Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 7.35

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

7.35.1

तदनीकमनाधृष्टं भारद्वाजेन रक्षितम् ।
पार्थाः समभ्यवर्तन्त भीमसेनपुरोगमाः ॥ ७.३५.१ ॥

由怖军领头的普利塔之子们,向婆罗堕阁所守护的那支不可征服的军队进攻。

7.35.2

सात्यकिश्चेकितानश्च धृष्टद्युम्नश्च पार्षतः ।
कुन्तिभोजश्च विक्रान्तो द्रुपदश्च महारथः ॥ ७.३५.२ ॥

萨提亚基、遮启旦那、普利沙塔之子达利输耸那、勇猛的昆提波遮,以及大车士德鲁帕达。

7.35.3

आर्जुनिः क्षत्रधर्मा च बृहत्क्षत्रश्च वीर्यवान् ।
चेदिपो धृष्टकेतुश्च माद्रीपुत्रौ घटोत्कचः ॥ ७.३५.३ ॥

阿周那之子、刹帝达磨、有力的广刹、遮提王、坚战之子德洛达、玛德利的两个儿子,以及迦陀迦恭。

7.35.4

युधामन्युश्च विक्रान्तः शिखण्डी चापराजितः ।
उतक्तमौजाश्च दुर्धर्षो विराटश्च महारथः ॥ ७.३५.४ ॥

勇猛的优陀摩尼、不可胜的尸犍底、难以抵挡的温多摩乌遮,以及大车士毗罗吒。

7.35.5

द्रौपदेयाश्च संरब्धाः शैशुपालिश्च वीर्यवान् ।
केकयाश्च महावीर्याः सृञ्जयाश्च सहस्रशः ॥ ७.३५.५ ॥

愤怒的德劳巴蒂之子、勇猛的谢舒巴拉之子、大力的甘伽耶人,以及成千上万的苏阇耶人。

7.35.6

एते चान्ये च सगणाः कृतास्त्रा युद्धदुर्मदाः ।
समभ्यधावन्सहसा भारद्वाजं युयुत्सवः ॥ ७.३५.६ ॥

他们与其他人一起,率领各自的部众,精通武艺,因战斗的狂热而亢奋,渴望交战,突然向婆罗堕阁猛扑过去。

7.35.7

समीपे वर्तमानांस्तान्भारद्वाजोऽतिवीर्यवान् ।
असम्भ्रान्तः शरौघेण महता समवारयत् ॥ ७.३५.७ ॥

力量极大的婆罗堕遮(德罗纳)不慌不忙,以大量箭雨阻挡了逼近的敌人。

7.35.8

महौघः सलिलस्येव गिरिमासाद्य दुर्भिदम् ।
द्रोणं ते नाभ्यवर्तन्त वेलामिव जलाशयाः ॥ ७.३५.८ ॥

犹如大水流抵达难以冲破的山峦,或如池水不能越过堤岸,他们无法向德罗纳推进。

7.35.9

पीड्यमानाः शरै राजन्द्रोणचापविनिःसृतैः ।
न शेकुः प्रमुखे स्थातुं भारद्वाजस्य पाण्डवाः ॥ ७.३५.९ ॥

大王啊,被德罗纳弓射出的箭所折磨,般度诸子无法在婆罗堕遮面前站稳。

7.35.10

तदद्भुतमपश्याम द्रोणस्य भुजयोर्बलम् ।
यदेनं नाभ्यवर्तन्त पाञ्चालाः सृञ्जयैः सह ॥ ७.३५.१० ॥

我们看到了德罗纳双臂的那种奇异力量:般遮罗人与斯林遮耶人联合,也无法向他推进。

7.35.11

तमायान्तमभिक्रुद्धं द्रोणं दृष्ट्वा युधिष्ठिरः ।
बहुधा चिन्तयामास द्रोणस्य प्रतिवारणम् ॥ ७.३५.११ ॥

坚战见德罗纳愤怒地逼近,便从多方面思量如何抵挡德罗纳。

7.35.12

अशक्यं तु तमन्येन द्रोणं मत्त्वा युधिष्ठिरः ।
अविषह्यं गुर भारं सौभद्रे समवासृजत् ॥ ७.३५.१२ ॥

坚战认为除他之外无人能对付德罗纳,便把这难以承受的重任交给了妙贤之子。

7.35.13

वासुदेवादनवरं फल्गुनाच्चामितौजसम् ।
अब्रवीत्परवीरघ्नमभिमन्युमिदं वचः ॥ ७.३५.१३ ॥

他与瓦苏提婆和法尔古那不相上下,力量无限,向消灭敌方英雄的阿毗摩豆说了这些话。

7.35.14

एत्य नो नार्जुनो गर्हेद्यथा तात तथा कुरु ।
द्रोणानीकस्य न वयं विद्मो भेदं कथञ्चन ॥ ७.३५.१४ ॥

孩子,你要这样做,使阿周那到来时不会责怪我们。我们无论如何也不知道如何攻破德罗纳的军队。

7.35.15

त्वं वाऽर्जुनो वा कृष्णो वा भिन्द्यात्प्रद्युम्न एव वा ।
द्रोणानीकं महाबाहो पञ्चमो नोपपद्यते ॥ ७.३५.१५ ॥

或者你、阿周那、克里希那,或普拉迪尤姆那,可以攻破德罗纳的军队。啊,大臂者,第五个人不适合此事。

7.35.16

अभिमन्यो वरं तात याचे त्वां दातुमर्हसि ।
पितॄणां मातुलानां च सैन्यानां चैव सर्वशः ॥ ७.३५.१६ ॥

