Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 7.41

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

7.41.1

सोऽभ्यगच्छद्धनुष्पाणिर्ज्यां विकर्षन्पुनः पुनः ।
सच्छत्रध्वजयन्तारं साश्वमाशु स्मयन्निव ॥ ७.४१.१ ॥

他手持弓,一次又一次地拉动弓弦,仿佛微笑着,迅速朝着带有华盖、旗帜、御者和马匹的战车前进。

7.41.2

सोऽपिध्यद्दशभिर्बाणैरभिमन्युं दुरासदम् ।
सच्छत्रध्वजयन्तारं साश्वमाशु स्मयन्निव ॥ ७.४१.२ ॥

他以十支箭射中难以接近的阿毗曼纽,仿佛微笑着,又迅速射中了华盖、旗帜、御者和马匹。

7.41.3

पितृपैतामहं कर्म कुर्वाणमतिमानुषम् ।
दृष्ट्वार्दितं शरैः कार्ष्मिं त्वदीया हृषिताऽभवन् ॥ ७.४१.३ ॥

看到这位克利须那之子,他正施展配得上父祖的超凡功业,却被箭矢所伤,你的部下欢欣鼓舞。

7.41.4

तस्याभिमन्युरायम्य स्मयन्नेकेन पत्रिणा ।
शिरः प्रच्यावयामास तद्रथात्प्रापतद्भुवि ॥ ७.४१.४ ॥

阿毗曼纽微笑着拉开弓,以一支羽箭斩下了他的头颅,头颅从战车上落到了地上。

7.41.5

कर्णिकारमिवाधूतं वातेनापतितं नगात् ।
कर्णानुजं च सम्प्रेक्ष्य तावका व्यथिताऽभवन्।
भ्रातरं निहतं दृष्ट्वा कर्णश्चासीत्पराङ्मुखः ॥ ७.४१.५ ॥

看到迦尔纳的幼弟如同被风吹落树枝的迦尼迦拉花般倒下,你的部下感到悲痛;看到兄弟被杀,迦尔纳转身背离了战场。

7.41.6

विमुखीकृत्य कर्णं तु सौभद्रः कङ्कपत्रिभिः ।
अन्यानपि महेष्वासांस्तूर्णमेवाभिदुद्रुवे ॥ ७.४१.६ ॥

这位苏跋德拉之子以带鹤羽的箭使迦尔纳转身退却,随即迅速冲向其他大弓箭手。

7.41.7

ततस्तद्विततं सेन्यं हस्त्यश्वरथपत्तिमत् ।
क्रद्धोऽभिमन्युरभिनत्तिग्मतेजा महारथः ॥ ७.४१.७ ॥

于是猛烈光辉的大车士阿毕曼尤震怒,冲破了那支由象、马、车与步卒排列开来的军队。

7.41.8

कर्णस्तु बहुभिर्बाणैरर्द्यमानोऽभिमन्युना ।
अपायाज्जवनैरश्वैस्ततोऽनीकमभिद्रवत् ॥ ७.४१.८ ॥

然而迦尔纳被阿毕曼尤的众多箭矢所困扰,乘着疾马逃走了;随后他冲向军队的一支部队。

7.41.9

तिंष्ठ कर्ण महेष्वास कृप दुर्योधनेति च ।
द्रोणस्य क्रोशतो राजंस्तदनीकमभज्यत ॥ ७.४१.९ ॥

「站住,大弓手迦尔纳、克里帕、难敌!」德罗纳如此高呼之时,大王啊,那支军队便溃散了。

7.41.10

शलभैरिव चाकाशं धाराभिरिव पर्वतः ।
अभिमन्यो शरैश्छन्नं न प्राज्ञायत किञ्चन ॥ ७.४१.१० ॥

犹如天空被蝗群遮蔽,山岳被激流覆盖,阿毕曼尤啊,如此被箭矢所覆,什么也分辨不出。

7.41.11

तावकानां तु योधानां वध्यतां निशितैः शरैः ।
अन्यत्र सैन्धवाद्राजन्न स्म कश्चिदतिष्ठत ॥ ७.४१.११ ॥

大王啊,当你的战士被锐利的箭矢射杀时,除了信度王(胜车)之外,无人能够站稳。

7.41.12

सौभद्रस्तु ततः शङ्खं प्रध्माय पुरुषर्षभः ।
शीघ्रमभ्यपतत्सेनां भारतीं भरतर्षभ ॥ ७.४१.१२ ॥

于是苏跋陀罗之子,人中雄牛,吹响海螺,迅速冲向婆罗多军队,婆罗多中的雄牛啊。

7.41.13

स कक्षेऽग्निरिवोत्सृष्टो निर्दहंस्तरसा रिपून् ।
मध्ये भारतसैन्यानामार्जुनिः पर्यवर्तत ॥ ७.४१.१३ ॥

如同放入灌木丛中的烈火,迅速焚烧敌人,阿周那之子在婆罗多军队中间驰骋。

7.41.14

रथनागाश्वमनुजानर्दयन्निशितैः शरैः ।
सम्प्रविश्याकरोद्भूमिं कबन्धगणसङ्कुलाम् ॥ ७.४१.१४ ॥

