Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 7.49

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

7.49.1

विष्णोः स्वसुर्नन्दकरः स विष्ण्वायुधभूषणः ।
रराजातिरथः सङ्ख्ये जनार्दन इवापरः ॥ ७.४९.१ ॥

他令毗湿奴之妹欢喜,以毗湿奴的兵器为饰,这位大战车武士在战场上如另一位Janārdana般闪耀。

7.49.2

मारुतोद्धूतकेशान्तमुद्यतारिवरायुधम् ।
वपुः समीक्ष्य पृथ्वीशा दुःसमीक्ष्यं सुरैरपि ॥ ७.४९.२ ॥

看到那形象,发丝被风吹散,高举敌人的最佳武器,即使诸神也难以直视,大地之王们(感到恐惧)。

7.49.3

यदि पाणितलादेतच्चक्रं मुञ्चेत फाल्गुनिः ।
वरदानान्मातुलस्य विष्णोश्चक्रमिवापतेत् ॥ ७.४९.३ ॥

若法尔古尼(阿周那)从掌中放出这枚飞轮,凭借舅舅所赐之恩,它会如毗湿奴之轮一般落下。

7.49.4

तच्चक्रं भृशमुद्विग्नाः संचिच्छिदुरनेकधा ।
महारथस्ततः कार्ष्मिः स जग्राह महागदाम् ॥ ७.४९.४ ॥

他们极度惊惶,将那飞轮斩成许多碎片。于是大战车武士、黑天之子(阿毗曼尤)拿起了大棍棒。

7.49.5

विधनुःस्यन्दनासिस्तैर्विचक्रश्चारिभिः कृतः ।
अभिमन्युर्गदापाणिरश्वत्थामानमार्दयत् ॥ ७.४९.५ ॥

阿毗曼尤被敌人夺去弓、车、剑与轮,手持棍棒,击打阿湿婆摩。

7.49.6

स गदामुद्यतां दृष्ट्वा ज्वलन्तीमशनीमिव ।
अपाक्रामद्रथोपस्थाद्विक्रमांस्त्रीन्नरर्षभः ॥ ७.४९.६ ॥

他看见那高举的棍棒,燃烧如雷电,这位人中之牛从车座上后退了三步。

7.49.7

तस्याश्वान्गदया हत्वा तथोभौ पार्ष्णिसारथी ।
शराचिताङ्गः सौभद्रः श्वाविद्वत्समदृश्यत ॥ ७.४९.७ ॥

他用钺杖击毙了对方的马匹,也杀死了其两名后方御者。苏跋陀罗之子身上插满箭矢,看上去像一只豪猪。

7.49.8

ततः सुबलदायादं कालिकेयमपोथयत् ।
जघान चास्यानुचरान्गान्धारान्सप्तसप्ततिम् ॥ ७.४९.८ ॥

随后他碾碎了苏跋罗的继承者迦利刻耶,并杀死了他的七十七名犍陀罗随从。

7.49.9

पुनश्चैव वसातीयाञ्जघान रथिनो दश ।
केकयानां रथान्सप्त हत्वा च दश कुञ्जरान्।
दौःशासनिरथं साश्वं गदया समपोथयत् ॥ ७.४९.९ ॥

他又杀死了十名瓦萨蒂车战武士,摧毁了七辆克伽耶人的战车,杀死十头象,并用钺杖将难近之子的战车连同马匹彻底碾碎。

7.49.10

ततो दौःशसनिः क्रुद्धो गदामुद्यम्य मारिष ।
अभिदुद्राव सौभद्रं तिष्ठतिष्ठेति चाब्रवीत् ॥ ७.४९.१० ॥

于是愤怒的难近之子举起钺杖,陛下,向苏跋陀罗之子猛冲过去,喊道:“站住,站住!”

7.49.11

तावुद्यतगदौ वीरावन्योन्यवधकाङ्क्षिणौ ।
भ्रातृव्यौ सम्प्रजहाते पुरेव त्र्यम्बकान्धकौ ॥ ७.४९.११ ॥

那两位英雄高举钺杖,彼此都欲置对方于死地,作为堂兄弟的仇敌相互冲撞,就像往昔的三眼神与安陀迦一样。

7.49.12

तावन्योन्यं गदाग्राभ्यामाहत्य पतितौ क्षितौ ।
इन्द्रध्वजाविवोत्सृष्टौ रणमध्ये परंतपौ ॥ ७.४९.१२ ॥

二人以钺杖的尖端相互击打,在战场中央倒地,宛如被掷落的因陀罗旗幡,这两位都是焚烧敌人的英雄。

7.49.13

दौःशासनिरथोत्थाय कुरूणां कीर्तिवर्धनः ।
उत्तिष्ठमानं सौभद्रं गदया मूर्ध्न्यताडयत् ॥ ७.४९.१३ ॥

