摩诃婆罗多 · 章 7.203
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
7.203.1
तस्मिन्नतिरथे द्रोणे निहते तत्र सञ्जय ।
मामकाः पाण्डवाश्चैव किमकुर्वन्नतः परम् ॥ ७.२०३.१ ॥
桑闍耶啊,那位大车将德罗纳被杀之后,我方与般度子孙接下来做了什么?
7.203.2
तस्मिन्नतिरथे द्रोणे निहते पार्षतेन वै ।
कौरवेषु च भग्नेषु कुन्तीपुत्रो धनञ्जयः ॥ ७.२०३.२ ॥
当那位大车将德罗纳被钵利沙塔之子所杀、俱卢人溃散之时,贡蒂之子檀闍耶……
7.203.3
दृष्ट्वा सुमहदाश्चर्यमात्मनो विजयावहम् ।
मुनिं स्निग्धाम्बुदाभासं वेदव्यासमकल्मषम्।
यदृच्छयाऽऽगतं व्यासं पप्रच्छ भरतर्षभ ॥ ७.२०३.३ ॥
见此大奇迹将为其带来胜利,(阿周那)向偶然到来的圣者毗耶娑发问——他的光辉如平滑的雨云,纯净无瑕,婆罗多之杰啊。
7.203.4
सङ्ग्रामे न्यहनं शत्रूञ्शरौघैर्विमलैरहम् ।
अग्रतो लक्षये यान्तं पुरुषं पावकप्रभम् ॥ ७.२०३.४ ॥
我在战场上以明亮的箭雨击杀敌人。我看见前方有一人前行,光辉如火。
7.203.5
ज्वलन्तं शूलमुद्यम्य यां दिशं प्रतिपद्यते ।
तस्यां दिशि विदीर्यन्ते शत्रवो मे महामुने ॥ ७.२०३.५ ॥
他举起燃烧的三叉戟,朝向哪个方向前进,那方向的敌人便被撕裂,大仙啊。
7.203.6
तेन भग्नानरीन्सर्वान्मद्भग्नान्मन्यते जनः ।
तेन भग्नानि सैन्यानि पृष्ठतोऽनुव्रजाम्यहम् ॥ ७.२०३.६ ॥
凡是他所击溃的敌人,世人都以为是我所击溃的。他所打散的军队之后,我紧随而行。
7.203.7
भगवंस्तन्ममाचक्ष्व को वै स पुरुषोत्तमः ।
शूलपाणिर्मया दृष्टस्तेजसा सूर्यसन्निभः ॥ ७.२०३.७ ॥
尊者啊,请告诉我,那位手持三叉戟、光辉如太阳的至上人是谁,我曾亲眼见到他。
7.203.8
न पद्भ्यां स्पृशते भूमिं न च शूलं विमुञ्चति ।
शूलाच्छूलसहस्राणि निष्पेतुस्तस्य तेजसा ॥ ७.२०३.८ ॥
他不以双足触地,也不放下三叉戟;由于他的光辉,三叉戟上涌出了千百支三叉戟。
7.203.9
प्रजापतीनां प्रथमं तैजसं पुरुषं प्रभुम् ।
भुवनं भूर्भुवं देवं तेजसां प्रवरं प्रभुम् ॥ ७.२०३.९ ॥
诸生主中的第一位,光耀的补卢沙,主宰,世界,生于大地与天界的神,诸光辉中最殊胜的主。
7.203.10
ईशानं वरदं पार्थ दृष्टवानसि शङ्करम् ।
तं गच्छ शरणं देवं वरदं भुवनेश्वरम् ॥ ७.२०३.१० ॥
般度之子啊,你见到了伊舍那、赐予恩惠的商羯罗。请皈依那位赐予恩惠的神,诸世界之主。
7.203.11
महादेवं महात्मानमीशानं जटिलं विभुम् ।
त्र्यक्षं महाभुजं रुद्रं शिखिनं चीवराससम् ॥ ७.२०३.११ ॥
大天神、大我、主宰、披发者、遍在者、三眼、大臂的楼陀罗,有冠饰,身穿树皮衣。
7.203.12
महादेवं हरं स्थाणुं वरदं भुवनेश्वरम् ।
जगत्प्रधानमजितं जगत्प्रीतिमधीश्वरम् ॥ ७.२०३.१२ ॥
大天神、哈罗、坚固者、赐予恩惠者、诸世界之主、世间第一、不可战胜者、世界所喜爱者、至上主。
7.203.13
जगद्योनिं जगद्बीजं जयिनं जगतो गतिम् ।
विश्वात्मानं विश्वसृजं विश्वमूर्तिं यशस्विनम् ॥ ७.२०३.१३ ॥
世界之胎,世界之种,胜者,世界之归趣,一切之我,一切之创造者,一切之形相,荣耀者。
7.203.14
विश्वेश्वरं विश्वनरं कर्मणामीश्वरं प्रभुम् ।
शंभुं स्वयंभुं भूतेशं भूतभव्यभवोद्भवम् ॥ ७.२०३.१४ ॥
宇宙之主,宇宙之人,行为之主,主宰,湿婆,自在者,众生之主,过去、未来、现在之源。
7.203.15
योगं योगेश्वरं सर्वं सर्वलोकेश्वरेश्वरम् ।
सर्वश्रेष्ठं जगच्छ्रेष्ठं वरिष्ठं परमेष्ठिनम् ॥ ७.२०३.१५ ॥
瑜伽,瑜伽之主,一切,诸世界主宰之主,一切中最胜者,世间最胜者,最尊者,至上者。
7.203.16
लोकत्रयविधातारमेकं लोकत्रयाश्रयम् ।
शुद्धात्मानं भवं भीमं शशाङ्ककृतशेखरम् ॥ ७.२०३.१६ ॥
三界的创造者,唯一者,三界的依归,清净之我,婆婆,可畏者,以月为冠者。
7.203.17
शाश्वतं भूधरं देवं सर्ववागीश्वरेश्वरम् ।
सुदुर्जयं जगन्नाथं जन्ममृत्युजरातिगम् ॥ ७.२०३.१७ ॥
永恒者,承持大地者,天神,一切言语之主的主宰,难以战胜者,世界之主,超越生、死、老者。
7.203.18
ज्ञानात्मानं ज्ञानगम्यं ज्ञानश्रेष्ठं सुदुर्विदम् ।
दातारं चैव भक्तानां प्रसादविहितान्वरान् ॥ ७.२०३.१८ ॥
知识之我,以知识可达者,知识中最胜者,极难了知者,并且确实是以恩典赐予虔信者诸般恩惠的施予者。
7.203.19
तस्य पारिषदा दिव्या रूपैर्नानाविधैर्विभोः ।
वामना जटिला मुण्डा हस्वग्रीवा महोदराः ॥ ७.२०३.१९ ॥
他的神圣随从形态各异:有侏儒,有披发者,有光头者,有短颈者,有大腹者。
7.203.20
महाकाया महोत्साहा महाकर्णास्तथाऽपरे ।
आननैर्विकृतैः पादैः पार्थ वेषैश्च वैकृतैः ॥ ७.२०३.२० ॥
有的身躯庞大、精力充沛,有的耳朵很大;还有的,啊,阿周那,面容扭曲,双脚畸形,衣着怪异。
7.203.21
ईदृशैः स महादेवः पूज्यमानो महेश्वरः ।
स शिवस्तात तेजस्वी प्रसादाद्याति तेऽग्रतः ॥ ७.२०३.२१ ॥
被这样的侍从所敬拜的大神大自在天,那光辉的湿婆,亲爱的,因你的恩惠走在你的前面。
7.203.22
तस्मिन्घोरे सदा पार्थ सङ्ग्रामे रोमहर्षणे ।
द्रौणिकर्णकृपैर्गुप्तां महेष्वासैः प्रहारिभिः ॥ ७.२०३.२२ ॥
啊,阿周那,在那可怕而总令人毛骨悚然的战斗中,那支军队由德罗纳之子、迦尔纳和克利巴等大弓箭手与攻击者所守护。
7.203.23
कस्तां सेनां तदा पार्थ मनसाऽपि प्रधर्षयेत् ।
ऋते देवान्महेष्वासाद्बहुरूपान्महेश्वरात् ॥ ७.२०३.२३ ॥
啊,阿周那,除了大弓手、多形态的天神大自在天,谁能在心中也去攻击那支军队呢?
