Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 7.22

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

7.22.1

भारद्वाजेन भग्नेषु पाण्डवेषु महामृधे ।
पाञ्चालेषु च सर्वेषु कश्चिदन्योऽभ्यवर्तत ॥ ७.२२.१ ॥

在大战中,当般度之子被婆罗堕伽之子击溃,所有般遮罗人也都溃散时,是否还有别的人转身站住了?

7.22.2

आर्यां युद्धे मतिं कृत्वा क्षत्रियाणां यशस्करीम् ।
असेवितां कापुरुषैः सेवितां पुरुषर्षभैः ॥ ७.२२.२ ॥

在战斗中坚定高尚的决心,这能为刹帝利带来荣誉,怯懦之人不去实行,而最优秀的人却奉行。

7.22.3

स हि वीरोन्नतः शूरो यो भग्नेषु निवर्तते ।
अहो नासीत्पुमान्कश्चिद्दृष्ट्वा द्रोणं व्यवस्थितम् ॥ ७.२२.३ ॥

唯有在溃散者之中回身站立的人,才是真正的英雄和勇士。唉!看见德罗纳屹立不动,竟无一人转身回来。

7.22.4

जृम्भमाणमिव व्याघ्रं प्रभिन्नमिव कुञ्जरम् ।
त्यजन्तमाहवे प्राणान्सन्नद्धं चित्रयोधिनम् ॥ ७.२२.४ ॥

如同张口欲咬的猛虎,如同发情狂暴的象,准备在战斗中舍弃性命,披甲待战,擅长多种战术的勇士。

7.22.5

महेष्वासं नरव्याघ्रं द्विषतां भयवर्धनम् ।
कृतज्ञं सत्यनिरतं दुर्योधनहितैषिणम् ॥ ७.२२.५ ॥

伟大的弓箭手,人中猛虎,令敌人恐惧的人,知恩图报,专注于真理,为难敌谋求福利的人。

7.22.6

भारद्वाजं तथाऽनीके दृष्ट्वा शूरमवस्थितम् ।
के शूराः सन्न्यवर्तन्त तन्ममाचक्ष्व सञ्जय ॥ ७.२२.६ ॥

看见婆罗堕伽的勇猛之子如此屹立在军中,哪些勇士转身回来了?桑闍耶,把此事告诉我。

7.22.7

तान्दृष्ट्वा चलितान्सङ्ख्ये प्रणुन्नान्द्रोणसायकैः ।
पाञ्चालान्पाण्वान्मात्स्यान्सृञ्जयांश्चेदिकेकयान् ॥ ७.२२.७ ॥

见他们在战场上被德罗纳的箭矢击溃、动摇——般遮罗人、般杜之子、摩差人、悉伦阁耶人、奇迪人与迦迦耶人——

7.22.8

द्रोणचापविमुक्तेन शरौघेणाशु हारिणा ।
सिन्धोरिव महौधेन हियमाणान्यथा प्लवान् ॥ ७.२२.८ ॥

德罗纳弓弦射出的箭雨疾如洪流,如河川大水中被冲走的木筏——

7.22.9

कौरवाः सिंहनादेन नानावाद्यस्वनेन च ।
रथद्विपनरांश्चैव सर्वतः समवारयन् ॥ ७.२२.९ ॥

俱卢人以狮吼与众多乐器之声,从四面八方拦住了战车、象兵与步卒。

7.22.10

तान्पश्यन्सैन्यमध्यस्थो राजा स्वजनसम्वृतः ।
दुर्योधनोऽब्रवीत्कर्णं प्रहृष्टः प्रहसन्निव ॥ ७.२२.१० ॥

杜尔约达那王立于军中,被族人环绕,望着他们,喜不自胜,仿佛含笑地对迦尔纳说道。

7.22.11

पश्य राधेय पाञ्चालान्प्रणुन्नान्द्रोणसायकैः ।
सिंहेनेव मृगान्वन्यांस्त्रासितान्दृढधन्वना ॥ ७.२२.११ ॥

