Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 7.5

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

7.5.1

रथस्थं पुरुषव्याघ्रं दृष्टा कर्णमवस्थितम् ।
हृष्टो दुर्योधनो राजन्निदं वचनमब्रवीत् ॥ ७.५.१ ॥

大王!见迦尔纳——人中之虎——立于战车之上,欢喜的难敌说了这些话。

7.5.2

सनाथमिव मन्येऽहं भवता पालितं बलम् ।
अत्र किं नु समर्थं यद्धितं तत्सम्प्रधार्यताम् ॥ ७.५.२ ॥

我觉得这支由你守护的军队,仿佛有了主帅。现在应当仔细考虑此处何者可行、何者有利。

7.5.3

ब्रूहि नः पुरुषव्याघ्र त्वं हि प्राज्ञतमो नृषु ।
यथा चार्थपतिः कृत्यं पश्यते न तथेतरः ॥ ७.५.३ ॥

人中之虎啊,请告诉我们,因为你是人中最有智慧的。正如事务的主人能看清应做之事,他人则不能如此看清。

7.5.4

ते स्म सर्वे तव वचः श्रोतुकामा नरेश्वर ।
नान्याय्यं हि भवान्वाक्यं ब्रूयादिति मतिर्मम ॥ ७.५.४ ॥

人主啊,我们都渴望听到你的话语。我认为你不会说出不恰当的话。

7.5.5

भीष्मः सेनाप्रणेताऽऽसीद्वयसा विक्रमेण च ।
श्रुतेन चोपसम्पन्नः सर्वैर्योधगणैस्तथा ॥ ७.५.५ ॥

毗湿摩是军队的统帅,具有年长、勇武、学识,并具备诸战士群体的一切美德。

7.5.6

तेनातियशसा कर्ण घ्नता शत्रुगणान्मम ।
सुयुद्धेन दशाहानि पालिताः स्मो महात्मना ॥ ७.५.६ ॥

迦尔纳啊,那位大名远扬的大德者,斩杀我敌方诸军,以其精湛的战斗,在十日间保护了我们。

7.5.7

तस्मिन्नसुकरं कर्म कृतवत्यास्थिते दिवम् ।
कं तु सेनाप्रणेतारं मन्यसे तदनन्तरम् ॥ ७.५.७ ॥

他完成了那艰难的功业并升天之后,你认为谁是其后的军队统帅?

7.5.8

न विना नायकं सेना मुहूर्तमपि तिष्ठति ।
आहवेषु विशेषेण भ्रष्टनेत्रेष्विवाञ्जनम्।
आहवेष्वाहवश्रेष्ठ नेतृहीनेव नौर्जले ॥ ७.५.८ ॥

没有统帅,军队连片刻也站不住,尤其是在战斗中,就像失明者不需要眼影一样无用。战士中的最优秀者啊,没有统领的军队就像水中没有舵手的船。

7.5.9

यथा ह्यकर्णधारा नौ रथश्चासारथिर्यथा ।
द्रवेद्यथेष्टं तद्वत्स्यादृते सेनापतिं बलम् ॥ ७.५.९ ॥

就像没有舵手的船、没有御者的车随意奔走一样,没有统帅的军队也会如此。

7.5.10

अदेशिको यथा सार्थः सर्वः कृच्छ्रं समृच्छति ।
अनायका तथा सेना सर्वान्दोषान्समर्च्छति ॥ ७.५.१० ॥

就像没有向导的商队会遭遇各种困苦,没有统帅的军队也会陷入种种弊端。

7.5.11

स भावन्वीक्ष्य सर्वेषु मामकेषु महात्मसु ।
पश्य सेनापतिं युक्तमनु शान्तनवादिह ॥ ७.५.११ ॥

在我所有的伟大族人中仔细考虑,看看在山塔努之子之后,谁适合担任统帅。

7.5.12

यं हि सेनाप्रमेतारं भवान्वक्ष्यति संयुगे ।
तं वयं सहिताः सर्वे करिष्यामो न संशयः। ॥ ७.५.१२ ॥

你在战斗中所指定的统帅,我们大家齐心协力都会使他就任,这一点毫无疑问。

7.5.13

सर्व एव महात्मान इमे पुरुषसत्तमाः ।
सेनापतित्वमर्हन्ति नात्र कार्या विचारणा ॥ ७.५.१३ ॥

这些大德之人,都是人中之最,都配任统帅,此事无须再议。

7.5.14

कुलसंहननज्ञानैर्बलविक्रमबुद्धिभिः ।
युक्ताः श्रुतज्ञा धीमन्त आहवेष्वनिवर्तिनः ॥ ७.५.१४ ॥

出身高贵,体格强健,博学、有力、勇武、智慧,精通圣典,明智,在战斗中从不后退。

7.5.15

युगपन्न तु ते शक्याः कर्तुं सर्वे पुरःसराः ।
एक एव तु कर्तव्यो यस्मिन्वैशेषिका गुणाः ॥ ७.५.१५ ॥

不能同时让他们全部为统帅;应当只任命一人,那人身上具备特殊的德行。

7.5.16

अन्योन्यस्पर्धिनां ह्येषां यद्येकं त्वं करिष्यसि ।
शेषा विमनसो व्यक्तं न योत्स्यन्ति हितास्तव ॥ ७.५.१६ ॥

若你选定其中一人,其余彼此竞争的人必定心怀不满,虽是你的友人,也不会真心作战。

7.5.17

अयं च सर्वयोधानामाचार्यः स्थिवरो गुरुः ।
युक्तः सेनापतिः कर्तुं द्रोणः शस्त्रभृतां वरः ॥ ७.५.१७ ॥

德罗纳是所有战士的导师、年长的尊师,是持兵器者中最优秀的,堪任统帅。

7.5.18

को हि तिष्ठति दुर्धर्षे द्रोणे शस्त्रभृतां वरे ।
सेनापतिःस्यादन्योस्माच्छुक्राङ्गिरसदर्शनात् ॥ ७.५.१८ ॥

无人能敌的德罗纳,是持兵器者中最优秀的,谁能站在他面前?除了他这位有如苏克拉与安吉罗娑般洞察力的人,还有谁能做统帅?

7.5.19

न च सोऽप्यस्ति ते योधः सर्वराजसु भारत ।
द्रोणं यः समरे यान्तमनुयास्यति संयुगे ॥ ७.५.१९ ॥

婆罗多啊,在所有国王之中,没有你的战士能够在Droṇa前往战场时跟随他。

7.5.20

एष सेनाप्रणेतॄणामेष शस्त्रभृतामपि ।
एष बुद्धिमतां चैव श्रेष्ठो राजन्गुरुस्तव ॥ ७.५.२० ॥

他是军队统帅中、持武器者中,也是智者中最优秀的。国王啊,他就是你的老师。

7.5.21

एवं दुर्योधनाचार्यमाशु सेनापतिं कुरु ।
जिगीषन्तो सुरान्सङ्ख्ये कार्तिकेयमिवामराः ॥ ७.५.२१ ॥

因此,请迅速任命难敌的老师为军队统帅,正如那些渴望在战斗中战胜诸神的不死者任命室建陀为统帅一样。