7.203.24
स्थातुमुत्सहते कश्चिन्न तस्मिन्नग्रतः स्थिते ।
न हि भूतं समं तेन त्रिषु लोकेषु विद्यते ॥ ७.२०३.२४ ॥
无人敢站在他面前,因为在三界之中,没有任何生灵能与他相比。
7.203.25
गन्धेनापि हि सङ्ग्रामे तस्य क्रुद्धस्य शत्रवः ।
विसंज्ञा हतभूयिष्ठा वेपन्ति च पतन्ति च ॥ ७.२०३.२५ ॥
在战场上,即使只是闻到他愤怒时的气息,敌人大多被杀,失去知觉,颤抖倒下。
7.203.26
तस्मै नमस्तु कुर्वन्तो देवास्तिष्ठन्ति वै दिवि ।
ये चान्ये मानवा लोके ये च स्वर्गजितो नराः ॥ ७.२०३.२६ ॥
向他致敬的诸神安住于天界,世间的其他人,以及征服天界的人,也是如此。
7.203.27
ये भक्ता वरदं देव शिवं रुद्रमुमापतिम् ।
अनन्यभावेन सदा सर्वेशं समुपासते ॥ ७.२०३.२७ ॥
那些始终以专一之心崇拜赐予恩惠之神湿婆、楼陀罗、乌玛之主、一切之主的信徒。
7.203.28
सङ्ग्रामेषु जयं प्राप्य पालयन्ति महीमिमाम् ।
इह लोके सुखं प्राप्य ते यान्ति परमां गतिम् ॥ ७.२०३.२८ ॥
他们在战斗中获胜,守护这片大地;在此世获得幸福后,便抵达至高的归宿。
7.203.29
नमस्कुरुष्व कौन्तेय तस्मै शान्ताय वै सदा ।
रुद्राय शितिकण्ठाय कनिष्ठाय सुवर्चसे ॥ ७.२०३.२९ ॥
贡地之子啊,要永远向他致敬:那寂静者、楼陀罗、青颈者、最年幼者、光辉者。
7.203.30
कपर्दिने करालाय हर्यक्षवरदाय च ।
याम्यायाव्यक्तकेशाय सद्वृत्ते शङ्कराय च ॥ ७.२०३.३० ॥
向发辫纠结者、可畏者、赐恩于黄褐色眼睛者、南方之神、发不可见者、德行善良者,以及湿婆(商羯罗)致敬。
7.203.31
काम्याय हरिनेत्राय स्थाणवे पुरुषाय च ॥ ७.२०३.३१ ॥
也向可爱的、绿眼的、常住的、原人致敬。
7.203.32
नमो वृक्षाय सेनान्ये मध्यमाय नमोनमः ।
हरिकेशाय मुण्डाय कृशायोत्तारणाय च।
भास्कारय सुतीर्थाय देवदेवाय रंहसे ॥ ७.२०३.३२ ॥
敬礼,敬礼!敬礼树木、军将、中者;敬礼绿发者、剃头者、瘦削者、摆渡者、造日者、善渡者、诸神之神、迅疾者。
7.203.33
बहुरूपाय सर्वाय प्रियाय प्रियवाससे ।
उष्णीषिणे सुवक्त्राय सहस्राक्षाय मीढुषे ॥ ७.२०३.३३ ॥
敬礼多形者、一切者、可爱者、着可爱衣者、戴头巾者、善面者、千眼者、施与者。
7.203.34
गिरिशाय प्रशान्ताय पतये चीरवाससे ।
हिरण्यबाहवे राजन्नुग्राय पतये दिशाम् ॥ ७.२०३.३४ ॥
敬礼山主、寂静者、主、着树皮衣者、金臂者、大王、猛烈者、四方之主。
7.203.35
पर्जन्यपतये चैव भूतानां पतये नमः ।
वृक्षाणां पतये चैव गवां च पतये नमः ॥ ७.२०३.३५ ॥
敬礼雨云之主,亦敬礼众生之主。敬礼树木之主,亦敬礼牛群之主。
7.203.36
वृक्षैरावृतकायाय सेनान्ये मध्यमाय च ।
स्रुवहस्ताय देवाय धन्विने भार्गवाय च ॥ ७.२०३.३६ ॥
敬礼身披树木者、军将、中者、手持勺者神、持弓者、婆仰婆之裔。
7.203.37
बहुरूपाय विश्वस्य पतये मुञ्चवाससे ।
सहस्रशिरसे चैव सहस्रचरणाय च।
सहस्रबाहवे चैव सहस्रवदनाय च ॥ ७.२०३.३७ ॥
向那具有多种形相、宇宙之主、身着茅草衣、拥有千头、千足、千臂与千面的神致敬。
7.203.38
शरणं गच्छ कौन्तेय वरदं भुवनेश्वरम् ।
उमापतिं विरूपाक्षं दक्षयज्ञनिबर्हणम् ॥ ७.२०३.३८ ॥
俄耳迪的儿子啊,去皈依那赐予恩惠的世界之主,乌玛之夫,三目之神,摧毁达刹祭祀者。
7.203.39
प्रजानां पतिमव्यग्रं भूतानां पतिमव्ययम् ।
कपर्दिनं वृषावर्तं वृषनाभं वृषध्वजम् ॥ ७.२०३.३९ ॥
众生之主,不动摇者,众有情的不灭之主,发结高束者,如公牛般旋转,脐如公牛,旗帜为公牛。
7.203.40
वृषदर्पं वृषपतिं वृषशृङ्गं वृषर्षभम् ।
वृषाङ्गं वृषभोदारं वृषभं वृषभेक्षणम् ॥ ७.२०३.४० ॥
如公牛般骄傲,诸牛之主,牛角之神,牛中之最,牛身,如牛般慷慨,牛,牛眼之神。
7.203.41
वृषायुधं वृषशरं वृषभूतं वृषेश्वरम् ।
महोदरं महाकायं द्वीपिचर्मनिवासिनम् ॥ ७.२०३.४१ ॥
以牛为武器,以牛为箭,化作牛形,牛之主,大腹,大身,居于豹皮之中。
7.203.42
लोकेशं वरदं पुण्यं ब्रह्मण्यं ब्राह्मणप्रियम् ।
त्रिशूलपाणिं वरदं खङ्गचर्मधरं प्रभुम् ॥ ७.२०३.४२ ॥
世界之主,赐予恩惠者,圣洁者,婆罗门之友,婆罗门所爱者,手持三叉戟者,赐予恩惠者,持剑与盾者,主宰。
7.203.43
पिनाकिनं खङ्घधरं लोकानां पतिमीश्वरम् ।
प्रपद्ये शरणं देवं शरण्यं चीरवाससम् ॥ ७.२०३.४३ ॥
我皈依手持毗那迦弓与剑的神,世界之主,值得皈依的主宰,身着树皮衣的神。
7.203.44
नमस्तस्मै सुरेशाय गणानां पतये नमः ।
सुवाससे नमस्तुभ्यं सुव्रताय सुधन्विने ॥ ७.२०३.४४ ॥
