Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 7.25

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

7.25.1

महद्भैरवमासीन्नः सन्निवृत्तेषु पाण्डुषु ।
दृष्ट्वा द्रोणं छाद्यमानं तैर्भास्करमिवाम्बुदैः ॥ ७.२५.१ ॥

当般度之子们退去之后,我们遭遇了可怖的景象:看到德罗纳被他们遮蔽,如太阳被云层遮住一般。

7.25.2

तैश्चोद्भूतं रजस्तीव्रमवचक्रे चमूं तव ।
ततो हतममंस्याम द्रोणं दृष्टिपथे हते ॥ ७.२५.२ ॥

他们扬起的猛烈尘土遮蔽了你的军队;当德罗纳从视线中消失时,我们以为他已被杀死。

7.25.3

तांस्तु शूरान्महेष्वासान्क्रूरं कर्म चिकीर्षतः ।
दृष्ट्वा दुर्योधनस्तूर्णं स्वसैन्यं समचूचुदत् ॥ ७.२५.३ ॥

杜尔敉那见那些英勇的大弓箭手意欲行残酷之事,便迅速激励自己的军队。

7.25.4

यथाशक्ति यथोत्साहं यथासत्वं नराधिपाः ।
वारयध्वं यथायोगं पाण्डवानामनीकिनीम् ॥ ७.२५.४ ॥

诸位人主啊,依你们的力量、热情与勇气,适当地阻挡般度之子的军队。

7.25.5

ततो दुर्मर्षणो भीममभ्यगच्छत्सुतस्तव ।
आराद्दृष्ट्वा किरन्बाणैरिच्छन्दोणस्य जीवितम् ॥ ७.२५.५ ॥

于是你的儿子杜尔摩沙那向阿毗摩前进,从远处射出箭雨,想要救护德罗纳的性命。

7.25.6

तं बाणेरवतस्तार क्रुद्धो मृत्युरिवाहवे ।
तं च भीमोऽतुदद्बाणैस्तदाऽऽसीत्तुमुलं महत् ॥ ७.२५.६ ॥

他愤怒地如同战场上的死神,用箭射伤阿毗摩;阿毗摩也用箭射他。那时便发生了巨大的喧哗。

7.25.7

त ईश्वरसमादिष्टाः प्राज्ञाः शूराः प्रहारिणः ।
राज्यं मृत्युभयं त्यक्त्वा प्रत्यतिष्ठन्परान्युधि ॥ ७.२५.७ ॥

受主之命驱使,智慧而勇敢的战士舍弃王国与死亡之惧,在战场上挺身对抗敌人。

7.25.8

कृतवर्मा शिनेः पौत्रं द्रोणं प्रेप्सुं विशाम्पते ।
पर्यवारयदायान्तं शूरं समरशोभिनम् ॥ ७.२५.८ ॥

人主啊,克里达瓦尔曼包围了前来想接近德罗纳的希尼之孙,那位在战场上熠熠生辉的英雄,并阻拦了他。

7.25.9

तं शैनेयः शरव्रातैः क्रुद्धः क्रुद्धमवारयत् ।
कृतवर्मा च शैनेयं मत्तो मत्तमिव द्विपम् ॥ ७.२५.९ ॥

愤怒的萨蒂亚基以箭雨阻住了愤怒的敌人;克里达瓦尔曼也阻住了萨蒂亚基,犹如一头发狂的象阻住另一头发狂的象。

7.25.10

सैन्धवः क्षत्रवर्माणमायान्तं निशितैः शरैः ।
उग्रधन्वा महेष्वासं यत्ततो द्रोणादवारयत् ॥ ७.२५.१० ॥

信度王以锐利的箭阻住了前来的刹特拉瓦尔曼,那位持猛烈之弓的大弓手,正努力想离开德罗纳。

7.25.11

क्षत्रवर्मा सिन्धुपतेश्छित्त्वा केततनकार्मुके ।
नाराचैर्दशभिः क्रुद्धः सर्वमर्मस्वताडयत् ॥ ७.२५.११ ॥