看哪,罗陀之子,德罗纳箭下受挫的般遮罗人——如同被强弓之狮惊吓的野鹿。

7.22.12

नैते जातु पुनर्युद्धमीहेयुरिति मे मतिः ।
यथा तु भग्ना द्रोणेन वातेनेव महाद्रुमाः ॥ ७.२२.१२ ॥

我以为他们再也不敢战斗了;德罗纳将他们摧折,如狂风折断大树。

7.22.13

अर्द्यमानाः शरैरेते रुक्मपुङ्खैर्महात्मना ।
पथा नैकेन गच्छन्ति घूर्णमानास्ततस्ततः ॥ ७.२२.१३ ॥

这些人被大度者的金羽箭所折磨,不沿一条路前行,而是四处盘旋乱窜。

7.22.14

सन्निरुद्धाश्च कौरव्यैर्द्रोणेन च महात्मना ।
एतेऽन्ये मण्डलीभूताः पावकेनेव कुञ्जराः ॥ ७.२२.१४ ॥

这些被俱卢族和大度的德罗纳围困的人,像被火包围的象群一样围成圆圈。

7.22.15

भ्रमरैरिव चाविष्टा द्रोणस्य निशितैः शरैः ।
अन्योन्यं समलीयन्त पलायनपरायणाः ॥ ७.२२.१५ ॥

被德罗纳锐利的箭簇拥如群蜂,一心只想逃跑,他们彼此紧紧相依。

7.22.16

एष भीमो महाक्रोधी हीनः पाण्डवसृञ्जयैः ।
मदीयैरावृतो योधैः कर्ण नन्दयतीव माम् ॥ ७.२२.१६ ॥

这位大怒的怖军,失去了般度之子与斯林加亚,被我的战士们包围;啊,迦尔纳,这似乎令我欢喜。

7.22.17

व्यक्तं द्रोणमयं लोकमद्य पश्यति दुर्मतिः ।
निराशो जीवितान्नूनमद्य राज्याच्च पाण्डवः ॥ ७.२२.१७ ॥

今天这个心智昏乱的般度之子清楚地看到了充满德罗纳的世界;想必今天他对生命和王国都已绝望。

7.22.18

नैष जातु महाबाहुर्जीवन्नाहवमुत्सृजेत् ।
न चेमान्पुरुषव्याघ्र सिंहनादान्सहिष्यति ॥ ७.२२.१८ ॥

这位大臂者只要还活着,就永不会放弃战斗;啊,人中之虎,他也不会忍受这些狮吼。

7.22.19

न चापि पाण्डवा युद्धे भज्येरन्निति मे मतिः ।
शूराश्च बलवन्तश्च कृतास्त्रा युद्धदुर्मदाः ॥ ७.२२.१९ ॥

依我之见,般度之子在战斗中也不会溃败;他们是英雄,强大,精通武艺,并因战斗的狂傲而昂扬。

7.22.20

विषाग्निद्यूतसङ्क्लेशान्वनवासं च पाण्डवाः ।
स्मरमाणा न हास्यन्ति सङ्ग्राममिति मे मतिः ॥ ७.२२.२० ॥

般度之子记起毒、火、赌博之苦以及林中流放,不会放弃战斗——这是我的看法。

7.22.21

निवृत्तो हि महाबाहुरमितौजा वृकोदरः ।
वरान्वरान्हि कौन्तेयो रथोदारान्हनिष्यति ॥ ७.२२.२१ ॥

力臂强大、力量无限的狼腹(婆罗多之子,即毗摩)已经归来;贡蒂之子必定会一一杀死那些最优秀的高贵战车武士。

7.22.22

असिना धनुषा शक्या हयैर्नागैर्नरै स्थैः ।
आयसेन च दण्डेन व्रातान्व्रातान्हनिष्यति ॥ ७.२२.२२ ॥

