Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 7.23

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

7.23.1

सर्वेषामेव मे ब्रूहि रथचिह्वानि सञ्जय ।
ये द्रोणमभ्यवर्तन्त क्रुद्धा भीमपुरोगमाः।
तान्यहं श्रोतुमिच्छामि विस्तरेण पृथक्पृथक् ॥ ७.२३.१ ॥

桑闍耶,请你逐一详细告诉我那些在毗摩引领下愤怒地冲向德罗纳的人的战车标志。

7.23.2

दूयते मे मनस्तात द्रोणं प्रति परन्तपम् ।
श्रुत्वा भीष्मस्य निधनं तद्वदेतद्भविष्यति ॥ ७.२३.२ ॥

孩子,我的心因那折磨敌人的德罗纳而痛苦。听闻毗湿摩之死后,请告诉我这将如何发生。

7.23.3

ऋक्षवर्णैर्हयैर्दृष्ट्वा व्यायच्छन्तं वृकोदरम् ।
रजताश्वस्ततः शूरः शैनेयः सन्न्यवर्तत ॥ ७.२३.३ ॥

看见狼腹(毗摩)驱着熊色马奋力前进,于是那位银马英雄室尼之子(萨谛耶启)便调转了车。

7.23.4

सारङ्गाश्वो युधामन्युः स्वयं प्रत्वरयन्हयान् ।
पर्यवर्तत दुर्धर्षः क्रुद्धो द्रोणरथं प्रति ॥ ७.२३.४ ॥

鹿色马的犹陀摩尼亲自催促马匹,无人能敌而又愤怒,转向德罗纳的车。

7.23.5

पारावतसवर्णैस्तु हेमभाण्डैर्महाजवैः ।
पाञ्चालराजस्य सुतो धृष्टद्युम्नो न्यवर्तत ॥ ७.२३.५ ॥

驾着鸽色、饰以金饰、极其迅捷的马,般遮罗王之子猛光调转了车。

7.23.6

पितरं तु परिप्रेप्सुः क्षत्रधर्मा यतव्रतः ।
सिद्धिं चास्य परां काङ्क्षञ्शोणाश्वः सन्न्यवर्तत ॥ ७.२३.६ ॥

为了保护父亲,遵守刹帝利之法,坚守誓愿,并希望他获得最高成就,赤马的硕那尸婆便调转了车。

7.23.7

पद्मपत्रनिभांश्चाश्वान्मल्लिकाक्षान्स्वलङ्कृतान् ।
शैखण्डिः क्षत्रदेवस्तु स्वयं प्रत्वरयन्ययौ ॥ ७.२३.७ ॥

Shaikhandin和Kṣatradeva亲自骑着如莲花瓣般、带有茉莉般斑纹、装饰精美的马匹,急速向前驰去。

7.23.8

दर्शनीयास्तु काम्भोजाः शुकपत्रपरिच्छदाः ।
वहन्तो नकुलं शीघ्रं तावकानाभिदुद्रुवुः ॥ ७.२३.८ ॥

外貌俊美的Kāmboja马匹,披着鹦鹉羽饰的马衣,驮着Nakula迅速冲向你的军队。

7.23.9

कृष्णास्तु मेघसङ्काशा अवहन्नुत्तमौजसम् ।
दुर्धर्षायाभिसन्धाय क्रुद्धं युद्धाय भारत ॥ ७.२३.९ ॥

如云般的黑马驮着不可战胜的Uttamaujas;婆罗多之子啊,他愤怒而决心投入战斗,向前进发。

7.23.10

तथा तित्तिरिकल्माषा हया वातसमा जवे ।
अवहंस्तुमुले युद्धे सहदेवमुदायुधम् ॥ ७.२३.१० ॥

同样,身上斑点如鹧鸪、速度如风的马匹,载着高举武器的Sahadeva冲入激烈的战斗。

7.23.11

दन्तवर्णास्तु राजानं कालवाला युधिष्ठिरम् ।
भीमवेगा नरव्याघ्रमवहन्वातरंहसः ॥ ७.२३.११ ॥

象牙色、黑尾的马匹,速度惊人、快如疾风,载着人中猛虎般的国王Yudhiṣṭhira。

7.23.12

हेमोत्तमप्रतिच्छन्नैर्हयैर्वातसमैर्जवे ।
अभ्यवर्तन्त सैन्यानि सर्वाण्येव युधिष्ठिरम् ॥ ७.२३.१२ ॥

