Vedyatra वेदयात्रा
検索

マハーバーラタ · 章 7.74

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

語の意味つきで読む

7.74.1

श्रुत्वा तु तं महाशब्दं पाण्डूनां पुत्रगृद्धिनाम् ।
चारैः प्रवेदितस्त्रस्तः समुत्थाय जयद्रथः ॥ ७.७४.१ ॥

息子を切望するパーンダヴァたちの大きな叫びを聞き、間者から知らされた怯えたジャヤドラタは立ち上がった。

7.74.2

शोकसम्मूढहृदयो दुःखेनाभ्याहतो भृशम् ।
मज्जमान इवागाधे विपुले शोकसागरे।
जगाम समितिं राज्ञां सैन्धवो विमृशन्बहु ॥ ७.७४.२ ॥

悲しみに心を惑わされ、苦しみに深く打ちのめされ、底知れぬ広大な悲しみの海に沈むかのように、シンドゥの王は多くのことを思い悩みながら王たちの集会へ向かった。

7.74.3

स तेषां नरदेवानां सकाशे पर्यदेवयत् ।
अभिमन्युपितुर्भीतः सव्रीडो वाक्यमब्रवीत् ॥ ७.७४.३ ॥

彼はそれら人主の王たちの前で嘆き、アビマニユの父を恐れ、恥じながらこの言葉を述べた。

7.74.4

योऽसौ पाण्डोः किल क्षेत्रे जातः शक्रेण कामिना ।
स निनीषति दुर्बुद्धिर्मां किलैकं यमक्षयम् ॥ ७.७४.४ ॥

パーンドゥの田で好色なインドラによって生まれた者——その悪意ある者は私ひとりをヤマの住処へ連れて行こうとしている。

7.74.5

स्वस्ति वोऽस्तु गमिष्यामि स्वगृहं जीवितेप्सया। ॥ ७.७४.५ ॥

あなたがたに幸あれ。生きたいと願って、私は自分の家へ帰ろう。

7.74.6

अथवास्त्रप्रतिबलास्त्रात मां क्षत्रियर्षभाः ।
पार्थेन प्रार्थितं वीरास्ते सन्दत्त ममाभयम् ॥ ७.७४.६ ॥

あるいは、武器において互角の、クシャトリヤの牡牛たちよ、武器から私を守れ。英雄たちよ、パールタが求めた安全を私に与えよ。

7.74.7

द्रोणदुर्योधनकृपाः कर्णमद्रेशबाह्लिकाः ।
दुःशासनादयः शक्तास्त्रातुमप्यन्तकार्दितम् ॥ ७.७४.७ ॥

ドローナ、ドゥルヨーダナ、クリパ、カルナ、マドラ王、バーフリーカ、ドゥフシャーサナらも、死に苦しめられた者を救うことはできない。

7.74.8

किमङ्ग पुनरेकेन फल्गुनेन जिघांसता ।
न त्रास्यन्ति भवन्तो मां समस्ताः पतयः क्षितेः ॥ ७.७४.८ ॥

ただ一人のパールグナ(アルジュナ)が殺そうとして来るのに、まして何を言おう。大地の君主たちよ、あなた方すべてでも私を守れまい。

7.74.9

प्रतिज्ञां पाण्डवेयानां श्रुत्वा मम महद्भयम् ।
सीदन्ति मम गात्राणि मुमूर्षोरिव पार्थिवाः ॥ ७.७४.९ ॥

パーンドゥの子らの誓いを聞いて、私は大いに恐れを抱いた。王たちよ、死に瀕した者のように私の手足は萎えてゆく。

7.74.10

वधो नूनं प्रतिज्ञातो मम गाण्डीवधन्वना ।
तथाहि हृष्टाः क्रोशन्ति शोककालेऽपि पाण्डवाः ॥ ७.७४.१० ॥

ガーンディーヴァ弓の使い手は必ず私の死を誓ったのだ。だから悲しみの時でさえ、パーンダヴァたちは喜んで叫んでいるのだ。

7.74.11

तन्न देवा न गन्धर्वा नासुरोरगराक्षसाः ।
उत्सहन्तेऽन्यथा कर्तुं कुत एव नराधिपाः ॥ ७.७४.११ ॥

だからこそ、神々もガンダルヴァも、アスラも蛇も羅刹も、それを違えることはできない。ましてや人の王たちにおいてをや。

7.74.12

तस्मान्मामनुजानीत भद्रं वोऽस्तु नरर्षभाः ।
अदर्शनं गमिष्यामि न मां द्रक्ष्यन्ति पाण्डवाः ॥ ७.७४.१२ ॥

