摩诃婆罗多 · 章 7.72
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
7.72.1
अथ संशप्तकैः सार्धं युध्यमाने धनञ्जये ।
अभिमन्यौ हते चापि बाले बलवतां वरे ॥ ७.७२.१ ॥
当财富征服者与三誓军交战时,力量最强的少年阿毗曼尤也已被杀,
7.72.2
महर्षिसत्तमे याते व्यासे स तु युधिष्ठिरः ।
पाण्डवाः किमथाऽकार्षुः शोकोपहतचेतसः ॥ ७.७२.२ ॥
大仙中最优秀的毗耶娑离去之后,心为悲痛所伤的坚战与般度诸子又做了什么?
7.72.3
कथं संशप्तकेभ्यो वा निवृत्तो वानरध्वजः ।
केन वा कथितस्तस्य प्रशान्तः सुतपावकः।
एतन्मे शंस तत्त्वेन सर्वमेवेह सञ्जय ॥ ७.७२.३ ॥
猴旗者如何从三誓军中回返?是谁告诉他的?他儿子的火焰如何平息?全善,请如实把这一切告诉我。
7.72.4
शृणु राजन्यथा तेभ्यो निवृत्तः कृष्णसारथिः ।
ततः सर्वाणि सैन्यानि दहन्कृष्णगतिर्यथा ॥ ७.७२.४ ॥
大王请听,以克里希纳为御者的人如何从他们那里回返;随后,他如克里希纳的行进一般,焚烧所有军队而前进。
7.72.5
सम्प्रयातेऽस्तमादित्ये संध्याकाल उपस्थिते ।
अयातस्यात्मशिबिरं निमित्तैरघशंसिभिः ॥ ७.७२.५ ॥
太阳落山、黄昏时分来临之时,因预示凶兆的征兆,他没有返回自己的营地,
7.72.6
यच्चासीन्मानसं तस्य यच्च कृष्णेन भाषितम् ।
यथा च कथितस्तस्य निहतः सुतपावकः।
विस्तरेणैव मे सर्वं ब्रुवतः शृणु मारिष ॥ ७.७२.६ ॥
他心中所想,克里希纳所言,以及如何告诉他他儿子那火焰已被杀害,我将详细讲给你听;听着吧,尊者。
7.72.7
तस्मिन्नहनि निर्वृत्ते घोरे प्राणभृतां क्षये ।
आदित्येऽस्तङ्गते श्रीमान्सन्ध्याकाल उपस्थिते ॥ ७.७२.७ ॥
当那可怕的一天结束,众生毁灭之时,太阳已经落下,光辉的黄昏时分来临了。
7.72.8
व्यपयातेषु वासाय सर्वेषु भरतर्षभ ।
हत्वा संशप्तकव्रातान्दिव्यैरस्त्रैः कपिध्वजः ॥ ७.७२.८ ॥
婆罗多之牛啊,当众人都回到营帐之后,旗帜上有猴子的阿周那用神圣的兵器杀死了三伏军的各队。
7.72.9
प्रायात्स्वशिबिरं जिष्णुर्जैत्रमास्थाय तं रथम् ।
गच्छन्नेव च गोविन्दं साश्रुकण्ठोऽभ्यभाषत ॥ ७.७२.९ ॥
胜者阿周那登上那辆胜利之车,前往自己的营帐;在途中,他哽咽着声音对戈文达说话。
7.72.10
किं तु मे हृदयं त्रस्तं वाक्व सज्जति केशव ।
स्यन्दने नावतिष्ठामि गात्रैः सीदामि चाच्युत ॥ ७.७२.१० ॥
然而,啊,凯沙瓦,我的心在颤抖,言语也结结巴巴。我无法稳稳地站在战车上,啊,阿ச्युत,我的四肢正在瘫软下沉。
7.72.11
अनिष्टं चैव मे श्लिष्टं हृदयान्नापसर्पति ।
भुविये दिक्षु चात्युग्रा उत्पातास्त्रासयन्ति माम् ॥ ७.७२.११ ॥
这不祥的感觉紧紧缠住我的心,挥之不去。大地上和四方所出现的极其可怕的凶兆使我惊恐。
7.72.12
बहुप्रकारा दृश्यन्ते सर्व एवाघशंसिनः ।
अपि स्वस्ति भवेद्राज्ञः सामात्यस्य गुरोर्मम ॥ ७.७२.१२ ॥
各种各样的凶兆都显现出来,全都预示着灾祸。国王与他的大臣们,以及我的老师,还能得到平安吗?
