摩诃婆罗多 · 章 7.38
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
7.38.1
तथा प्रमथमानं तं महेष्वासानजिह्मगैः ।
आर्जुनिं मामकाः सङ्ख्ये के त्वेनं समवारयन् ॥ ७.३८.१ ॥
如此,当大弓手以正直之箭逼迫那阿周那之子时,我方何人在战场上阻挡了他?
7.38.2
शृणु राजन्कुमारस्य रणे विक्रीडितं महत् ।
बिभित्सतो रथानीकं भारद्वाजेन रक्षितम् ॥ ७.३८.२ ॥
大王,请听那王子在战斗中的伟大游戏:他想冲破由婆罗堕若之子所守护的战车阵。
7.38.3
मद्रेशं सादितं दृष्ट्वा सौभद्रेणाशुगै रणे ।
शल्यादवरजः क्रुद्ध क्रिन्बाणान्समभ्ययात् ॥ ७.३८.३ ॥
见摩德罗王被苏跋陀罗之子以迅疾之箭击败,沙利亚的幼弟愤怒地挥箭前去攻击。
7.38.4
स विद्ध्वा दशभिर्बाणैः साश्वयन्तारमार्जुनिम् ।
उदक्रोशन्महाशब्दं तिष्ठतिष्ठेति चाब्रवीत् ॥ ७.३८.४ ॥
他以十箭射穿阿周那之子及其马匹和御者,大声呼喊道:“站住,站住!”
7.38.5
तस्यार्जुनिः शिरोग्रीवं पाणिपादं धनुर्हयान् ।
छत्रं ध्वजं नियन्तारं त्रिवेणुं चाप्युपस्करम् ॥ ७.३८.५ ॥
阿周那之子斩断了他的头颈、手足、弓、马、华盖、旗帜、御者、三叉辕以及战车的全部装备。
7.38.6
चक्रं युगं च तूणीरं ह्यनुकर्षं सायकैः ।
पताकां चक्रगोप्तारौ सर्वोपकरणानि च ॥ ७.३८.६ ॥
他以箭摧毁了车轮、轭、箭囊、车轴、旗帜、两名车轮护卫以及战车的一切装备。
7.38.7
लघुहस्तः प्रचिच्छेद ददृशे तं न कश्चन ।
स पपात क्षितौ क्षीणः प्रविद्धाभरणाम्बरः ॥ ७.३८.७ ॥
他以灵巧的双手将箭斩断,无人看见他。他精疲力竭地倒在地上,饰物与衣裳都被扯落。
7.38.8
वायुनेव महाचैत्यः समूलं चित्रवेदिकः ।
अनुगास्तस्य वित्रस्ताः प्राद्रवन्सर्वतो दिशः ॥ ७.३८.८ ॥
犹如大圣树被狂风连根拔起,连同彩绘祭台一起倒下,他的随从惊恐万分,四散逃向各方。
7.38.9
आर्जुनेः कर्म तद्दृष्ट्वा सम्प्रणेदुः समन्ततः ।
नादेन सर्वभूतानि साधुसाध्विति भारत ॥ ७.३८.९ ॥
众人见阿周那之子此举,四面八方齐声喝彩;婆罗多啊,一切众生高声呼喊:“善哉!善哉!”