凡可被剑、弓、骑兵、象兵、步兵和战车武士所杀的军队,他都将以铁棒一队一队地杀死。

7.22.23

तमेनमनुवर्तन्ते सात्यकिप्रमुखा रथाः ।
पाञ्चालाः केकया मास्त्याः पाश्डवाश्च विशेषतः ॥ ७.२२.२३ ॥

以萨提亚基为首的战车武士、般遮罗人、羯迦耶人、摩偷罗人,尤其是般度之子,都跟随着他。

7.22.24

शूराश्च बलवन्तश्च विक्रान्ताश्च महारथाः ।
विनिघ्नन्तश्च भीमेन संरब्धेनाभिचोदिताः ॥ ७.२२.२४ ॥

英勇、强大、威猛的大战车武士,受愤怒的毗摩催促,一边击杀敌人一边前进。

7.22.25

ते द्रोणमभिवर्तन्ते सर्वतः कुरुपुङ्गवाः ।
वृकोदरं परीप्सन्तः सूर्यमभ्रगणा इव ॥ ७.२२.२५ ॥

俱卢族的雄牛们从四面八方冲向德罗纳,想要保护狼腹(比玛),如同云团围绕太阳。

7.22.26

समरेषु तु निर्दिष्टाः पाण्डवाः कृष्णबान्धवाः ।
पाञ्चालाः केकया मात्स्याः पाण्डवेयाश्च सर्वशः ॥ ७.२२.२६ ॥

在战场上被指明的般度子孙、黑天的亲族、般遮罗、迦迦耶、摩蹉人,以及般度的所有儿子。

7.22.27

शूराश्च बलवन्तश्च विक्रान्ताश्च महारथाः ।
हीमन्तः शत्रुमरणे निपुणाः पुण्यलक्षणाः ॥ ७.२२.२७ ॥

他们是英雄、强者、勇武的大车将,知耻,善于诛杀敌人,具有吉祥的相貌与品德。

7.22.28

बहवः पार्थिवा राजंस्तेषां वशगता रणे ।
मावमंस्थाः पाण्डवांस्त्वं नारायणपुरोगमान् ॥ ७.२२.२८ ॥

大王啊,臣服于他们的众多国王都在战场上。你不要轻视以那罗延(黑天)为先导的般度子孙。

7.22.29

एकायनगता ह्येते पीडयेयुर्यतव्रतम् ।
अरक्षमाणं शलभा यथा दीपं मुमूर्षवः ॥ ७.२२.२९ ॥

这些人同归一处,将会折磨无人护卫的持戒之人,如同欲求死亡的飞蛾扑向无人看守的灯火。

7.22.30

असंशयं कृतास्त्राश्च पर्याप्ताश्चापि वारणे ।
अतिभारमहं मन्ये भारद्वाजे समाहितम् ॥ ७.२२.३० ॥

毫无疑问,他们精通兵器,也有能力抵挡;然而我认为,这副加在婆罗堕阇(德罗纳)身上的重担实在太过沉重。

7.22.31

ते शीघ्रमनुगच्छामो यत्र द्रोणो व्यवस्थितः ।
कोका इव महानागं मा वै हन्युर्यतव्रतम् ॥ ७.२२.३१ ॥

他们应当迅速追随德罗纳所在之处,莫要杀害这位持守誓愿者,正如白鹭围住大象一般。

7.22.32

राधेयस्य वचः श्रुत्वा राजा दुर्योधनस्ततः ।
भ्रातृभिः सहितो राजन्प्रायाद्द्रोणरथं प्रति ॥ ७.२२.३२ ॥

闻听罗陀之子迦尔纳的话语,于是国王难敌与诸弟一同,大王啊,向德罗纳的战车而去。

7.22.33

तत्रारावो महानासीदेकं द्रोणं जिघांसताम् ।
पाण्डवानां निवृत्तानां नानावर्णैर्हयोत्तमैः ॥ ७.२२.३३ ॥

那里喧声大作:那些折返回来、想要独自杀死德罗纳的般度诸子,驾着各色的良马而来。