克沙特拉瓦尔曼愤怒地斩断了信度之主的旗帜与弓,以十支铁箭射中了他全身的要害。

7.25.12

अथान्यद्धनुरादाय सैन्धवः कृतहस्तवत् ।
विव्याध क्षत्रवर्माणं रणे सर्वायसैः शरैः ॥ ७.२५.१२ ॥

于是信度王另取一弓,手法娴熟,在战场上以全铁的箭射穿了克沙特拉瓦尔曼。

7.25.13

युयुत्सुं पाण्डवार्थाय यतमानं महारथम् ।
सुबाहुर्भारतं शूरं यत्तो द्रोणादवारयत् ॥ ७.२५.१३ ॥

婆罗多英雄苏巴忽奋力阻住为般遮瓦人作战的大车将尤尤彻,使其远离德罗纳。

7.25.14

सुबाहोः सधनुर्बाणावस्यतः परिघोपमौ ।
युयुत्सुः शितपीताभ्यां क्षुराभ्यामच्छिनद्भुजौ ॥ ७.२५.१४ ॥

苏巴忽张弓射箭之时,尤尤彻以两支锋利闪亮的刀箭斩断了他那如铁杵般的双臂。

7.25.15

राजानं पाण्डवश्रेष्ठं धर्मात्मानं युधिष्ठिरम् ।
वेलेव सागरं क्षुब्धं मद्रराट् समवारयत् ॥ ७.२५.१५ ॥

如同海岸阻挡翻腾的大海,摩德罗王完全阻住了般遮瓦中最优秀、心地正直的国王坚战。

7.25.16

तं धर्मराजो बहुभिर्मर्मभिद्भिरवाकिरत् ।
मद्रेशस्तं चतुःषष्ट्या शरैर्विद्ध्वाऽनदद्भृशम् ॥ ७.२५.१६ ॥

法王(坚战)以许多穿透要害的箭矢覆盖他;摩德罗之主被六十四支箭射中,大声怒吼。

7.25.17

तस्य नानदतः केतुमुच्चकर्त च कार्मुकम् ।
क्षुराभ्यां पाण्डवो ज्येष्ठस्तत उच्चुक्रुशुर्जनाः ॥ ७.२५.१७ ॥

长兄般遮瓦以两支刀箭斩断他那怒吼中的旗帜与弓;于是众人大声呼喊。

7.25.18

तथैव राजा बाह्लीको राजानं द्रुपदं शरैः ।
आद्रवन्तं सहानीकः सहानीकं न्यवारयत् ॥ ७.२५.१८ ॥

同样,巴赫利迦王以箭矢阻住了冲来的德鲁帕达王及其军队。

7.25.19

तद्युद्धमभवद्धोरं वृद्धयोः सहसेनयोः ।
यथा महायूथपयोर्द्विपयोः सम्प्रभिन्नयोः ॥ ७.२५.१९ ॥

两支老练大军之间的那场惨烈战斗,就像两头发情的大象群首之间的争斗。

7.25.20

विन्दानुविन्दावावन्त्यौ विराटं मत्स्यमार्च्छताम् ।
सहसैन्यौ सहानीकं यथेन्द्राग्नी पुरा बलिम् ॥ ७.२५.२० ॥

阿凡提的两位王子毗湃陀与阿努毗湃陀率军攻击摩差国王毗罗吒,如古时因陀罗与阿耆尼攻击钵利。

7.25.21

तदुत्पिञ्जलकं युद्धमासीद्देवासुरोपमम् ।
मत्स्यानां केकयैः सार्धमभीताश्वरथद्विपम् ॥ ७.२५.२१ ॥

那场混乱的战斗如同诸神与阿修罗之战;摩差人与甘耶人同不畏惧的马匹、战车和象群一起作战。

7.25.22

नाकुलिं तु शतानीकं भूतकर्मा सभापतिः ।
अस्यन्तमिषुजालानि यान्तं द्रोणादवारयत् ॥ ७.२५.२२ ॥