7.72.13
व्यक्तं शिवं सहभ्रातुर्धर्मराजस्य पाण्डव ।
मा शुचःकिञ्चिदेवान्यत्तत्रानिष्टं भविष्यति ॥ ७.७२.१३ ॥
毫无疑问,法王(坚战)和他的兄弟们安好。啊,般度之子,不要悲伤;那里不会发生任何其他不幸。
7.72.14
ततः सन्ध्यामुपास्यैव वीरौ वीरावसादने ।
कथयन्तौ रणे वृत्तं प्रयातौ रथमास्थितौ ॥ ७.७२.१४ ॥
随后,二人行完黄昏祭礼,一边谈论战场上发生的事,一边登上战车出发了。
7.72.15
ततः स्वशिबिरं प्राप्तौ हतामित्रौ हतद्विषौ ।
वासुदेवोऽर्जुनश्चैव कृत्वा कर्म सुदुष्करम् ॥ ७.७२.१५ ॥
随后二人回到自己的营地,杀死了敌人,消灭了对手;毗摩 — 瓦苏提婆(黑天)与阿周那完成了极其艰难的功业。
7.72.16
ध्वस्ताकारमिवालेख्यं संवीक्ष्य शिबिरं स्वकम् ।
बीभत्सुरब्रवीत्कृष्णमस्वस्थहृदयस्ततः ॥ ७.७२.१६ ॥
阿周那看到自己的营地像一幅毁坏的画,心中不安,便对黑天说道。
7.72.17
नदन्ति नाद्य तूर्याणि मङ्गल्यानि जनार्दन ।
मिश्रा दुन्दुभिनिर्धोषैः शङ्खाश्चाडम्बरैः सह ॥ ७.७२.१७ ॥
啊,招那达那,今天吉祥的乐器不再鸣响;与鼓声混杂的海螺也不再喧响。
7.72.18
वीणा नैवाद्य वाद्यन्ते शम्यातालस्वनैः सह ।
मङ्गल्यानि च गीतानि न गायन्ति पठन्ति च ॥ ७.७२.१८ ॥
今天,维纳琴也不再伴着铃鼓与铙钹的声音演奏;吉祥的歌曲不再歌唱,也不再诵读。
7.72.19
स्तुतियुक्तानि रम्याणि ममानीकेषु बन्दिनः ।
योधाश्चापि हि मां दृष्ट्वा निवर्तन्ते ह्यधोमुखाः ॥ ७.७२.१९ ॥
在我的军中,颂扬的歌者与战士见到我,都低着头转身离去。
7.72.20
कर्माणि च यथापूर्वं कृत्वा नाभिवदन्ति माम् ।
अपि स्वस्ति भवेदद्य भ्रातृभ्यो मम माधव ॥ ७.७२.२० ॥
他们像从前一样履行职责,却不向我问候。哦,摩陀婆,愿我的兄弟们今日平安!
