Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 7.40

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

7.40.1

ततः समभवद्युद्धं तयोः पुरुषसिंहयोः ।
तस्मिन्काले महाबाहुः सौभद्रः परवीरहा ॥ ७.४०.१ ॥

于是这两位人中之狮之间爆发了战斗。此时,大臂的、杀敌英雄的苏跋陀罗之子(阿毗曼尤)……

7.40.2

सशरं कार्मुकं छित्त्वा लाघवेन व्यपातयत् ।
दुःशासनं शरैस्तीक्ष्णैः संततक्ष समन्ततः ॥ ७.४०.२ ॥

他灵巧地斩断了持箭的难降(Duḥśāsana)之弓,将其击落,又以锐利的箭从四面八方射穿了他。

7.40.3

शरविक्षतगात्रं तु प्रत्यमित्रमवस्थितम् ।
अभिमन्युः स्मयन्धीमान्दुःशासनमथाब्रवीत् ॥ ७.४०.३ ॥

对那位身受箭伤却仍屹立不动的敌人难降,智慧的阿毗曼尤微笑着说道。

7.40.4

दिष्ट्या पश्यामि सङ्ग्रमे मानिनं शूरमागतम् ।
निष्ठुरं त्यक्तधर्माणमाक्रोशनपरायणम् ॥ ७.४०.४ ॥

幸运的是,我在战场上看到你来到我面前——你骄傲、勇猛、残酷,抛弃了法,且沉溺于辱骂。

7.40.5

यत्सभायां त्वया राज्ञो धृतराष्ट्रस्य शृण्वतः ।
कोपितः परुषैर्वाक्यैर्धर्मराजो युधिष्ठिरः ॥ ७.४०.५ ॥

你在议会上,当国王持国(Dhṛtarāṣṭra)在场聆听时,用粗暴的话语激怒了法王坚战(Yudhiṣṭhira)。

7.40.6

जयोन्मत्तेन भीमश्च बह्वबद्धं प्रभाषितः ।
अक्षकूटं समाश्रित्य सौबलस्यात्मनो बलम् ॥ ७.४०.६ ॥

你因胜利而狂妄,也对毗摩说了许多不当之言,并依仗苏跋罗之子沙恭尼的诡计骰子作为自己的力量。

7.40.7

तत्त्वयेदमनुप्राप्तं तस्य कोपान्महात्मनः ।
परवित्तापहारस्य कोधस्याप्रशमस्य च ॥ ७.४०.७ ॥

因此,这已降临到你身上,乃是那位夺取他人财富、怒火从未平息的大德之人的愤怒所致。

7.40.8

लोभस्य ज्ञाननाशस्य द्रोहस्यात्याहितस्य च ।
पितॄणां मम राज्यस्य हरणस्योग्रधन्विनाम् ॥ ७.४०.८ ॥

贪欲毁灭智慧、背叛、重大的侵害,以及猛烈的射手夺走我祖先的王国。

7.40.9

तत्त्वयेदमनुप्राप्तं प्रकोपाद्वै महात्मनाम् ।
स तस्योग्रमधर्मस्य फलं प्राप्नुहि दुर्मते ॥ ७.४०.९ ॥

因此,这已由诸大德者的大怒降临到你身上。恶念之人啊,现在就承受那不义的酷烈果报吧。

7.40.10

शासिताऽस्म्यद्य ते बाणैः सर्वसैन्यस्य पश्यतः ।
अद्याहमनृणस्तस्य कोपस्य भविता रणे ॥ ७.४०.१० ॥

今天,当全军注视时,我将以箭惩罚你;今天,在战场上,我将偿还那份愤怒的债务。

7.40.11

अमर्षितायाः कृष्णायाः काङ्क्षितस्य च मे पितुः ।
अद्य कौरव्य भीमस्य भवितास्म्यनृणो युधि।
न हि मे मोक्ष्यसे जीवन्यदि नोत्सृजसे रणं ॥ ७.४०.११ ॥

对愤怒的克利须那(德劳帕蒂)的债,以及我父亲的心愿:今天,哦,俱卢的后裔,毕摩将在战场上偿清此债。若你不离开战场,你活着便无法从我手中逃脱。

7.40.12

एवमुक्त्वा महाबाहुर्बाणं दुःशासनान्तकम् ।
संदधे परवीरघ्नः कालाग्न्यनिलवर्चसम् ॥ ७.४०.१२ ॥