集会之主薄多羯摩阻截了那罗之子舍陀尼迦,他正射出箭网向德罗纳推进。

7.25.23

ततो नकुलदायादस्त्रिभिर्भल्लैः सुसंशितैः ।
चक्रे विबाहुशिरसं भूतकर्माणमाहवे ॥ ७.२५.२३ ॥

于是那罗之子以三支极锋利的月牙箭,在战斗中使多羯摩失去双臂与头颅。

7.25.24

सुतसोमं तु विक्रान्तमायान्तं तं शरौघिणम् ।
द्रोणायाभिमुखं वीरं साल्वो बाणैरवारयत् ॥ ७.२५.२४ ॥

沙尔瓦以箭阻住了勇猛的苏塔索摩,他正迎向德罗纳,箭如雨下。

7.25.25

स तु भीमरथः साल्वमाशुगैरायसैः शितैः ।
षड्भिः साश्वनियन्तारमनयद्यमसादनम् ॥ ७.२५.२५ ॥

他以六支锋利的铁箭,连同马匹与御者,将沙利瓦送往阎摩之所。

7.25.26

श्रुतकीर्तिं समायान्तं मयूरसदृशैर्हयैः ।
चित्रसेनो महाराज तव पौत्रं न्यवारयत् ॥ ७.२५.२६ ॥

大王啊,持车那拦住了您的孙子室如刻提,他骑着如孔雀般的骏马而来。

7.25.27

तमार्जुनिः शरैश्चक्रे पितृव्यं जर्झरच्छविम् ।
शरैश्च द्रौपदीपुत्रं चित्रसेनः समावृणोत् ॥ ७.२५.२७ ॥

阿周那之子以箭射伤其叔父,使其身躯遍体伤痕;持车那则以箭遮蔽了德劳巴蒂之子。

7.25.28

किरन्तं शरजालानि प्रभिन्नमिव कुञ्जरम् ।
श्रुतकर्माणमायान्तं दौश्शासनिरवारयत् ॥ ७.२५.२८ ॥

难降之子拦住了室如业,他如发情之象般洒下箭网而来。

7.25.29

तौ पौत्रौ तव दुर्धर्षौ परस्परवधैषिणौ ।
पितॄणामर्थसिद्ध्यर्थं चक्रतुर्युद्धमुत्तमम् ॥ ७.२५.२९ ॥

你那两个孙子,不可战胜,彼此都想置对方于死地,为了成就先人的目标,展开了一场最为激烈的战斗。

7.25.30

तिष्ठन्तमग्रे तं दृष्ट्वा प्रतिविन्ध्यं महाहवे ।
द्रौणिर्मानं पितुः कुर्वन्मार्गणैः समवारयत् ॥ ७.२५.३० ॥

在大战中见普罗提文底亚站在面前,德罗纳之子为维护父亲的名誉,以箭将其完全挡住。

7.25.31

तं क्रुद्धं प्रतिविव्याध प्रतिविन्ध्यः शितैः शरैः ।
सिंहलाङ्गूललक्ष्माणं पितुरर्थे व्यवस्थितम् ॥ ७.२५.३१ ॥

普拉提文底耶以利箭射向那愤怒的人;那位有狮尾标记的武士为父亲而坚定地站立着。

7.25.32

प्रवपन्निव बीजानि बीजकाले कृषीवलः ।
द्रौणायनिर्द्रौपदेयं शरवर्षैरवाकिरत् ॥ ७.२५.३२ ॥

如同农夫在播种时撒下种子,德罗纳之子以箭雨覆盖了德罗波蒂之子。

7.25.33

यस्तु शूरतमो राजन्नुभयोः सेनयोर्मतः ।
तं पटच्चरहन्तारं लक्ष्मणः समवारयत् ॥ ७.२५.३३ ॥

大王啊,罗什曼那阻挡了那位杀死探子的人,他被认为是两军中最勇敢的。

7.25.34

स लक्ष्मणस्येष्वसनं छित्त्वा लक्ष्म च भारत ।
लक्ष्मणे शरजालानि विसृजन्बह्वशोभत ॥ ७.२५.३४ ॥