7.72.21
न हि शुद्ध्यति मे भावो दृष्ट्वा स्वजनमाकुलम् ।
अपि पाञ्चालराजस्य विराटस्य च मानद ॥ ७.७२.२१ ॥
见到亲族忧惧,我的心无法平静。哦,施予尊荣者,般遮罗王与毗罗吒亦是如此。
7.72.22
सर्वेषां चैव योधानां सामग्र्यं स्यान्ममाच्युत ।
न च मामद्य सौभद्रः प्रहृष्टो भ्रातृभिः सह।
रणादायान्तमुचितं प्रत्युद्याति हसन्निव ॥ ७.७२.२२ ॥
哦,阿曲多,所有的战士都会与我同在吗?今日,苏跋陀罗之子与诸兄弟欢喜地从战场归来,却没有像样地迎接我,仿佛在微笑。
7.72.23
एवं सङ्कथयन्तौ तौ प्रविष्टौ शिबिरं स्वकम् ।
ददृशाते भृशास्वस्थान्पाण्डवान्नष्टचेतसः ॥ ७.७२.२३ ॥
两人这样交谈着走进自己的营帐,看见般度之子们极其忧伤,心神迷乱。
7.72.24
दृष्ट्वा भ्रातृंश्च पुत्रांश्च विमना वानरध्वजः ।
अपश्यंश्चैव सौभद्रमिदं वचनमब्रवीत् ॥ ७.७२.२४ ॥
猴旗者(阿周那)见到兄弟与儿子,心情沮丧,又未见苏跋陀罗之子,便说出了这些话。
7.72.25
मुखवर्णोऽप्रसन्नो वः सर्वेषामेव लक्ष्यते ।
न चाभिमन्युं पश्यामि न च मां प्रतिनन्दथ ॥ ७.७२.२५ ॥
你们所有人的面色都显得不悦。我看不到阿毗曼尤,你们也不迎接我。
7.72.26
मया श्रुतश्च द्रोणेन पद्मव्यूहो विनिर्मितः ।
न च वस्तस्य भेत्ताऽस्ति विना सौभद्रमर्भकम् ॥ ७.७२.२६ ॥
我听说德罗纳布置了莲花阵,而能破阵的,除了那少年、苏跋陀罗之子,再无他人。
7.72.27
न चोपदिष्टस्तस्यासीन्मयानीकाद्विनिर्गमः ।
कच्चिन्न बालो युष्माभिः परानीकं प्रवेशितः ॥ ७.७२.२७ ॥
我并未指示他如何从军中脱出。莫非是你们把那少年送入了敌军之中?
7.72.28
भित्त्वाऽनीकं महेष्वासः परेषां बहुभिर्युधि ।
कच्चिन्न निहतः सङ्ख्ये सौभद्रः परवीरहा ॥ ७.७२.२८ ॥
这位大弓手、苏跋陀罗之子、诛杀敌方英雄者,在与众多敌人交战、冲破敌军之后,莫非已在阵中战死?
7.72.29
लोहिताक्षं महाबाहुं जातं सिंहमिवाद्रिषु ।
उपेन्द्रसदृशं ब्रूत कथमायोधने हतः ॥ ७.७२.२९ ॥
那红眼、臂力巨大、如生于山中之狮、堪比因陀罗之弟(Upendra)的人,究竟在阵中如何被杀?请告诉我。
7.72.30
सुकुमारं महेष्वासं वासवस्यात्मजात्मजम् ।
सदा मम प्रियं ब्रूत कथमायोधने हतः ॥ ७.७२.३० ॥
这位柔美的大弓手,因陀罗之孙的孙子,向来深得我心——他究竟在阵中如何被杀?请告诉我。
7.72.31
सुभद्रायाः प्रियं पुत्रं द्रौपद्याः केशवस्य च ।
अम्बायाश्च प्रियं नित्यं कोवधीत्कालमोहितः ॥ ७.७२.३१ ॥
谁被时间迷惑,杀害了苏跋陀罗、德劳帕蒂和克沙瓦所爱、也是安巴所爱的儿子?
7.72.32
सदृशो वृष्णिवीरस्य केशवस्य महात्मनः ।
विक्रमश्रुतमाहात्म्यैः कथमायोधने हतः ॥ ७.७२.३२ ॥
与吠里什尼英雄、大德克沙瓦相当,在勇力、名望与威德上,他在战场上是如何被杀的?