向诸神之主致敬,向众灵之主致敬。向衣着华美的你致敬;向持善誓、善射的你致敬。
7.203.45
धनुर्धराय देवाय प्रियधन्वाय धन्विने ।
धन्वन्तराय धनुषे धन्वाचार्याय ते नमः ॥ ७.२०३.४५ ॥
向持弓之神致敬,向爱弓的射手致敬。向你,医神檀万塔拉、弓,弓术之师致敬。
7.203.46
उग्रायुधाय देवाय नमः सुरवराय च ।
नमोस्तु बहुरूपाय नमोस्तु बहुधन्विने ॥ ७.२०३.४६ ॥
向持猛烈兵器的神致敬,向诸神中最殊胜者致敬。向多相者致敬;向多弓者致敬。
7.203.47
नमोस्तु स्थाणवे नित्यं नमस्तस्मै तपस्विने ।
नमोस्तु त्रिपुरघ्नाय भगघ्नाय च वै नमः। ॥ ७.२०३.४७ ॥
常向稳固者致敬,向那苦行者致敬。向毁灭三城者致敬,向毁灭婆伽者也致敬。
7.203.48
वनस्पतीनां पतये नराणां पतये नमः ।
मातॄणां पतये चैव गणानां पतये नमः ॥ ७.२०३.४८ ॥
向树木之主致敬,向人类之主致敬。也向诸母之主致敬,向众灵之主致敬。
7.203.49
गवां च पतये नित्यं यज्ञानां पतये नमः ।
अपां च पतये नित्यं देवानां पतये नमः ॥ ७.२०३.४९ ॥
常向牛群之主致敬,向祭祀之主致敬;常向水之主致敬,向诸神之主致敬。
7.203.50
पूष्णो दन्तविनाशाय त्र्यक्षाय वरदाय च ।
नीलकण्ठाय पिङ्गाय स्वर्णकेशाय वै नमः ॥ ७.२०३.५० ॥
向毁坏补善之齿者致敬,向三目者、赐恩者致敬;向蓝颈者、赤褐色者、金发者致敬。
7.203.51
कर्माणि यानि दिव्यानि महादेवस्य धीमतः ।
तानि ते कीर्तयिष्यामि तथाप्रज्ञं यथाश्रुतम् ॥ ७.२०३.५१ ॥
智慧的大天神的神圣事迹,我将照我所闻为你叙述,虽然我的理解并不完全。
7.203.52
न सुरा नासुरा लोके न गन्धर्वा न राक्षसाः ।
सुखमेधन्ति कुपिते तस्मिन्नपि गुरागताः ॥ ७.२०३.५२ ॥
他一旦震怒,世间无论天神、阿修罗、乾闼婆还是罗刹,都不得安乐兴盛,即便他们曾来到导师面前。
7.203.53
दक्षस्य यजमानस्य विधिवत्संभृतं पुरा ।
विव्याध कुपितो यज्ञं निर्दयस्त्वभवत्तदा।
धनुषा बाणमुत्सृज्य सघोषं विननाद च ॥ ७.२०३.५३ ॥
往昔,施祭者达刹依礼备妥的祭祀,被他怒而射穿;他变得无情,从弓上放出一箭,并发出巨响咆哮。
7.203.54
तेन शर्म कुतः शान्तिं लेभिरे स्म सुरास्तदा ।
विद्रुते सहसा यज्ञे कुपिते च महेश्वरे ॥ ७.२०३.५४ ॥
由此,诸天神从何处得到庇护与安宁呢?那时祭祀忽然溃散逃走,大自在天(摩诃提婆)遂怒不可遏。
7.203.55
तेन ज्यातलघोषेण सर्वे लोकाः समाकुलाः ।
बभूवुर्वशगाः पार्थ निपेतुश्च सुरासुराः ॥ ७.२०३.५५ ॥
弓弦的嗡鸣使一切世界陷入混乱,哦,帕尔塔;它们被制服,诸天与阿修罗都倒下了。
7.203.56
आपश्चुक्षुभिरे सर्वाश्चकम्पे च वसुन्धरा ।
पर्वताश्च व्यशीर्यन्त दिशो नागाश्च मोहिताः ॥ ७.२०३.५६ ॥
所有的水都翻腾,大地震动,群山崩裂,方位与象群都陷入迷惑。
7.203.57
अन्धेन तमसा लोका न प्राकाशन्त संवृताः ।
जघ्निवान्सह सूर्येण सर्वेषां ज्योतिषां प्रभाः ॥ ७.२०३.५७ ॥
世界被盲目的黑暗所笼罩,不再发光;它与太阳一起,打灭了所有光明的光辉。
7.203.58
चुक्षुभुर्भयभीताश्च शान्तिं चक्रुस्तथैव च ।
ऋषयः सर्वभूतानामात्मनश्च सुखैषिणः ॥ ७.२०३.५८ ॥
他们因恐惧而惊慌,四处寻求安宁;仙人们也是如此,他们渴望一切众生的福祉和自己的幸福。
7.203.59
पूषाणमभ्यद्रवत शङ्करः प्रहसन्निव ।
पुरोडाशं भक्षयतो दशनान्वै व्यशातयत् ॥ ७.२०३.५९ ॥
湿婆仿佛在笑,冲向普善,在他吃祭饼时打掉了他的牙齿。
7.203.60
ततो निश्चक्रमुर्देवा वेपमाना भयार्दिताः ॥ ७.२०३.६० ॥
于是诸神战栗着、被恐惧折磨着走了出来。
7.203.61
पुनश्च सन्दधे दीप्तान्देवानां निशिताञ्शरान् ।
सधूमान्सस्फुलिङ्गांश्च विद्युत्तोयदसन्निभान् ॥ ७.२०३.६१ ॥
他又搭上了诸神那些燃烧的利箭,冒着烟与火花,好似蕴含闪电的云团。
7.203.62
तं दृष्ट्वा तु सुराः सर्वे प्रणिपत्य महेश्वरम् ।
रुद्रस्य यज्ञभागं च विशिष्टं ते त्वकल्पयन् ॥ ७.२०३.६२ ॥
诸神见状,皆向大自在天顶礼,并为楼陀罗另定了祭祀中的特殊份额。
7.203.63
भयेन त्रिदशा राजञ्छरणं च प्रपेदिरे ।
तेन चैवातिकोपेन स यज्ञः सन्धितस्तदा।
भग्नाश्चापि सुरा आसन्भीताश्चाद्यापि तं प्रति ॥ ७.२०३.६३ ॥
大王啊,诸神因恐惧而投奔他寻求庇护;正是因那极大的愤怒,那祭祀当时被刺穿,诸神溃败,至今仍对他心怀畏惧。
7.203.64
असुराणां पुराण्यासंस्त्रीणि वीर्यवतां दिवि ।
आयसं राजतं चैव सौवर्णं परमं महत् ॥ ७.२०३.६४ ॥
