摩诃婆罗多 · 章 7.58
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
7.58.1
शिबिमौशीनरं चापि मृतं सृञ्जय शुश्रुम ।
य इमां पृथिवीं सर्वां चर्मवत्पर्यवेष्टयत् ॥ ७.५८.१ ॥
萨闪阇耶啊,我们听说乌什那罗之子尸毗也已死去——他曾如包裹兽皮一般,将整个大地包裹起来。
7.58.2
साद्रिद्वीपार्णववनां रथघोषेण नादयन् ।
स शिबिर्यष्टुमन्विच्छन्मुख्यः सर्वसपत्नजित् ॥ ७.५८.२ ॥
尸毗,诸敌之中最为杰出的征服者,以战车的轰鸣震动着这片大地——包括其山脉、岛屿、海洋与森林——他想要举行祭祀。
7.58.3
तेन यज्ञैर्बहुविधैरिष्टं पर्याप्तदक्षिणैः ।
अविहिंस्य जनानन्यानवाप वसु पुष्कलम् ॥ ७.५८.३ ॥
他举行了多种祭祀,布施丰厚;他不伤害他人,获得了大量财富。
7.58.4
सर्वमूर्धाभिषिक्तानां सम्मतः सोऽभवद्युधि ।
अजयच्चाश्वमेधैर्यो विजित्य पृथिवीमिमाम् ॥ ७.५८.४ ॥
在战斗中,他受到所有受膏国王的敬重;他征服了这片大地,并通过马祭取得了胜利。
7.58.5
निरर्गलैर्बहुफलैर्निष्ककोटिसहस्रदः ।
बिभर्ति दक्षिणा यस्य गङ्गायाः स्रोत आवृणोत् ॥ ७.५८.५ ॥
他的布施毫无阻碍、结果丰厚,赠予数千亿枚金币;他的布施之大,甚至能够阻断恒河的水流。
7.58.6
हस्त्यश्वपशुभिर्धान्यैर्मृगैर्गोजाविभिस्तथा ।
विविधैः पृथिवीं पुण्यां शिबिर्ब्राह्मणसात्करोत् ॥ ७.५८.६ ॥
尸毗以大象、马匹、牲畜、谷物、鹿、牛、山羊、绵羊以及种种财物,将这片圣地奉献给婆罗门。
7.58.7
यावत्यो वर्षतो धारा यावत्यो दिवि तारकाः ।
यावत्यः सिकता गाङ्ग्यो यावन्मेरोर्महोपलाः ॥ ७.५८.७ ॥
雨中有多少水流,天上有多少星辰,恒河有多少沙粒,以及须弥山上有多少巨石——
7.58.8
उदन्वति च यावन्ति रत्नानि प्राणिनोऽपि च ।
तावतीरददद्गा वै शिबिरौशीनरोऽध्वरे ॥ ७.५८.८ ॥
海洋中有多少宝物与生灵,乌奢那罗之子尸毗便在祭祀中布施了多少头牛。
7.58.9
नोद्यन्तारं धुरस्तस्य कञ्चिदन्यं प्रजापतिः ।
भूतं भव्यं भवन्तं वा नाध्यगच्छन्नरोत्तमम् ॥ ७.५८.९ ॥
即使生主也未曾找到能超越他或与他相当的人;无论过去、未来或现在,都没有找到这样的人中之最。
7.58.10
तस्यासन्विविधा यज्ञाः सर्वकामैः समन्विताः ।
हेमयूपासनगृहा हेमप्राकारतोरणाः ॥ ७.५८.१० ॥
他举行了种种祭祀,皆圆满一切所求;有金制祭柱,有设座的殿堂,有金制的围墙与门楼。
7.58.11
शुचिस्वाद्वन्नपानं च ब्राह्मणाः प्रयुतायुताः ।
नानाभक्ष्यैः प्रियकथाः पयोदधिमहाहदाः ॥ ७.५८.११ ॥
洁净美味的饮食,成千上万的婆罗门,种种美食,悦耳的言谈,以及乳酪成湖的大池。
7.58.12
तस्यासन्यज्ञवाटेषु नद्यः शुभ्रान्नपर्वताः ।
पिबत स्नात खादध्वमिति यत्रोच्यते जनैः ॥ ७.५८.१२ ॥
他的祭祀场中有河流和白色食物的山峰,人们在那里相互说:喝吧,沐浴吧,吃吧。
7.58.13
यस्मै प्रादाद्वरं रुद्रस्तुष्टः पुण्येन कर्मणा ।
अक्षयं ददतो वित्तं श्रद्धा कीर्तिस्तथा क्रियाः ॥ ७.५८.१३ ॥
楼陀罗因功德之行而欢喜,赐予某人恩惠:对施舍者而言,有不尽的财富、信心、名声与祭仪。
7.58.14
यथोक्तमेव भूतानां प्रियत्वं स्वर्गमुत्तमम् ।
एताँल्लब्ध्वा वरानिष्टाञ्शिबिः काले दिवं गतः ॥ ७.५८.१४ ॥
正如所说:为众生所爱,以及至上天界。得到这些所愿之恩后,尸毗在适当时候升天而去。
7.58.15
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया ।
पुत्रात्पुण्यतरस्तुभ्यं मा पुत्रमनुतप्यथाः।
अयज्वानमदक्षिण्यमभि श्वैत्येत्युदाहरत् ॥ ७.५८.१५ ॥
悉遮耶啊,若他已死,对你而言他是四倍吉祥,你所得的功德比有子更多——不要为儿子悲伤。这是施瓦蒂耶论及不行祭祀、不施祭礼者时所说。