摩诃婆罗多 · 章 7.55
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
7.55.1
श्रुत्वा मृत्युसमुत्पत्तिं कर्माण्यनुपमानि च ।
धर्मराजः पुनर्वाक्यं प्रसाद्यैनमथाब्रवीत् ॥ ७.५५.१ ॥
法王听闻死亡的起源和无与伦比的业绩后,使他欢喜,于是again说出了这些话。
7.55.2
गुरवः पुण्यकर्माणः शक्रप्रतिमविक्रमाः ।
पूर्वं राजर्षयो ब्रह्मन्कियन्तो मृत्युना हताः ॥ ७.५५.२ ॥
婆罗门啊,古昔那些功德殊胜、勇武堪比帝释的王仙,有多少被死亡所杀?
7.55.3
भूय एव तु मां तथ्यैर्वचोभिरभिबृंहय ।
राजर्षीणां पुराणानां समाश्वासय कर्मभिः ॥ ७.५५.३ ॥
请再以真实之言增益我,并以古昔王仙的业绩安慰我。
7.55.4
कियन्त्यो दक्षिणा दत्ताः काश्च दत्ता महात्मभिः ।
राजर्षिभिः पुण्यकृद्भिस्तद्भवान्प्रब्रवीतु मे ॥ ७.५५.४ ॥
那些行善积德的大德王仙,布施了多少祭祀的酬金,又是哪些?请您告诉我。
7.55.5
अन्येपि यज्वनां लोका अन्ये चापि तपस्विनाम् ।
क्षमावतां च त्रींल्लोकाञ्शूरा गच्छन्ति भारत ॥ ७.५५.५ ॥
婆罗多啊,行祭者有他们的世界,苦行者也有他们的世界;忍辱者与英雄则前往三界。
7.55.6
क्षत्रियस्य तुं सङ्ग्रामे शत्रून्हत्वा हतस्य वा ।
फलमत्यन्तमित्याहुर्धर्मशास्त्रविदो जनाः ॥ ७.५५.६ ॥
刹帝利在战阵中,或杀敌或自身被杀,精通法典的人说其果报至为殊胜。
7.55.7
वेदविद्याव्रतस्नाता यज्वानः पुत्रिणश्च ये ।
तेभ्यः परार्थ्या यज्वानो यज्वभ्यश्च तनुत्यजः ॥ ७.५५.७ ॥
那些以吠陀之学和誓戒沐浴净化的人、行祭者和有子嗣者;比他们更优越的是为他人之利而行祭者,比行祭者更优越的是舍身者。
7.55.8
स वीरो यज्वनो नित्यं क्षत्रियानार्जुनिर्गतः ।
लोकान्पुण्यतमानिष्टानिति विद्धि विशाम्पते ॥ ७.५५.८ ॥
那位英雄,如阿周那之子,常从行祭的刹帝利中而去;要知道,人主啊,最有功德、令人向往的世界归于他。
7.55.9
सर्वेषां नृपसिंहानां शृणु यज्ञान्नृपोत्तम ।
तानतिक्रम्य गच्छन्ति स्वर्गकामास्तनुत्यजः ॥ ७.५५.९ ॥
请听,诸王中最优者,所有王中雄狮的祭祀;超越它们,渴望天界而舍身者前往。
7.55.10
सर्वेषां यज्वनां यज्ञं श्रोतुमिच्छामि सुव्रत ।
दक्षिणाश्चानुरूपेभ्यो दत्ता राजर्षिसत्तमैः ॥ ७.५५.१० ॥
善持誓戒者啊,我愿听闻所有行祭者的祭祀,以及诸王中最优的仙王将布施交付给合适之人的祭礼酬金。
7.55.11
शैब्यस्य नृपतेः पुनः सृञ्जयो नाम नामतः ।
सखायौ तस्य चेवोभौ ऋषी पर्वतनारदौ ॥ ७.५५.११ ॥
另有蒙尸毗王(Śaibya)之友,名为娑耶阇耶(Sṛñjaya);他的两位朋友是仙人补婆多与那罗陀。
7.55.12
तौ कदाचिद्गृहं तस्य प्रविष्टौ तद्दिदृक्षया ।
विधिवच्चार्चितौ तेन प्रीतौ तत्रोषतुः सुखम् ॥ ७.५५.१२ ॥
有一次,二人因想见他而进入他的宅邸;他依照礼仪恭敬地供奉他们,二人欢喜,在那里安乐地居住。
7.55.13
तं कदाचित्सुखासीनं ताभ्यां सह शुचिस्मिता ।
दुहिताऽभ्यागमत्कन्या सृञ्जयं वरवर्णिनी ॥ ७.५५.१३ ॥
有一次,他安坐之时,那位笑容纯净、容貌俊美的女儿与他们一同来到了斯兰遮耶面前。
7.55.14
तयाऽभिवादितः कन्यामभ्यनन्दद्यथाविधि ।
तत्सलिङ्गाभिराशीर्भिरिष्टाभिरभितः स्थिताम् ॥ ७.५५.१४ ॥
她恭敬地行礼后,他依礼欢迎这位少女,并以合宜而悦耳的祝福向她致意,她则站立在四周。
7.55.15
तां निरीक्ष्याब्रवीद्वाक्यं पर्वतः प्रहसन्निव ।
कस्येयं चञ्चलापाङ्गी सर्वलक्षणसम्मता ॥ ७.५५.१५ ॥
他看着她,仿佛含笑地说道:“这位眼波流转、具备一切吉相的少女,是谁的女儿?”
