摩诃婆罗多 · 章 7.52
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
7.52.1
एवं विलपमाने तु कुन्तीपुत्रे युधिष्ठिरे ।
कृष्णद्वैपायनस्तत्र आजगाम महानृषिः ॥ ७.५२.१ ॥
当昆提之子坚战如此哀叹时,大仙克利须那·德瓦帕亚那来到了那里。
7.52.2
अथ दृष्ट्वा महात्मानं पाण्डुपुत्रो युधिष्ठिरः ।
युक्तासनो दीनमनाः पूजां चक्रे महात्मनः ॥ ७.५२.२ ॥
班度之子坚战见到这位大德,心中悲伤,便让他依礼就座,并恭敬地供养这位大德。
7.52.3
अर्चयित्वा यथान्यायमुपविष्टं युधिष्ठिरः ।
अब्रवीच्छोकसन्तप्तो भ्रातुः पुत्रवधेन च ॥ ७.५२.३ ॥
依礼供养他之后,坚战因兄弟之子被杀而悲痛万分,对端坐的他说道。
7.52.4
अधर्मयुक्तैर्बहुभिः परिवार्य महारथैः ।
युध्यमानो महेष्वासैः सौभद्रो निहतो रणे ॥ ७.५२.४ ॥
被众多不义的大车战士包围,苏跋陀罗之子(阿毗摩竺)奋战,却在战场上被杀。
7.52.5
बालश्च बालबुद्धिश्च वीरश्च परवीरहा ।
अनुपायेन सङ्ग्रामे युध्यमानो विनाशितः ॥ ७.५२.५ ॥
他虽年少、心智幼稚,却是英雄,是敌方英雄的杀手;在战斗中,他却被以不正当的手段所毁灭。
7.52.6
मया प्रोक्तः स सङ्ग्रामे द्वारं सञ्जनयस्व नः ।
प्रविष्टेऽभ्यन्तरे तस्मिन्सैन्धवेन निवारिताः ॥ ७.५२.६ ॥
我曾在战斗中对他说:“为我们开一道门。”当他进入内部之后,信度王(胜车)阻挡了我们。
7.52.7
ननु नाम समं युद्धमेष्टव्यं युद्धजीविभिः ।
इदं चैवासमं युद्धमीदृशं यत्कृतं परैः ॥ ७.५२.७ ॥
诚然,以战为生者应当寻求公平的战斗。然而敌人所进行的这种不公平的战斗,正是如此。
7.52.8
तेनास्मि भृशसन्तप्तः शोकबाष्पसमाकुलः ।
शमं नैवाधिगच्छामि चिन्तयानः पुनः पुनः ॥ ७.५२.८ ॥
因此我深感痛苦,被悲痛和泪水淹没,反复思量此事,却不得平静。
7.52.9
तं तथा विलपन्तं वै शोकव्याकुलमानसम् ।
उवाच सान्त्वयन्व्यासो युधिष्ठिरमिदं वचः ॥ ७.५२.९ ॥
毗耶娑安慰那因悲痛而心神烦乱、如此哀叹的坚战,说了这些话。
7.52.10
युधिष्ठिर महाप्राज्ञ सर्वशास्त्रविशारद ।
व्यसनेषु न मुह्यन्ति त्वादृशा भरतर्षभ ॥ ७.५२.१० ॥
啊,坚战,大智者,精通一切经典,婆罗多族中的雄牛,像你这样的人在灾难中不会迷惑。
7.52.11
स्वर्गमेष गतः शूरः शत्रून्हत्वा बहून्रणे ।
अबालसदृशं कर्म कृत्वा वै पुरुषोत्तमः ॥ ७.५२.११ ॥
这位英雄,人中之最,在战场上杀死众多敌人,做了不像少年而像成年人的壮举,已升天去了。
7.52.12
अनतिक्रमणीयो वै विधिरेष युधिष्ठिर ।
देवदानवगन्धर्वान्मूत्युर्हरति भारत ॥ ७.५२.१२ ॥
坚战啊,这一定律不可违越。婆罗多后裔啊,死亡甚至能带走天神、檀那婆和乾闼婆。
7.52.13
इमे वै पृथिवीपालाः शेरते पृथिवीतले ।
निहताः पृतनामध्ये मृतसंज्ञा महाबलाः ॥ ७.५२.१३ ॥
这些大地的守护者倒卧在地上,在军阵中被杀,力量强大,如今被称为死者。
7.52.14
नागायुतबलाश्चान्ये वायुवेगबलास्तथा ।