7.72.33
वार्ष्णेयीदयितं शूरं मया सततलालितम् ।
यदि पुत्रं न पश्यामि यास्यामि यमसादनम् ॥ ७.७२.३३ ॥
若我不见这位为瓦尔什涅伊所爱、我一直悉心抚育的英雄之子,我将前往阎摩之居。
7.72.34
मृदुकुञ्चितकेशान्तं बालं बालमृगेक्षणम् ।
मत्तद्विरदविक्रान्तं सिंहपोतमिवोद्गतम् ॥ ७.७२.३४ ॥
发梢柔软卷曲,少年,有幼鹿般的眼睛,步伐如狂象,又如初起的幼狮。
7.72.35
स्मिताभिभाषिणं दान्तं गुरुवाक्यकरं सदा ।
बाल्येऽप्यतुलकर्माणं प्रियवाक्यममत्सरम् ॥ ७.७२.३५ ॥
笑着说话,克己自律,总是听从长辈之言,少年时便有无与伦比的功业,言语悦人,无有嫉妒。
7.72.36
महोत्साहं महाबाहुं दीर्घराजीवलोचनम् ।
भक्तानुकम्पिनं दान्तं न च नीचानुसारिणम् ॥ ७.७२.३६ ॥
大有气力,臂膀有力,有长长的莲花眼,怜悯信徒,克己自律,不随从卑劣之人。
7.72.37
कृतज्ञं ज्ञानसम्पन्नं कृतास्त्रभनिवर्तिनम् ।
युद्धाभिनन्दिनं नित्यं द्विषतां भयवर्धनम् ॥ ७.७२.३७ ॥
感恩者,具足智慧,精通武器,能使敌人退却,常乐于战斗,增加敌人的恐惧。
7.72.38
स्वेषां प्रियहिते युक्तं पितॄणां जयगृद्धिनम् ।
न च पूर्वं प्रहर्तारं सम्प्रमे नष्टसम्भ्रमम्।
यदि पुत्रं न पश्यामि यास्यामि यमसादनम् ॥ ७.७२.३८ ॥
倾心于亲族的福祉与欢乐,渴望长辈取得胜利,在混乱中不先出手,从不慌乱。若我不见我的儿子,我将前往阎摩之处。
7.72.39
रथेषु गण्यमानेषु गणितं तं महारथम् ।
मयाऽध्यर्धगुणं सङ्ख्ये तरुणं बाहुशालिनम् ॥ ७.७२.३९ ॥
在计算战车武士时,我把这位大战车手在战斗中算作一倍半,那位以臂力自豪的年轻人。
7.72.40
प्रद्युम्नस्य प्रियं नित्यं केशवस्य ममैव च ।
यदि पुत्रं न पश्यामि यास्यामि यमसादनम् ॥ ७.७२.४० ॥
他常为钵罗德尤摩那所爱,也为克舍婆(黑天)和我所爱。若我不见我的儿子,我将前往阎摩之处。
7.72.41
सुनसं सुललाटान्तं स्वक्षिभ्रूदशनच्छदम् ।
अपश्यतस्तद्वदनं का शान्तिर्हृदयस्य मे ॥ ७.७२.४१ ॥
鼻子秀美、额头秀丽,眼睛、眉毛与嘴唇俱佳的那张脸,我若不见,我心何安?
7.72.42
तन्त्रीस्वनसुखं रम्यं पुंस्कोकिलसमध्वनिम् ।
अशृण्वतः स्वनं तस्य का शान्तिर्हृदयस्य मे ॥ ७.७२.४२ ॥
声如弦音般悦耳,美妙动人,如雄杜鹃之鸣,他的声音我若不闻,我心何安?
7.72.43
रूपं चाप्रतिमं तस्य त्रिदशैश्चापि दुर्लभम् ।
अपश्यतो हि वीरस्य का शान्तिर्हृदयस्य मे ॥ ७.७२.४३ ॥
他那无与伦比的容貌,即使诸神也难以得见——不见此英雄,我的心何以得安?
7.72.44
अभिवादनदक्षं तं पितॄणां वचने रतम् ।
नाद्याहं यदि पश्यामि का शान्तिर्हृदयस्य मे ॥ ७.७२.४४ ॥
善于恭敬行礼,专心听从长辈之言的他,若今日我不见他,我的心何以得安?