天上有三座属于勇猛阿修罗的城池:一座由铁建成,一座由银建成,还有一座由至上的大黄金建成。
7.203.65
सौवर्णं कमलाक्षस्य तारकाक्षस्य राजतम् ।
तृतीयं तु पुरं तेषां विद्युन्मालिन आयसम्।
न शक्तस्तानि मघवान्भेत्तुं सर्वायुधैरपि ॥ ७.२०३.६५ ॥
金之城属于莲目(Kamalākṣa),银之城属于星目(Tārakākṣa),第三座属于电鬘(Vidyunmālin),由铁建成。即便以一切兵器,因陀罗(摩伽婆)也无法将它们摧毁。
7.203.66
अथ सर्वे सुरा रुद्रं जग्मुः शरणमर्दिताः ।
ते तमूचुर्महात्मानं सर्वे देवाः सवासवाः ॥ ७.२०३.६६ ॥
于是诸神因苦恼而皆投奔楼陀罗寻求庇护;与婆薮(因陀罗)同在的诸神,都向这位伟大的神明开口说话。
7.203.67
ब्रह्मदत्तवरा ह्येते घोरास्त्रिपुरवासिनः ।
पीडयन्त्यधिकं लोकं यस्मात्ते वरदर्पिताः ॥ ७.२०३.६७ ॥
这些得到梵天赐予恩惠的可怕的三城居民,因所得恩惠而骄傲,极度地折磨着世界。
7.203.68
त्वदृते देवदेवेश नान्यः शक्तः कथञ्चन ।
हन्तुं दैत्यान्महादेव जहि तांस्त्वं सुरद्विपः ॥ ७.२०३.६८ ॥
众神之神的主宰啊,除你之外,任何人都无法杀死这些达蒂亚。伟大的神啊,众神中的象王,你自己去击杀他们吧。
7.203.69
रुद्र रौद्रा भविष्यन्ति पशवः सर्वकर्मसु ।
निपातयिष्यसे चैतानसुरान्भुवनेश्वर ॥ ७.२०३.६९ ॥
啊,楼陀罗,这些牲畜在一切行为中都会变得凶暴;而你,世界之主,将击倒这些阿修罗。
7.203.70
स तथोक्तस्तथेत्युक्त्वा देवानां हितकाम्यया ।
गन्धमादनविन्ध्यौ च कृत्वा वंशध्वजौ हरः ॥ ७.२०३.७० ॥
受到如此请求,他说:「就这样吧。」出于为众神谋福的愿望,哈罗把乾陀摩陀那与温底耶山做成了弓杆的旗帜。
7.203.71
पृथ्वीं ससागरवनां रथं कृत्वा तु शङ्करः ।
अक्षं कृत्वा तु नागेन्द्रं शेषं नाम त्रिलोचनः ॥ ७.२०३.७१ ॥
三眼的湿婆(商羯罗)以大地连同海洋与森林为战车,以名为舍弥的蛇王为车轴,
7.203.72
चक्रे कृत्वा तु चन्द्रार्कौ देवदेवः पिनाकधृत् ।
अणी कृत्वैलपत्रं च पुष्पदन्तं च त्र्यम्बकः ॥ ७.२०३.७२ ॥
众神之神、持大弓毗那迦者,以日月为车轮;三眼的三目者以伊拉帕特拉与布沙丹塔为矛尖,
7.203.73
यूपं कृत्वा तु मलयमवनाहं च तक्षकम् ॥ ७.२०३.७३ ॥
以摩罗耶山为祭柱,又以阿婆那诃与德叉迦为。
7.203.74
योक्त्राङ्गानि च सत्वानि कृत्वा शर्वः प्रतापवान् ।
वेदान्कृत्वाऽथ चतुरश्चतुरश्वान्महेश्वरः ॥ ७.२०३.७४ ॥
威严的湿婆既造轭之部件与众生,又将吠陀化为四组,每组四马,大自在天。
7.203.75
उपदेवान्खलीनांश्च कृत्वा लोकत्रयेश्वरः ।
गायत्रीं प्रग्रहं कृत्वा सावित्रीं च महेश्वरः ॥ ७.२०३.७५ ॥
三界之主既造次神与缰绳,又以伽耶特里为辔,以萨维特里亦然,大自在天。
7.203.76
कृत्वोंकारं प्रतोदं च ब्रह्माणं चैव सारथिम् ।
गाण्डीवं मन्दरं कृत्वा गुणं कृत्वा तु वासुकिम् ॥ ७.२०३.७६ ॥
以唵为策,以梵天为御者;以甘狄拔为曼陀罗山,以弦为婆苏祇。
7.203.77
विष्णुं शरोत्तमं कृत्वा शल्यमग्निं तथैव च ।
वायुं कृत्वाऽथ वाजाभ्यां पुङ्खे वैवस्वतं यमम् ॥ ७.२०३.७७ ॥
以毗湿奴为最上箭,以火神为箭头;以风神为羽,于箭尾置毗婆娑之子阎摩。
7.203.78
विद्युत्कृत्वाऽथ निश्राणं मेरुं कृत्वाऽथ वै ध्वजम् ।
आरुह्य स रथं दिव्यं सर्वदेवमयं शिवः ॥ ७.२०३.७८ ॥
以电为磨石,以须弥山为旗;湿婆遂登上那由诸神所成的神圣战车。
7.203.79
त्रिपुरस्य वधार्थाय स्थाणुः प्रहरतां वरः ।
असुराणामन्तकरः श्रीमानतुलविक्रमः ॥ ७.२०३.७९ ॥
为毁灭三城,斯塔努,诸打击者中最优者,阿修罗的终结者,光辉而勇力无比。
7.203.80
स्तूयमानः सुरैः पार्थ ऋषिभिश्च तपोधनैः ।
स्थानं माहेश्वरं कृत्वा दिव्यमप्रतिमं प्रभुः।
अतिष्ठत्स्थाणुभूतः स सहस्रं परिवत्सरान् ॥ ७.२०३.८० ॥
诸天与以苦行为财富的仙人赞颂之,阿周那啊,主造了一处神圣无比的摩醯首罗之所,化作不动的斯塔努,在那里站立了一千年。
7.203.81
यदा त्रीणि समेतानि अन्तरिक्षे पुराणि च ।
त्रिपर्वणा त्रिशल्येन तदा तानि बिभेद सः ॥ ७.२०३.८१ ॥
当三城聚集于空中时,他便以三节三刃之箭射穿了它们。
7.203.82
पुराणि न च तं शेकुर्दानवाः प्रतिवीक्षितुम् ।
शरं कालाग्निसंयुक्तं विष्णुसोमसमायुतम् ॥ ७.२०३.८२ ॥
檀那婆们甚至无法正视那些城,也无法正视他;那支箭与时间之火相合,并与毗湿奴、月神相结合。
7.203.83
पुराणि दग्धवन्तं तं देवी याता प्रवीक्षितुम् ।
देव्याः स्वयंवरे वृत्तं शृणुष्वान्यद्धनञ्जय ॥ ७.२०३.८३ ॥