त एते निहताः सङ्ख्ये तुल्यरूपा नरैर्नराः ॥ ७.५२.१४ ॥
另一些人拥有万头象的力量和风的速度,也在战斗中倒下;他们都是与其他人形貌相同的人。
7.52.15
नैषां पश्यामि हन्तारं प्राणिनां संयुगे क्वचित् ।
विक्रमेणोपसम्पन्नास्तपोबलसमन्विताः ॥ ७.५२.१५ ॥
我在战斗中从未见到一个活物杀了他们;他们勇猛过人,具备苦行的力量。
7.52.16
जेतव्यमिति चान्योन्यं येषां नित्यं हृदि स्थितम् ।
अथ चेमे हताः प्राज्ञाः शेरते विगतायुषः ॥ ७.५२.१६ ॥
那些心中常怀'须胜过对方'之念的人,这些智者被杀,寿命已尽而躺卧。
7.52.17
मृता इति च शब्दोयं वर्तते च ततोऽर्थवत् ।
इमे मृता महीपालाः प्रायशो भीमविक्रमाः ॥ ७.५२.१७ ॥
'死者'这个词是通用的,也有其意义:这些国王大多威勇可怖,已被杀害。
7.52.18
निश्चेष्टा निरभीमानाः शूराः शत्रुवशंगताः ।
राजपुत्राश्च संरब्धा वैश्वानरमुखं गताः ॥ ७.५२.१८ ॥
英雄们僵卧无动,失去了骄傲,落入敌人之手;而怒气冲冲的王子们则进入了火神毗首婆纳罗的口中。
7.52.19
अत्र मे संशयः प्राप्तः कुतः संज्ञा मृता इति ।
कस्य मृत्युः कुतो मृत्युः केन मृत्युरिमाः प्रजाः।
हरत्यमरसङ्काश तन्मे ब्रूहि पितामह ॥ ७.५२.१९ ॥
此处我心中生疑:他们失去知觉,为何死去?谁的死亡,从何而来的死亡,由谁造成的死亡带走这些众生?如天神般的祖父,请告诉我。
7.52.20
तं तथा परिपृच्छन्तं कुन्तीपुत्रं युधिष्ठिरम् ।
आश्वासनमिदं वाक्यमुवाच भगवानृषिः ॥ ७.५२.२० ॥
对如此发问的昆提之子坚战,尊贵的仙人说出了这些安慰的话语。
7.52.21
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
अकम्पनस्य कथितं नारदेन पुरा नृप ॥ ७.५२.२१ ॥
在这里人们也讲述这个古老的故事,那是那罗陀从前对阿甘帕那所说的,国王啊。
7.52.22
स चापि राजा राजेन्द्र पुत्रव्यसनमुत्तमम् ।
अप्रसह्यतमं लोके प्राप्तवानिति नः श्रुतम् ॥ ७.५२.२२ ॥
那位国王,王中之王啊,我们听说,也在世间遭遇了最高、最难忍的丧子之痛。
7.52.23
तदहं सम्प्रवक्ष्यामि मृत्योः प्रभवमुत्तमम् ।
ततस्त्वं मोक्ष्यसे दुःखात्स्नेहबन्धनसंश्रयात् ॥ ७.५२.२३ ॥
死亡的最高起源,我将为你讲说;那时你将从依恋情爱之缚所生的悲苦中解脱。
7.52.24
समस्तपापराशिघ्नं शृणु कीर्तयतो मम ।
धन्यमाख्यानमायुष्यं शोकघ्नं पुष्टिवर्धनम् ॥ ७.५२.२४ ॥
我诵说时请你倾听:此传说能消除一切罪孽,吉祥,延年益寿,除去忧愁,增益福祉。
7.52.25
पवित्रमरिसङ्घघ्नं पङ्गलानां च मङ्गलम् ।
यथैव वेदाध्ययनमुपाख्यानमिदं तथा ॥ ७.५२.२५ ॥
此篇能净化,能摧毁敌军之众,即使对跛足者也带来吉祥。正如诵习吠陀,此段故事亦复如是。
7.52.26
श्रवणीयं महाराज प्रातर्नित्यं नृपोत्तमैः ।
पुत्रानायुष्मतो राज्यमीहमानैः श्रियं तथा ॥ ७.५२.२६ ॥
大王啊,渴望长寿之子、王国与繁荣的诸位最优秀的国王,应当每日清晨聆听此篇。