马匹覆盖着精美的金饰,快如疾风,所有军队都向Yudhiṣṭhira冲去。

7.23.13

राज्ञस्त्वनन्तरो राजा पाञ्चाल्यो द्रुपदोऽभवत् ।
जातरूपमयच्छत्रः सर्वैस्तैरभिरक्षितः ॥ ७.२३.१३ ॥

国王之后,成为般遮罗国王德鲁帕达,他的伞盖为金制,并由他们所有人护卫。

7.23.14

ललामैर्हरिभिर्युक्तः सर्वशब्दक्षमैर्युधि ।
राज्ञं मध्ये महेष्वासः शान्तभीरभ्यवर्तत ॥ ७.२३.१४ ॥

驾着能承受战场一切声响的、装饰华美的赤褐色骏马,大弓手沙坦毗无畏地冲入诸王之中。

7.23.15

तं विराटोऽन्वयाच्छीघ्रं सह सर्वैर्महारथैः ।
केकयाश्च सिखण्डी च धृष्टकेतुस्तथैव च।
स्वैः स्वैः सैन्यैः परिवृता मात्स्यराजानमन्वयुः ॥ ७.२३.१५ ॥

毗罗吒迅速与所有大车战士一同跟随他;刻迦耶人、尸犍底以及同样的德里斯塔刻图,各自被自己的军队包围,跟随鱼国之王。

7.23.16

तं तु पाटलिपुष्पाणां समवर्णा हयोत्तमाः ।
वहमाना व्यराजन्त मास्त्यस्यामित्रघातिनः ॥ ७.२३.१६ ॥

载着他的、颜色如波吒罗花的良马闪耀光芒——它们是摩差国王敌人的灭杀者。

7.23.17

हरिद्रासमवर्णास्तु जवना हेममालिनः ।
पुत्रं विराटराजस्य सत्वरं समुदावहन् ॥ ७.२३.१७ ॥

颜色如姜黄、佩戴金花环的迅捷骏马,迅速载着毗罗吒王之子前行。

7.23.18

इन्द्रगोपकवर्णैश्च भ्रातरः पञ्च केकयाः ।
जातरूपसमाभासाः सर्वे लोहितकध्वजाः ॥ ७.२३.१८ ॥

五位刻迦耶兄弟,颜色如因陀罗虫,闪耀如金,皆持红色旗帜。

7.23.19

ते हेममालिनः शूराः सर्वे युद्धविशारदाः ।
वर्षन्त इव जीमूताः प्रत्यदृश्यन्त दंशिताः ॥ ७.२३.१९ ॥

那些佩戴金花环、个个精通战阵的勇士,披甲而立,宛如降雨的云团。

7.23.20

आमपात्रनिकाशास्तु पाञ्चाल्यममितौजसम् ।
दत्तास्तुम्बुरुणा दिव्याः शिखण्डिनमुदावहन् ॥ ७.२३.२० ॥

那些颜色如未烧陶罐的神马,由Tumburu所赠,载着力量无限的般遮罗人湿婆坎丁疾驰而去。

7.23.21

तथा द्वादशसाहस्राः पाञ्चालानां महारथाः ।
तेषां तु षट्सहस्राणि ये शिखण्डिनमन्वयुः ॥ ७.२३.२१ ॥

同样,般遮罗有一万二千名大车战士,其中六千人追随湿婆坎丁。

7.23.22

पुत्रं तु शिशुपालस्य नरसिंहस्य मारिष ।
आक्रीडन्तो वहन्ति स्म सारङ्गशबला हयाः ॥ ७.२३.२२ ॥

啊,主上!那些如鹿般斑驳的骏马,嬉戏般驮着狮子般的人杰、湿舍补罗之子。

7.23.23

धृष्टकेतुस्तु चेदीनामृषभोऽतिबलोदितः ।
काम्भोजैः शबलैरश्वैरभ्यवर्तत दुर्जयः ॥ ७.२३.२३ ॥

车底的雄牛、以巨力奋起的持主(Dhṛṣṭaketu),以斑驳的劫波遮骏马,无可战胜地向前推进。

7.23.24

बृहत्क्षत्रं तु कैकेयं सुकुमारं हयोत्तमाः ।
पलालधूमसङ्काशाः सैन्धवाः शीघ्रमावहन् ॥ ७.२३.२४ ॥

如稻草烟色的上等信度骏马,迅速驮着柔弱的凯开耶王子布利哈特刹特罗而去。

7.23.25

मल्लिकाक्षाः पद्मवर्णा बाह्लिजाताः स्वलङ्कृताः ।
शूरं शिखण्डिनः पुत्रमृक्षदेवमुदावहन् ॥ ७.२३.२५ ॥