7.72.45
सुकुमारः सदा वीरो महार्हशयनोचितः ।
भूमावनाथवच्छेते नूनं नाथवतां वरः ॥ ७.७२.४५ ॥
那位英雄素来娇嫩,本应卧于贵重床榻之上,如今却像无人庇护者一样躺在地上——他这位有护佑者中的最优者,必定如此。
7.72.46
शयानं समुपासन्ति यं पुरा परमस्त्रियः ।
तमद्य विप्रविद्धाङ्गमुपासन्त्यशिवाः शिवाः ॥ ७.७२.४६ ॥
昔日他安卧之时,尊贵的女子们侍奉左右;如今他肢体残断,不祥的豺狼却来侍奉他。
7.72.47
यः पुरा बोध्यते सुप्तः सूतमागधबन्दिभिः ।
बोधयन्त्यद्य तं नूनं श्वापदा विकृतैः स्वनैः ॥ ७.७२.४७ ॥
昔日他睡眠之时,由御者、歌人和颂者唤醒;如今想必是猛兽以可怖的叫声唤醒他。
7.72.48
छत्रच्छायासमुचितं तस्य तद्वदनं शुभम् ।
नूनमद्य रजोध्वस्तं रणरेणुः करिष्यति ॥ ७.७२.४८ ॥
他那张俊美的面容,本当配得上华盖的荫庇——如今想必战场的尘土会将它蒙上灰尘。
7.72.49
हा पुत्रकावितृप्तस्य सततं पुत्रदर्शने ।
भाग्यहीनस्य कालेन यथा मे नीयसे बलात् ॥ ७.७२.४९ ॥
唉,我的儿子!我从未满足于见到你,我这个不幸之人,却被时光强行从我身边夺走。
7.72.50
सा च संयमनी नूनं सदा सुकृतिनां गतिः ।
स्वभाभिर्मोहिता रम्या त्वयाऽत्यर्थं विराजते ॥ ७.७२.५० ॥
那个三摩耶尼无疑总是善人的归宿;它以自身之性令人迷醉、美好,因你而光辉灿烂。
7.72.51
नूनं वैवस्वतश्च त्वां वरुणश्च प्रियातिथिम् ।
शतक्रतुर्धनेशश्च प्राप्तमर्चन्त्यभीरुकम् ॥ ७.७२.५१ ॥
毫无疑问,毗婆娑婆、伐楼那、百祭(因陀罗)与财神(俱毗罗)都敬奉你——这位无畏者,作为尊贵的客人而来。
7.72.52
एवं विलप्य बहुधा भिन्नपोतो वगिग्यथा ।
दुःखेन महताऽविष्टो युधिष्ठिरमपृच्छत ॥ ७.७२.५२ ॥
他如此多方哀叹,如同船只破碎的商人一般为极大的悲痛所笼罩,便向坚战发问。
7.72.53
कथं त्वयि च भीमे च धृष्टद्युम्ने च जीवति ।
सात्यके शक्रविक्रान्ते सौभद्रो निहतः परैः ॥ ७.७२.५३ ॥
当你、怖军、猛光和如因陀罗般勇猛的萨提奇都还活着时,苏跋陀罗之子怎会被敌人杀害?
7.72.54
कच्चित्स कदनं कृत्वा परेषां कुरुनन्दन ।
स्वर्गतोऽभिमुखः सङ्ख्ये युध्यमानो नरर्षभैः ॥ ७.७२.५४ ॥
啊,俱卢之喜悦,他是否已大肆杀戮敌人,面对面在战场上与人中雄牛们搏斗,升入天界?
7.72.55
स नूनं बहुभिर्यत्तैर्युध्यमानो नरर्षभैः ।
असहायः सहायार्थी मामनुध्यातवान्ध्रुवम् ॥ ७.७२.५५ ॥
他必定在与众多人中雄牛般的勇士苦战之时,无人相助,寻求援助,一定想起了我。
7.72.56
पीड्यमानः शरैर्बालस्तात साध्वभिधाव माम् ।
इति विप्रलपन्मन्ये नृशंसैर्भुवि पातितः ॥ ७.७२.५६ ॥
孩子被箭射伤,我想他哭喊着:“父亲,快跑到我这里来!”便被残忍之人击倒在地。
7.72.57
अथवा मत्प्रसूतः स स्वस्रीयो माधवस्य च ।
सुभद्रायां च सम्भूतो न चैवं वक्तुमर्हति ॥ ७.७२.५७ ॥
或者他是我所生,是摩陀婆(黑天)的外甥,生于苏跋陀罗,他不应当这样说。
7.72.58
वज्रसारमयं नूनं हृदयं सुदृढं मम ।
अपश्यतो दीर्घबाहुं रक्ताक्षं यन्न दीर्यते ॥ ७.७२.५८ ॥
我的心必定是由金刚之精华所造,非常坚硬,因为我不见那长臂、红眼之人,它却没有裂开。
7.72.59
कथं बाले महेष्वासा नृशंसा मर्मभेदिनः ।
स्वस्रीये वासुदेवस्य मम पुत्रेऽक्षिपञ्शरान् ॥ ७.७२.५९ ॥
那些大弓箭手、残忍的刺击要害者,怎么会向瓦苏提瓦的外甥、我的儿子这个孩子射箭呢?