7.55.16
उषा स्विद्भाः स्विदर्कस्य ज्वलनस्य शिखापि वा ।
श्रीर्द्द्रिः कीर्तिंर्धृतिः षुष्टिः सिद्धिश्चन्द्रमसः प्रभा ॥ ७.५५.१६ ॥
她莫非是黎明、太阳的光辉,或是火焰的火舌?是吉祥天女、羞德、名声、坚定、滋养、成就,还是月光?
7.55.17
एवं ब्रुवाणं देवर्षिं नृपतिः सृञ्जयोऽब्रवीत् ।
ममेयं भगवन्कन्या वर्या वरमभीप्सति ॥ ७.५५.१७ ॥
神仙般的仙人这样说时,国王斯兰遮耶说:“尊者,我这位优秀的女儿想要择婿。”
7.55.18
नारदस्त्वब्रवीदेनं देहि मह्यमिमां नृप ।
भार्यार्थं सुमहच्छ्रेयः प्राप्तुं चेदिच्छसे नृप ॥ ७.५५.१८ ॥
然而那罗陀对他说:“国王啊,把这位少女给我。国王啊,若你想获得极大的福祉,就把她给我作为妻子吧。”
7.55.19
ददानीत्येवं संहृष्टः सृञ्जयः प्राह नारदम् ।
एवमुक्ते नृपतिना क्रोधपर्याकुलेक्षणः।
पर्वतस्तु सुसङ्क्रुद्धो नारदं वाक्यमब्रवीत् ॥ ७.५५.१९ ॥
Sṛñjaya欣然说道:“我愿给予。”国王如此说后,双目因愤怒而激动的Parvata极为恼怒,对Nārada说了这些话。
7.55.20
पूर्वं ममैव मनसा विद्धि भार्यां वृतामृषे ।
यस्मादपाचरस्तस्मात्स्वर्गं न गच्छसि ॥ ७.५५.२० ॥
“仙人啊,你要知道,她早已在我心中被选为妻子。因为你行为不当,你将不能升天。”
7.55.21
एवमुक्तो नारदस्तं प्रत्युवाचोत्तरं वचः ।
मनोवाग्बुद्धिसम्भाषा सत्यं तोयमथाग्नयः ॥ ७.५५.२१ ॥
被如此说后,那罗陀回答他说:“心、语言与智慧的言谈是真实的;水与火(为见证)。”
7.55.22
पाणिग्रहममन्त्राश्च प्रथितं दारलक्षणम् ।
न त्वेषां निश्चिता निष्ठा त्वया सा मनसा स्मृता ॥ ७.५५.२२ ॥
执手的咒语与妻子的著名标志(婚礼)——然而其中坚定的誓愿,是你在心中念念不忘她。
7.55.23
एवं विद्वांस्तु मां यस्मादनुव्याहृतवानसि ।
तस्मात्त्वमपि न स्वर्गं गमिष्यसि मया विना।
अन्योन्यमेवं शप्त्वा वै तस्थतुस्तत्र तौ तदा ॥ ७.५५.२३ ॥
你明知此事,仍对我说了谎话;因此,离开我,你也不能升天。”二人如此互相诅咒之后,便各自站立在那里。
7.55.24
अथ सोऽपि नृपो विप्रान्पानाच्छादनभोजनैः ।
पुत्रकामः परं शक्त्या यत्नाच्चोपाचरच्छुचिः ॥ ७.५५.२४ ॥
那位国王也因渴望儿子,便保持清净,尽力而为,以饮食、衣物与饭食殷勤侍奉婆罗门。
7.55.25
तस्य प्रसन्ना विप्रेन्द्राः कदाचित्पुत्रदर्शिनः ।
तपःस्वाध्यायनिरता वेदवेदाङ्गपारगाः ॥ ७.५५.२५ ॥
那些喜爱他的婆罗门之首,曾见他将有子嗣,专修苦行与诵习,精通吠陀与吠陀支分,有一次……
7.55.26
सहिता नारदं प्राहुर्देह्यस्मै पुत्रमीप्सितम् ।