眼如茉莉,色如莲花,生于巴赫利的骏马,装饰华丽,载着勇士斫迦丁(Śikhaṇḍin)之子黎刹德瓦(Ṛkṣadeva)飞驰而去。

7.23.26

रुक्मभाण्डप्रतिच्छन्नाः कौशेयसदृशा हयाः ।
क्षमावन्तोऽवहन्सङ्ख्ये सेनाबिन्दुमरिन्दमम् ॥ ७.२३.२६ ॥

披着金饰马具,如丝绸般柔顺,耐力十足的骏马,在战场上载着克敌的塞纳宾杜(Senābindu)飞驰而去。

7.23.27

युवानमवहन्युद्धे क्रौञ्चवर्णा हयोत्तमाः ।
काश्यस्याभिभुवः पुत्रं सुकुमारं महारथम् ॥ ७.२३.२७ ॥

色如鹤羽的良马,在战场上载着迦尸王阿毗跋提之子那位柔弱的大车将飞驰而去。

7.23.28

श्वेतास्तु प्रतिविन्ध्यन्तं कृष्णग्रीवा मनोजवाः ।
यन्तुः प्रेष्यकरा राजन्राजपुत्रमुदावहन् ॥ ७.२३.२८ ॥

白色黑颈的骏马,快如思想,听从驭者之令,大王啊,载着王子普拉提文底亚飞驰而去。

7.23.29

सुतसोमं तु योधाग्र्यं भीमपुत्रं महाबलम् ।
माषपुष्पसवर्णास्तमवहन्वाजिनो रणे ॥ ७.२३.२९ ॥

黑豆花色的骏马,在战场上载着勇士之首、大力的毗摩之子苏陀索摩飞驰而去。

7.23.30

सहस्रसोमप्रतिमो बभूव पुरे कुरूणामुदयेन्दुनाम्नि ।
तस्मिञ्जातः सोमसंक्रन्दमध्ये यस्मात्तस्मात्सुतसोमोऽभवत्सः ॥ ७.२३.३० ॥

在名为乌达延杜的俱卢城中,他如同千个苏摩;因为他生于苏摩的喧嚣之中,所以被称为苏陀索摩。

7.23.31

नाकुलिं तु शतानीकं शालपुष्पनिभा हयाः ।
आदित्यतरुणप्रख्याः श्लाघनीयमुदावहन् ॥ ७.२३.३१ ॥

如娑罗花、如初升朝阳般明亮的骏马,将那库拉之子沙塔尼迦值得称赞地驮载而行。

7.23.32

काञ्चनापिहितैर्योक्त्रैर्मयूरग्रीवसन्निभाः ।
द्रौपदेयं नरव्याघ्रं श्रुतकर्माणमाहवे ॥ ७.२३.३२ ॥

以金饰覆盖的缰绳、如孔雀颈般的骏马,在战场上驮载着德劳帕蒂之子、人中虎豹的室鲁塔羯摩。

7.23.33

श्रुतकीर्तिं श्रुतनिधिं द्रौपदेयं हयोत्तमाः ।
ऊहुः पार्थसमं युद्धे चाषपत्रनिभा हयाः ॥ ७.२३.३३ ॥

如𪇓鸟羽般、在战场上与普利塔之子相当的良马,驮载着博学之藏、德劳帕蒂之子室鲁塔吉提。

7.23.34

यमाहुरध्यर्धगुणं कृष्णात्पार्थाच्च संयुगे ।
अभिमन्युं पिशङ्गास्तं कुमारमवहन्रणे ॥ ७.२३.३४ ॥

人们说他比黑天与普利塔之子更具一倍半的德行,那少年阿毗曼尤在战场上由赤褐色的骏马驮载。

7.23.35

एकस्तु धार्तराष्ट्रेभ्यः पाण्डवान्यः समाश्रितः ।
तं बृहन्तो महाकाया युयुत्सुमवहन्रणे।
ये तु पुष्करसारस्य तुल्यवर्णा हयोत्तमाः ॥ ७.२३.३५ ॥

唯有他背离持国之子而投靠般度五子,那尤尤特苏在战场上由身躯庞大、与普什卡罗萨拉鸟同色的良马驮载。

7.23.36

पलालकाण्डवर्णास्तु वार्धक्षेमिं तरस्विनम् ।
ऊहुः सुतुमुले युद्धे हया हृष्टाः स्वलङ्कृताः ॥ ७.२३.३६ ॥

