摩诃婆罗多 · 章 7.53
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
7.53.1
प्रजासर्गनिमित्तं हि कृतो यत्नस्त्वया विभो ।
त्वया सृष्टाश्च वृद्धाश्च भूतग्रामाः पृथग्विधाः ॥ ७.५३.१ ॥
主啊,你确实为创造众生而付出了努力。由你所造并繁衍的各种众生群体。
7.53.2
तास्तवेह पुनः क्रोधात्प्रजा नश्यन्ति सर्वशः ।
ता दृष्ट्वा मम कारुण्यं प्रसीद भगवन्प्रभो ॥ ७.५३.२ ॥
因你的愤怒,这里的众生又被彻底毁灭。看到他们,我心生怜悯;请你慈悲,尊贵的主啊。
7.53.3
संहर्तुं न च मे काम एतदेवं भवेदिति ।
पृथिव्या हितकामं तु ततो मां मन्युराविशत् ॥ ७.५३.३ ॥
我本无毁灭之意,愿不如此。然而在我想要为大地谋福时,愤怒便侵入了我。
7.53.4
इयं सन्ना तदा देवी भारार्ता समचूचुदत् ।
संहारार्थं महादेव भारेणाभिहता सती ॥ ७.५३.४ ॥
那时,这位女神因重负而痛苦,沉陷下去并被压迫;伟大的神啊,那位善良的女神被重量所击,被逼向毁灭。
7.53.5
ततोऽहं नाधिगच्छामि बुद्ध्या बहु विचारयन् ।
संहारमप्रमेयस्य ततो मां मन्युराविशत् ॥ ७.५३.५ ॥
那时我虽反复思量,却以智慧找不到毁灭那不可测者的办法;那时愤怒便侵入了我。
7.53.6
संहारार्थं प्रसीदस्व मारुषो वसुधाधिप ।
मा प्रजाः स्थावराश्चैव जङ्गमाश्च व्यनीनशः ॥ ७.५३.६ ॥
不要为了毁灭而愤怒;请你慈悲,大地之主。不要毁灭众生,无论是不动的还是动的。
7.53.7
तव प्रसादाद्भगवन्निदं वर्तेत्त्रिधा जगत् ।
अनागतमतीतं च यच्च सम्प्रति वर्तते ॥ ७.५३.७ ॥
尊者啊,凭你的恩典,这世界以三种形式存在:过去、未来,以及当下所存在的一切。
7.53.8
भगवन्क्रोधसन्दीप्तः क्रोधादग्निमवासृजत् ।
स दहत्यश्मकूटानि द्रुमांश्च सरितस्तथा ॥ ७.५३.८ ॥
尊者啊,你因愤怒而燃烧,从怒火中放出了火焰;它烧毁了石峰、树木,也烧毁了河流。
7.53.9
पल्वलानि च सर्वाणि सर्वै चैव तृणोलपाः ।
स्थावरं जङ्गमं चैव निःशेषं कुरुते जगत् ॥ ७.५३.९ ॥
它烧毁一切池塘、草木与芦苇;并将整个世界,无论静止的还是运动的,彻底化为灰烬。
7.53.10
तदेतद्भस्मसाद्भूतं जगत्स्थावरजङ्गमम् ।
प्रसीद भगवन्स त्वं रोषो न स्याद्वरो मम ॥ ७.५३.१० ॥
如此,这静止与运动的世界已化为灰烬。尊者啊,请息怒吧;愿你的怒火不再留存——这便是我的恳求之恩。
7.53.11
सर्वे हि सृष्टा नश्यन्ति तव देव कथंचन ।
तस्मान्निवर्ततां तेजस्त्वय्येवेदं प्रलीयताम् ॥ ७.५३.११ ॥
天神啊,一切被造之物都会以某种方式消亡。因此愿这光焰收回;愿它融入你之中。
7.53.12
उपायमन्यं सम्पश्य प्रजानां हितकाम्यया ।
यथेमे प्राणिनः सर्वे निर्वर्तेरंस्तथा कुरु ॥ ७.५३.१२ ॥
出于对众生福祉的愿望,请另寻他法,并如此行事,使这一切有生命者都得以存续。
7.53.13
अभावं नेह गच्छेयुरुत्सन्नजननाः प्रजाः ।
भवता हि नियुक्तोऽहं प्रानां पालने विभा।
दया ते न समुत्पन्ना प्रजासु विबुधेश्वर ॥ ७.५३.१३ ॥
愿这些生育已经断绝的众生不要在此灭亡。哦,伟大者,是你亲自任命我保护众生。哦,诸神之主,你对众生难道没有生起慈悲吗?