だから人中の牡牛たちよ、私に去る許しを与えよ。あなた方に幸いあれ。私は姿を消そう。パーンダヴァたちは私を見ないだろう。

7.74.13

एवं विलपमानं तं भयाद्व्याकुलचेतसम् ।
आत्मकार्यगरीयस्त्वाद्राजा दुर्योधनोऽब्रवीत् ॥ ७.७४.१३ ॥

このように恐怖に心乱れて嘆く彼に、自らの務めの重大さを思い、王ドゥルヨーダナは語った。

7.74.14

न भेतव्यं नरव्याघ्र को हि त्वां पुरुषर्षभ ।
मध्ये क्षत्रियवीराणां तिष्ठन्तं प्रार्थयेद्युधि ॥ ७.७४.१४ ॥

人中の虎よ、恐れるな。人中の牛よ、勇敢なクシャトリヤたちの中に立つお前を、誰が戦いで討とうとするだろうか。

7.74.15

एतेषां नरदेवानां मत्तमातङ्गगामिनाम् ।
सङ्घातमुपयातानामपि विभ्येत्पुरन्दरः ॥ ७.७४.१५ ॥

狂った象のように歩むこれら人主の群れが押し寄せれば、インドラすら恐れるであろう。

7.74.16

अहं वैकर्तनः कर्णश्चित्रसेनो विविंशतिः ।
भूरिश्रवाः शलः शल्यो वृषसेनो दुरासदः ॥ ७.७४.१६ ॥

私、ヴィカルタナの子カルナ、チトラセーナ、ヴィヴィンシャティ、ブーリシュラヴァス、シャラ、シャリヤ、ヴリシャセーナ——打ち負かし難き者たちである。

7.74.17

पुरुमित्रो जयो भोजः काम्भोजश्च सुदक्षिणः ।
सत्यव्रतो महाबाहुर्विकर्णो दुर्मुखश्च ह ॥ ७.७४.१७ ॥

プルミトラ、ジャヤ、ボージャ、カンボージャのスダクシナ、大臂のサティヤヴラタ、ヴィカルナ、そしてドゥルムカも。

7.74.18

दुःशासनः सुबाहुश्च कालिङ्गश्चाप्युदायुधः ।
विन्दानुविन्दावावन्त्यौ द्रोणो द्रौणिश्च सौबलः ॥ ७.७४.१८ ॥

ドゥフシャーサナ、スバーフ、カリンガ王、ウダーユダ、アヴァンティーの二王子ヴィンダとアヌヴィンダ、ドローナ、ドローナの子アシュヴァッターマン、そしてスバラの子シャクニ。

7.74.19

मायावी बलवाञ्छूरो राक्षसश्चाप्यलम्बुसः ।
एते चान्ये च बहवो नानाजनपदेश्वराः।
ससैन्यास्त्वाभिगोप्स्यन्ति व्येतु ते मानसो ज्वरः ॥ ७.७४.१९ ॥

幻術に長け、力強く勇敢な羅刹アランブシャ、そしてこれらや他の多くの諸国の王たちが、軍勢とともにお前を守るであろう。お前の心の熱病は去るがよい。

7.74.20

त्वं चापि रथिनां श्रेष्ठः स्वयं शूरोऽमितद्युते ।
स कथं पाण्डवेयेभ्यो भयं पश्यसि वैन्धव ॥ ७.७४.२० ॥

無限の輝きを持つ者よ、お前自身も戦車戦士の中で最も優れた英雄である。縁者よ、どうしてパーンドゥの息子たちに恐れを見るのか。

7.74.21

अक्षौहिण्यो महावीर्य मदीयास्तव रक्षणे ।
यत्ता योत्स्यन्ति माभैस्त्वं सैन्धव व्येतु ते भयम् ॥ ७.७४.२१ ॥

偉大な勇者よ、我が軍のアクシャウヒニー軍勢は、お前を守るために準備を整え戦うであろう。サインダヴァよ、恐れるな。お前の恐れは去るがよい。

7.74.22

एवमाश्वासितो राजन्पुत्रेण तव सैन्धवः ।
दुर्योधनेन सहितो द्रोणं रात्रावुपागमत् ॥ ७.७४.२२ ॥

王よ、このようにお前の息子に慰められて、サインダヴァはドゥルヨーダナとともに夜、ドローナのもとへ赴いた。

7.74.23

उपसङ्गृह्य चरणौ द्रोणाय स विशाम्पतिः ।
उपोपविश्य प्रणतः पर्यपृच्छदिदं वचः ॥ ७.७४.२३ ॥

その民の主はドローナの足に触れ、そばに座り、深く頭を下げて、このように尋ねた。

7.74.24

निमित्ते दूरपातित्वे लघुत्वे दृढवेधने ।
मम ब्रवीतु भगवान्विशेषं फल्गुनस्य च ॥ ७.७४.२४ ॥