毛色如稻草秆、欢欣而装饰精美的骏马,在激烈的战乱中驮载着迅捷的伐尔德克谢弥。

7.23.37

कुमारं शितिपादास्तु रुक्मचित्रैरुरश्छदैः ।
सौचित्तिमवहद्युद्धे यन्तुः प्रेष्यकरा हयाः ॥ ७.२३.३७ ॥

黑脚骏马佩戴着饰有黄金与彩纹的胸甲,在战场上听从御者的指令,载着索希提前行。

7.23.38

रुक्मपीठावकीर्णास्तु कौशेयसदृशा हयाः ।
सुवर्णमालिनः क्षान्ताः श्रेणिमन्तमुदावहन् ॥ ७.२३.३८ ॥

马匹铺着金色鞍褥,闪耀如丝绸,佩戴金色花环,耐心地载着室利尼摩特而去。

7.23.39

रुक्ममालाधराः शूरा हेमपृष्ठाः स्वलङ्कृताः ।
काशिराजं नरश्रेष्ठं श्लाघनीयमुदावहन् ॥ ७.२३.३९ ॥

骏勇的马匹佩戴金色花环,背饰黄金,装饰华美,载着值得称赞的人中之尊、迦尸王而去。

7.23.40

अस्त्राणां च धनुर्वेदे ब्राह्मे वेदे च पारगम् ।
तं सत्यधृतिमायान्तमरूणाः समुपावहन् ॥ ७.२३.४० ॥

当精通兵器、弓箭之术与婆罗门吠陀的真实坚定者(萨蒂亚德里提)前来时,赤色的马把他载到近前。

7.23.41

यः स पाञ्चालसेनानीद्रोणमंशमकल्पयत् ।
पारावतसवर्णास्तं धृष्टद्युम्नमुदावहन् ॥ ७.२३.४१ ॥

那位曾为德罗纳分派战阵之任的般遮罗军统帅德里斯塔祖姆那,被鸽灰色的马载走了。

7.23.42

तमन्वयात्सत्यधृतिः सौचित्तिर्युद्धदुर्मदः ।
श्रेणिमान्वसुदानश्च पुत्रः काश्यस्य चाभिभूः ॥ ७.२३.४२ ॥

随后跟上他的有萨蒂亚德里提、因战斗而狂热的索希提、室利尼摩特、婆苏达那,以及迦尸之子、威势无敌的阿毗菩。

7.23.43

युक्तैः परमकाम्भोजैर्जवनैर्हेममालिभिः ।
भीषयन्तो द्विषत्सैन्यं यमवैश्रवणोपमाः ॥ ७.२३.४३ ॥

他们驾驭着最上等的伽See Kāmboja 马匹,迅捷而佩戴金色花环,震慑敌军,宛如阎摩与毗沙门。

7.23.44

प्रभद्रकास्तु काम्भोजाः षट्सहस्राण्युदायुधाः ।
नानावर्णैर्हयैः श्रेष्ठैर्हेमवर्णरथध्वजाः ॥ ७.२३.४४ ॥

普拉巴德拉卡与伽See Kāmboja 人,六千人,高举兵器,骑着各色上等马匹,战车旗帜呈金色。

7.23.45

शरव्रातैर्विधुन्वन्तः शत्रून्विततकार्मुकाः ।
समानमृत्यवो भूत्वा धृष्टद्युम्नं समन्वयुः ॥ ७.२३.४५ ॥

以箭雨震撼敌人,张开大弓,如同死神一般,他们紧随德里斯塔俄姆那而行。

7.23.46

बभ्रुकौशेयवर्णास्तु सुवर्णवरमालिनः ।
ऊहुरम्लानमनसश्चेकितानं हयोत्तमाः ॥ ७.२३.४६ ॥

那些棕色丝绸色、佩戴精美金色花环、心志不乱的上等骏马,载着戚基坦那前行。

7.23.47

इन्द्रायुधसवर्णैस्तु कुन्तिभोजो हयोत्तमैः ।
आयात्सदश्वैः पुरुजिन्मातुलः सव्यसाचिनः ॥ ७.२३.४७ ॥

坤提菩阇以如因陀罗弓般颜色的上等骏马而来;萨维亚萨钦(阿周那)的舅父普鲁吉特也以良马而至。

7.23.48

अन्तरिक्षसवर्णास्तु तारकाचित्रिता इव ।
राजानं रोचमानं ते हयाः सङ्ख्ये समावहन् ॥ ७.२३.४८ ॥

那些天空色、如缀满星辰般斑点的骏马,在战场上共同载着你那光彩照人的国王。

7.23.49

कर्बुराः शितिपादास्तु स्वर्णजालपरिच्छदाः ।
जारासन्धिं हयाः श्रेष्ठाः सहदेवमुदावहन् ॥ ७.२३.४९ ॥