杜沙桑之子从战车上站起,增添俱卢族的荣耀,用铁锤击中了正在起身的娑毗陀罗之子(阿毗曼尤)的头部。

7.49.14

गदावेगेन महता व्यायामेन च मोहितः ।
विचेता न्यपतद्भूमौ सौभद्रः परवीरहा ॥ ७.४९.१४ ॥

因铁锤的巨大力量与疲劳而昏迷,失去知觉,杀敌英雄的娑毗陀罗之子(阿毗曼尤)倒在地上。

7.49.15

एवं विनिहतो राजन्नेको बहुभिराहवे ।
क्षोभयित्वा चमूं सर्वां नलिनीमिव कुञ्जरः ॥ ७.४९.१५ ॥

大王啊,他就这样孤身一人在战斗中被众人击杀,犹如大象搅动莲花池一般,搅乱了全军。

7.49.16

अशोभत हतो वीरो व्याधैर्वनगजो यथा ।
तं तथा पतितं शूरं तावकाः पर्यवारयन् ॥ ७.४९.१६ ॥

犹如被猎人射杀的野象,那位英雄仍然闪耀;那倒下的英雄就这样被你的人马包围了。

7.49.17

दावं दग्ध्वा यथा शान्तं पावकं शिशिरात्यये ।
विमृद्व्य नगशृङ्गाणि सन्निवृत्तमिवानिलम् ॥ ७.४९.१७ ॥

犹如烧尽山林的野火,在寒冬将尽时熄灭;又如摧折山峰之后返回的狂风。

7.49.18

अस्तिं गतमिवादित्यं तप्त्वा भारत वाहिनीम् ।
उपप्लुतं यथा सोमं संशुष्कमिव सागस्म् ॥ ७.४९.१८ ॥

婆罗多啊,如太阳灼热了军队后落山,如月亮被日食所蚀,如枯竭的大海。

7.49.19

पूर्णचन्द्राभवदनं काकपक्षवृतालिकम् ।
तं भूमौ पतितं दृष्ट्वा तावकास्ते महारथाः।
मुदा परमया युक्ताश्चुक्रुशुः सिंहवन्मुहुः ॥ ७.४९.१९ ॥

他面如满月,发丝为乌鸦之翼所覆,倒卧于地。你的大车勇士见之,满怀至高的喜悦,如狮子般一再咆哮。

7.49.20

आसीत्परमको हर्षस्तावकानां विशाम्पते ।
इतरेषां तु वीराणां नेत्रेभ्यः प्रापतज्जलम् ॥ ७.४९.२० ॥

人主啊,你的战士们生出了至高的喜悦,而其他英雄的眼中却流下了泪水。

7.49.21

अन्तरिक्षे च भूतानि प्राक्रोशन्त विशाम्पते ।
दृष्ट्वा निपतितं वीरं च्युतं चन्द्रमिवाम्बरात् ॥ ७.४९.२१ ॥

人主啊,天空中的众生齐声哭喊,见那英雄倒下,如同月亮从天空坠落。

7.49.22

द्रोणकर्णमुखैः षड्भिर्धार्तराष्ट्रैर्महारथैः ।
एकोऽयं निहतः शेते नैष धर्मो मतो हि नः ॥ ७.४९.२२ ॥

这一人孤身被德罗纳、迦尔纳为首的六位大车勇士,即持国之子所杀而倒卧;在我们看来,这不是法。

7.49.23

तस्मिन्विनिहते वीरे बह्वशोभत मेदिनी ।
द्यौर्यथा पूर्णचन्द्रेण नक्षत्रगणमालिनी ॥ ७.४९.२३ ॥

那位英雄被杀之时,大地光彩夺目,如同天空被满月与星群之环所装点。

7.49.24

रुक्मपुङ्खैश्च सम्पूर्णा रुधिरौघपरिप्लुता ।
उत्तमाङ्गैश्च शूराणां भ्राजमानैः सकुण्डलैः ॥ ७.४९.२४ ॥

满布金羽之箭,浸透血流,并散落着英雄们戴着耳环、闪闪发光的头颅。

7.49.25

विचित्रैश्च परिस्तोमैः पताकाभिश्च संवृता ।
चामरैश्च कुथाभिश्च प्रविद्धैश्चाम्बरोत्तमैः ॥ ७.४९.२५ ॥

地面覆盖着色彩斑斓的装饰布、旗幡、牦牛尾拂、鞍褥,以及被抛弃的上等衣物。

7.49.26

रथाश्वनरनागानामलङ्कारैश्च सुप्रभैः ।
खङ्गैः सुनिशितैः पीतैर्निर्मुक्तैर्भुजगैरिव ॥ ७.४९.२६ ॥

以车、马、人与象的饰物,以及极其锋利、闪亮的刀剑——它们横陈着,如同蜕去皮的蛇。

7.49.27

चापैश्च विविधैश्छिन्नैः शक्त्यृष्टिप्रासकम्पनैः ।
विविधैश्चायुधैश्चान्यैः संवृता भूरशोभत ॥ ७.४९.२७ ॥

