Vedyatra वेदयात्रा
検索

マハーバーラタ · 章 7.45

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

語の意味つきで読む

7.45.1

आददानस्तु शूराणामायुंष्यभवदार्जुनिः ।
अन्तकः सर्वभूतानां प्राणान्काल इवागते ॥ ७.४५.१ ॥

しかしアルジュナの息子は英雄たちの命を奪い始めた。まるで万物の終末たる時が来たかのように。

7.45.2

स शक्र इव विक्रान्तः शक्रसूनोः सुतो बली ।
अभिमन्युस्तदानीकं लोडयन्समदृश्यत ॥ ७.४५.२ ॥

インドラのように勇猛な、インドラの子(アルジュナ)の力強い息子アビマニユは、その時、軍を揺さぶりながら姿を現した。

7.45.3

प्रविश्यैव तु राजेन्द्र क्षत्रियेन्द्रान्तकोपमः ।
सत्यश्रवसमादत्त व्याघ्रो मृगमिवोल्बणः ॥ ७.४५.३ ॥

王の中の王よ、彼は入るやいなや、クシャトリヤの首長たちにとっての死神のように、猛虎が鹿に襲いかかるごとくサティヤシュラヴァスに飛びかかった。

7.45.4

सत्यश्रवसि चाक्षिप्ते त्वरमाणा महारथाः ।
प्रगृह्य विपुलं शस्त्रमभिमन्युमुपाद्रवन् ॥ ७.४५.४ ॥

サティヤシュラヴァスが打ち倒されると、急いで駆けつけた大戦車兵たちは巨大な武器を手にアビマニユへ殺到した。

7.45.5

अहंपूर्वमहंपूर्वमिति क्षत्रियपुङ्गवाः ।
स्पर्धमानाः समाजग्मुर्जिघांसन्तोऽर्जुनात्मजम् ॥ ७.४५.५ ॥

「私が先だ、私が先だ」と、クシャトリヤの雄牛たちは競い合い、アルジュナの息子を殺そうと集まってきた。

7.45.6

क्षत्रियाणामनीकानि प्रद्रुतान्यभिधावताम् ।
जग्राह तिमिरासाद्य क्षुद्रमत्स्यानिवार्णिवे ॥ ७.४५.६ ॥

逃げ散るクシャトリヤの軍勢が彼に向かって殺到すると、彼は暗い大海で小魚を捕らえるように、それらを捕らえた。

7.45.7

ये केचन गतास्तस्य समीपमपलायिनः ।
न ते प्रतिन्यवर्तन्त समुद्रादिव सिन्धवः ॥ ७.४५.७ ॥

逃げて彼のもとへ行った者は誰も戻らなかった。海から川が戻らないように。

7.45.8

महाग्रहगृहीतेव वातवेगभयार्दिता ।
समकम्पत सा सेना विभ्रष्टा नौरिवार्णवे ॥ ७.४५.८ ॥

大いなる星に捕らえられたかのように、風の勢いへの恐怖に苛まれ、その軍勢は震えた。海で迷った舟のように。

7.45.9

अथ रुक्मरथो नाम मद्रेश्वरसुतो बली ।
त्रस्तामाश्वासयन्सेनामत्रस्तो वाक्यमब्रवीत् ॥ ७.४५.९ ॥

そのとき、マドラ王の勇士の子ルクマラタは、怯えた軍勢を励まし、恐れなくこの言葉を述べた。

7.45.10

अलं त्रासेन वः शूरा नैष कश्चिन्मयि स्थिते ।
अहमेनं ग्रीहष्यामि जीवग्राहं न संशयः ॥ ७.४५.१० ॥

勇士たちよ、恐れるな。私が立っている限り、何も恐れることはない。彼を生け捕りにしよう、疑いはない。

7.45.11

एवमुक्त्वा तु सौभद्रमभिदुद्राव वीर्यवान् ।
सुकल्पितेनोह्यमानः स्यन्दनेन विराजता ॥ ७.४५.११ ॥

こう言うと、その勇者はスバドラーの子へ突進した。よく整えられた輝く戦車に引かれて。

7.45.12

सोऽभिमन्युं त्रिभिर्बाणैर्विद्ध्वा वक्षस्यथानदत् ।
त्रिभिश्च दक्षिणे बाहौ सव्ये च निशितैस्त्रिभिः ॥ ७.४५.१२ ॥

三本の矢でアビマニユの胸を射抜き、雄叫びを上げた。さらに三本の鋭い矢で右腕と左腕をも。

7.45.13

स तस्येष्वसनं छित्त्वा फाल्गुनिः सव्यदक्षिणौ ।
भुजौ शिरश्च स्वक्षिभ्रु क्षितौ क्षिप्रमपातयत् ॥ ७.४५.१३ ॥

彼の弓を断ち切り、パールグニの息子は左右の両腕と、目と眉のついた頭を、すぐさま地に落とした。

7.45.14

दृष्ट्वा रुक्मरथं रुग्णं पुत्रं शल्यस्य मानिनम् ।
जीवग्राहं जिघृक्षन्तं सौभद्रेण यशस्विना ॥ ७.४५.१४ ॥

黄金の戦車を持つ、傲慢で傷ついたシャリヤの息子が、生け捕りにしようと欲しているのを見て、栄光あるスバドラーの息子は……

7.45.15

सङ्ग्रामदुर्मदा राजन्राजपुत्राः प्रहारिणः ।
वयस्याः शल्यपुत्रस्य सुवर्णविकृतध्वजाः ॥ ७.४५.१५ ॥