说罢,大臂者、敌方英雄的杀手将那支能终结难降那的箭搭上弓弦,其光芒如时间之火与风暴。

7.40.13

तस्योरस्तूर्णमासाद्य जत्रुदेशे विभिद्य तम् ।
जगाम सह पुङ्खेन वल्मीकमिव पन्नगः।
अथैनं पञ्चविंशत्या पुनरेव समार्पयत् ॥ ७.४०.१३ ॥

它迅速抵达他的胸膛,穿透锁骨部位,连同羽尾一起没入体内,如同蛇钻入蚁冢。

7.40.15

रणमध्यादपोवाह सौभद्रशरपीडितम् ॥ ७.४०.१५ ॥

他被萧婆陀罗之子的箭所折磨,被人从战场中央抬走了。

7.40.16

पाण्डवा द्रौपदेयाश्च विराटश्च समीक्ष्य तम् ।
पाञ्चालाः केकयाश्चैव सिंहनादमथानदन् ॥ ७.४०.१६ ॥

般度之子、德罗波蒂的儿子们、毗罗吒,以及般遮罗与迦迦夜人见到他,便发出狮子般的吼声。

7.40.17

वादित्राणि च सर्वाणि नानालिङ्गानि सर्वशः ।
प्रावादयन्त संहृष्टाः पाण्डूनां तत्र सैनिकाः ॥ ७.४०.१७ ॥

般度之军的士兵欢欣鼓舞,在那里吹奏了各式各样的乐器。

7.40.18

अपश्यन्स्मयमानाश्च सौभद्रस्य विचेष्टितम् ।
अत्यन्तवैरिणं दृप्तं दृष्ट्वा शत्रुं पराजितम् ॥ ७.४०.१८ ॥

他们微笑着看着萧婆陀罗之子的行动,看到那极其敌对、骄傲的敌人已被击败。

7.40.19

धर्ममारुतशक्राणामश्विनोः प्रतिमास्तथा ।
धारयन्तो ध्वजाग्रेषु द्रौपदेया महारथाः ॥ ७.४०.१९ ॥

德罗波蒂的儿子们,大车战士,在旗帜顶端承载着法、风、因陀罗和双马童的形象。

7.40.20

सात्यकिश्चेकितानश्च धृष्टद्युम्नशिखण्डिनौ ।
केकया धृष्टकेतुश्च मात्स्याः पाञ्चालसृञ्जयाः ॥ ७.४०.२० ॥

萨提亚基与埃吉塔纳,德利什塔德尤姆那与湿乾丁,喀喀亚人,德利什塔盖图,鱼族,般遮罗与悉兰阇耶人。

7.40.21

पाण्डवाश्च मुदा युक्ता युधिष्ठिरपुरोगमाः ।
अभ्यद्रवन्त त्वरिता द्रोणानीकं बिभित्सवः ॥ ७.४०.२१ ॥

般度之子们满怀欢喜,以坚战为首,急速冲向德罗纳的军队,欲要将其冲破。

7.40.22

ततोऽभवन्महायुद्धं त्वदीयानां परैः सह ।
जयमाकाङ्क्षमाणानां शूराणामनिवर्तिनाम् ॥ ७.४०.२२ ॥

于是,在你方与敌人之间,渴望胜利、决不退缩的勇士们展开了一场大战。

7.40.23

तथा तु वर्तमाने वै सङ्ग्रामेऽतिभयंकरे ।
दुर्योधनो महाराज राधेयमिदमब्रवीत् ॥ ७.४०.२३ ॥

大王啊,当这场极为可怖的战斗正在进行时,难敌对罗陀之子说了这些话。

7.40.24

पश्य दुःशासनं वीरमभिमन्युवशंगतम् ।
प्रतपन्तमिवादित्यं निघ्नन्तं शात्रवान्रणे। ॥ ७.४०.२४ ॥

请看英雄难降,他落入了阿毗曼纽的掌控,却如烈日般光芒四射,在战场上击杀敌人。

7.40.25

अथ चैते सुसंरब्धाः सिंहा इव बलोत्कटाः ।
सौभद्रमुद्यतास्त्रातुमभ्यधावन्त पाण्डवाः ॥ ७.४०.२५ ॥

于是,这些般度子孙极为愤怒,力量凶猛如狮子,急欲保护苏跋德罗之子,纷纷冲了上去。

7.40.26

ततः कर्णः शरैस्तीक्ष्णैरभिमन्युं दुरासदम् ।
अभ्यवर्षत सङ्क्रुद्धः पुत्रस्य हितकृत्तव ॥ ७.४०.२६ ॥

于是迦尔纳愤怒地以利箭倾泻于难以接近的阿毗曼纽之上,他是你儿子的益友。

7.40.27

तस्य चानुचरांस्तीक्ष्णैर्विव्याघ परमेषुभिः ।
अवज्ञापूर्वकं शूरः सौभद्रस्य परणाजिरे ॥ ७.४०.२७ ॥