阿毗摩豆,孩子,我向你请求一个恩赐;你应当为父辈、舅父们和全部军队而给予。

7.35.17

धनञ्जयो हि नस्तात गर्हयेदेत्य संयुगात् ।
क्षिप्रमस्त्रं समादाय द्रोणानीकं विशातय ॥ ७.३५.१७ ॥

孩子,阿周那从战场回来会责怪我们。快拿起武器,打散德罗纳的军队。

7.35.18

द्रोणस्य दृढमत्युग्रमनीकप्रवरं युधि ।
पितॄणां जयमाकाङ्क्षन्नवगाहेऽविलम्बितम् ॥ ७.३५.१८ ॥

为父辈求胜,我将毫不迟疑地闯入德罗纳在战斗中坚固、极其猛烈而最为精良的阵形。

7.35.19

उपदिष्टो हि मे पित्रा योगोऽनीकविशातने ।
नोत्सहे हि विनिर्गन्तुमहं कस्याञ्चिदापदि ॥ ७.३५.१९ ॥

父亲已教我破敌军之法,但无论遇到何种危难,我都不敢从中退出。

7.35.20

भिन्ध्यनीकं युधांश्चेष्ठ द्वारं सञ्जनयस्व नः ।
वयं त्वाऽनुगमिष्यामो येन त्वं तात यास्यसि ॥ ७.३५.२० ॥

武士中的翘楚,请破开敌军,为我们开一道门;亲爱的孩子,你走哪条路,我们就跟随你走哪条路。

7.35.21

धनञ्जयसमं युद्धे त्वां वयं तात संयुते ।
प्रणिधायानुयास्यामो रक्षन्तः सर्वतोमुखाः ॥ ७.३५.२१ ॥

亲爱的孩子,你在战斗中与财富者(阿周那)相当;我们专心于你,从四面八方守护着,跟随你前进。

7.35.22

अहं त्वाऽनुगमिष्यामि धृष्टद्युम्नोऽथ सात्यकिः ।
पाञ्चलाः केकया मात्स्यास्तथा सर्वे प्रभद्रकाः ॥ ७.३५.२२ ॥

我将跟随你,持弹者(德里斯塔尤姆那)与萨提奇亦然;般遮罗人、羯迦耶人、摩差人,以及所有的般多罗迦人,也都一样。

7.35.23

सकृद्भिन्नं त्वया व्यूहं तत्र तत्र पुनः पुनः ।
वयं प्रध्वंसयिष्यामो निघ्नामाना वरान्वरान् ॥ ७.३५.२३ ॥

你一次冲破阵形之处,我们便一次又一次在那里将其击溃,击杀那些最优秀的战士。

7.35.24

अहमेतत्प्रवेक्ष्यामि द्रोणानीकं दुरासदम् ।
पतङ्ग इव सङ्क्रुद्धो ज्वलितं जातवेदसम् ॥ ७.३५.२४ ॥

我将冲入这难以接近的德罗纳之军,如同愤怒的飞蛾扑向熊熊烈火。

7.35.25

तत्कर्माद्य करिष्यामि हितं यद्वंशयोर्द्वयोः ।
मातुलस्य च यत्प्रीतिं करिष्यति पितुश्च मे ॥ ७.३५.२५ ॥

今日我将行那善事,它有利于两家,并将使我的舅父与父亲欢喜。

7.35.26

शिशुनैकेन सङ्ग्रमे काल्यमानानि सङ्घशः ।
द्रक्ष्यन्ति सर्वभूतानि द्विषत्सैन्यानि वै मया ॥ ७.३५.२६ ॥

在战场上,一个少年的我,将使一切众生目睹敌军成群地被歼灭。

7.35.27

नाहं पार्थेन जातः स्यां न च जातः सुभद्रया ।
यदि मे संयुगे कश्चिज्जीवितो नाद्य मुच्यते ॥ ७.३५.२७ ॥

若今日在战中有人从我手中活着脱逃,那么我便不是帕尔塔所生,也不是苏跋陀罗所生。

7.35.28

यदि चैकरथेनाहं समग्रं क्षत्रमण्डलम् ।
न करोम्यष्टधा युद्धे न भवाम्यर्जुनात्मजः ॥ ७.३५.२८ ॥

若我乘一辆战车,在战中不能将全部刹帝利之圈劈为八份,那我便不是阿周那之子。

7.35.29

एवं ते भाषमाणस्य बलं सौभद्र वर्धताम् ।
यत्समुत्सहसे भेत्तुं द्रोणानीकं दुरासदम् ॥ ७.३५.२९ ॥

苏跋陀罗之子啊,你如此说话,愿你的力量增长;因为你乐意冲破德罗那那难以接近的大军。

7.35.30

रक्षितं पुरुषव्याघ्रैर्महेष्वासैर्महाबलै ।
साध्यरुद्रमरुत्तुल्यैर्वस्वग्न्यादित्यविक्रमैः ॥ ७.३५.३० ॥

由人中猛虎、大弓手与大力者所守护,他们如萨提亚、楼陀罗、摩如特一般,勇武如婆苏、火神与阿底提耶。

7.35.31

तस्य तद्वचनं श्रुत्वा स यन्तारमचोदयत् ॥ ७.३५.३१ ॥

他听了这番话,便催促御者向前驱车。

7.35.32

सुमित्राश्वान्रणे क्षिप्रं द्रोणानीकाय चोदय ॥ ७.३५.३२ ॥

苏弥多啊,在战场上赶快驱马奔向德罗纳的军队。