以利箭折磨战车、象、马和士兵,他深入敌阵,使大地布满无头躯干的群体。

7.41.15

सौभद्रचापप्रभवैर्निकृत्ताः परमेषुभिः ।
स्वानेवाभिमुखान्ध्नन्तः प्राद्रवञ्जीवितार्थिनः ॥ ७.४१.१५ ॥

被从萨乌跋陀罗之弓射出的神箭所伤,他们击杀面前的自己人,求生的人们四散奔逃。

7.41.16

ते घोरा रौद्रकर्माणो विपाठा बहवः शिताः ।
निघ्न्तो रथनागाश्वाञ्जग्मुराशु वसुन्धराम् ॥ ७.४१.१६ ॥

那些可怕、凶猛、穿透力强的众多利箭,击中战车、象和马,迅速落在大地上。

7.41.17

सायुधाः साङ्गुलित्राणाः सगदाः साङ्गदा रणे ।
दृश्यन्ते बाहवश्चिन्ना हेमाभारणभूषिताः ॥ ७.४१.१७ ॥

战场上可见断臂,饰以金饰,仍持兵器、护指、铁锤与臂钏。

7.41.18

शराश्चापानि खङ्गाश्च शरीराणि शिरांसि च ।
सकुण्डलानि स्रग्वीणि भूमावासन्सहस्रशः ॥ ७.४१.१८ ॥

箭矢、弓、剑、尸身,以及戴着耳环和花环的头颅,成千地躺在地上。

7.41.19

सोपस्करैरधिष्ठानैरीषादण्डकबन्धुरैः ।
अक्षैर्विमथितैश्चक्रैर्बहुधा पतितैर्युगैः ॥ ७.४१.१९ ॥

连同其装备与底座,连同车辕与车轭,断裂的车轴与车轮,以及各处倒落的车轭。

7.41.20

शक्तिचापासिभिश्चैव पतितैश्च महाध्वजैः ।
चर्मचापशरैश्चैव व्यवकीर्णैः समन्तततः ॥ ७.४१.२० ॥

有长矛、弓与剑,有倒落的大旗,有盾牌、弓与箭,散落于四面八方。

7.41.21

निहतैः क्षत्रियैरश्वैर्वारणैश्च विशाम्पते ।
अगम्यरूपा पृथिवी क्षणेनासीत्सुदारुणा ॥ ७.४१.२१ ॥

啊,众人之主,被杀的刹帝利、马与象,使大地刹那间变得难以辨认且极其可怖。

7.41.22

वध्यतां राजपुत्राणां क्रन्दतामितरेतरम् ।
प्रादुरासीन्महाशब्दो भीरूणां भयवर्धनः ॥ ७.४१.२२ ॥

被杀的王子们彼此呼喊,于是升起一片巨大的喧嚣,增添了怯懦者的恐惧。

7.41.23

स शब्दो भरतश्चेष्ठ दिशः सर्वा व्यनादयत् ।
सौभद्रश्चाद्रवत्सेनां घ्नन्वराश्वरथद्विपान् ॥ ७.४१.२३ ॥

那声音,婆罗多之最,响彻四面八方;而萨婆陀罗扑向军队,击杀战车、马匹、御者和象。

7.41.24

कक्षमग्निरिवोत्सृष्टो निर्दहंस्तरसा रिपून् ।
मध्ये भारतसैन्यानामार्जुनिः प्रत्यदृश्यत ॥ ७.४१.२४ ॥

如同放入干草的烈火,迅速焚烧敌人,阿周那之子出现在婆罗多军队之中。

7.41.25

विचरन्तं दिशः सर्वाः प्रदिशश्चापि भारत ।
तं तदा नानुपश्यामः सैन्ये च रजसाऽऽवृते ॥ ७.४१.२५ ॥

婆罗多啊,他在所有方向和次方向中奔驰,我们当时看不见他,因为军队被尘土所覆盖。

7.41.26

आददानं गजाश्वानां णां चायुंषि भारत ।
क्षमेन भूयः पश्यामः सूर्यं मध्यंदिने यथा ॥ ७.४१.२६ ॥

婆罗多啊,转瞬之间我们又看见他夺取象与马的性命和寿数,如同正午的太阳。

7.41.27

अभिमन्युं महाराज प्रतपन्तं द्विषद्गणान् ।
स वासवसमः सङ्ख्ये वासवस्यात्मजात्मजः ॥ ७.४१.२७ ॥

大王啊,焚烧敌军的阿毗曼纽在战场上如同因陀罗;他是因陀罗之子阿周那的儿子。

7.41.28

अभिमन्युर्महाराज सैन्यमध्ये व्यरोचत ।
यथा पुरा वह्निसुतः सुरसैन्येषु वीर्यवान् ॥ ७.४१.२८ ॥

大王啊,阿毗曼纽在军队中间闪耀,如同往昔火神之子(室建陀)在诸天神军中闪耀一般。