婆罗多啊,他斩断了罗什曼那的弓和标记,并向罗什曼那射出箭网,显得格外光彩。

7.25.35

ततोऽभिमन्युः कर्माणि कुर्वन्तं चित्रयोधिनम् ।
आर्जुनिः कृतिनं शूरं लक्ष्मणं समयोधयत् ॥ ७.२५.३५ ॥

于是阿周那之子阿毗曼纽与罗什曼那交战,后者是一位施展奇妙战功的熟练勇士。

7.25.36

स सम्प्रहारस्तुमुलस्तयोरासीन्महात्मनोः ।
श्रोतॄणामीक्षितॄणां च भृशं प्रीतिविवर्धनः ॥ ७.२५.३६ ॥

这两位大德之人的激烈交锋,极大地增添了听者与观者的喜悦。

7.25.37

विकर्णस्तु महाप्राज्ञो याज्ञसेनिं शिखण्डिनम् ।
पर्यवारयदायान्तं युवानं समरे युवा ॥ ७.२५.३७ ॥

然而大智的毗迦尔那在战场上拦住了前进的年轻的湿乞丁提(耶若塞尼之子),尽管他自己也年轻。

7.25.38

ततस्तमिषुजालेन याज्ञसेनिः समावृणोत् ।
विधूय तद्बाणजालं बभौ तव सुतो बली ॥ ७.२५.३८ ॥

于是耶若塞尼之子以箭网将他完全覆盖;然而你那勇猛的儿子抖落了那箭网,光彩夺目。

7.25.39

अङ्गदोऽभिमुखं वीरमुत्तमौजसमाहवे ।
द्रोणायाभिमुखं यान्तं शरौघेण न्यवारयत् ॥ ७.२५.३९ ॥

阿耆陀在战场上以箭雨拦住了迎面而来、正向德罗纳前进的英雄优多摩乌遮斯。

7.25.40

स सम्प्रहारस्तुमुलस्तयोः पुरुषसिंहयोः ।
सैनिकानां च सर्वेषां तयोश्च प्रीतिवर्धनः ॥ ७.२५.४० ॥

这两位人中雄狮的交锋极为激烈,增添了二人以及所有士兵的欢喜。

7.25.41

दुर्मुखस्तु महेष्वासो वीरं पुरुजितं बली ।
द्रोणायाभिमुखं यान्तं वत्सदन्तैरवारयत् ॥ ७.२५.४१ ॥

而强大的大弓手杜尔穆卡以“牛犊齿”箭拦住了正向德罗纳前进的英雄普如吉特。

7.25.42

स दुर्मुखं भ्रुवोर्मध्ये नाराचेनाभ्यताडयत् ।
तस्य तद्धि बभौ वक्त्रं सनालमिव पङ्कजम् ॥ ७.२५.४२ ॥

他以铁箭击中杜尔穆卡的双眉之间;那张脸便如连茎的莲花般闪耀。

7.25.43

कर्णस्तु केकयान्भ्रातॄन्पञ्च लोहितकध्वजान् ।
द्रोणायाभिमुखं याताञ्शरवर्षैरवारयत् ॥ ७.२५.४३ ॥

然而迦尔纳以箭雨阻挡了那五位持红旗的甘伽王子之兄弟,他们正迎面向德罗纳进发。

7.25.44

ते चैनं भृशसन्तप्ताः शरवर्षैरवाकिरन् ।
स च तांश्छादयामास शरजालैः पुनः पुनः ॥ ७.२५.४४ ॥

他们极为愤怒,向他倾泻箭雨;而他则一次又一次用箭网将他们遮蔽。

7.25.45

नैव कर्णो न ते पञ्च ददृशर्बाणसंवृताः ।
साश्वसूतध्वजरथाः परस्परशराचिताः ॥ ७.२५.४५ ॥