大地上覆盖着各式断裂的弓、颤动的枪矛、标枪与长矛,以及众多其他兵器,显得光彩夺目。

7.49.28

निष्टनद्भिरतीवान्यैरुद्वहद्रुधिरस्रवैः ।
नरैः पतद्भिः पतितैरवनी स्वधिकं बभौ ॥ ७.४९.२८ ॥

大地更加光彩夺目——其他人痛苦呻吟,人们倒下,已倒下者流着血河。

7.49.29

वाजिभिश्चापि निर्जीवैः श्वसद्भिः शोणितोक्षितैः ।
सारोहैर्विषमा भूमिः सौभद्रेण निपातितैः ॥ ७.४९.२९ ॥

大地因被苏跋陀罗之子击倒的马匹——无生气、仍在喘息、沾满鲜血的马匹,以及它们的骑手——而变得凹凸不平。

7.49.30

साङ्कुशैः समहामात्रैः सर्वमायुधकेतुभिः ।
पर्वतैरिव विध्वस्तैर्विशिखैर्मथितैर्गजैः ॥ ७.४९.३० ॥

连同象钩与象夫,连同各种兵器与旗帜,还有被箭矢打碎、如山崩倒的象群。

7.49.31

पृथिव्यानुकीर्णैश्च अश्वसारथियोधिभिः ।
हदैरिव प्रक्षुभितैर्हृतनागै रथोत्तमैः ॥ ७.४९.३१ ॥

散落于大地的马匹、御者与战士,如同被搅动的湖泊,连同象已被杀死的上乘战车。

7.49.32

पदातिसङ्घैश्च हतैर्विविधायुधभूषणैः ।
भीरूणां त्रासजननी घोररूपाऽभवन्मही ॥ ७.४९.३२ ॥

步兵大军被杀,饰以各式兵器与装饰,大地变得形貌可怖,令怯懦者生惧。

7.49.33

तं दृष्ट्वा पतितं भूमौ चन्द्रार्कसदृशद्युतिम् ।
तावकानां परा प्रीतिः पाण्डूनां चाभवद्व्यथा ॥ ७.४९.३३ ॥

见他倒卧于地,光彩如日月,你方之人大喜,般度之子则痛苦不已。

7.49.34

अभिमन्यौ हते राजञ्शिशुकेऽप्राप्तयौवने ।
सम्प्राद्रवच्चमूः सर्वा धर्मराजस्य पश्यतः ॥ ७.४९.३४ ॥

大王!阿毗曼尤尚未成年,被杀之时,法王亲眼看着,全军溃散而逃。

7.49.35

दीर्यमाणं बलं दृष्ट्वा सौभद्रे विनिपातिते ।
अजातशत्रुस्तान्वीरानिदं वचनमब्रवीत् ॥ ७.४९.३५ ॥

见阿周那之子被击倒,军队四散,未敌王对那些勇士说了这番话。

7.49.36

स्वर्गमेष गतः शूरो यो हतो न पराङ्मुखः ।
संस्तम्भयत माभैष्ट विजेष्यामो रणे रिपून् ॥ ७.४९.३६ ॥

此英雄不背身而死,已升天界。你们要坚定,不要害怕;我们将在战场上战胜敌人。

7.49.37

इत्येवं स महातेजा दुःखितेभ्यो महाद्युतिः ।
धर्मराजो युधां श्रेष्ठो ब्रुवन्दुःखमपानुदत् ॥ ७.४९.३७ ॥

如此,大光明、大威光的法王,诸战士中的最优者,对悲伤者说话,驱散了他们的忧愁。

7.49.38

युद्धे ह्याशीविषाकारान्राजपुत्रान्रणे रिपून् ।
पूर्वं निहत्य सङ्ग्रामे पश्चादार्जुनिरभ्ययात् ॥ ७.४९.३८ ॥

他先在战斗中杀死了如毒蛇般的王子与敌人,然后阿周那之子在战场上向前冲去。

7.49.39

हत्वा दशसहस्राणि कौसल्यं च महारथम् ।
कृष्णार्जुनसमः कार्ष्णिः शक्रलोकं गतो ध्रुवम् ॥ ७.४९.३९ ॥

杀死了一万人,又杀死了大车将考萨利耶,与黑天、阿周那相等的迦尔什尼无疑已前往因陀罗之界。

7.49.40

रथाश्वनरमातङ्गान्विनिहत्य सहस्रशः ।
अवितृप्तः स सङ्ग्रामादशोच्यः पुण्यकर्मकृत्। ॥ ७.४९.४० ॥

在战斗中不知满足,以千计杀死车马、人与象,作功德的人不值得悲伤。

7.49.41

गतः पुण्यकृतां लोकाञ्शाश्वतान्पुण्यनिर्जितान् ॥ ७.४९.४१ ॥

他去往作功德者的永恒世界,那是以功德赢得的。