Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 7.34

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

7.34.1

स्थिरो भव महाराज शोकं धारय दुर्धरम् ।
महान्तं बन्धुनाशं ते कथयिष्यामि तच्छृशु ॥ ७.३४.१ ॥

大王,请保持镇定,承受这难以承受的悲痛。我将告诉你你亲族的巨大毁灭,请听我说。

7.34.2

पद्मव्यूहो महाराज आचार्येणाभिकल्पितः ।
तत्र पद्मोपमाः सर्वे राजानो विनिवेशिताः ॥ ७.३४.२ ॥

大王,老师布下了莲花阵,所有国王都像莲花一样被安置在阵中。

7.34.3

कुमारा राजलोकस्य निक्षिप्ताः केसरोपामाः ।
कर्णिकास्थो महाराज तस्य दुर्योधनोऽभवत् ॥ ७.३४.३ ॥

王族的王子们被安置如花蕊;大王,在花心之中便是难敌。

7.34.4

कृताभिसमयाः सर्वे सुवर्णविकृतध्वजाः ।
रक्ताम्बरधराः सर्वे सर्वे रक्तविभूषणाः ॥ ७.३४.४ ॥

众人皆已立誓;人人旗帜皆以金饰装饰,人人身穿红衣,佩戴红色饰物。

7.34.5

सर्वे रक्तपताकाश्च सर्वे वै हेममालिनः ।
चन्दनागुरुदिग्धाङ्गाः स्रग्विणः सूक्ष्मवाससः ॥ ७.३४.५ ॥

人人皆有红色旌旗,人人身戴金项链,身上涂抹檀香与沉香,佩戴花环,身穿细软的衣服。

7.34.6

सहिताः पर्यधावन्त कार्ष्णि प्रतियुयुत्सवः ।
तेषां दशसहस्राणि बभूवुर्दृढधन्विनाम् ॥ ७.३४.६ ॥

他们齐聚一处,奔向克利须那之子,意欲迎战;其中有一万名坚定的弓箭手。

7.34.7

पौत्रं तव पुरस्कृत्य लक्ष्मणं प्रियदर्शनम् ।
अन्योन्यसमदुःखास्ते अन्योन्यसमसाहसाः ॥ ७.३४.७ ॥

你的孙子美丽的罗什曼那站在前面,他们彼此同样悲痛,同样勇敢。

7.34.8

अन्योन्यं स्पर्धमानाश्च अन्योन्यस्य हिते रताः ।
दुर्योधनस्तु राजेन्द्र सैन्यमध्ये व्यवस्थितः ॥ ७.३४.८ ॥

彼此竞争,又各自致力于对方的利益;而杜尤达那,哦,王中之王,则站在军队中央。

7.34.9

कर्णदुःशासनकृपैर्वृतो राजा महारथैः ।
देवराजोपमः श्रीमाञ्श्वेतच्छत्राभिसंवृतः ॥ ७.३४.९ ॥

国王被大车将卡尔纳、杜舍塞那和克里帕所环绕,光彩如天神之王,被白伞遮蔽着。

7.34.10

चामरव्यजनाक्षेपैरुदयन्निव भास्करः ।
प्रमुखे तस्य सैन्यस्य द्रोणोऽवस्थित नायकः ॥ ७.३४.१० ॥

拂尘与牦牛尾扇摇动之际,犹如太阳升起,统帅德罗那站在那支军队的前列。

7.34.11

सिन्धुराजस्तथाऽतिष्ठच्छ्रीमान्मेरुरिवाचलः ।
सिन्धुराजस्य पार्श्वस्था अश्वत्थामपुरोगमाः ॥ ७.३४.११ ॥

信度王同样威严地屹立,如须弥山般不动;信度王身旁的人们则以马嘶之子为先导。

7.34.12

सुतास्तव महाराज त्रिंशत्त्रिदशसन्निभाः ।
गान्धारराजः कितवः शल्यो भूरिश्रवास्तथा ॥ ७.३४.१२ ॥

大王啊,你的三十个儿子如同天神。干陀罗王赌徒沙古尼、沙利耶与布利史罗婆斯也在那里。

7.34.13

पार्श्वतः सिन्धुराजस्य व्यराजन्त महारथाः ।
ततः प्रववृते युद्धं तुमुलं लोमहर्षणम्।
तावकानां परेषां च मृत्युं कृत्वा निवर्तनम् ॥ ७.३४.१३ ॥

信度王两侧,大车武士闪耀光芒。随后爆发了猛烈而令人毛骨悚然的战斗,你方与敌方之人皆遭死亡后退去。