Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 7.70

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

7.70.1

रामो महातपाः शूरो वीरो लोकनमस्कृतः ।
जामदग्न्योऽप्यतियशा अवितृप्तो मरिष्यति ॥ ७.७०.१ ॥

大苦行者、勇士、英雄、受世界礼敬的罗摩,即使是享有无上名声的持斧罗摩(阇摩陀吉尼之子),也将未得满足而死。

7.70.2

यश्चास्त्रमनुपर्येति भूमिं कुर्वन्विपांसुलाम् ।
नचासीद्विक्रिया यस्य प्राप्य श्रियमनुत्तमाम् ॥ ७.७०.२ ॥

他以武器巡行大地,使之无尘;即使获得了无上的荣耀,其内心也毫无动摇。

7.70.3

जामदग्न्यो न ते राजन्कच्चिच्छ्रोत्रमुपागतः ।
येनैकेन पुरा राजन्क्रुद्धेन हतबन्धुना ॥ ७.७०.३ ॥

国王啊!关于阇摩陀吉尼之子(持斧罗摩)的消息,难道没有传到你的耳中吗?往昔,他因亲族被杀而愤怒,独自一人……?

7.70.4

भृगुभिस्ताम्भमानेन त्राहि रामेति विस्वरम् ।
त्रिःसप्तकृत्वो भूमिर्यत्कृता निःक्षत्रिया पुरा ॥ ७.७०.४ ॥

当跋力古族人大声哀号:“罗摩啊,救救我们!”时,此人曾在往昔二十一次使大地没有刹帝利。

7.70.5

यः क्षत्रियैः परामृष्टे वत्से पितरि चाब्रुवन् ।
ततोऽवधीत्कार्तवीर्यमजितं समरे परैः ॥ ७.७०.५ ॥

当刹帝利侮辱他的父亲,并称其为“孩子”时,他便在战场上杀死了连敌人也无法战胜的迦尔塔维亚。

7.70.6

क्षत्रियाणां चतुःषष्टिमयुतानि सहस्रशः ।
तदा मृत्योः समेतानि एकेन धनुषाऽजयत् ॥ ७.७०.६ ॥

六十四阿由多(数以千计)的刹帝利,聚集于死亡之手时,他独自以弓将其全部战胜。

7.70.7

ब्रह्मद्विषां चाथ तस्मिन्हस्राणि चतुर्दश ।
पुनरन्यान्निजग्राह दन्तकूरे जघान ह ॥ ७.७०.७ ॥

在那场战斗中,他擒获了十四千名婆罗门的敌人,又擒获其他人,并在檀特库拉将他们杀死。

7.70.8

सहस्रं मुसलेनाहन्सहस्रमसिनाऽवधीत् ।
उद्बन्धनात्सहस्रं च सहस्रमुदके कृतम् ॥ ७.७०.८ ॥

他用棍棒打死一千人,用剑杀死一千人,用绞刑处死一千人,并使一千人溺死于水中。

7.70.9

दन्तान्भङ्क्त्वा सहस्रस्य भिन्नकर्णांस्तथाऽकरोत् ।
ततः सप्तसहस्राणां कुटुधृपमपाययत् ॥ ७.७०.९ ॥

他打断了一千人的牙齿,同样撕裂了他们的耳朵;然后让七千人饮下库图香的烟。

7.70.10

शिष्टान्वध्वा च हत्वा वै तेषां मृर्ध्नि विभिद्य च ।
गुणावतीमुत्तरेण खाण्डवाद्दक्षिणेन च।
गिर्यन्ते शतसाहस्रा हैहयाः समरे हताः ॥ ७.७०.१० ॥

他捆绑并杀死其余的人,刺穿他们的头颅——在古纳瓦蒂之北、坎达瓦之南,山麓之间——数十万哈伊哈亚人在战斗中被杀。

7.70.11

सरथाश्वगजा वीरा निहतास्तत्र शेरते ।
पितुर्वधामर्षितेन जामदग्न्येन धीमता ॥ ७.७०.११ ॥

连同战车、马匹和象的勇士们倒卧于彼——皆被睿智的遮摩陀耆尼之子所杀,他因父亲之死而愤怒。

7.70.12

निजघ्ने दशसाहस्रान्रामः परशुना तदा ।
न ह्यमृष्यत ता वाचो यास्तैर्भृशमुदीरिताः ॥ ७.७०.१२ ॥

于是罗摩(持斧罗摩)以斧杀死一万人,因为他无法忍受他们所说的那些尖刻的言语。

7.70.13

भृगौ रामाभिधावेति यदाक्रन्दन्द्विजोत्तमाः ।
ततः काश्मीरदरदान्कुन्तिक्षुद्रकमालवान् ॥ ७.७०.१३ ॥

当婆罗门中的贤者高声呼喊:“罗摩,快来救婆利古族!”时,他便打击了克什米尔人、达罗陀人、军底人、小族人和摩罗婆人。

7.70.14

अङ्गवङ्गकलिङ्गांश्च विदेहांस्ताम्रलिप्तकान् ।
रक्षोवाहान्वीतिहोत्रांस्त्रिगर्तान्मार्तिकावतान् ॥ ७.७०.१४ ॥