毛色斑驳、足黑、披着金网饰物的良马,把如来的罗桑德希与萨哈德瓦向前驱驰。

7.23.50

ये तु पुष्करनालस्य समवर्णा हयोत्तमाः ।
जवे श्येनसमाश्चित्राः सुदामानमुदावहन् ॥ ७.२३.५० ॥

那些颜色如莲茎、速度如鹰隼、斑斓多彩的良马,把苏达曼向前驱驰。

7.23.51

शशलोहितवर्णास्तु पाण्डुरोद्गतराजयः ।
पाञ्चाल्यं गोपतेः पुत्रं सिंहसेनमुदावहन् ॥ ७.२३.५१ ॥

毛色如兔血、带着淡色条纹的骏马,把般遮罗王子、戈帕提之子辛哈塞纳向前驱驰。

7.23.52

पाञ्चालानां नरव्याघ्रो यः ख्यातो जनमेजयः ।
तस्य सर्षपपुष्पाणां तुल्यवर्णा हयोत्तमाः ॥ ७.२३.५२ ॥

般遮罗人中著名的人中猛虎遮那梅阇耶,其良马颜色如芥子花。

7.23.53

माषवर्णाश्च जवना बृहन्तो हेममालिनः ।
दधिपृष्ठाश्चित्रमुखाः पाञ्चाल्यमवहन्द्रुतम् ॥ ७.२३.५३ ॥

豆色的良驹,迅捷高大,披着金项链,背如凝乳般白,面貌斑斓,迅速地把般遮罗王子向前驱驰。

7.23.54

शूराश्च भद्रकाश्चैव शरकाण्डनिभा हयाः ।
पद्मकिञ्जल्कवर्णाभा दण्डधारमुदावहन् ॥ ७.२३.५४ ॥

勇猛而良善的骏马,如箭杆一般,闪耀着莲花蕊的光泽,把丹达陀罗向前驱驰。

7.23.55

रासभारुणवर्णाभाः पृष्ठतो मूषिकप्रभाः ।
वल्गन्त इव संयत्ता व्याघ्रदत्तमुदावहन् ॥ ७.२३.५५ ॥

如驴般赤红、后背似鼠光的马匹,仿佛跳跃着已备妥,载着虎施(Vyāghradatta)前行。

7.23.56

हरयः कालकाश्चित्राश्चित्रमाल्यविभूषिताः ।
सुधन्वानं नरव्याघ्रं पाञ्चाल्यं समुदावहन् ॥ ७.२३.५६ ॥

黄褐、黑色与杂色的马匹,饰以彩色花环,载着人中之虎、般遮罗的苏檀婆(Sudhanvan)前行。

7.23.57

इन्द्राशनिसमस्पर्शा इन्द्रगोपकसन्निभाः ।
काये चित्रान्तराश्चित्राश्चित्रायुधमुदावहन् ॥ ७.२३.५७ ॥

触感如因陀罗金刚杵、形似因陀罗甲虫、身上有杂色纹的马匹,载着奇创武器(Citrāyudha)前行。

7.23.58

बिभ्रतो हेपमालास्तु चक्रवाकोदरा हयाः ।
कोसलाधिपतेः पुत्रं सुक्षत्रं वाजिनोऽवहन् ॥ ७.२३.५८ ॥

佩戴铃铛串饰,腹部如赤鸭(chakravāka),马匹载着憍萨罗王之子苏刹多罗(Sukṣatra)前行。

7.23.59

शबलास्तु बृहन्तोऽश्वा दान्ता जाम्बूनदस्रजः ।
युद्धे सत्यधृतिं क्षेमिमवहन्प्रांशवः शुभाः ॥ ७.२३.५९ ॥

斑驳、高大、驯服、佩戴金串饰的骏马,高大而吉祥,在战场上载着真持(Satyadhṛti)与克舍弥(Kṣemi)。

7.23.60

एकवर्णेन सर्वेण ध्वजेन कवचेन च ।
अश्वैश्च धनुषा चैव शुक्लैः शुक्लो न्यवर्तत ॥ ७.२३.६० ॥

旗帜、铠甲、马匹与弓皆为同一颜色,白色的(战士)与白马一起,并未退却。

7.23.61

समुद्रसेनपुत्रं तु सामुद्रा रुद्रतेजसम् ।
अश्वाः शशाङ्कसदृशाश्चन्द्रसेनमुदावहन् ॥ ७.२३.६१ ॥