被箭矢遮蔽,迦尔纳与那五人都已看不见;他们的战车、马匹、御者与旗帜,都被彼此的箭所充满。

7.25.46

पुत्रास्ते दुर्जयश्चैव जयश्च विजयश्च ह ।
नीलकाश्यजयत्सेनांस्त्रयस्त्रीन्प्रत्यवारयन् ॥ ७.२५.४६ ॥

你的儿子杜尔阇耶、阇耶、毗阇耶,以及尼罗迦与阿什耶阇耶,三人一组,反过来阻挡了敌军。

7.25.47

तद्युद्धमभवद्धोरमीक्षितृप्रीतिवर्धनम् ।
सिंहव्याघ्रतरक्षूणां यथर्क्षमहिषर्षभैः ॥ ७.२५.४७ ॥

那场战斗变得惨烈,令观者欢喜,犹如狮子、老虎与鬣狗相斗,或熊、水牛与公牛相争。

7.25.48

क्षेमधूर्तिबृहन्तौ तु भ्रातरौ सात्वतं युधि ।
द्रोणायाभिमुखं यान्तं शरैस्तीक्ष्णैस्ततक्षतुः ॥ ७.२५.४८ ॥

然而,名为刹玛度提与布利赫安陀的两兄弟,以利箭射伤了正迎面向德罗纳进发的萨谛奇。

7.25.49

तयोस्तस्य च तद्युद्धमत्यद्भुतमिवाभवत् ।
सिंहस्य द्विपमुख्याभ्यां प्रभिन्नाभ्यां यथा वने। ॥ ७.२५.४९ ॥

他们二人与他之间的那场战斗变得极其奇异,犹如森林中一头狮子与两头发情的大象相斗。

7.25.50

राजानं तु तथाम्बष्ठमेकं युद्धाभिनन्दिनम् ।
चेदिराजः शरानस्यन्क्रुद्धो द्रोणादवारयत् ॥ ७.२५.५० ॥

愤怒的车底王放出箭矢,阻挡了喜好战斗的、独自一人的盎鞞瑟吒王,使他不能接近德罗纳。

7.25.51

ततोऽम्बष्ठोऽस्थिभेदिन्या निरभिद्यच्छलाकया ।
स त्यक्त्वा सशरं चापं रथाद्भूमिमुपागमत् ॥ ७.२५.५१ ॥

随后,盎鞞瑟吒被一支穿骨之箭射中;他放下带箭的弓,从战车上下到地面。

7.25.52

वार्धक्षेमिं तु वार्ष्णेयं कृपः शारद्वतः शरैः ।
अक्षुद्रः क्षुद्रकैर्बाणैः क्रुद्धरूपमवारयत् ॥ ७.२५.५२ ॥

而沙罗陀婆之子慈悲者,并非弱者,以小箭阻挡了形貌愤怒的韦尔什尼族的筏陀刹曼。

7.25.53

युध्यन्तौ कृपवार्ष्णेयौ येऽपश्यंश्चित्रयोधिनौ ।
ते युद्धासक्तमनसो नान्यं बुबुधिरे क्रियाम् ॥ ७.२५.५३ ॥

看见克利巴与韦尔什尼族奇妙战士相斗的人,心专注于战斗,竟察觉不到其他的动作。

7.25.54

सौमदत्तिस्तु राजानं मणिमन्तमतन्द्रितम् ।
पर्यवारयदायान्तं यशो द्रोणस्य वर्घयन् ॥ ७.२५.५४ ॥

而苏摩达多之子包围并阻挡了前来的、不知疲倦的摩尼曼王,增添了德罗纳的荣耀。

7.25.55

स सौमदत्तेस्त्वरितश्चित्रेष्वसनकेतने ।
पुनः पताकां सूतं चच्छत्रं चापातयद्रथात् ॥ ७.२५.५५ ॥

索摩达塔之子迅速地又从那辆饰有华丽弓与旗帜的战车上打落了旗帜、御者和华盖。

7.25.56

अथाप्लुत्य रथात्तूर्णं यूपकेतुरमित्रहा ।
साश्वसूतध्वजरथं तं चकर्त वरासिना ॥ ७.२५.५६ ॥