तथेत्युक्त्वा द्विजैरुक्तः सृञ्जयं नारदोऽब्रवीत् ॥ ७.५५.२६ ॥
他们一同对那罗陀说:“请赐予他所求的儿子。”那罗陀应允“好吧”,便对僧遮耶说道。
7.55.27
तुभ्यं प्रसन्ना राजर्षे पुत्रमीप्सन्ति ब्राह्मणाः ।
वरं वृणीष्व भद्रं ते यादृशं पुत्रमीप्सितम् ॥ ७.५५.२७ ॥
“王仙啊,婆罗门对你十分满意,愿给你一个儿子。愿你吉祥——请选择你所希望的那种儿子作为恩典。”
7.55.28
तथोक्तः प्राञ्जली राजा पुत्रं वव्रे गुणान्वितम् ।
यशस्विनं कीर्तिमन्तं तेजस्विनमरिन्दमम् ॥ ७.५५.२८ ॥
如此被问及,国王合掌,选择了一个具备德行的儿子——有名望、有声誉、光辉、能制服敌人。
7.55.29
यस्य मूत्रं पुरीषं च क्लेदः स्वेदश्च काञ्चनम् ।
सर्वं भवेत्प्रसादाद्वै तादृशं तनयं वृणे ॥ ७.५५.२९ ॥
“一个小便、粪便、分泌物与汗水都是黄金的儿子——我蒙你恩典,选的正是这样的儿子。”
7.55.30
तथा भविष्यतीत्युक्ते जज्ञे तस्योप्सितः सुतः ।
काञ्चनस्याकरः श्रीमान्प्रसादाद्वै सुकाङ्क्षितः ॥ ७.५५.३० ॥
当说出“会如此”时,他得到了所求的儿子——一座黄金之矿,光荣而备受渴望,蒙恩而得。
7.55.31
रुदितस्य च नेत्राभ्यामपतत्तस्य नेत्रजम् ।
मूत्रं पुरीषं स्वेदश्च सर्वं भवति काञ्चनम्।
सुवर्णष्ठीविरित्येव तस्य नामाभवत्कृतम् ॥ ७.५५.३१ ॥
他哭泣时从眼中落下的泪水、他的小便、粪便和汗水,全都变成了黄金。因此他被命名为“吐金者”(Suvarṇaṣṭhīvi)。
7.55.32
तस्मिन्वरप्रदानेन वर्धयत्यमितं धनम् ।
कारयामास नृपतिः सौवर्णं सर्वमीप्सितम् ॥ ७.५५.३२ ॥
因为这个恩赐,他的财富无限增长,国王便把所有想要的东西都用黄金打造出来。
7.55.33
गृहप्राकारदुर्गाणि ब्राह्मणावसथान्यपि ।
शय्यासनानि यानानि स्थालीपिठरभाजनम् ॥ ७.५५.३३ ॥
房屋、城墙与堡垒、婆罗门的住所、床榻与座椅、车辆、盘子、锅和器皿。
7.55.34
तस्य राज्ञोऽपि यद्वेश्म बाह्याश्चोपस्कराश्च ये ।
सर्वं तत्काञ्चनमयं कालेन परिवर्धितम् ॥ ७.५५.३४ ॥
那位国王的宫殿以及外面所有的器物,随着时间推移全都变成了黄金。
7.55.35
अथ दस्युगणाः श्रुत्वा दृष्ट्वा चैनं तथाविधम् ।
सम्भूय तस्य नृपतेः समारब्धाश्चिकीर्षितुम् ॥ ७.५५.३५ ॥
那时,强盗的群伙听说了他的事,又亲眼见到他这般情形,便聚集起来,准备对那位国王做点什么。
7.55.36
केचित्तत्राब्रुवन्राज्ञः पुत्रं गृह्णीम वै स्वयम् ।
सोऽस्याकरः काञ्चनस्य तस्य यत्नं चरामहे ॥ ७.५५.३६ ॥
有人在那里说:“我们自己去抓住国王的儿子吧。他是一座金矿,让我们为他而努力。”
7.55.37
ततस्ते दस्यवो लुब्धाः प्रविश्य नृपतेर्गृहम् ।