7.72.60
यो मां नित्यमदीनात्मा प्रत्युद्गम्याभिनन्दति ।
उपयान्तं रिपून्हत्वा सोऽद्य मां किं न पश्यति ॥ ७.७२.६० ॥
那位始终心怀无畏、在我歼灭敌人归来时迎上前来向我致意的人,今天为何不见我?
7.72.61
नूनं स पातितः शेते धरण्यां रुधिरोक्षितः ।
शोभयन्मेदिनीं गात्रैरादित्य इव पातितः ॥ ७.७२.६१ ॥
他必定倒卧在地上,血迹斑斑,以肢体装点大地,如同坠落的太阳。
7.72.62
सुभद्रामनुशोचामि या पुत्रमपलायिनम् ।
रणे विनिहतं श्रुत्वा शोकार्ता वै विनङ्क्षति ॥ ७.७२.६२ ॥
我为苏跋德拉而悲伤:她听闻不逃遁的儿子战死沙场,必将因悲痛而毁灭。
7.72.63
सुभद्रा वक्ष्यते किं मामबिमन्युमपश्यती ।
द्रौपदीं चैव दुःखार्तां किं वा वक्ष्यामि तामहम् ॥ ७.७२.६३ ॥
不见阿毗曼尤,苏跋德拉会对我说什么?而我又该对悲痛的德罗波蒂说什么呢?
7.72.64
वज्रसारमयं नूनं हृदयं यन्न यास्यति ।
सहस्रधा वधूं दृष्ट्वा रुदतीं शोककर्शिताम् ॥ ७.७२.६४ ॥
我的心必定是用金刚石的精华做成的,看到悲痛消瘦、哭泣的儿媳,竟未碎成千片。
7.72.65
हृष्टानां धार्तराष्ट्राणां सिंहनादो मया श्रुतः ।
युयुत्सुश्चापि कृष्णेन श्रुतो वीरानुपालभन् ॥ ७.७२.६५ ॥
我听到了欢欣的持国之子发出的狮吼;而责备众英雄的犹由促,也被黑天听见了。
7.72.66
अशक्नुवन्तः पार्थस्य बालं हत्वा महाबलम् ।
किं न लज्जन्त्यधर्मज्ञाः पार्थिवा दृश्यतां बलम् ॥ ७.७२.६६ ॥
既不能抵挡般度之子,杀了那位大力少年,那些不懂法的国王为何不感到羞耻?且看他们的力量吧。
7.72.67
किं तयोर्विप्रियं कृत्वा केशवार्जुनयोर्मृधे ।
सिंहवन्नदथ प्रीताः शोककाल उपस्थिते ॥ ७.७२.६७ ॥
在战斗中给那两位克舍伐与阿周那造成了不快之后,你们高兴地像狮子一样吼叫,而悲痛的时刻已经来临吗?
7.72.68
आगमिष्यति वः क्षिप्रं फलं पापस्य कर्मणः ।
अधर्मो हि कृतस्तीव्रः कथं स्यादफलश्चिरम् ॥ ७.७२.६८ ॥
你们罪恶行为的果报很快就会降临。既然犯下了严重的不义,它又怎能长久不结果?