女神前去观看那焚毁诸城之人。达那闍耶啊,请听女神自选夫婿仪式中的另一段故事。
7.203.84
बालमङ्कगतं कृत्वा स्वयं पञ्चशिखं पुनः ।
उमा जिज्ञासमाना वै कोयमित्यब्रवीत्सुरान् ॥ ७.२०३.८४ ॥
乌玛亲自将那五缕发髻的孩童抱于膝上,满怀求知之心,问诸天神道:「此子是谁?」
7.203.85
असूयतश्च शक्रस्य वज्रेण प्रहरिष्यतः ।
बाहुं सवज्रं तं तस्य क्रुद्धस्यास्तम्भयत्प्रभुः।
प्रहस्य भगवांस्तूर्णं सर्वलोकेश्वरो विभुः ॥ ७.२०३.८५ ॥
嫉妒的因陀罗正欲以金刚杵击打时,遍在的主宰、诸世界之主笑着,立即使这愤怒者连同金刚杵的手臂僵住。
7.203.86
ततः स स्तम्भितभुजः शक्रो देवगणैर्वृतः ।
जगाम ससुरस्तूर्णं ब्रह्माणं प्रभुमव्ययम् ॥ ७.२०३.८६ ॥
于是因陀罗手臂僵硬,被诸神众围绕,与诸天一同迅速前往不灭的主宰梵天。
7.203.87
ते तं प्रणम्य शिरसा प्रोचुः प्राञ्जलयस्तदा ॥ ७.२०३.८७ ॥
于是他们低首向他行礼,合掌而言。
7.203.88
किमप्यङ्कगतं ब्रह्मन्पार्वत्या भूतमद्भुतम् ।
बालरूपधरं दृष्ट्वा नास्माभिरभिलक्षितः ॥ ७.२०३.८८ ॥
梵天啊,我们看见一位奇异的存在,以孩童之形坐在帕尔瓦蒂的膝上,但我们未能认出他。
7.203.89
तस्मात्त्वां प्रष्टुमिच्छामो निर्जिता येन वै वयम् ।
अयुध्यता हि बालेन लीलया सपुरंदराः ॥ ७.२०३.८९ ॥
因此我们想问您,是谁与因陀罗一起击败了我们:那个不曾交战、只是嬉戏便胜过我们的孩童。
7.203.90
तेषां तद्वचनं श्रुत्वा ब्रह्मा ब्रह्मविदां वरः ।
ध्यात्वा स शंभुं भगवान्बालं चामिततेजसम्।
उवाच भगवान्ब्रह्मा शक्रादींश्च सुरोत्तमान् ॥ ७.२०३.९० ॥
梵天是通晓梵者中最优秀的,听了他们的话,冥想湿婆与那位光辉无量的孩童后,对因陀罗等诸位最优秀的天神说道。
7.203.91
चराचरस्य जगतः प्रभुः स भगवान्हरः ।
तस्मात्परतरं नान्यत्किञ्चिदस्ति महेश्वरात् ॥ ७.२०३.९१ ॥
世尊哈罗是动与不动一切世界的主宰,没有比大自在天更高的存在。
7.203.92
यो दृष्टो ह्युमया सार्धं युष्माभिरमितद्युतिः ।
स पार्वत्याः कृते शर्वः कृतवान्बालरूपताम् ॥ ७.२०३.९२ ॥
你们曾与乌玛一同见到的那位无量光明者,即湿婆,为了帕尔瓦蒂而化作了婴儿之形。
7.203.93
ते मया सहिता यूयं प्रापद्यध्वं तमेव हि ।
स एष भगवान्देवः सर्वलोकेश्वरः प्रभुः ॥ ७.२०३.९३ ॥
你们和我一起,皈依于他一人吧。这位世尊天神正是一切世界的主宰与君王。
7.203.94
न सम्बबुधिरे चैनं देवास्तं भुवनेश्वरम् ।
सप्रजापतयः सर्वे बालार्कसदृशप्रभम् ॥ ७.२०३.९४ ॥
诸神没有认出那位世界之主;与众生主们一起,他们都看见他光辉如初升的太阳。
7.203.95
अथाभ्येत्य ततो ब्रह्मा दृष्ट्वा स च महेश्वरम् ।
अयं श्रेष्ठ इति ज्ञात्वा ववन्दे तं पितामहः ॥ ७.२०३.९५ ॥
随后梵天走近,见到大自在天,知道他是至上者,祖父便向他顶礼。
7.203.96
ब्रह्मोवाच ।
त्वं यज्ञो भुनस्यास्य त्वं गतिस्त्वं परायणम्।
त्वं भवस्त्वं महादेवस्त्वं धाम परमं पदम् ॥ ७.२०३.९६ ॥
你是这世界的祭祀;你是归宿,你是至高的依归。你是婆婆,你是大天;你是至上的居所与至高之位。
7.203.97
त्वया सर्वमिदं व्याप्तं जगत्स्थावरजङ्गमम् ॥ ७.२०३.९७ ॥
此整个世界,不动与动者,皆被你遍及。
7.203.98
भगवन्भूतभव्येश लोकनाथ जगत्पते ।
प्रसादं कुरु शक्रस्य त्वया क्रोधार्दितस्य वै ॥ ७.२०३.९८ ॥
世尊,万物过去与未来之主,诸世界之主,宇宙之主,请对因您之怒而受苦的帝释施恩。
7.203.99
पद्मयोनिवचः श्रुत्वा ततः प्रीतो महेश्वरः ।
प्रसादाभिमुखो भूत्वा अट्टहासमथाकरोत् ॥ ७.२०३.९९ ॥
大自在天闻莲花生之言而欢喜,转向慈悲,放声大笑。
7.203.100
ततः प्रसादयामासुरुमां रुद्रं च ते सुराः ।
अभवच्च पुनर्बाहुर्यथाप्रकृति वज्रिणः ॥ ७.२०३.१०० ॥
于是诸天神安抚乌玛与楼陀罗,持金刚者之臂又恢复如初。
7.203.101
तेषां प्रसन्नो भगवान्सपत्नीको वृषध्वजः ।
देवानां त्रिदशश्रेष्ठो दक्षयज्ञविनाशनः ॥ ७.२०३.१०१ ॥
世尊牛旗神与其妃偕同,对他们欢喜;他是三十三天中最尊者,毁灭达刹祭祀之神。
7.203.102
स वै रुद्रः स च शिवः सोऽग्निः सर्वश्च सर्ववित् ।
स चेन्द्रश्चैव वायुश्च सोऽश्विनौ च स विद्युतः ॥ ७.२०३.१०२ ॥
他即是楼陀罗,即是湿婆,即是火,即是一切,即是全知者;他即是因陀罗,即是风,即是双阿输二神,即是闪电。
7.203.103
स भवः स च पर्जन्यो महादेवः सनातनः ।
स चन्द्रमाः स चेशानः स सूर्यो वरुणश्च सः ॥ ७.२०३.१०३ ॥