尊き方よ、前兆において、遠くから射ることにおいて、身の軽さにおいて、そして確実な的中において、パールグナ(アルジュナ)の卓越を私にお教えください。

7.74.25

विद्याविशेषमिच्छामि ज्ञातुमाचार्य तत्त्वतः ।
अर्जुनस्यात्मनश्चैव याथातथ्यं प्रचक्ष्व मे ॥ ७.७४.२५ ॥

師から真実に、アルジュナと私自身の特別な技量を知りたい。その正確な真実を私に説明してください。

7.74.26

सममाचार्यकं तात तव चैवार्जुनस्य च ।
योगाद्दुःखोषितत्वाच्च तस्मात्त्वत्तोऽधिकोऽर्जुनः ॥ ७.७४.२६ ॥

愛し子よ、おまえとアルジュナの教えは等しい。しかし努力と苦難に耐えたことにより、アルジュナはおまえより優れている。

7.74.27

न तु ते युधि सन्त्रासः कार्यः पार्थात्कथञ्चन ।
अहं हि रक्षिता तात भयात्त्वां नात्र संशयः ॥ ७.७४.२७ ॥

しかし戦いにおいて、おまえはプリター の子から決して恐れてはならない。愛し子よ、私こそおまえを恐れから守る。これに疑いはない。

7.74.28

न हि मद्बाहुगुप्तस्य प्रभवन्त्यमरा अपि ।
व्यूहयिष्यामि तं व्यूहं यं पार्थो न तरिष्यति ॥ ७.७४.२८ ॥

まことに、私の腕に守られた者には神々さえも打ち勝てない。プリターの子が越えられない陣形を、私は組もう。

7.74.29

तस्माद्युध्यस्व माभैस्त्वं स्वधर्ममनुपालय ।
पितृपैतामहं मार्गमनुयाहि महारथ ॥ ७.७४.२९ ॥

ゆえに戦え、恐れるな。自らの義務を守れ。大戦車兵よ、父祖の道を歩め。

7.74.30

अधीता विधिवद्वेदा अग्नयः सुहुतास्त्वया ।
इष्टं च बहुभिर्यज्ञैर्न ते मृत्युर्भयङ्करः ॥ ७.७४.३० ॥

おまえは規定どおりヴェーダを学び、火に良く供物を捧げ、多くの祭祀を行った。おまえの死は恐ろしいものにはならない。

7.74.31

दुर्लभं मानुषैर्मन्दैर्महाभाग्यमवाप्य तु ।
भुजवीर्यार्जिताँल्लोकान्दिव्यान्प्राप्स्यस्यनुत्तमान् ॥ ७.७४.३१ ॥

愚かな人間にはまれな大いなる幸運を得て、あなたは腕の力で勝ち得た神聖で最上の世界に到達するであろう。

7.74.32

कुरवः पाण्डवाश्चैव वृष्णयोऽन्ये च मानवाः ।
अहं च सहपुत्रेण अध्रुवा इति चिन्त्यताम् ॥ ७.७४.३२ ॥

クルの人々、パーンダヴァ、ヴリシュニ族、その他の人々、そして私と息子も、無常であると考えよ。

7.74.33

पर्यायेण वयं सर्वे कालेन बलिना हताः ।
परलोकं गमिष्यामः स्वैःस्वैः कर्मभिरन्विताः ॥ ७.७४.३३ ॥

私たちは皆、順番に強大な時によって倒され、それぞれの行為を伴って来世へ行くであろう。

7.74.34

तपस्तप्त्वा तु याँल्लोकान्प्राप्नुवन्ति तपस्विनः ।
क्षत्रधर्माश्रिताः वीराः क्षत्रियाः प्राप्नुवन्ति तान् ॥ ७.७४.३४ ॥

苦行者が苦行によって得る世界を、武人の法に依拠する勇敢なクシャトリヤもまた得るのである。

7.74.35

एवमाश्वासितो राजा भारद्वाजेन सैन्धवः ।
अपानुदद्भयं पार्थाद्युद्धाय च मनो दधे ॥ ७.७४.३५ ॥

バーラドヴァージャ(ドローナ)にこのように慰められたシンドゥ王は、プリターの子(アルジュナ)への恐れを払いのけ、戦いに心を向けた。

7.74.36

ततः प्रहर्षः सैन्यानां तस्य चासीद्विशाम्पते ।
वादित्राणां ध्वनिश्चोग्रः सिंहनादरवैः सह ॥ ७.७४.३६ ॥

そのとき、民の主よ、彼の軍勢には歓喜が生じ、獅子吼の声とともに楽器の激しい音が響き渡った。