7.72.69
इति तान्परिभाषन्वै वैश्यापुत्रो महामतिः ।
अपायाच्छस्त्रमुत्सृज्य कोपदुःखसमन्वितः ॥ ७.७२.६९ ॥
他如此斥责他们,这位大智慧的吠舍之子,满怀愤怒与悲痛,退后并放下了武器。
7.72.70
किमर्थमेतन्नाख्यातं त्वया कृष्ण रणे मम ।
अधक्ष्यं तानहं क्रूरांस्तदा सर्वान्महारथान् ॥ ७.७२.७० ॥
克里希那,你为何在战场上没有告诉我?那样我就会烧死那些残忍的大车战士们了。
7.72.71
पुत्रशोकार्दितं पार्थं ध्यायन्तं साश्रुलोचनम् ।
निगृह्य वासुदेवस्तं पुत्राधिभिरभिप्लुतम्।
मैवमित्यब्रवीत्कृष्णस्तीव्रशोकसमन्वितम् ॥ ७.७२.७१ ॥
婆苏提婆(克里希那)制止了沉浸于思索、满眼泪水、为爱子之死而备受折磨的帕尔塔(阿周那);克里希那对这位被儿子之思压倒、充满强烈悲痛的人说:“不要这样。”
7.72.72
सर्वेषामेष वै पन्थाः शूराणामनिवर्तिनाम् ।
क्षत्रियाणां विशेषेण येषां नः शस्त्रजीविका ॥ ७.७२.७२ ॥
这是所有人的道路,尤其是那些不退缩的英雄,以及我们以兵器为生的刹帝利。
7.72.73
एषा वै युध्यमानानां शूराणामनिवर्तिनाम् ।
विहिता सर्वशास्त्रज्ञैर्गतिर्मतिमतां वर ॥ ७.७२.७३ ॥
这是精通一切经典者为那些奋战不退的英雄所规定的道路,智者中的最杰出者啊。
7.72.74
ध्रुवं हि युद्धे मरणं शूरामामनिवर्तिनाम् ।
गतः पुण्यकृतां लोकानभिमन्युर्न संशयः ॥ ७.७२.७४ ॥
不退的英雄在战斗中必然死亡;阿毗曼尤已前往行善者的世界,此事毫无疑问。
7.72.75
एतच्च सर्ववीराणां काङ्क्षितं भरतर्षभ ।
सङ्ग्रामेऽभिमुखा मृत्युं प्राप्नुयामेति मानद ॥ ७.७२.७५ ॥
这正是一切英雄所愿:婆罗多族的雄牛啊,在战场上面对面迎接死亡,施予荣誉者啊。
7.72.76
स च वीरान्रणे हत्वा राजपुत्रान्महाबलान् ।
वीरैराकाङ्क्षितं मृत्युं सम्प्राप्तोऽभिमुखं रणे ॥ ७.७२.७६ ॥
他在战场上杀死了强大的王子们英雄,以英雄所渴望的方式,面对面地在战场上迎来了死亡。
7.72.77
मा शुचः पुरुषव्याघ्र पूर्वैरेष सनातनः ।
धर्मकृद्भिः कृतो धर्मः क्षत्रियाणां रणे क्षयः ॥ ७.७२.७७ ॥
人中之虎啊,不要悲伤:这是先祖和行法者所确立的永恒法则,即刹帝利在战场上灭亡。
7.72.78
इमे ते भ्रातरः सर्वे दीना भरतसत्तम ।
त्वयि शोकसमाविष्टे नृपाश्च सुहृदस्तव ॥ ७.७२.७८ ॥
婆罗多中最优秀者啊,你的这些兄弟、国王和朋友,看到你被悲伤所笼罩,都感到哀伤。
7.72.79
एतांश्च वचसा साम्ना समाश्वासय मानद ।
विदितं वेदितव्यं ते न शोकं कर्तुमर्हसि ॥ ७.७२.७९ ॥
以温和的言语安慰他们吧,赐予尊荣者。你所应知的一切你都已知晓,你不应当悲伤。
7.72.80
एवमाश्वासितः पार्थः कृष्णेनाद्भुतकर्मणा ।
ततोऽब्रवीत्तदा भ्रातॄन्सर्वान्पार्थः सगद्गदम् ॥ ७.७२.८० ॥
被行事奇妙的黑天如此安慰后,阿周那便哽咽着对所有兄弟说道。
7.72.81
स दीर्घबाहुः पृथ्वंसो दीर्घराजीवलोचनः ।
अभिमन्युर्यथा वृत्तः श्रोतुमिच्छाम्यहं तथा ॥ ७.७२.८१ ॥
我想听听他——长臂、宽肩、长如莲花之眼的阿比曼尤——是如何倒下的。
7.72.82
सनागस्यन्दनहयान्सङ्ग्रामे निहतान्मया ।
क्षिप्रं द्रक्ष्यन्ति ते नूनं मम पुत्रं निहत्य वै ॥ ७.७२.८२ ॥
我在战场上所杀的象、车与马,他们很快便会看到;他们必定是在杀了我的儿子之后才会看到。
7.72.83
कथं च वः कृतास्त्राणां सर्वेषां शस्त्रपाणिनाम् ।
सौभद्रो निधनं गच्छेद्वज्रिणापि समागतः ॥ ७.७२.८३ ॥
你们都精通兵器、手持武器,为何萧布陀罗即使遭遇执金刚者,仍会身亡?