7.52.27
पुरा कृतयुगे तात आसीद्राजा ह्यकम्पनः ।
स शत्रुवशमापन्नो मध्ये सङ्ग्राममूर्धनि।
योधयामास बलवान्बद्धश्चासीदकम्पनः ॥ ७.५२.२७ ॥
孩儿啊,往昔在克里塔时代,有一位名叫阿甘帕那的国王。他落入敌人之手,强大的阿甘帕那在战阵前列中奋力作战,阿甘帕那被缚。
7.52.28
तस्य पुत्रो हरिर्नाम नारायणसमो बले ।
श्रीमान्कृतास्त्रो मेधावी युधि शक्रोपमो बली ॥ ७.५२.२८ ॥
他的儿子名叫哈里,力量与那罗延相等。他光辉、精通兵器、智慧,在战场上如因陀罗一般强大。
7.52.29
स दृष्ट्वा पितरं युद्धे तदवस्थं महाद्युतिः ।
अचिन्तयित्वा मरणं शत्रुमध्यं ततोऽविशत् ॥ ७.५२.२९ ॥
他在战场上看到父亲处于那种境地,便不顾死亡,冲入敌人之中。
7.52.30
स शत्रुभिः परिवृतो बहुधा रणमूर्धनि ।
योधयामास तान्सर्वान्सर्वास्त्रकुशलो बली ॥ ७.५२.३० ॥
他被敌人从多方包围,在战阵前列与他们所有人作战;这位强大者精通一切兵器。
7.52.31
वर्षन्बाणसहस्राणि शत्रुष्वमितविक्रमः ।
पदातिरथनागाश्वान्प्रममाथ महाबलः ॥ ७.५२.३१ ॥
他向敌人倾泻千万支箭,这位威力无量的大力者碾碎了步兵、战车、象和马。
7.52.32
स शरैराचितश्चक्रैर्गदाभिर्मुसलैरपि ।
मृद्गन्रथसहस्राणि पदातीन्वाजिवारणान् ॥ ७.५२.३२ ॥
他被箭、轮盘、棍棒与铁杵所包围,仍不断碾压数千战车、步兵、马与象。
7.52.33
परानीकं विभिद्याजौ मोक्षयित्वा च तं नृपम् ।
पुनरेवाकरोद्युद्धं शत्रुमध्यगतो बली ॥ ७.५२.३३ ॥
他冲破敌军、救出那位国王之后,这位身处敌阵中央的大力者再次投入战斗。
7.52.34
ततस्ते रथिनः सर्वे समेत्य पुनराहवे ।
जघ्नुस्तं परिवार्यैकं तोमरैरिव कुञ्जरम् ॥ ७.५२.३४ ॥
于是那些战车武士重新在战场上聚集,将他一人包围,用长矛刺他,如同刺杀一头象。
7.52.35
स कर्म दुष्करं कृत्वा सङ्ग्रामे शत्रुतापनः ।
शत्रुभिर्निहतः सङ्ख्ये पृतानायां युधिष्ठिर ॥ ७.५२.३५ ॥
俱卢之王啊,那位使敌人痛苦的勇士完成了艰难的功绩之后,在战斗中、在军阵之中被敌人杀害了。
7.52.36
द्विषद्भिर्निहतं दृष्ट्वा प्रियं पुत्रमकम्पनः ।
अमर्षजनितक्रोध आहवात्सहसाऽऽगतः ॥ ७.५२.३६ ॥
阿къ帕纳看见心爱的儿子被敌人杀死,满怀因愤慨而生的怒火,忽然从战场上赶来。
7.52.37
स राजा प्रेतकृत्यानि तस्य कृत्वा शुचान्वितः ।
शोचन्नहनि रात्रौ च नालभत्सुखमात्मनः ॥ ७.५२.३७ ॥
国王为他举行了葬礼,满怀悲痛,日夜哀叹,自己却得不到安宁与快乐。
7.52.38
तस्य शोकं विदित्वा तु पुत्रव्यसनसम्भवम् ।
आजगामाथ देवर्षिर्नारदोऽस्य समीपतः ॥ ७.५२.३८ ॥
得知他因儿子的不幸而生的悲痛,天神仙人那罗陀来到他身边。
7.52.39
स तु राजा महाभागो दृष्ट्वा देवर्षिसत्तमम् ।
पूजयित्वा यथान्यायं कथामकथयत्तदा ॥ ७.५२.३९ ॥
那位极为幸运的国王见到天神仙人中最优秀者,依礼敬奉他,然后讲述了一段故事。
7.52.40
तस्य सर्वं समाचष्ट यथावृत्तं युधिष्ठिर ।