如月亮般的海生骏马,载着如鲁陀罗般光耀的三摩陀罗塞那之子旃陀罗塞那,驰离了战场。

7.23.62

नीलोत्पलसवर्णास्तु तपनीयविभूषिताः ।
शैब्यं चित्ररथं सङ्ख्ये चित्रमाल्याऽवहन्हयाः ॥ ७.२३.६२ ॥

如青莲色、以金饰装点的骏马,在战斗中载着戴着彩色花环的尸毗与旃陀罗罗陀。

7.23.63

कलायपुष्पवर्णास्तु श्वेतलोहितराजयः ।
रथसेनं हयश्रेष्ठाः समूहुर्युद्धदुर्मदम् ॥ ७.२३.६३ ॥

如豌豆花色、带有白色与红色条纹的良马,载着因战斗而狂热的罗陀塞那。

7.23.64

यं तु सर्वमनुष्येभ्यः प्राहुः शूरतरं नृपम् ।
तं पटच्चरहन्तारं शुकवर्णाऽवहन्हयाः ॥ ७.२३.६४ ॥

被称为众人中最勇猛的国王,杀死帕塔恰拉的那位,被鹦鹉色的骏马载走。

7.23.65

चित्रायुधं चित्रमाल्यं चित्रवर्मायुधध्वजम् ।
ऊहुः किंशुकपुष्पाणां समवर्णा हयोत्तमाः ॥ ७.२३.६५ ॥

如金合欢花色的良马,载着持有绚丽兵器、花环、铠甲与旗帜的战士。

7.23.66

एकवर्णेन सर्वेण ध्वजेन कवचेन च ।
धनुषा रथवाहैश्च नीलैर्नीलोऽभ्यवर्तत ॥ ७.२३.६६ ॥

尼罗以同一种颜色的旗帜、铠甲、弓以及蓝色的战车马匹向前推进。

7.23.67

नानारूपै रत्नचिह्नैर्वरूथरथकार्मुकैः ।
वाजिध्वजपताकाभिश्चित्रैश्चित्रोऽभ्यवर्तत ॥ ७.२३.६७ ॥

以各式形状、宝石标识、披甲战车与弓,以马旗和幡幢,那斑斓的军队向前推进。

7.23.68

ये तु पुष्करवर्णस्य तुल्यवर्णा हयोत्तमाः ।
ते रोचमानस्य सुतं हेमवर्णमुदावहन् ॥ ७.२३.६८ ॥

那些与莲花同色的良马,载着那光辉灿烂、金色的儿子疾驰而去。

7.23.69

योधाश्च भद्रकाराश्च शरदण्डानुदण्डयः ।
श्वेताण्डाः कुक्कुटाण्डाभा दण्डकेतुं हयाऽवहन् ॥ ७.२३.६९ ॥

战士与跋陀罗迦罗,持箭杆与副杆,白色如卵、如鸡卵光泽的骏马,将杖旗带走了。

7.23.70

केशवे न हते सङ्ख्ये पितर्यथ नराधिपे ।
भिन्ने कपाटे पाण्डानां विद्रुतेषु च बन्धुषु ॥ ७.२३.७० ॥

当克舍婆在战中未被杀死,父亲,人主亦未被杀;般度之门已破,亲族四散奔逃之时……

7.23.71

भीष्मादवाप्य चास्त्राणि द्रोणाद्रामात्कृपात्तथा ।
अस्त्रैः समत्वं सम्प्राप्य रुक्मिकर्णार्जुनाच्युतैः ॥ ७.२३.७१ ॥

从毗湿摩、德罗纳、罗摩与克里巴处获得武器,并与罗克弥、迦尔纳、阿周那、阿约咎多在武艺上达到平等……

7.23.72

इयेष द्वारकां हन्तुं कृत्स्नां जेतुं च मेदिनीम् ।
निवारितस्ततः प्राज्ञैः सुहृद्भिर्हितकाम्यया ॥ ७.२३.७२ ॥

他想毁灭德瓦拉卡并征服整个大地;于是有智慧的朋友们出于对他的善意,将他阻止。

7.23.73

वैरानुबन्धमुत्सज्य स्वराज्यमनुशास्ति यः ।
स सागरध्वजः पाण्ड्यश्चन्द्ररश्मिनिभैर्हयैः ॥ ७.२३.७३ ॥

放下仇怨之缚、治理自己国土的那位潘地亚王海幢(Sāgaradhvaja),乘着如月光般的骏马而来。

7.23.74

वैडूर्यजालसञ्छन्नैर्वीर्यद्रविणमाश्रितः ।
दिव्यं विस्फारयंश्चापं द्रोणमभ्यद्रवद्बली ॥ ७.२३.७४ ॥