他是婆婆,他是帕尔贾尼亚,他是永恒的大天。他是月亮,他是伊舍那;他是太阳,也是婆罗那。
7.203.104
स कालः सोऽन्तको मृत्युः स यमो रात्र्यहानि तु ।
मासार्धमासा ऋतवः सन्ध्ये संवत्सरश्च सः ॥ ७.२०३.१०४ ॥
他是时间,他是终结者,他是死亡;他是阎摩,夜与昼也是他。月、半月、季节、晨昏与年岁,也都是他。
7.203.105
धाता च स विधाता च विश्वात्मा विश्वकर्मकृत् ।
सर्वामां देवतानां च धारयत्यवपुर्वपुः ॥ ७.२०३.१०५ ॥
他是创造者与安排者,是宇宙之我,是一切所作之造作者。他支持一切天神;虽无形体,却现出形体。
7.203.106
सर्वदेवैः स्तुतो देवः सैकधा बहुधा च सः ।
शतधा सहस्रधा चैव भूयः शतसहस्रधाः ॥ ७.२०३.१०६ ॥
这位被一切天神赞颂的神,既是一形,也是多形。以百种、千种,乃至又以百千种形态出现,他都是同一位。
7.203.107
द्वे तनू तस्य देवस्य वेदज्ञा ब्राह्मणा विदुः ।
घोरा चान्या शिवा चान्या ते तनू बहुधा पुनः ॥ ७.२०३.१०७ ॥
通晓吠陀的婆罗门知道,此神有两个身体:一个可怖,一个吉祥。这两个身体又各有多种形态。
7.203.108
घोरा तु यातुधानस्य सोऽग्निर्विष्णुः स भास्करः ।
सौम्यातु पुनरेवास्य आपो ज्योतींषि चन्द्रमाः ॥ ७.२०३.१०८ ॥
可怖之形属于夜叉罗刹:他是阿耆尼,他是毗湿奴,他是太阳。温和之形又属于他:水、光明与月亮,都是他。
7.203.109
वेदाः साङ्गोपनिषदः पुराणाध्यात्मनिश्चयाः ।
यदत्र परमं गुह्यं स वै देवो महेश्वरः
ईदृशश्च महादेवो भूयांश्च भगवानजः। ॥ ७.२०३.१०९ ॥
吠陀及其支分与奥义书,往世书与内在真理的定论——此处最高的秘密,即是那位神,大自在天。如此伟大的大天更为伟大,是尊贵的不生者。
7.203.110
न हि सर्वे मया शक्या वक्तुं भगवतो गुणाः ।
अपि वर्षसहस्रेण सततं पाण्डुनन्दन।
सर्वैर्ग्रहैर्गृहीतान्वै सर्वपापसमन्वितान् ॥ ७.२०३.११० ॥
般度之子啊,即使千年不断,我也无法说尽世尊的所有功德。那些被一切星辰所执、被一切罪业所缠的人——
7.203.112
स मोचयति सुप्रीतः शरण्यः शरणागतान् ।
आयुरारोग्यमैश्वर्यं वित्तं कामांश्च पुष्कलान् ॥ ७.२०३.११२ ॥
那位庇护者,极为欢喜,解脱归依者;赐予长寿、健康、富有、财物与众多的愿望。
7.203.113
स ददाति मनुष्येभ्यः स चैवाक्षिपते पुनः ।
सेन्द्रादिषु च देवेषु तस्य चैश्वर्यमुच्यते ॥ ७.२०३.११३ ॥
他赐予人类,又再度收回;即使在因陀罗等诸神之中,也宣称他的主宰权。
7.203.114
स चैव वेत्ति लोकेषु मनुष्याणां शुभाशुभे ।
ऐश्वर्याच्चैव कामानामीश्वरश्च स उच्यते ॥ ७.२०३.११४ ॥
他知晓诸世界中人类的善与恶;因其主宰之力,他又被称为诸欲的主宰。
7.203.115
महेश्वरश्च महतां भूतानामीश्वरश्च सः ।
बहुभिर्बहुधा रूपैर्विश्वं व्याप्नोति वै जगत् ॥ ७.२०३.११५ ॥
他是大自在天,是诸大者与一切众生的主宰;以众多形相、种种方式,他确实遍布宇宙与世间。
7.203.116
तस्य देवस्य यद्वक्त्रं समुद्रे तदधिष्ठितम् ।
वडवामुखेति विख्यातं पिबत्तोयमयं हविः ॥ ७.२०३.११६ ॥
那位神之口位于大海之中,名为婆娑婆穆契,它饮用水做成的祭品。
7.203.117
एष चैव श्मशानेषु देवो वसति नित्यशः ।
यजन्त्येनं जनास्तत्र वीरस्थान इतीश्वरम् ॥ ७.२०३.११७ ॥
此神常住于火葬场中;人们在那里以“勇士之所”之名崇拜这位主宰。
7.203.118
अस्य दीप्तानि रूपाणि घोराणि च बहूनि च ।
लोके यान्यस्य पूज्यन्ते मनुष्याः प्रवदन्ति च ॥ ७.२०३.११८ ॥
他有许多光辉而可怖的形象;世间之人所敬拜、所称说的,正是这些形象。
7.203.119
नामधेयानि लोकेषु बहून्यस्य यथार्थवत् ।
निरुच्यन्ते महत्त्वाच्च विभुत्वात्कर्मणस्तथा ॥ ७.२०३.११९ ॥
他在诸世界中名号众多,因其伟大与行为的遍在,这些名号被如实解说。
7.203.120
वेदे चास्य समाम्नातं शतरुद्रियमुत्तमम् ।
नाम्ना चानन्तरुद्रेति ह्युपस्थानं महात्मनः ॥ ७.२०३.१२० ॥
《吠陀》中记载着他最上的《百鲁陀罗》颂;以名称而言,此大能者的礼赞被称为“无尽鲁陀罗”。
7.203.121
स कामानां प्रभुर्देवो ये दिव्या ये च मानुषाः ।
स विभुः स प्रभुर्देवोविश्वं व्याप्नोति वै महत् ॥ ७.२०३.१२१ ॥
此神是诸欲的主宰,无论神灵还是凡人皆在其主宰之下;这位遍在的主宰之神,确实遍布于这广大的宇宙。
7.203.122
ज्येष्ठं भूतं वदन्त्येनं ब्राह्मणा मनुयस्तथा ।
प्रथमो ह्येष देवानां मुखादस्यानलोऽभवत् ॥ ७.२०३.१२२ ॥
婆罗门与摩奴的后裔称他为众生中的长者。他是诸神中的第一位;火从他的口中生出。