王よ、戦の狂気に酔い、打ち掛かる、シャリヤの息子の友である王子たちは、金で飾られた旗を持っていた……

7.45.16

तालमात्राणि चापानि विकर्षन्तो महाबलाः ।
आर्जुनिं शरवर्षेण समन्तात्पर्यवारयन् ॥ ७.४५.१६ ॥

椰子の木ほどもある弓を引く大力の勇士たちは、矢の雨でアルジュナの息子を四方から取り囲んだ。

7.45.17

शूरैः निक्षाबलोपेतैस्तरुणैरत्यमर्षणैः ।
दृष्ट्वैकं समरे शूरं सौभद्रमपराजितम् ॥ ७.४५.१७ ॥

戦で不敗の、ただ一人の英雄スバドラーの息子を見て、若く力に満ち、激しく怒った勇士たちは(彼を取り囲んだ)。

7.45.18

छाद्यमानं शरव्रातैर्हृष्टो दुर्योधनोऽभवत् ।
वैवस्वतस्य भवनं गतं ह्येममन्यत ॥ ७.४५.१८ ॥

矢の群れに覆われる彼を見て、ドゥルヨーダナは喜んだ。彼は、この者は確かにヴァイヴァスヴァタ(ヤマ)の館へ行ったのだと考えた。

7.45.19

सुवर्णपुङ्खैरिषुभिर्नानालिङ्गैः सुतेजनैः ।
अदृश्यमार्जुनिं चक्रुर्निमेषात्ते नृपात्मजाः ॥ ७.४५.१९ ॥

金の羽根を持つ、さまざまな印の、よく研がれた矢で、その王子たちは瞬時にアルジュナを見えなくした。

7.45.20

ससूताश्वध्वजं तस्य स्यन्दनं तं च मारिष ।
आचितं समपश्याम श्वाविधं शललैरिव ॥ ७.४५.२० ॥

尊き方よ、我々は彼の戦車を、御者、馬、旗もろとも、ヤマアラシの棘のように矢に覆われて見た。

7.45.21

स गाढविद्धः क्रुद्धश्च तोत्रैर्गज इवार्दितः ।
गान्धर्वमस्त्रमायच्छद्रथमायां च भारत ॥ ७.४५.२१ ॥

深く傷つき怒り狂い、鉤で苦しめられた象のように、バーラタよ、彼はガンダルヴァの武器を手に取り、戦車を広げた。

7.45.22

अर्जुनो तपस्तप्त्वा गन्धर्वेभ्यो यदाहृतम् ।
तुम्बुरुप्रमुखेभ्यो वै तेनामोहयताहितान् ॥ ७.४५.२२ ॥

アルジュナは苦行を積み、ガンダルヴァたち、特にトゥンブルらから授かったものにより、敵を惑わせた。

7.45.23

एकधा शतधा राजन्दृश्यते स्म सहस्रधा ।
अलातचक्रवत्सङ्ख्ये क्षिप्रमस्त्राणि दर्शयन् ॥ ७.४५.२३ ॥

王よ、戦いで彼は一つに、百に、千に見え、回る火輪のように速やかに武器を示した。

7.45.24

रथचर्यास्त्रमायाभिर्मोहयित्वा परन्तपः ।
बिभेद शतधा राजञ्शरीराणि महीक्षिताम् ॥ ७.४५.२४ ॥

戦車の機動、武器、幻術で彼らを惑わせた後、敵を苦しめるその英雄は、王よ、王たちの身体を百に切り裂いた。

7.45.25

प्राणाः प्राणभृतां सङ्ख्ये प्रेषिता निशितैः शरैः ।
राजन्प्रापुरसुं लोकं शरीराण्यवनिं ययुः ॥ ७.४५.२५ ॥

王よ、戦場で鋭い矢によって送り出された生き物の命の息は、死者の世界に至り、身体は大地へ倒れた。

7.45.26

धनूंष्यश्वान्नियन्तॄंश्च ध्वजान्बाहूंश्च साङ्गदान् ।
सिरांसि च शितैर्बाणैस्तेषां चिच्छेद फाल्गुनिः ॥ ७.४५.२६ ॥

パールグナの息子は鋭い矢で、彼らの弓、馬、御者、旗、腕輪をつけた腕、そして頭を切り落とした。

7.45.27

चूतारामो यथा भग्नः पञ्चवर्षः फलोपगः ।
राजपुत्रशतं तद्वत्सौभद्रेण निपातितम् ॥ ७.४५.२७ ॥

五年生で実をつけたマンゴーの林が折られるように、スバドラーの子によって百人の王子は倒された。

7.45.28

क्रुद्धाशीविषसङ्काशान्सुकुमारान्सुखोचितान् ।
एकेन निहतान्दृष्ट्वा भीतो दुर्योधनोऽभवत् ॥ ७.४५.२८ ॥

怒れる毒蛇のようで、柔らかく安楽に慣れた王子たちが一人によって殺されたのを見て、ドゥルヨーダナは怖れた。

7.45.29

रथिनः कुञ्जरानश्वान्पदातींश्चावमर्दितान् ।
दृष्ट्वा दुर्योधनः क्षिप्रमुपायात्तममर्षितः ॥ ७.४५.२९ ॥

戦車兵、象、馬、歩兵が踏みにじられたのを見て、ドゥルヨーダナは怒りに燃えて速やかにそこへ向かった。

7.45.30

तयोः क्षणमिवापूर्वः सङ्ग्रामः समपद्यत ।
अथाभवत्ते विमुखः पुत्रः शरशताहतः ॥ ७.४५.३० ॥

二人の間で一瞬、前例のない戦いが起こった。やがてあなたの息子は数百の矢に射られ、背を向けた。