摩诃婆罗多 · 章 7.24
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
7.24.1
व्यथयेयुरिमे सेनां देवानामपि सञ्जय ।
आहवे ये न्यवर्तन्त वृकोदरमुखा नृपाः ॥ ७.२४.१ ॥
桑闪耶啊,那些在战场上撤退的国王,以狼腹(怖军)为首,本可以使天神的军队也感到惊扰。
7.24.2
सम्प्रयुक्तः किलैवायं दिष्टैर्भवति पूरुषः ।
तस्मिन्नेव च सर्वार्थाः प्रदृश्यन्ते पृथग्विधाः ॥ ७.२४.२ ॥
人确实是被命运所驱使的,而正是在此中,各种各样的目的都显现出来。
7.24.3
दीर्घं विप्रोषितः कालमरण्ये जटिलोऽजिनी ।
अज्ञातश्चैव लोकस्य विजहार युधिष्ठिरः ॥ ७.२४.३ ॥
坚战(युधिष्ठिर)长期被流放于森林中,发髻蓬乱,身穿鹿皮,不为世人所知,四处游荡。
7.24.4
स एव महतीं सेनां समावर्तयदाहवे ।
किमन्यद्दैवसंयोगान्मम पुत्राभवाय च ॥ ७.२४.४ ॥
正是他在战斗中使大军回撤。除了天命的巧合,还能是什么呢?它竟是为了我儿子们的毁灭而发生的。
7.24.5
युक्त एव हि भाग्येन ध्रुवमुत्पद्यते नरः ।
स तथाऽऽकृष्यते तेन न यथा स्वयमिच्छति ॥ ७.२४.५ ॥
人确实因运气而被牵引,必然降生;他因此被拉着走,而他自己并不愿如此。
7.24.6
द्यूतव्यसनमासाद्य क्लेशितो हि युधिष्ठिरः ।
स पुनर्भागधेयेन सहायानुपलब्धवान् ॥ ७.२४.६ ॥
坚战陷入赌博的恶习,确实受尽煎熬;然而凭着福分,他又得到了助手。
7.24.7
अर्थे मे केकया लब्धाः काशिका कोसलाश्चये ।
चेदीनां चार्धमपरे मामे व समुपाश्रिताः ॥ ७.२४.७ ॥
为了我,获得了可迦耶、迦尸和憍萨罗;车底的一半及其他人都来投靠于我。
7.24.8
पृथिवी भूयसी तात मम पार्थस्य नो तथा ।
इति मामब्रवीत्सूत मन्दो दुर्योधनः पुरा ॥ ७.२४.८ ॥
孩子啊,大地对我来说更多,不属于阿周那,也不属于我们——愚蠢的难敌以前曾对我这样说,御者啊。
7.24.9
तस्य सेनासमूहस्य मध्ये द्रोणः सुरक्षितः ।
निहतः पार्षतेनाजौ किमन्यद्भागधेयतः ॥ ७.२४.९ ॥
德罗纳在那支军队的中央受到良好守护,却在战斗中被潘夏塔之子杀死;除了命运,还能是什么?
7.24.10
मध्ये राज्ञां महाबाहुं सदा युद्धाभिनन्दिनम् ।
सर्वास्त्रपारगं द्रोणं कथं मृत्युरुपेयिवान् ॥ ७.२४.१० ॥
在众王之中、常以战斗为乐、精通一切兵器的大臂德罗纳,死亡是如何降临到他身上的?
7.24.11
समनुप्राप्तकृच्छ्रोऽहं मोहं परममागतः ।
भीष्मद्रोणौ हतौ श्रुत्वा नाहं जीवितुमुत्सहे ॥ ७.२४.११ ॥
我陷入困境,又陷入了极大的迷惑;听闻毗湿摩与德罗纳都已被杀,我已无意活下去。
7.24.12
यन्मां क्षत्ताऽब्रवीत्तात प्रपश्यन्पुत्रगृद्धिनम् ।
दुर्योधनेन तत्सर्वं प्राप्तं सूत मया सह ॥ ७.२४.१२ ॥
孩子啊,刻叉多(维杜罗)看见我贪恋儿子时所说的一切,都因难敌而降临到我身上了,御者啊。
7.24.13
नृशंसं तु परं तात त्यक्त्वा दुर्योधनं यदि ।
पुत्रशेषं चिकीर्षेयं कृत्स्नं न मरणं व्रजेत् ॥ ७.२४.१३ ॥
亲爱的孩子,如果我舍弃极其残忍的难敌,想保全儿子中的一些人,整个家族或许就不会走向灭亡。
7.24.14
यो हि धर्मं परित्यज्य भवत्यर्थपरो नरः ।
सोऽस्माच्च हीयते लोकात्क्षुद्रभावं च गच्छति ॥ ७.२४.१४ ॥
舍弃法而只追求财富的人,会从此世堕落,陷入卑劣的品性。
7.24.15
अद्य चाप्यस्य राष्ट्रस्य कृतोच्छेदस्य सञ्जय ।
अवशेषं न पश्यामि ककुदे मृदिते सति ॥ ७.२४.१५ ॥
桑迦耶,在这个已被摧毁的国家里,即使到今天我也看不到任何残存,因为它的首领(肩峰)已被碾碎。
7.24.16
कथं स्यादवशेषो हि धुर्ययोरभ्यतीतयोः ।
यौ नित्यमुपजीवामः क्षमिणौ पुरुषर्षभौ ॥ ७.२४.१६ ॥
当我们一向依靠的那两位忍耐的人中雄牛、顶梁之柱已经逝去,又怎会有残存?
7.24.17
व्यक्तमेव च मे शंस यथा युद्धमवर्तत ।
केऽयुध्यन्के व्यपाकुर्वन्के क्षुद्राः प्राद्रवन्भयात् ॥ ७.२४.१७ ॥
请清楚地告诉我战斗是如何进行的:谁参战,谁退却,哪些卑劣之人因恐惧而逃跑。
7.24.18
धनुञ्जयं च मे शंस यद्यच्चक्रे रथर्षभः ।
तस्माद्भयं नो भूयिष्ठं भ्रातृव्याच्च वृकोदरात् ॥ ७.२४.१८ ॥
也请告诉我关于财富征服者(阿周那)的事,以及那位战车之首做了什么;因为我们极其畏惧敌人(我们的堂兄弟)和狼腹(怖军)。
7.24.19
यथाऽसीच्च निवृत्तेषु पाण्डवेयेषु सञ्जय ।
मम सैन्यावशेषस्य सन्निपातः सुदारुणः ॥ ७.२४.१९ ॥
桑闍耶啊,般度之子退去之后,我残余军队的那场惨烈冲突究竟如何?
7.24.20
कथं च वो मनस्तात निवृत्तेष्वभवत्तदा ।
मामकानां च ये शूराः के कांस्तत्र न्यवारयन् ॥ ७.२४.२० ॥
亲爱的,他们退去之后,你的心境如何?我方的哪些勇士被阻拦在了那里?