7.203.123
सर्वथा यत्पशून्पाति तैश्च यद्रमते पुनः ।
तेषामधिपतिर्यच्च तस्मात्पशुपतिः स्मृतः ॥ ७.२०३.१२३ ॥
因为他在各方面护佑众生,又与它们同乐,并是它们的主宰,所以他被称为众生之主帕舒帕蒂。
7.203.124
दिव्यं च ब्रह्मचर्येण लिङ्गमस्य यथास्थितम् ।
महयत्येष लोकांश्च महेश्वर इति स्मृतः ॥ ७.२०३.१२४ ॥
依靠他的梵行,他神圣的林伽保持原有的样子。他尊重诸世界,因此他被称为伟大的主宰摩诃提婆。
7.203.125
ऋषयश्चैव देवाश्च गन्धर्वाप्यरसस्तथा ।
लिङ्गमस्यार्चयन्ति स्म तच्चाप्यूर्ध्वं समास्थितम् ॥ ७.२०३.१२५ ॥
诸仙人、天神、乾闼婆与阿普萨拉斯也都礼拜他的林伽,而那林伽高高矗立。
7.203.126
पूज्यमाने ततस्तस्मिन्मोदते स महेश्वरः ।
सुखी प्रीतश्च भवति प्रहृष्टश्चैव शङ्करः ॥ ७.२०३.१२६ ॥
当那林伽受到礼拜时,摩诃提婆欢喜;那位湿婆便变得快乐、喜悦、欢欣。
7.203.127
यदस्य बहुधा रूपं भूतभव्यभवस्थितम् ।
स्थावरं जङ्गमं चैव बहुरूपस्ततः स्मृतः ॥ ७.२०३.१२७ ॥
他的种种形相,存在于过去、未来与现在,既是静止之物,也是移动之物;因此他被称为多相者巴胡鲁波。
7.203.128
एकाक्षो जाज्वलन्नास्ते सर्वतोक्षिमयोऽपि वा ।
क्रोधाद्यश्चाविशल्लोकांस्तस्मात्सर्व इति स्मृतः ॥ ७.२०३.१२८ ॥
他独眼而光焰熊熊地安住,或四面皆有眼目。因他怒而进入诸世界,故被称为「一切」(Sarva)。
7.203.129
धूम्ररूपं च यत्तस्य धूर्जटिस्तेन चोच्यते ।
विश्वे देवाश्च यत्तस्मिन्विश्वरूपस्ततः स्मृतः ॥ ७.२०३.१२९ ॥
因其烟雾之相,他被称为「金发」(Dhūrjaṭi);因诸毗首提婆在其中,故被称为「宇宙之相」(Viśvarūpa)。
7.203.130
तिस्रो देवीर्यदा चैव भजते भुवनेश्वरः ।
द्यामपः पृथिवीं चैव त्र्यम्बकश्च ततः स्मृतः ॥ ७.२०३.१३० ॥
当世界之主依托三位女神——天、水与地时,他便被称为「三眼者」(Tryambaka)。
7.203.131
समेधयति यन्नित्यं सर्वार्थान्सर्वकर्मसु ।
शिवमिच्छन्मनुष्याणां तस्मादेष शिवः स्मृतः ॥ ७.२०३.१३१ ॥
他在一切事业中常使一切目的兴盛,愿人们得到吉祥,故被称为「吉祥者」湿婆(Śiva)。
7.203.132
सहस्राक्षोऽयुताक्षो वा सर्वतोक्षिमयोऽपि वा ।
यच्च विश्वं महत्पाति महादेवस्ततः स्मृतः ॥ ७.२०३.१३२ ॥
他有千眼、万眼,或四面皆有眼目;因他守护这广大的宇宙,故被称为「大天」(Mahādeva)。
7.203.133
महत्पूर्वं स्थितो यच्च प्राणोत्पत्तिस्थितश्च यत् ।
स्थितलिङ्गश्च यन्नित्यं तस्मात्स्थाणुरिति स्मृतः ॥ ७.२०३.१३३ ॥
他先于「大」(mahat)而安立,安住于生命的生起与住持,其标记常恒不动,故被称为「不动者」斯塔奴(Sthāṇu)。
7.203.134
सूर्याचन्द्रमसोर्लोके प्रकाशन्ते रुचश्च याः ।
ताः केशसंज्ञितास्त्र्यक्षे व्योमकेशस्ततः स्मृतः ॥ ७.२०३.१३४ ॥
在日月之界所照耀的光芒,被称为“发”;因此三眼神被称为“虚空发”(Vyomakeśa)。
7.203.135
भूतं भव्यं भविष्यं च सर्वं जगदशेषतः ।
भव एव ततो यस्माद्भूतभव्यभवोद्भवः ॥ ७.२०३.१३५ ॥
过去、现在与未来,整个世界无一例外都是“有”(Bhava);因此他被称为过去、未来与存在的根源。
7.203.136
कपिः श्रेष्ठ इति प्रोक्तो धर्मश्च वृष उच्यते ।
स देवदेवो भगवान्कीर्त्यतेऽतो वृषाकपिः ॥ ७.२०३.१३६ ॥
“Kapi”被说为“至上”,而法(dharma)被称为“vṛṣa”(公牛);这位诸神之神、世尊受到赞颂,因此他是“Vṛṣākapi”(牛-至上者)。
7.203.137
ब्रह्माणमिन्द्रं वरुणं यमं धनदमेव च ।
निगृह्य हरते यस्मात्तस्माद्वर इति स्मृतः ॥ ७.२०३.१३७ ॥
他制服梵天、因陀罗、伐楼那、阎摩以及施财者(俱毗罗),并将其夺取;因此他被称为“Vara”(至胜者)。
7.203.138
निमीलिताभ्यां नेत्राभ्यां बलाद्देवो महेश्वरः ।
ललाटे नेत्रमसृजत्तेन त्र्यक्षः स उच्यते ॥ ७.२०३.१३८ ॥
大自在天(Maheśvara)用力闭上双眼,在额上生出一目;因此他被称为三目者(Tryakṣa)。
7.203.139
विषमस्थः शरीरेषु समश्च प्राणिनामिह ।
स वायुर्विषमस्थेषु प्राणोऽपानः शरीरिषु ॥ ७.२०३.१३९ ॥
在众生之身中,此风既有不平衡,也有平衡;在处于不平衡状态的有身者之中,此风即是上行气(prāṇa)与下行气(apāna)。
7.203.140
पूजयेद्विग्रहं यस्तु लिङ्गं चापि महात्मनः ।
लिङ्गं पूजयिता नित्यं महतीं श्रियमश्नुते ॥ ७.२०३.१४० ॥
若有人礼拜大德者的神像与林伽,常常礼拜林伽者便能得到伟大的吉祥。
7.203.141