乘着覆盖着琉璃网的战车,以勇力为财富的强者拉开神弓,向德罗纳冲去。

7.23.75

आरकूटकवर्णाश्च हयाः पाण्ड्यानुयायिनाम् ।
अवहन्रथमुख्यानामयुतानि चतुर्दश ॥ ७.२३.७५ ॥

潘地亚追随者们那青铜色的马匹,载着众多主要车战者达十四阿尤塔之多。

7.23.76

नानावर्णेन रूपेण नानाकृतिमुखा हयाः ।
रथचक्रध्वजं वीरं घटोत्कचमुदावहन् ॥ ७.२३.७६ ॥

各色各样、面目各异的骏马,载着旗上绘有车轮的英雄乔托迦恰远去。

7.23.77

भारतानां समेतानामुत्सृज्यैको मतानि यः ।
गतो युधिष्ठिरं भक्त्या त्यक्त्वा सर्वमभीप्सितम् ॥ ७.२३.७७ ॥

他舍弃了聚集的婆罗多人之意见,独自出于虔敬投奔坚战,放弃了一切所愿。

7.23.78

लोहिताक्षं महाबाहुं युयुत्सुं मकरध्वजम् ।
महासत्वा महाकायाः सौवर्णस्यन्दने स्थितम् ॥ ७.२३.७८ ॥

红眼、长臂的摩伽罗旗手优优特苏立于金色战车之上,被强大而躯体高大的战士们团团围住。

7.23.79

सुवर्णवर्णा धर्मज्ञमनीकस्थं युधिष्ठिरम् ।
राजश्रेष्ठं हयश्रेष्ठाः सर्वतः पृष्ठतोऽन्वयुः ॥ ७.२३.७९ ॥

金色的良马从四面八方、从后面跟随着站在阵中的法之知者、诸王之最坚战。

7.23.80

वर्णैरुच्चावचैरन्यैः सदश्वानां प्रभद्रकाः ।
सन्न्यवर्तन्त युद्धाय बहवो देवरूपिणः ॥ ७.२३.८० ॥

许多其他毛色各异的良马,极其吉祥,具有神之形象,转身回来投入战斗。

7.23.81

ते यत्ता भीमसेनेन सहिताः काञ्चनध्वजाः ।
प्रत्यदृश्यन्त राजेन्द्र सेन्द्रा इव दिवौकसः ॥ ७.२३.८१ ॥

与毗摩森那一同准备就绪,他们手持金色旗帜出现,啊王中之王,如同与因陀罗同在的天界诸神。

7.23.82

अत्यरोचत तान्सर्वान्धृष्ठद्युम्नः समागतान् ।
सर्वाण्यति च सैन्यानि भारद्वाजो व्यरोचत ॥ ७.२३.८२ ॥

德律史德犹姆那胜过所有聚集的人,婆罗堕setter之子(德罗纳)的光辉超过所有军队。

7.23.83

अतीव शुशुभे तस्य ध्वजः कृष्णाजिनोत्तरः ।
कमण्डलुर्महाराज जातरूपमयः शुभः ॥ ७.२३.८३ ॥

他的旗帜光辉灿烂,上面有黑色的鹿皮,还有一只金制的吉祥水瓶,啊大王。

7.23.84

ध्वजं तु भीमसेनस्य वैडूर्यमणिलोचनम् ।
भ्राजमानं महासिंहं राजन्तं दृष्टवानहम् ॥ ७.२३.८४ ॥

毗摩森那的旗帜,以吠琉璃宝石为眼,上有一头闪耀的大狮子,威严如王——我曾见到它。

7.23.85

ध्वजं तु कुरुराजस्य पाण्डवस्य महौजसः ।
दृष्टवानस्मि सौवर्णं सोमं ग्रहगणान्वितम् ॥ ७.२३.८५ ॥

我看见了大力的般度之子、俱卢王的金色旗帜,上面有月亮与众星辰。

7.23.86

मृदङ्गौ चात्र विपुलौ दिव्यौ नन्दोपनन्दकौ ।
यन्त्रेणाहन्यमानौ च सुस्वनौ हर्षवर्धनौ ॥ ७.२३.८६ ॥

这里有两面巨大的神鼓,名为难陀与优波难陀,由机关敲击,声音悦耳,增添欢乐。

7.23.87

शरभं पृष्ठसौवर्णं नकुलस्य महाध्वजम् ।
अपश्याम रथेत्युग्रं भीषयाणमवस्थितम् ॥ ७.२३.८७ ॥