7.38.10
शल्यभ्रातर्यथारुग्णे बहुशस्तस्य सैनिकाः ।
कुलाधिवासनामानि श्रावयन्तोऽर्जुनात्मजम् ॥ ७.३८.१० ॥
沙利耶之兄受伤后,他的士兵屡次向阿周那之子大声报出自己的家族名号与居住之地,向他挑战。
7.38.11
अभ्यधावन्त सङ्क्रुद्धा विविधायुधपाणयः ।
रथैरश्वैर्गजैश्चान्ये पद्भिश्चान्ये बलोत्कटाः ॥ ७.३८.११ ॥
众人怒火中烧,手持各式兵器冲杀上来:有人乘战车,有人骑马,有人骑象,其余力大的则步行。
7.38.12
बाणशब्देन महता रथनेमिस्वनेन च ।
हुंकारैः क्ष्वेडितोत्कृष्टैः सिंहनादैः सगर्जितैः ॥ ७.३८.१२ ॥
箭矢的巨响、战车车轮的隆隆声、呼喝声、高亢的呼啸、狮吼与雷鸣,大地为之震荡。
7.38.13
ज्यातलत्रस्वनैरन्ये गर्जन्तोऽर्जुननन्दनम् ।
ब्रुवन्तश्च न नो जीवन्मोक्ष्यसे जीवितादिति ॥ ७.३८.१३ ॥
其他人以弓弦与护臂的响声咆哮,对阿周那之子说:「你若活着,就逃不出我们的手。」
7.38.14
तांस्तथा ब्रुवतो दृष्ट्वा सौभद्रः प्रहसन्निव ।
यो योस्मै प्राहरत्पूर्वं तं तं विव्याध पत्रिभिः ॥ ७.३८.१४ ॥
见他们如此说话,苏跋陀罗之子仿佛含笑,用箭射穿了先前攻击他的每一个人。
7.38.15
सन्दर्शयिष्यन्नस्त्राणि विचित्राणि लघूनि च ।
आर्जुनिः समरे शूरो मृदुपूर्वमयुध्यत ॥ ७.३८.१५ ॥
阿周那的英勇之子想展示其奇妙而迅捷的神兵,故在战斗中起初温和地应战。
7.38.16
वासुदेवादुपात्तं यदस्त्रं यच्च धनञ्जयात् ।
अदर्शयत तत्कार्ष्णिः कृष्णाभ्यामविशेषवत् ॥ ७.३८.१६ ॥
自世尊(婆苏提婆)与持财(阿周那)所得之神兵,这位黑天之亲族之子不分彼此地展示出来,仿佛同出于两位黑天。
7.38.17
दूरमस्य गुरुं भारं साध्वसं च पुनः पुनः ।
सन्दधद्विसृजंश्चेषून्निर्विशेषमदृश्यत ॥ ७.३८.१७ ॥
他承载着长远沉重的重担与一再涌起的恐惧,搭箭射出,却显得毫无区别。
7.38.18
चापमण्डलमेवास्य विस्फुरद्दिक्ष्वदृश्यत ।
सुदीप्तस्य शरत्काले सवितुर्मण्डलं यथा ॥ ७.३८.१८ ॥
唯见其弓之圆圈在四方闪耀,犹如秋日极其明亮的太阳圆盘。
7.38.19
ज्याशब्दः शुश्रुवे तस्य तलशब्दश्च दारुणः ।
महाशनिमुचः काले पयोदस्येव निःस्वनः ॥ ७.३८.१९ ॥
他的弓弦之声与掌击之声都令人胆寒,犹如乌云在时机到来时降下大雷霆的轰鸣。
7.38.20
हीमानमर्षी सौभद्रो मानकृत्प्रियदर्शनः ।
सम्मिमानयिषुर्वीरानिष्वस्त्रैश्चाप्ययुध्यत ॥ ७.३८.२० ॥
他谦逊而不甘受辱,是妙贤之子,待人以礼,相貌可爱。他想要敬重诸位英雄,便以箭矢和兵器作战。
7.38.21
मृदुर्भूत्वा महाराज दारुणः समपद्यत ।
वर्षाभ्यतीतो भगवाञ्शरदीव दिवाकरः ॥ ७.३८.२१ ॥
大王啊,他本来温和,却变得可怖,如雨季过后秋天的圣日。
7.38.22
शरान्विचित्रान्सुबहून्रुक्मपुङ्खाञ्शिलाशितान् ।
मुमोच शतशः क्रुद्धो गभस्तीनिव भास्करः ॥ ७.३८.२२ ॥
他愤怒地连发数百支花色繁多、羽翎金黄、以磨石淬锋的箭,犹如太阳放出光芒。
7.38.23
क्षुरप्रैर्वत्सदन्तैश्च विपाठेश्च महायशाः ।
नाराचैरर्धचन्द्राभैर्भल्लैरञ्जलिकैरपि ॥ ७.३८.२३ ॥
这位大名鼎鼎的英雄,以剃刀头箭、牛犊齿箭、劈裂箭,以及铁箭、半月箭、阔头箭和合掌箭。
7.38.24
अवाकिरद्रथानीकं भारद्वाजस्य पश्यतः ।
ततस्तत्सैन्यमभवद्विमुखं शरपीडितम् ॥ ७.३८.२४ ॥
婆罗堕阁看着,他将战车阵冲散。那支军队被箭所困,便转身溃逃。