7.72.84
यद्येवमहमज्ञास्यमशक्तान्रक्षणे मम ।
सूनोः पाण्डवपाञ्चालानगोप्स्यं तं महारणे ॥ ७.७२.८४ ॥
若我早知般度之子与般遮罗人无力保护我的儿子,我自己便会在那场大战中护卫他。
7.72.85
कथं च वो रथस्यानां शरवर्षाणि मुञ्चताम् ।
नीतोऽभिमन्युर्निधनं कदर्थीकृत्य वः परैः ॥ ७.७२.८५ ॥
你们这些战车武士不断射出箭雨,阿比曼尤却在敌人的羞辱之下被带往死亡,这是怎么回事?
7.72.86
अहो वः पौरुषं नास्ति न च वोऽस्ति पराक्रमः ।
यत्राभिमन्युः समरे पश्यतां वो निपातितः ॥ ७.७२.८६ ॥
唉!你们当着眼前看着,阿比曼尤在战场上被击倒,你们竟没有男子气概,也没有勇武。
7.72.87
आत्मानमेव गर्हेयं यदहं वै सुदुर्बलान् ।
युष्मानाज्ञाय निर्यातो भीरूनकृतनिश्चयान् ॥ ७.७२.८७ ॥
我应当责备自己,明知你们如此软弱、怯懦、缺乏决心,我却仍出阵应战。
7.72.88
आहोस्विद्भूषणार्थाय वर्मशस्त्रायुधानि वः ।
वाचस्तु वक्तुं संसत्सु मम पुत्रमरक्षताम् ॥ ७.७२.८८ ॥
还是你们的盔甲、兵器和武器只是装饰,只为在集会上讲话之用?你们并没有保护我的儿子。
7.72.89
एवमुक्त्वा ततो वाक्यमतिष्ठद्वै वरासिमान् ।
न स्माशक्यत बीभत्सुः केनचित्प्रसमीक्षितुम् ॥ ७.७२.८९ ॥
说完这些话,他手持一把好剑站立;那时无人能直视毗跋蹉(阿周那)。
7.72.90
तमन्तकमिव क्रुद्धं निःश्वसन्तं मुहुर्मुहुः ।
महेन्द्रमिव तिष्ठन्तं वज्रोद्यतमहाभुजम्।
पुत्रशोकाभिसन्तप्तमश्रुपूर्णमुखं तदा ॥ ७.७२.९० ॥
他如同愤怒的死神,一再叹息,如同高举金刚杵的大因陀罗,双臂强健,因丧子之痛而煎熬,满面泪水,那时众人便这样看见了他。
7.72.91
न भाषितुं शक्नुवन्ति द्रष्टुं वा सुहृदोऽर्जुनम् ।
अन्यत्र वासुदेवाद्वा ज्येष्ठाद्वा पाण्डुनन्दनात् ॥ ७.७२.९१ ॥
除了瓦苏提婆(克里希那)或般度之子长兄,阿周那的朋友们都无法与他说话,也无法看他。
7.72.92
सर्वास्ववस्थासु हितावर्जुनस्य मनोनुगौ ।
बहुमानात्प्रियत्वाच्च तावेनं वक्तमर्हतः ॥ ७.७२.९२ ॥
在任何情况下,只有那两位心向阿周那、顺从其心意的人,因敬重与亲爱,才配与他说话。
7.72.93
ततस्तं पुत्रशोकेन भृशं पीडितमानसम् ।
राजीवलोचनं क्रुद्धं राजा वचनमब्रवीत् ॥ ७.७२.९३ ॥
那时,国王对他说了这些话。他心中因失子之痛而深感煎熬,那莲花眼的人此刻正愤怒。