在那库拉的战车上有一面大旗,背上是金色的沙罗跋;我们看见它直立着,凶猛而令人畏惧。

7.23.88

हंसस्तु राजतः श्रीमान्ध्वजे घण्टापताकवान् ।
सहदेवस्य दुर्धर्षो द्विषतां शोकवर्धनः ॥ ७.२३.८८ ॥

萨诃提婆的旗上有一只华丽的银天鹅,缀着铃铛与旌旗;不可战胜,增添敌人的悲痛。

7.23.89

पञ्चानां द्रौपदेयानां प्रतिमाध्वजभूषणम् ।
धर्ममारुतशक्राणामश्विनोश्च महात्मनोः ॥ ७.२३.८९ ॥

德罗波蒂的五个儿子的纹章旗是他们的装饰,法、风、因陀罗及大德双马童的旗帜亦然。

7.23.90

अभिमन्योः कुमारस्य शार्ङ्गपक्षी हिरण्मयः ।
रथे ध्वजवरो राजंस्तप्तचामीकरोज्ज्वलः ॥ ७.२३.९० ॥

大王啊,少年王子阿毗曼尤的战车上有金色的沙朗迦鸟旗,是最上等的旗帜,明亮如精炼之金。

7.23.91

घटोत्कचस्य राजेन्द्र ध्वजे गृध्रो व्यरोचत ।
अश्वाश्च कामगास्तस्य रावणस्य पुरा यथा ॥ ७.२३.९१ ॥

大王之王啊,格托特迦的旗上闪耀着秃鹫,他那随意而行的马如往昔罗波那的马一般。

7.23.92

माहेन्द्रं च धनुर्दिव्यं धर्मराजे युधिष्ठिरे ।
वायव्यं भीमसेनस्य धनुर्दिव्यमभून्नृप ॥ ७.२३.९२ ॥

因陀罗的神弓属于法王坚战,而大王啊,怖军的神弓则属于风神。

7.23.93

त्रैलोक्यरक्षणार्थाय ब्रह्मणा सृष्टमायुधम् ।
तद्दिव्यमजरं चैव फाल्गुनार्थाय वै धनुः ॥ ७.२३.९३ ॥

那件由梵天为守护三界而造的神圣不朽之武器——那张弓属于法尔古那(阿周那)。

7.23.94

वैष्णवं नकुलायाथ सहदेवाय चाश्विजम् ।
घटोत्कचाय पौलस्त्यं धनुर्दिव्यं भयामकम् ॥ ७.२३.९४ ॥

那枚毗湿奴之弓属于无尼古拉,双马神之弓属于偕提婆;而对迦托迦则是补罗斯底一族的可怖神弓。

7.23.95

रौद्रमाग्नेयकौबेरं याम्यं गिरिशमेव च ।
पञ्चानां द्रौपदेयानां धनूरत्नानि भारत ॥ ७.२३.९५ ॥

分别属于楼陀罗、火神、俱毗罗、阎摩和湿婆(吉利舍)——这些是德罗波蒂五子的珍贵神弓,婆罗多啊。

7.23.96

रौद्रं धनुर्वरं श्रेष्ठं लेभे यद्रोहिणीसुतः ।
तत्तुष्टः प्रददौ रामः सौभद्राय महात्मने ॥ ७.२३.९६ ॥

罗希尼之子所获得的那张卓越至上的楼陀罗神弓——罗摩欢喜地将它赠予了伟大的苏跋陀罗之子。

7.23.97

एते चान्ये च बहवो ध्वजा हेमविभूषिताः ।
तत्रादृश्यन्त शूराणां द्विषतां शोकवर्धनाः ॥ ७.२३.९७ ॥

这些以及许多其他饰以黄金的旗帜在那里出现,增加了英雄敌人的悲伤。

7.23.98

तदभूद्ध्वजसम्बाधमकापुरुषसेवितम् ।
द्रोणानीकं महाराज पटे चित्रमिवार्पितम् ॥ ७.२३.९८ ॥

大王啊,那是德罗纳的军队,旗帜密布,由不怯懦的勇士所护卫,宛如绘在布上的画。

7.23.99

शुश्रुवुनार्मगोत्राणि वीराणां संयुगे तदा ।
द्रोणमाद्रवतां राजन्स्वयंवर इवाहवे ॥ ७.२३.९९ ॥

大王啊,那时在战斗中,冲向德罗纳的勇士们的名字和家族被人听到,仿佛在选婿大典上。