罗纳之子在战斗中以锋利的箭将那突然飞来、如巨大流星般的东西斩断,展示了他手上的敏捷。
7.201.125
एतस्मिन्नन्तरे भीमो दृढमादाय कार्मुकम् ।
द्रौणिं विव्याध विशिखैः स्मयमानो वृकोदरः ॥ ७.२०१.१२५ ॥
此时,狼腹的怖军坚定地拿起弓,微笑着用箭射中了德罗纳之子。
7.201.126
ततो द्रौणिर्महाराज भीमसेनस्य सारथिम् ।
ललाटे दारयामास शरेणानतपर्वणा ॥ ७.२०१.१२६ ॥
大王啊,德罗纳之子随即用一支箭杆弯曲的箭射中了怖军之子的御者的额头。
7.201.127
सोऽतिविद्धो बलवता द्रोणपुत्रेण सारथिः ।
व्यामोहमगमद्राजन्रश्मीनुत्सृज्य वाजिनां ॥ ७.२०१.१२७ ॥
那御者被强大的德罗纳之子重创,大王啊,陷入昏乱,松开了马的缰绳。
7.201.128
ततोऽश्वाः प्राद्रवंस्तूर्णं मोहिते रथसारथौ ।
भीमसेनस्य राजेनद्र् पश्यतां सर्वधन्विनाम् ॥ ७.२०१.१२८ ॥
御者昏乱之时,马匹迅速奔逃,王中之王啊,怖军的所有弓手都在旁观望。
7.201.129
तं दृष्ट्वा प्रद्रुतैरश्वैरपकृष्टं रणाजिरात् ।
दध्मौ प्रमुदितः शङ्खं बृहन्तमपराजितः ॥ ७.२०१.१२९ ॥
见他被逃奔的马匹拖离战场,那位不败者欢喜地吹响了他的大海螺。
7.201.130
ततः सर्वे च पाञ्चाला भीमसेनश्च पाण्डवः ।
धृष्टद्युम्नरथं त्यक्त्वा भीताः सम्प्राद्रवन्दिशः ॥ ७.२०१.१३० ॥
于是所有般遮罗人和潘度之子怖军惊恐地抛下了猛光的战车,四散逃去。
7.201.131
तान्प्रभग्नांस्ततो द्रौणिः पृष्ठतो विकिरञ्शरान् ।
अभ्यवर्तत वेगेन कालयन्पाण्डुवाहिनीम् ॥ ७.२०१.१३१ ॥
此时德罗纳之子从后方射出箭雨,疾速冲向那些溃逃的士兵,摧毁般度之子的军队。
7.201.132
ते वध्यमानाः समरे द्रोणपुत्रेण पार्थिवाः ।
द्रोणपुत्रभयाद्राजन्दिशः सर्वाश्च भेजिरे ॥ ७.२०१.१३२ ॥
大王!那些在战场上被德罗纳之子杀戮的武士,因畏惧德罗纳之子而向四面八方逃散。