摩诃婆罗多 · 章 7.71
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
7.71.1
पुण्यमाख्यानमायुष्यं श्रुत्वा षोडशराजकम् ।
अव्याहरन्नरपतिस्तूष्णीमासीत्स सृञ्जयः ॥ ७.७१.१ ॥
聽完這段能延年益壽的神聖十六王故事後,國王蘇禪闍耶沉默不語。
7.71.2
तमब्रवीत्तदा दीनं नारदो भगवानृषिः ।
कच्चिन्मया व्याहृतं यद्धृदये तत्स्थितं तव ॥ ७.७१.२ ॥
那時,尊貴的仙人那羅陀對那位悲傷的國王說:「我所說的話,是否已經留在你的心中?」
7.71.3
आहोस्विदन्ततो नष्टं श्राद्धं शूद्रीपताविव ।
स एवमुक्तः प्रत्याह प्राञ्जलिः सृञ्जयस्तदा ॥ ७.७१.३ ॥
還是終究如同首陀羅的供奉一樣,祭祀已經失落了?」如此詢問之後,蘇禪闍耶合掌回答。
7.71.4
पुत्रशोकापहं श्रुत्वा धन्यमाख्यानमुत्तमम् ।
राजर्षीणां पुराणानां यज्वनां दक्षिणावताम् ॥ ७.७१.४ ॥
聽完這個能消除喪子之痛、吉祥而殊勝的故事,關於古代那些舉行祭祀並施予布施的王仙...
7.71.5
विस्मयेन हृते शोके तमसीवार्कतेजसा ।
विपाप्माऽस्म्यव्यथोपेतो ब्रूहि किं करवाण्यहम् ॥ ७.७१.५ ॥
因為驚異,悲傷被奪去,如同黑暗被太陽的光輝驅散。我已無罪、無苦惱;請告訴我,我該做什麼?
7.71.6
दिष्ट्यापहतशोकस्त्वं वृणीष्वेह यदिच्छसि ।
तत्ते सम्पत्स्यते सर्वं न मृषावादिनो वयम् ॥ ७.७१.६ ॥
幸運的是,你的悲傷已經被驅除;在此,你想要什麼恩賜都可以選擇。這一切都將為你實現,因為我們不說謊。
7.71.7
पावितोऽहमनेनैव प्रसन्नो यद्भवान्मम् ।
प्रसन्नो यस्य भगवान्न तस्यास्तीह दुर्लभम् ॥ ७.७१.७ ॥
仅因此我已得净化,因为您对我满意。凡世尊所悦之人,此间无有难得之事。
7.71.8
पुनर्ददामि ते पुत्रं दस्युभिर्निहतं वृथा ।
उद्धृत्य नरकात्कष्टात्पशुवत्प्रोक्षितं यथा ॥ ७.७१.८ ॥
我将把被盗贼徒然杀害的你的儿子还给你,正如从痛苦的地狱中提起牲畜并以圣水洒净一般。
7.71.9
प्रादुरासीत्ततः पुत्रः सृञ्जयस्याद्भुतप्रभः ।
प्रसन्नेनर्षिणा दत्तः कुबेरतनयोपमः ॥ ७.७१.९ ॥
于是,斯陵遮耶之子出现了,光辉奇妙,由喜悦的仙人所赐,如同俱毗罗之子。
7.71.10
ततः सङ्गम्य पुत्रेण प्रीतिमानभवन्नृपः ।
ईजे च क्रतुभिः पुण्यैः समाप्तवरदक्षिणैः ॥ ७.७१.१० ॥
于是,国王与儿子相会,心生喜悦,以圆满的赐物与酬礼举行了功德祭祀。
7.71.11
अकृतार्थश्च भीतश्च न च सन्नाहकोविदः ।
अयज्वाचानपत्यश्च ततोऽसौ जीवितः पुनः ॥ ७.७१.११ ॥
他先前无所成就而胆怯,不善披甲,不行祭祀,且无子嗣;此后他又复活了。
7.71.12
शूरो वीरः कृतार्थश्च प्रमथ्यारीन्सहस्रशः ।
अभिमन्युर्गतः स्वर्गं सङ्ग्रामेऽभिमुखाहतः ॥ ७.७१.१२ ॥
阿毗曼尤,勇猛英武,已达成所愿,摧破千千万万的敌人,在战场上迎面受创,升入天界。
7.71.13
ब्रह्मचर्येण याँल्लोकान्प्रजया च श्रुतेन च ।
इष्टैश्च क्रतुभिर्यान्ति तांस्ते पुत्रोऽक्षयान्गतः ॥ ७.७१.१३ ॥
凭梵行、子嗣、圣学,以及所愿的祭祀与仪式,人们得以往生那些世界;你的儿子已进入那不灭的世界。
7.71.14
विद्वांसः कर्मभिः पुण्यैः स्वर्गमीहन्ति नित्यशः ।
