Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 7.76

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

7.76.1

षड्रथान्धार्तराष्ट्रस्य मन्यसे यान्बलाधिकान् ।
तेषां वीर्यं ममार्धेन न तुल्यमिति मे मतिः ॥ ७.७६.१ ॥

你认为持国之子中力量更强的那六位车战勇士,其勇力连我的一半也比不上,这是我的看法。

7.76.2

अस्त्रमस्त्रेण सर्वेषामेतेषां मधुसूदन ।
मया द्रक्ष्यसि निर्भिन्नं जयद्रथवधैषिणा ॥ ७.७६.२ ॥

摩图苏陀那啊,你将看到我以兵器斩断他们的兵器,将他们全部刺穿,因为我志在诛杀胜车。

7.76.3

द्रोणस्य मिषतश्चाहं सगणस्य विपश्चितः ।
मूर्धानं सिन्धुराजस्य पातयिष्यामि भूतले ॥ ७.७६.३ ॥

在德罗纳注视之下,在那位智者及其随从面前,我要让信度王的头颅落到地上。

7.76.4

यदि साध्याश्च रुद्राश्च वसवश्च सहाश्विनः ।
मरुतश्च सहेन्द्रेण विश्वेदेवाः सहेश्वराः ॥ ७.७६.४ ॥

即使萨提亚神、楼陀罗诸神、与双马神同在的婆苏神、与因陀罗同在的摩录多神、与主宰者同在的诸天神前来护卫他,

7.76.5

पितरः सहगन्धर्वाः सुपर्णाः सागराद्रयः ।
द्यौर्वियत्पृथिवी चेयं दिशश्च सदिगीश्वराः ॥ ७.७६.५ ॥

祖先与乾达婆同在,金翅鸟,海洋与山岳,天界,虚空,此大地,以及带着方位守护神的四方,

7.76.6

ग्राम्यारण्यानि भूतानि स्थावराणि चराणि च ।
त्रातारः सिन्धुराजस्य भवन्ति मधुसूदन ॥ ७.७६.६ ॥

摩图苏陀那啊,即便村庄与森林中的一切生灵,静止的与行动的,都成为信度王的护卫,

7.76.7

तथापि बाणैर्निहतं श्वो द्रष्टासि रणे मया ।
सत्येन च शपे कृष्ण तथैवायुधमालभे ॥ ७.७६.७ ॥

尽管如此,明天在战场上你将看到被我箭矢射倒的人。黑天啊,我以真理发誓,并如此触摸我的武器。

7.76.8

यस्य गोप्ता महेष्वासो द्रोणः पापस्य दुर्मतेः ।
तमेव प्रथमं द्रोणमभियास्यामि केशव ॥ ७.७६.८ ॥

那作恶多端、心怀邪念之人的守护者,是伟大的弓箭手德罗纳——黑天啊,我将首先进攻的正是这位德罗纳。

7.76.9

तस्मिन्युद्धमिदं बद्धं मन्यते स सुयोधनः ।
तस्मात्तस्यैव सेनाग्रं भित्त्वा यास्यामि सैन्धवम् ॥ ७.७६.९ ॥

苏夜提那认为这场战斗系于他一人;因此,我将冲破那支军队的前锋,前往信度之王那里。

7.76.10

द्रष्टासि श्वो महेष्वासान्नाराचैस्तिग्मतेजितैः ।
शृङ्गाणीव गिरेर्वज्रैर्दार्यमाणान्मया युधि ॥ ७.७६.१० ॥

明天你将看到伟大的弓箭手在战场上被我锐利的铁杆箭射穿,如同山峰被雷霆劈裂一般。

7.76.11

नरनागाश्वदेहेभ्यो विस्रविष्यति शोणितम् ।
पतद्ध्यः पतितेभ्यश्च विभिन्नेभ्यः शितैः शरैः ॥ ७.७६.११ ॥

人、象、马的身体将流出鲜血——从正在倒下的、已经倒下的,以及被锐利箭矢穿透的身上。

7.76.12

गाण्डीवप्रेषिता बाणा मनोऽनिलसमा जवे ।
नृनागाश्वान्विदेहासून्कर्तारश्च सहस्रशः ॥ ७.७६.१२ ॥

从甘狄拔弓射出的箭,速度如意念与风,将把成千上万的人、象、马的生命从身体中夺去。

7.76.13

शक्राद्भीष्मात्कृपाद्द्रोणाद्देवाद्रुद्राच्च यन्मया ।
उपात्तमस्त्रं घोरं तद्दष्टारोऽत्र नरा युधि ॥ ७.७६.१३ ॥

我从因陀罗、毗湿摩、克利巴、德罗纳、天神和楼陀罗那里所得的可怖神兵,此地的人们将在战场上亲眼见到。

7.76.14

ब्राह्मेणास्त्रेण चास्त्राणि हन्यमानानि संयुगे ।
मया द्रष्टाऽसि सर्वेषां सैन्धवस्याभिरक्षिणाम् ॥ ७.७६.१४ ॥

当战场上的兵器被梵天神箭摧毁时,我将在信度王的所有护卫之中见到你。

7.76.15

शरवेगसमुत्कृत्तै राज्ञां केशव मूर्धभिः ।
आस्तीर्यमाणां पृथिवीं द्रष्टाऽसि श्वो मया युधि ॥ ७.७६.१५ ॥