ऊरुभ्यामर्धमाग्नेयं सोमोऽर्धं च शिवा तनुः ।
आत्मनोऽर्धं तथा चाग्निः सोमोर्धं पुनरुच्यते ॥ ७.२०३.१४१ ॥
两腿之中,一半属火,一半属月神(苏摩);湿婆的吉祥之身亦是如此。他自身的一半是火,苏摩的一半则再被提及。
7.203.142
तैजसी महती दीप्ता देवेभ्योऽस्य शिवा तनुः ।
भास्वती मानुषेष्वस्य तनुर्घोराऽग्निरुच्यते ॥ ७.२०३.१४२ ॥
对诸神而言,他的吉祥之身光辉、伟大而炽盛;在人间,他的身体熠熠生辉;他那可怖之身被称为火。
7.203.143
ब्रह्मचर्यं चरत्येष शिवा याऽस्य तनुस्तया ।
याऽस्य घोरतरा मूर्तिः सर्वानत्ति तयेश्वरः ॥ ७.२०३.१४३ ॥
他以那吉祥之身修持梵行;而以他最可怖的形象,主宰者吞噬一切。
7.203.144
यन्निर्दहति यत्तीक्ष्णो यदुग्रो यत्प्रतापवान् ।
मांसशोणितमज्जादो यत्ततो रुद्र उच्यते ॥ ७.२०३.१४४ ॥
因为他完全焚烧,因为他锐利、猛烈、威严,因为他吞食血肉与骨髓,所以他被称为楼陀罗。
7.203.145
एष देवो महादेवो योऽसौ पार्थ तवाग्रतः ।
सङ्ग्रामे शास्त्रवान्निघ्नंस्त्वया दृष्टः पिनाकधृत ॥ ७.२०३.१४५ ॥
这位神便是大天神(摩诃提婆)。普利塔之子啊,你曾在战斗中看见他就在你面前,持武器击杀,手持毗那迦弓。
7.203.146
सिन्धुराजवधार्थाय प्रतिज्ञाते त्वयाऽनघ ।
कृष्णेन दर्शितः स्वप्ने यस्तु शैलेन्द्रमूर्धनि ॥ ७.२०३.१४६ ॥
无罪者啊,当你发誓要杀死信度王时,黑天在梦中向你显示了那位立于群山之王山巅的神。
7.203.147
एष वै भगवान्देवः सङ्ग्रामे याति तेऽग्रतः ।
येन दत्तानि तेऽस्त्राणि यैस्त्वया दानवा हताः ॥ ७.२०३.१४७ ॥
在战斗中走在你前面的,正是这位尊贵的神;是他赐予你武器,你用它们杀死了达那婆。
7.203.148
धन्यं यशस्यमायुष्यं पुण्यं वेदैश्च सम्मितम् ।
देवदेवस्य ते पार्थ व्याख्यातं शतरुद्रियम्। ॥ ७.२०३.१४८ ॥
普利塔之子啊,诸神之神的百罗陀罗之颂已为你解说:它吉祥,带来荣耀与长寿,有功德,且符合吠陀。
7.203.149
सर्वार्थसाधनं पुण्यं सर्वकिल्बिषनाशनम् ।
सर्वपापप्रशमनं सर्वदुःखभयापहम् ॥ ७.२०३.१४९ ॥
它成就一切目标,有功德,灭除一切罪业,平息一切恶行,除去一切苦痛与恐惧。
7.203.150
चतुर्विधमिदं स्तोत्रं यः शृणोति नरः सदा ।
विजित्य शत्रून्सर्वान्स रुद्रलोके महीयते ॥ ७.२०३.१५० ॥
凡人若常闻此四重颂歌,战胜一切敌人之后,便在楼陀罗的世界中受到尊崇。
7.203.151
चरितं महात्मनो नित्यं साङ्ग्रामिकमिदं स्मृतम् ।
पठन्वै शतरुद्रीयं शृण्वंश्च सततोत्थितः ॥ ७.२०३.१५१ ॥
这位大心者的事迹永远被记为与战斗相关;诵读百罗陀罗并不断起身聆听者,亦是如此。
7.203.152
भक्तो विश्वेश्वरं देवं मानुषेषु च यः सदा ।
वरान्कामान्स लभते प्रसन्ने त्र्यम्बके नरः ॥ ७.२०३.१५२ ॥
在人类中,常常虔诚敬奉毗首湿伐罗神的人,当三眼神欢喜时,便能获得恩赐与所愿。
7.203.153
गच्छ युध्यस्व कौन्तेय न तवास्ति पराजयः ।
गस्य मन्त्री च गोप्ता च पार्श्वस्थो हि जनार्दनः ॥ ७.२०३.१५३ ॥
去吧,贡蒂之子,战斗吧;你不会失败,因为作为谋士与守护者的阇那陀那就站在你身旁。
7.203.154
एवमुक्त्वाऽर्जुनं सङ्ख्ये पराशरसुतस्तदा ।
जगाम भरतश्रेष्ठ यथागतमरिन्दम ॥ ७.२०३.१५४ ॥
如此对阿周那在战场上说完,婆罗舍罗之子便按来时的路离去了,婆罗多族中最优秀者啊,降伏敌人者啊。
7.203.155
एतदाख्याय वै सूतो राज्ञः सर्वं तु सञ्जयः ।
प्रयातः शिबिरायैव द्रष्टुं कर्णस्य वैशसम् ॥ ७.२०३.१५५ ॥
将这一切告诉国王之后,御者刪闍耶便前往营地,去看迦尔纳的惨败。
7.203.156
युद्धं कृत्वा महद्धोरं पञ्चाहानि महाबलः ।
ब्राह्मणो निहतो राजन्ब्रह्मलोकमवाप्तवान् ॥ ७.२०३.१५६ ॥
大王啊,那位大力的婆罗门经过五天的惨烈大战后被杀,升入了梵界。
7.203.157
स्वधीते यत्फलं वेदे तदस्मिन्नपि पर्वणि ।
क्षत्रियाणामभीरूणां युक्तमत्र महद्यशः ॥ ७.२०३.१५७ ॥
善学吠陀所得的果报,在此篇中也同样存在;对于无畏的刹帝利而言,此处的大名声是相称的。
7.203.158
य इदं पठते पर्व शृणुयाद्वाऽपि नित्यशः ।
स मुच्यते महापापैः कृतैर्घोरैश्च कर्मभिः ॥ ७.२०३.१५८ ॥
常诵或常听此篇者,可脱离所作的可怖业行与大罪。
7.203.159
यज्ञावाप्तिर्ब्राह्मणस्येह नित्यं ।
घोरे युद्धे क्षत्रियाणां यशश्च।
शेषौ वर्णौ काममिष्टं लभेते ।
पुत्रान्पौत्रान्नित्यमिष्टांस्तथैव ॥ ७.२०३.१५९ ॥
此处婆罗门常得祭祀之果;在可怖的战斗中刹帝利得到荣耀。其余诸种姓得其所愿,同样常得所爱的子与孙。