न तु स्वर्गादयं लोकः काम्यते स्वर्गवासिभिः ॥ ७.७१.१४ ॥
智者常以善业求生天界;然而天界居民并不以此世界胜过天界。
7.71.15
तस्मात्स्वर्गगतं पुत्रमर्जुनस्य हतं रणे ।
न चेहानयितुं शक्यं किञ्चिदप्राप्यमीहितम् ॥ ७.७१.१५ ॥
因此,阵亡沙场、已升天界的阿周那之子,不可能再被带回此处;因为凡所希求者,没有不可得的。
7.71.16
यां योगिनो ध्यानविविक्तदर्शनाः ।
प्रयान्ति यां चोत्तमयज्विनो जनाः।
तपोभिरिद्धैरनुयान्ति यां तथा ।
तामक्षयां ते तनयो गतो गतिम् ॥ ७.७१.१६ ॥
凭禅定而洞见澄明的瑜伽行者所至之道,最上祭祀者所往之道,以炽烈苦行所追随之道——那不灭之道,你的儿子已经抵达。
7.71.17
अन्तात्पुनर्भावगतो विराजते ।
राजेव वीरो ह्यमृतात्मरश्मिभिः।
तामैन्दवीमात्मतनुं द्विजोचितां ।
गतोऽभिमन्युर्न स शोकमर्हति ॥ ७.७१.१७ ॥
终结之后再得新的存在,那位英雄以不死自我的光芒闪耀如王。阿毗曼尤已获得那与再生者相称的、月光般的自身之身,不值得悲伤。
7.71.18
एवं ज्ञात्वा स्थिरो भूत्वा मा शुचो धैर्यमाप्नुहि ।
जीवन्हि पुरुषः शोच्यो न तु स्वर्गगतोऽनघ ॥ ७.७१.१८ ॥
知此之后,当坚定,勿悲伤,应持守坚忍。无罪者啊,应为之悲痛的是活着的人,而非已升天者。
7.71.19
शोचतो हि महाराज अघमेवाभिवर्धते ।
तस्माच्छोकं परित्यज्य श्रेयसे प्रयतेद्बुधः ॥ ७.७१.१९ ॥
因为,大王啊,悲伤者的罪恶只会增长。因此智者应舍弃悲伤,努力追求至善。
7.71.20
प्रहर्षं प्रीतिमानन्दं प्रियमुत्सिक्तचित्तताम् ।
एतदाहुर्बुधाः शौचमशौचं शोक उच्यते ॥ ७.७१.२० ॥
喜悦、欢欣、快乐、所爱之物与振奋的心志,智者称之为清净;悲伤则被称为不净。
7.71.21
एवं विद्वन्समुत्तिष्ठ प्रयतो भव मा शुचः ।
श्रुतस्ते सम्भवो मृत्योस्तपांस्यनुपमानि च ॥ ७.७१.२१ ॥
既已明白,便当起身,克制己心,勿悲伤。你已听闻死亡的起源以及无与伦比的苦行。
7.71.22
सर्वभूतसमत्वं च ब्रह्मणा चापि चोदितम् ।
सृञ्जयस्य तु पुत्रोऽसौ मृतः सञ्जीवितः श्रुतः ॥ ७.७१.२२ ॥
对一切众生平等之理,也是梵天所教导的。而且,已故的圣珊耶的那个儿子,据闻又复活了。
7.71.23
एवं विद्वन्महाराज मा शुचः साधयाम्यहम् ।
एतावदुक्त्वा भगवांस्तत्रैवान्तरधीयत ॥ ७.७१.२३ ॥
大王啊,知此之后,勿悲伤;我将使之成就。世尊说完这些,便就在那里隐没了。
7.71.24
वागीशाने भगवति व्यासे व्यभ्रनभःप्रभे ।
गते मतिमतां श्रेष्ठे समाश्वास्य युधिष्ठिरम् ॥ ७.७१.२४ ॥
毗耶娑(Vyāsa)乃言辞之主,光明如无云的天空,为智者中最杰出者,安慰了坚战(Yudhiṣṭhira)之后,便在那里隐去了。
7.71.25
पूर्वेषां पार्थिवेन्द्राणआं महेन्द्रप्रतिमौजसाम् ।
न्यायाधिगतवित्तानां तां श्रुत्वा यज्ञसम्पदम् ॥ ७.७१.२५ ॥
听闻昔日地上之王的祭祀盛况——他们威力堪比因陀罗,财富皆以正道获得。
7.71.26
सम्पूज्य मनसा विद्वान्विशोकोऽभूद्युधिष्ठिरः ।
पुनश्चाचिन्तयद्दीनः किंस्विद्वक्ष्ये धनञ्जयम् ॥ ७.७१.२६ ॥
坚战在心中礼敬之后,智慧的他便脱离了忧愁;然而他又悲伤起来,思忖道:“我该对财主(Dhanañjaya)说什么呢?”