那位英雄在战场上轻蔑地以锐利的上乘箭射穿了萨乌跋德罗(阿毗曼纽)的随从。

7.40.28

अभिमन्युस्तु राधेयं त्रिसप्तत्या शिलीमुखैः ।
अविध्यत्त्वरितो राजन्द्रोणं प्रेप्सुर्महामनाः ॥ ७.४०.२८ ॥

然而,大王,心胸广大的阿毗曼纽急欲抵达德罗纳,迅速以七十三支箭射穿了罗陀之子迦尔纳。

7.40.29

तं तथा नाशकत्कश्चिद्दोणाद्वारयितुं रथी ।
आरुजन्तं रथव्रातान्वज्रहस्तात्मजात्मजम् ॥ ७.४०.२९ ॥

德罗纳一方没有任何战车武士能如此阻挡那位执雷者(因陀罗)之子之子,他正在摧毁成排的战车。

7.40.30

ततः कर्णो जयप्रेप्सुर्मानी सर्वधनुष्मताम् ।
सौभद्रं शतशोऽविध्यदुत्तमास्त्राणि दर्शयन् ॥ ७.४०.३० ॥

于是迦尔纳,在所有弓箭手中最为自负,渴望胜利,一面展示其上乘兵器,一面将萨乌跋德罗(阿毗曼纽)射穿了百次。

7.40.31

सोऽस्त्रैरस्त्रविदां श्रेष्ठो रामशिष्यः प्रतापवान् ।
समरे शत्रुदुर्धर्षमभिमन्युमपीडयत् ॥ ७.४०.३१ ॥

那位威猛的迦尔纳,乃众武者中的翘楚、罗摩的弟子,在战场上以他的兵器折磨着阿毗曼纽——那位敌人难以攻破的英雄。

7.40.32

स तथा पीड्यमानस्तु राधेयेनास्त्रवृष्टिभिः ।
समरेऽमरसङ्काशः सौभद्रो न व्यशीर्यत ॥ ७.४०.३२ ॥

尽管被罗陀之子(迦尔纳)以箭雨如此逼迫,如神一般的娑鞞陀罗之子(阿毗曼尤)在战斗中并未动摇。

7.40.33

ततः शिलाशितैस्तीक्ष्णैर्भल्लैरानतपर्वभिः ।
छित्त्वा धनूंषि शूराणामार्जुनिः कर्णमार्दयत् ॥ ७.४०.३३ ॥

于是阿周那之子以在磨石上磨利、带弯曲箭节的锐利钵罗箭,斩断众英雄的弓,并逼迫迦尔纳。

7.40.34

धनुर्मण्डलनिर्मुक्तैः शरैराशीविषोपमैः ।
सच्छत्रध्वजयन्तारं साश्वमाशु स्मयन्निव ॥ ७.४०.३४ ॥

他以从弓圈中射出、如毒蛇般的箭,迅速击中了华盖、旌旗、御者和马匹,仿佛微笑着一般。

7.40.35

कर्णोऽपि चास्य चिक्षेप बाणान्सन्नतपर्वणः ।
असम्ब्रान्तश्च तान्सर्वानगृह्णात्फल्गुनात्मजः ॥ ७.४०.३५ ॥

迦尔纳也向他射出弯曲箭节的箭,但法尔古那之子毫不慌乱,将它们全部接住。

7.40.36

ततो मुहूर्तात्कर्णस्य बाणेनैकेन वीर्यवान् ।
सध्वजं कार्मुकं वीरश्छित्त्वा भूमावपातयत् ॥ ७.४०.३६ ॥

随即,那位勇猛的英雄在顷刻间以一支箭斩断迦尔纳的弓连同旌旗,使其坠落于地。

7.40.37

ततः कृच्छ्रगतं कर्णं दृष्ट्वा कर्णादनन्तरः ।
सौभद्रमभ्ययात्तूर्णं दृढमुद्यम्य कार्मुकम् ॥ ७.४०.३७ ॥

此时见迦尔纳陷入困境,迦尔纳之后的战士坚定地举起弓,迅速冲向娑鞞陀罗之子。

7.40.38

तत उच्चुक्रुशुः पार्थास्तेषां चानुचरा जनाः ।
वादित्राणि च सञ्जघ्नः सौभद्रं चापि तुष्टुवुः ॥ ७.४०.३८ ॥

于是般度之子及其随从高声呼喊,奏起乐器,并赞颂萨乌跋陀罗(阿毗曼尤)。