राजपुत्रं तथाऽऽजह्रुः सुवर्णष्ठीविनं बलात् ॥ ७.५५.३७ ॥
于是那些贪婪的强盗闯入国王的宫室,强行掳走了吐出黄金的王子。
7.55.38
गृह्यैनमनुपायज्ञा नीत्वाऽरण्यमचेतसः ।
हत्वा विशस्य चापश्यँ ल्लुब्धा वसु न किञ्चन ॥ ७.५५.३८ ॥
那些不懂方法的贪婪愚人抓住他,带到森林中杀死,又剖开查看,却找不到任何财富。
7.55.39
तस्य प्राणैर्विमुक्तस्य नष्टं तत्काञ्चनं वरम् ।
दस्यवश्च तदाऽन्योन्यं जघ्नुर्मूर्खा विचेतसः ॥ ७.५५.३९ ॥
他的生命离去后,那上好的黄金也消失了;那些愚蠢无知的强盗便彼此相残。
7.55.40
हत्वा परस्परं नष्टाः कुमारं चाद्भुतं भुवि ।
असम्भाव्यं गता घोरं नरकं दुष्टकारिणः ॥ ७.५५.४० ॥
他们互相残杀而灭亡,因这位世间奇异的少年,堕入了为作恶者所设的不可思议的可怖地狱。
7.55.41
तं दृष्ट्वा निहतं पुत्रं वरदत्तं महातपाः ।
विललाप सुदुःखार्तो बहुधा करुणं नृपः ॥ ७.५५.४१ ॥
国王看见被杀的儿子伐罗达塔,这位大苦行者悲痛欲绝,以种种方式哀伤地哭泣。
7.55.42
विलपन्तं निशम्याथ पुत्रशोकहतं नृपम् ।
प्रत्यदृश्यत देवर्षिर्नारदस्तस्य सन्निधौ ॥ ७.५५.४२ ॥
听到国王因丧子之痛而哀号,天界仙人那罗陀便现身于他的面前。
7.55.43
उवाच चैनं दुःखार्तं विलपन्तमचेतसम् ।
सृञ्जयं नारदो यद्यत्तन्निबोध युधिष्ठिर ॥ ७.५५.४३ ॥
那罗陀对悲痛欲绝、哀号而失去知觉的斯里尼遵说道:般度子尤提施提罗,请听他所说的一切。
7.55.44
त्यज शोकं महाराज वैक्लब्यं त्यज बुद्धिमन् ।
न मृतः शोचतो जीवेन्मुह्यतो वा नराधिप ॥ ७.५५.४४ ॥
大王,请放下悲伤;智者,请放下沮丧。人主啊,死者不会因哀悼或迷惑而复生。
7.55.45
त्यज शोकं नृपश्रेष्ठ न शोचन्ति भवद्विधाः ।
वीरो भवान्महाराज ज्ञानवृद्धोऽपि मे मतः।
कामानामवितृप्तस्त्वं सृञ्जयेह मरिष्यसि ॥ ७.५५.४५ ॥
诸王之最,请放下悲伤;像你这样的人不会悲叹。大王,你是英雄,我也认为你在智慧上年长。斯里尼遵啊,你在欲望中未曾满足,将死于此处。
7.55.46
यस्य चैते वयं गेहे उषिता ब्रह्मवादिनः ।
आविक्षितं मरुत्तं च मृतं सृञ्जय शुश्रुम ॥ ७.५५.४६ ॥
我们这些吠陀的宣说者曾住在其家中的阿维克希特与摩如塔,斯里尼遵啊,我们听说也已死去。
7.55.47
संवर्तो याजयामास स्पर्धया वै बृहस्पतेः ।
यस्मै राजर्षये प्रादाद्धनं स भगवान्प्रभुः।
हैमं हिमवतः पादं यियक्षोर्विविधैः सवैः ॥ ७.५५.४७ ॥
娑摩婆多因与布里哈斯帕蒂竞争而主持祭祀。那位尊贵的主将财富赐予想要举行种种祭祀的那位王仙,即喜马拉雅的金色山坡。
7.55.48
यस्य सेन्द्रामरगणा बृहस्पतिपुरोगमाः ।