他又杀了盎伽人、孟伽人、羯陵伽人、毗提诃人、耽摩栗底人、罗刹婆诃人、毗提呵特罗人、三伽多人和摩提迦婆多人。

7.70.15

शिबीनन्यांश्च राजन्यान्देशान्देशान्सहस्रशः ।
निजघान शितैर्बाणैर्जामदग्न्यः प्रतापवान् ॥ ७.७०.१५ ॥

威力强大的甚密迦尼之子以利箭杀害了尸毗人及其他刹帝利王,一国又一国,成千上万。

7.70.16

कोटीशतसहस्राणि क्षत्रियाणां सहस्रशः ।
इन्द्रगोपकवर्णस्य बन्धुजीवनिभस्य च ॥ ७.७०.१६ ॥

数以百万计的千万刹帝利,成千上万,肤色如因陀罗虫、如文殊沙华,皆被杀死。

7.70.17

रुधिरस्य परीवाहैः पूरयित्वा सरांसि च ।
सर्वानष्टादश द्वीपान्वशमानीय भार्गवः ॥ ७.७०.१७ ॥

以血流充满湖泊之后,婆利古后裔将全部十八洲都收归己有。

7.70.18

ईजे क्रतुशतैः पुण्यैः समाप्तवरदक्षिणैः ।
वेदीमष्टनलोत्सेधां सौवर्णां विधिनिर्मिताम् ॥ ७.७०.१८ ॥

他以百场功德祭祀完成了殊胜的酬报,在依法建造、高八那罗的金祭坛上举行祭祀。

7.70.19

सर्वरत्नशतैः पूर्णां पताकाशतमालिनीम् ।
ग्राम्यारण्यैः पशुगणैः सम्पूर्णां च महीमिमाम् ॥ ७.७०.१९ ॥

这片大地充满各种各样的数百件珍宝,装饰着数百面旗幡,并布满村野与森林中的畜群。

7.70.20

रामस्य जामदग्न्यस्य प्रतिजग्राह कश्यपः ।
ततः शतसहस्राणि द्विपेन्द्रान्हेमभूषणान् ॥ ७.७०.२० ॥

迦叶从杰玛达格尼之子罗摩手中接受了它。随后是数十万头装饰着黄金的优良象。

7.70.21

निर्दस्युं पृथिवीं कृत्वा शिष्टेष्टजनसङ्कुलाम् ।
कश्यपाय ददौ रामो हयमेधे महामखे ॥ ७.७०.२१ ॥

罗摩使大地无盗贼,充满善良与可爱之人,然后在大马祭中将其赠予迦叶。

7.70.22

त्रिःसप्तकृत्वः पृथिवीं कृत्वा निःक्षत्रियां प्रभुः ।
इष्ट्वा क्रतुशतैर्वीरो ब्राह्मणेभ्यो ह्यमन्यत ॥ ७.७०.२२ ॥

二十一次使大地无刹帝利,并举行数百次祭祀之后,这位英勇之主决定将其赐予婆罗门。

7.70.23

सप्तद्वीपां वसुमतीं मारीचोऽगृह्णत द्विजः ।
रामं प्रोवाच निर्गच्छ वसुधातो ममाज्ञया ॥ ७.७०.२३ ॥

婆罗门仙人摩里追受了七洲之地,对罗摩说:“奉我之命,离开此地。”

7.70.24

स कश्यपस्य वचनात्प्रोत्सार्य सरिताम्पतिम् ।
इषुपाते युधां श्रेष्ठः कुर्वन्ब्राह्मणशासनम् ॥ ७.७०.२४ ॥

依迦叶之言,他将江河之主大海推退至一箭之程,这位最优秀的武士遵行婆罗门的命令。

7.70.25

अध्यावसद्गिरिश्रेष्ठं महेन्द्रं पर्वतोत्तमम् ।
एवं गुणशतैर्युक्तो भृगूणां कीर्तिवर्धनः ॥ ७.७०.२५ ॥

他住在山中之最、群峰之冠的摩亨陀罗山上。他具备百种美德,是光大婆利古族声名的人。

7.70.26

जामदग्न्यो ह्यतियशा मरिष्यति महाद्युतिः ।
त्वया चतुर्भद्रतरः पुण्यात्पुण्यतरस्तव ॥ ७.७०.२६ ॥

耶摩达格尼(持斧罗摩)名声显赫、威光盛大,将会死去。他比你吉祥四倍,比你的功德更加有功德。

7.70.27

अयज्वानमदक्षिण्यं मा पुत्रमनुतप्यथाः ।
एते चतुर्भद्रतरास्त्वया भद्रशताधिकाः।
मृता नरवरश्रेष्ठ मरिष्यन्ति च सृञ्जय ॥ ७.७०.२७ ॥

不要为一个不行祭祀、不施布施的儿子悲伤。这些人比你吉祥四倍,超过百种福德,已经死去,也将会死去,人中之最的娑利阇耶啊。