于是杀敌者柱幡迅速跃下战车,用一柄好剑将那辆战车连同马匹、御者和旗帜斩碎。

7.25.57

रथं च स्वं समास्थाय धनुरादाय चापरम् ।
स्वयं यच्छन्हयान्राजन्व्यधमत्पाण्डवीं चमूम् ॥ ७.२५.५७ ॥

大王,他登上自己的战车,取了另一张弓,亲自控缰驭马,击杀了般度军。

7.25.58

पाण्ड्यमिन्द्रमिवायान्तमसुरान्प्रति दुर्जयम् ।
समर्थः सायकौघेन वृषसेनो न्यवारयत् ॥ ७.२५.५८ ॥

有能力的伐尔沙塞那以箭雨阻住了前来的般吒王,他如同无敌的因陀罗攻向阿修罗。

7.25.59

अथाजगाम हैडिम्बो महामायो महाबलः ।
पितॄणां हितमन्विच्छन्दहन्कौरववाहिनीम् ॥ ७.२५.५९ ॥

于是希迭姆巴之子,大幻术师、大力士,为先祖谋求福祉而来,开始焚烧俱卢军队。

7.25.60

गदापरिघनिस्त्रिंशपट्टसायोघनोपलैः ।
कडङ्गरैर्भुशुण्डीभिः प्रासैस्तोमरसायकैः ॥ ७.२५.६० ॥

以铁棒、钉棒、剑、短棍、箭、石块、木桩、长柄投掷器、长矛、投枪与箭矢。

7.25.61

मुसलैर्मुद्गरैश्चक्रैर्न्भिण्डिपालपरश्वथैः ।
पांसुवाताग्निसलिलैर्भस्मलोष्ठतृणद्रुमैः ॥ ७.२५.६१ ॥

以棍棒、铁锤、飞轮、难提箭、宾迪波罗和斧头;以尘土、狂风、烈火和水;以灰烬、土块、草和树木。

7.25.62

आतुदन्प्ररुजन्भञ्जन्निघ्नन्विद्रावयन्क्षिपन् ।
सेनां विभीषयन्नायाद्दोणप्रेप्सुर्घटोत्कचः ॥ ७.२५.६२ ॥

击打、碾压、摧毁、杀戮、驱散、投掷、惊吓军队,难近母之子迦托特迦查为求德罗纳而来。

7.25.63

तं तु नानाप्रहरणैर्नानायुद्धविशेषणैः ।
राक्षसं राक्षसः क्रुद्धः समाजघ्ने ह्यलम्बुसः ॥ ७.२५.६३ ॥

那罗刹被愤怒的罗刹阿兰布沙以种种兵器和各种特殊的战斗技巧确实击中。

7.25.64

तयोस्तदभवद्युद्धं रक्षोग्रामणिमुख्ययोः ।
तादृग्यादृक्पुरावृत्तं शम्बरामरराजयोः ॥ ७.२५.६४ ॥

那两位罗刹首领之间的战斗,就如同往昔商婆罗与众神之王之间的战斗一样。

7.25.65

एवं द्वन्द्वशतान्यासन्रथवारणवाजिनाम् ।
पदातीनां च भद्रं ते तव तेषां च सङ्कुले ॥ ७.२५.६५ ॥

如此,在那混乱的战场上,车兵、象兵、骑兵和步兵之间进行了数百场单打独斗。愿你吉祥。

7.25.66

नैतादृशो दृष्टपूर्वः सङ्ग्रामो नैव च श्रुतः ।
द्रोणस्याभावभावे तु प्रसक्तानां परस्परम् ॥ ७.२५.६६ ॥

无论德罗纳在场与否,这般众人彼此缠斗的战争,以前从未见过,也未曾听闻。

7.25.67

इदं घोरमिदं चित्रमिदं रौद्रमिति प्रभो ।
तत्र युद्धान्यदृश्यन्त प्रततानि बहूनि च ॥ ७.२५.६७ ॥

此景可怖,此景奇异,此景凶猛,哦,主上;那里可见许多战斗展开。