देवा विश्वसृजः सर्वे यजनान्ते समासते।
यज्ञवाटस्य सौवर्णाः सर्वे चासन्परिच्छदाः ॥ ७.५५.४८ ॥
在其祭祀结束之时,以布里哈斯帕蒂为首的诸神与因陀罗及不死众神,以及一切世界的创造者,都聚坐一起;那祭场的一切陈设皆为金制。
7.55.49
यस्य सर्वं तदा ह्यन्नं मनोभिप्रायगं शुचि ।
कामतो बुभुजुर्विप्राः सर्वे चान्नार्थिनो द्विजाः।
पयो दधि घृतं क्षौद्रं भक्ष्यं भोज्यं च शोभनम् ॥ ७.५५.४९ ॥
那时,他的所有食物都是洁净的,随心意而来;婆罗门们随意食用,所有求食的再生者也都如此。牛奶、凝乳、酥油、蜂蜜、可咀嚼之物与可享用之物——一切都极为美好。
7.55.50
यस्य यज्ञेषु सर्वेषु वासांस्याभरणानि च ।
ईप्सितान्युपतिष्ठन्ते प्रहृष्टान्वेदपारगान् ॥ ७.५५.५० ॥
在他的所有祭祀中,衣物、饰品和所求之物都欣然自来,送到精通吠陀的婆罗门面前。
7.55.51
मरुतः परिवेष्टारो मरुत्तस्याभवन्गृहे ।
आविक्षितस्य राजर्षेर्विश्वेदेवाः सभासदः ॥ ७.५५.५१ ॥
摩录多(Marut)在摩禄多(Marutta)家中充当侍者;众神(Viśvadeva)是王仙阿维克希特(Āvikṣit)议会的成员。
7.55.52
यस्य वीर्यवतो राज्ञः सुवृष्ट्या सस्यसम्पदः ।
हविर्भिस्तर्पिता येन सम्यक्क्लृप्तैर्दिवौकसः ॥ ७.५५.५२ ॥
那位有威力的国王,因良好的降雨而有庄稼的丰收,又以精心准备的供品使天界居民得到满足。
7.55.53
ऋषीणां च पितॄणां च देवानां सुखजीविनम् ।
ब्रह्मचर्यश्रुतिमुखैः सर्वैर्दानैश्च सर्वदा ॥ ७.५५.५३ ॥
他使诸仙人、祖先与众神安乐生活,并以梵行与听闻吠陀为先,常年施予各种布施。
7.55.54
शयनासनपानानि स्वर्णराशीश्च दुस्त्यजाः ।
तत्सर्वममितं वित्तं दत्तं विप्रेभ्य इच्छया ॥ ७.५५.५४ ॥
床榻、座椅、饮品与难以舍弃的金堆——他将这无量的财富,依婆罗门的心愿,全部施予了他们。
7.55.55
सोनुध्यातस्तु शक्रेण प्रजाः कृत्वा निरामयाः ।
श्रद्दधानो जिताँल्लोकान्गतः पुण्यदुहोऽक्षयान् ॥ ७.५५.५५ ॥
他蒙因陀罗垂顾,使臣民免于疾病,怀着信心前往他所征服的诸世界,那里有功德的永不枯竭的乳牛。
7.55.56
सप्रजः सनृपामात्यः सदारापत्यबान्धवः ।
यौवनेन सहस्राब्दं मरुत्तो राज्यमन्वशात् ॥ ७.५५.५६ ॥
与臣民、诸王、大臣,以及妻子、子嗣和亲族一起,末伽陀在青年时期统治王国千年。
7.55.57
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया ।
पुत्रात्पुण्यतरस्तुभ्यं मा पुत्रमनुतप्यथाः।
अयज्वानमदक्षिण्यमभि श्वैत्येत्युदाहरत् ॥ ७.५५.५७ ॥
即使他死了,哦,Sṛñjaya,对你而言也是四倍的吉祥。你的功德比儿子带来的还多;不要为你的儿子悲伤。关于那不祭祀、不布施的人,他说出了“Śvaitya”一词。