摩诃婆罗多 · 章 7.44
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
7.44.1
सैन्धवेन निरुद्धेषु जयगृद्धिषु पाण्डुषु ।
सुघोरमभवद्युद्धं त्वदीयानां परैः सह ॥ ७.४४.१ ॥
当渴望胜利的般度之子被信度王阻拦时,你的军队与敌人之间爆发了极其惨烈的战斗。
7.44.2
प्रविश्याथार्जुनिः सेनां सत्यसन्धो दुरासदः ।
व्यक्षोभयत तेजस्वी मकरः सागरं यथा ॥ ७.४४.२ ॥
阿周那之子,守信誓言、难以抵挡、光辉耀眼,他冲入军中,搅动敌阵,如摩羯鱼搅动大海。
7.44.3
तं तथा शरवर्षेण छादयन्तमरिंदमम् ।
यथा प्रधानाः सौभद्रमभ्ययुः कुरुसत्तमाः ॥ ७.४४.३ ॥
当时,那位以箭雨遮蔽敌人的征服者、苏跋陀罗之子,被库鲁族中最出色的主将冲上前来围攻。
7.44.4
तेषां तस्य च सम्मर्दो दारुणः समपद्यत ।
सृजतां शरवर्षाणि प्रसक्तममितौजसाम् ॥ ७.४४.४ ॥
他们与他之间爆发了可怕的冲突,那些威力无穷的勇士不停地射出密集的箭雨。
7.44.5
रथव्रजेन संरुद्धस्तैरमित्रैस्तथाऽऽर्जुनिः ।
वृषसेनस्य यन्तारं हत्वा चिच्छेद कार्मुकम् ॥ ७.४४.५ ॥
阿周那之子被众多战车包围,他杀死了伐致犀那的御者,并斩断了他的弓。
7.44.6
तं च विव्याध बलवांस्तस्य चाश्वानजिह्मगैः ।
वातायमानैस्तैरश्वैर्विसंज्ञोऽपहृतो रणात् ॥ ७.४४.६ ॥
那位强者用笔直的箭射中了他和他的马;他失去知觉,被那些疾如风的马带离了战场。
7.44.7
तेनान्तरेणाभिमन्योर्यन्तापासारयद्रथम् ।
रथव्रजास्ततो हृष्टाः साधुसाध्विति चुक्रुशुः ॥ ७.४४.७ ॥
这时,阿毗曼尤的御者将战车驱离。随后车兵们欢喜不已,齐声喊道:“好!好!”
7.44.8
तं सिंहमिव सङ्क्रुद्धं प्रमथ्नन्तं शरैररीन् ।
आरादायान्तमभ्येत्य वसातीयोऽभ्ययाद्द्रुतम् ॥ ७.४४.८ ॥
那人如愤怒的狮子,以箭摧击敌人,从远处而来,婆萨提武士迅速迎上前去攻击他。
7.44.9
सोऽभिमन्युं शरैः षष्ट्या रुक्मपुङ्कैरवाकिरत् ।
अब्रवीच्च न मे जीवञ्जीवतो युधि मोक्ष्यसे ॥ ७.४४.९ ॥
他以六十支金羽箭射向阿毗曼尤,说道:“只要我活着,你在战场上便不能活着脱身。”
7.44.10
तमयस्मयवर्माणमिषुणा दूरपातिना ।
विव्याध हृदि सौभद्रः स पपात व्यसुः क्षितौ ॥ ७.४४.१० ॥
那身穿铁甲的人,被苏跋德拉之子以远飞之箭射中胸膛,他断气倒在地上。
7.44.11
वसातीयं हतं दृष्ट्वा क्रुद्धाः क्षत्रियपुङ्गवाः ।
परिवव्रुस्तदा राजंस्तव पौत्रं जिघांसवः ॥ ७.४४.११ ॥
见婆萨提被杀,诸刹帝利中的勇士们愤怒不已,大王啊,便围住了你的孙子,想要杀他。
7.44.12
विष्फारयन्तश्चापानि नानारूपाण्यनेकशः ।
तद्युद्धमभवद्रौद्रं सौभद्रस्यारिभिः सह ॥ ७.४४.१२ ॥
他们张开各式各样的弓,多方施展,苏跋德拉之子与敌人的那场战斗变得惨烈可怖。
7.44.13
तेषां शरान्सेष्वसनाञ्शरीराणि शिरांसि च ।
सकुण्डलानि स्रग्वीणि क्रुद्धश्चिच्छेद फाल्गुनिः ॥ ७.४४.१३ ॥
愤怒的法尔古尼(阿周那)砍断了他们的箭、箭袋和弓,以及带着耳环和花环的身体与头颅。
7.44.14
सखङ्गाः साङ्गुलित्राणाः सपट्टसपरश्वथाः ।
अदृश्यन्त भुजाश्छिन्ना हेमाभरणभूषिताः ॥ ७.४४.१४ ॥
断臂显现出来,戴着金饰,手中仍握着剑、指护、护带和斧。
7.44.15
स्रग्भिराभरणैर्वस्त्रैः पतितैर्विविधैर्ध्वजैः ।
वर्मभिश्चर्मभिर्हारैर्मुकुटैश्छत्रचामरैः ॥ ७.४४.१५ ॥
大地上散落着花环、饰物、衣服、各式倒下的旗帜、铠甲、盾牌、项链、王冠、伞盖和牦牛尾拂尘。
7.44.16
उपस्करैरधिष्ठानैरीषादण्डकबन्धुरैः ।
अक्षैर्विमथितैश्चक्रैर्भग्नैश्च बहुधा युगैः ॥ ७.४४.१६ ॥
大地上覆盖着战车的部件、车台、车辕和轭、压碎的车轴与车轮,以及多处断裂的车轭。
7.44.17
अनुकर्षैः पताकाभिस्तथा सारथिवाजिभिः ।
रथैश्च भग्नैर्नागैश्च हतैः कीर्णाभवन्मही ॥ ७.४४.१७ ॥
大地上散落着车辕、旗帜、御者与马匹、破碎的战车以及被杀的象。
7.44.18
निहतैः क्षत्रियैः शूरैर्नानाजनपदेश्वरैः ।
जयगृद्धैर्वृता भूमिर्दारुणा समपद्यत ॥ ७.४४.१८ ॥
大地被渴望胜利的众多王国的英勇刹帝利的尸体覆盖,变得可怖。
7.44.19
दिशो विचरतस्तस्य सर्वाश्च प्रदिशस्तथा ।
रणेऽभिमन्योः क्रुद्धस्य रूपमन्तरधीयत ॥ ७.४४.१९ ॥
在战场上,愤怒的阿毗曼纽巡行于一切方向与隅角之间,他的形体便消失了。
7.44.20
काञ्चनं यद्यदस्यासीद्वर्म चाभरणानि च ।
धनुषश्च शराणां च तदपश्याम केवलम् ॥ ७.४४.२० ॥
我们只能看见他那金色的甲胄与饰物,以及弓与箭。
7.44.21
तं तदा नाशकत्कश्चिच्चक्षुर्भ्यामभिवीक्षितुम् ।
आददानं शरैर्योधान्मध्ये सूर्यमिव स्थितम् ॥ ७.४४.२१ ॥
那时无人能用眼睛正视他;他以箭擒捕战士,立于阵中,如同太阳一般。