啊,克舍婆!被箭势所斩的诸王之首铺满的大地,明日在战场上你将由我而见到。

7.76.16

क्रव्यादांस्तर्पयिष्यामि द्रावयिष्यामि शात्रवान् ।
सुहृदो नन्दयिष्यामि प्रमथिष्यामि सैन्धवम् ॥ ७.७६.१६ ॥

我要使食肉者饱足,驱散敌人,使朋友欢喜,并摧毁信度人。

7.76.17

बह्वागस्कृत्कुसंबन्धी पापदेशसमुद्भवः ।
मया सैन्धवको राजा हतः स्वाञ्शोचयिष्यति ॥ ७.७६.१७ ॥

这位多行罪过、行为不端、生于罪恶之地的信度王,将被我杀死,并使他的亲族悲伤。

7.76.18

सर्वे क्षीरान्नभोक्तारः पापाचारा रणाजिरे ।
मया सराजका बाणैर्हता नश्यन्ति सैन्धवाः ॥ ७.७६.१८ ॥

所有信度人,食用乳与谷物、行为罪恶者,连同他们的国王在战场上被我的箭射杀,将会灭亡。

7.76.19

तथा प्रभाते कर्ताऽस्मि यथा कृष्ण सुयोधनः ।
नान्यं धनुर्धरं लोके मंस्यते मत्समं युधि ॥ ७.७६.१९ ॥

克里希那啊,黎明时我将对苏由陀那做我该做的事。世上将无人被认为在战场上与我匹敌的另一位弓手。

7.76.20

गाण्डीवं च धनुर्दिव्यं योद्धारं च धनञ्जम् ।
यन्तारं च हृषीकेशं कोऽतिवर्तेत संयुगे ॥ ७.७६.२० ॥

有神弓甘狄拔,战士达那阇耶,以及作御者的希利希开舍,谁能在战场上胜过他们?

7.76.21

तव प्रसादाद्भगवन्किंनावाप्तं रणे मम ।
अविषह्यं हृषीकेश किं जानन्मां विगर्हसे ॥ ७.७६.२१ ॥

尊贵的主啊,凭你的恩典,我在战斗中有什么未曾获得?希利希开舍啊,你明知我不可战胜,为何责备我?

7.76.22

यथा लक्ष्म स्थिरं चन्द्रे समुद्रे च यथा जलम् ।
एवमेतां प्रतिज्ञां मे सत्यां विद्धि जनार्दन ॥ ७.७६.२२ ॥

如同月中之印记恒定,如同海中之水安稳,请知道我这誓言是真实的,阁下( 竟那陀那)。

7.76.23

मावमंस्था ममास्त्राणि मावमंस्थाश्च गाण्डिवम् ।
मावमंस्था बलं बाह्वोर्मावमंस्था धनञ्जयम् ॥ ७.७६.२३ ॥

不要轻视我的兵器,不要轻视甘狄拔弓,不要轻视我双臂的力量,不要轻视达那阇耶。

7.76.24

गाण्डीवं च धनुर्दिव्यं योद्धा चाहं नरर्षभ ।
त्वं च यन्ता हृषीकेश किन्नु स्यादजितं मया ॥ ७.७६.२४ ॥

神弓甘狄拔,我是战士,而你,人中雄杰希利希开舍,是御者。那么,还有什么是我无法征服的呢?

7.76.25

यथाभियाय सङ्ग्रमं न जितो वै जयामि च ।
तेन सत्येन सङ्ग्रामे हतं विद्धि जयद्रथम् ॥ ७.७६.२५ ॥

正如我进入战斗从未战败而获胜,你当凭此真理知道,贤车(胜车)已在战中被杀。

7.76.26

त्वं च माधव सर्वं तत्तथा प्रतिविधास्यसि ।
यथा रिपूणां मिषतां प्रमथिष्यामि सैन्धवम् ॥ ७.७६.२६ ॥

而你,啊摩陀婆,也会如此安排一切,使我能在敌人注视之下摧毁信度王。

7.76.27

ध्रुवं वै ब्राह्मणे सत्यं ध्रुवा साधुषु सन्नतिः ।
श्रीर्ध्रुवाऽपि च दक्षेषु ध्रुवो नारायणे जयः ॥ ७.७६.२७ ॥

婆罗门中真理必定,善人之前恭敬恒定,能者之中吉祥也恒定,而在那罗延中,胜利必定。

7.76.28

एवमुक्त्वा हृषीकेशं स्वयमात्मानमात्मना ।
सन्दिदेशार्जुनो नर्दन्वासविः केशवं प्रभुम् ॥ ७.७६.२८ ॥

对希利奢迦如此说后,婆薮之子阿周那怒吼着,将自身托付给主尊羯沙婆。

7.76.29

यथा प्रभातां रजनीं कल्पितः स्याद्रथोत्तमः ।
तथा कार्यं त्वया कृष्ण प्रतिज्ञा स्याद्यथा ध्रुवा ॥ ७.७६.२९ ॥

犹如夜尽天明之时,最好的战车便已备妥,你也应如此行事,啊克里希那,使誓言必定得以实现。