7.53.14
मा विनश्येज्जगन्नाथ जगत्स्थावरजङ्गमम् ।
प्रसादाभिमुखं देवं तस्मादेवं ब्रवीम्यहम् ॥ ७.५३.१४ ॥
哦,世界之主,愿不动与动的世界不要毁灭。哦,倾向于恩典的神,我因此如此说。
7.53.15
श्रुत्वा हि वचनं देवः प्रजानां हितकारणे ।
तेजः सन्धारयामास पुनरेवान्तरात्मनि ॥ ७.५३.१५ ॥
神听了这些话,为了众生的福利,又将自己的火焰收回到内在的自我之中。
7.53.16
ततोऽग्निमुपसंहृत्य भगवाँल्लोकसत्कृतः ।
प्रवृत्तं च निवृत्तं च कल्पयामास वै प्रभुः ॥ ७.५३.१६ ॥
于是,收回火焰后,受诸世界尊崇的世尊主宰,安排了活动与止息。
7.53.17
उपसंहरतस्तस्य तमग्निं रोषजं तथा ।
प्रादुर्बभूव विश्वेभ्यो गोभ्योनारी महात्मनः ॥ ७.५३.१७ ॥
当他收回那由愤怒所生之火时,从大德者的所有牛中出现了一位女子。
7.53.18
कृष्णरक्ता तथा पिङ्गा रक्तजिह्वास्यलोचना ।
कुण्डलाभ्यां च राजेन्द्र तप्ताभ्यां तप्तभूषणा ॥ ७.५३.१८ ॥
她呈暗红与黄褐色,舌头和眼睛都是红色的。哦,诸王之主,她的耳环滚烫,她的饰物也滚烫。
7.53.19
सा निःसृत्य तथा खेभ्यो दक्षिणां दिशमाश्रिता ।
स्मयमाना च साऽवेक्ष्य देवौ विश्वेश्वरावुभौ ॥ ७.५३.१९ ॥
她同样从身体的孔窍中走出,朝向南方;她微笑着望向那两位宇宙之主的神祇。
7.53.20
तां तु तत्र तदा देवीं ब्रह्मा लोकपितामहः ।
उक्तवान्मधुरं वाक्यं सान्त्वयित्वा पुनः पुनः।
मृत्यो इति महीपाल जहि चेमाः प्रजा इति ॥ ७.५३.२० ॥
于是世界之祖梵天一再安慰那位女神,并以温和的话语说道:“死神啊,大地之王啊,去毁灭这些众生吧。”
7.53.21
त्वं हि संहारबुद्ध्याऽथ प्रादुर्भूता रुषो मम ।
तस्मात्संहर सर्वास्त्वं प्रजाः सजडपण्डिताः ॥ ७.५३.२१ ॥
你怀着毁灭之心从我的愤怒中生出;因此,请毁灭所有众生,无论愚者还是智者。
7.53.22
अविशेषेण चैव त्वं प्रजाः संहर भामिनि ।
मम त्वं हि नियोगेन ततः श्रेयो ह्यवाप्स्यासि ॥ ७.५३.२२ ॥
啊,光彩照人的女子,请不分彼此地毁灭众生;遵从我的命令,你必将获得福祉。
7.53.23
एवमुक्ता तु सा तेन मृत्युः कमललोचना ।
प्रारुदद्भृशसंविग्ना प्रापतन्नश्रुबिन्दवः ॥ ७.५३.२३ ॥
被如此吩咐后,那位莲花眼的死神深感惊惶,放声痛哭,泪珠纷纷滴落。
7.53.24
पाणिभ्यां प्रतिजग्राह तान्यश्रूणि पितामहः ।
सर्वभूतहितार्थाय तां चाप्यनुनयत्तदा ॥ ७.५३.२४ ॥
祖父梵天用双手接住那些泪珠,并为了一切众生的福祉,当时也安抚了她。