शत्रुभिर्विजयं सङ्ख्ये पुत्रस्य च वधं तथा ॥ ७.५२.४० ॥
坚战啊,他把事情的经过全部告诉了他:战场上敌人的胜利,以及他儿子的被杀。
7.52.41
मम पुत्रो महावीर्य इन्द्रविष्णुसमद्युतिः ।
शत्रुभिर्बहुभिः सङ्ख्ये पराक्रम्य हतो बली ॥ ७.५२.४१ ॥
我的儿子大有威力,光辉如因陀罗与毗湿奴;他在战场上奋勇抵抗众多敌人,虽然强大,却被杀死了。
7.52.42
शृणु मे प्राणिनां चापि मृत्युः प्रभवते किल ।
क एष मृत्युर्भगवन्किंवीर्यबलपौरुषः।
एतदिच्छामि तत्त्वेन श्रोतुं मतिमतां वर ॥ ७.५२.४२ ॥
请听我说:死亡确实主宰着一切有生命者。尊者啊,这死亡是谁?它的威力、力量和气概是什么?智者中最优秀者啊,我想如实地听闻这些。
7.52.43
तस्य तद्वचनं श्रुत्वा नारदो वरदः प्रभुः ।
आख्यानमिदमाचष्ट पुत्रशोकापहं महत् ॥ ७.५२.४३ ॥
听了他的话,赐予恩惠的主神那罗陀讲述了这个消除丧子之痛的伟大故事。
7.52.44
शृणु राजन्महाबाहो आख्यानं बहुविस्तरम् ।
यथावृत्तं श्रुतं चैव मयाऽपि वसुधाधिप ॥ ७.५२.४४ ॥
国王啊,大臂者啊,请听这个极为详尽的故事,它如何发生,我也如何听闻,大地之主啊。
7.52.45
प्रजाः सृष्टा तदा ब्रह्मा आदिसर्गे पितामहः ।
असंहृतं महातेजा दृष्ट्वा जगदिदं प्रभुः ॥ ७.५२.४५ ॥
在最初的创造时,祖父梵天便创造了众生;大光明的主神看到这个世界尚未被收回。
7.52.46
तस्य चिन्ता समुत्पन्ना संहारं प्रति पार्थिव ।
चिन्तयन्न ह्यसौ देव संहारं वसुधाधिप ॥ ७.५२.४६ ॥
国王啊,毁灭的念头在他心中生起;但他思考此事时,神啊,他并未停留在那毁灭之中,大地之主啊。
7.52.47
तस्य रोषान्महाराज मुखेभ्योऽग्निरजायत ।
तेन सर्वा दिशो व्याप्ताः सान्तर्देशा दिधक्षता ॥ ७.५२.४७ ॥
伟大的国王啊,从他的愤怒中,火从他的口中升起;它想要焚烧,充满了所有方向以及中间的区域。
7.52.48
ततो दिवं भुवं चैव ज्वालामालासमाकुलम् ।
चारचरं जगत्सर्वं ददाह भगवान्प्रभुः ॥ ७.५२.४८ ॥
于是这位尊贵的主神焚烧了整个动与不动的世界,天界与大地,都被火焰的花环充满。
7.52.49
ततो हतानि भूतानि चराणि स्थावराणि च ।
महता क्रोधवेगेन त्रासयन्निव वीर्यवान्। ॥ ७.५२.४९ ॥
于是一切动与不动的众生,被巨大的愤怒之力击倒,仿佛那位威力者在使之恐惧。
7.52.50
ततो रुद्रो जटी स्याणुर्निशाचरपतिर्हरः ।
जगाम शरणं देवं ब्रह्माणं परमेष्ठिनम् ॥ ७.५२.५० ॥
于是蓬发的楼陀罗、不动者斯塔努、夜行者之主诃罗,前往寻求至高神梵天的庇护。
7.52.51
तस्मिन्नापतिते स्थाणौ प्रजानां हितकाम्यया ।
अब्रवीत्परमो देवो ज्वलन्निव महामुनिः ॥ ७.५२.५१ ॥
当斯塔努俯伏在他面前时,至高神为了众生的福祉,如同光耀的大仙人一般开口说道。
7.52.52
किं कर्म कामं कामार्ह कामाज्जातोऽसि पुत्रक ।
करिष्यामि प्रियं सर्वं ब्रूहि स्थाणो यदिच्छसि ॥ ७.५२.५२ ॥
孩子,你想要做什么事?你生于欲望,值得被欲望。凡你所爱之事,我都会去做;斯塔努啊,说出你所愿望的吧。