Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 7.77

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

7.77.1

तां निशां दुःखशोकार्तौ निःश्वसन्ताविवोरगौ ।
निद्रां नैवोपलेभाते वासुदेवधनञ्जयौ ॥ ७.७७.१ ॥

那一夜,被悲痛与忧伤折磨的瓦苏提婆与达南遮耶,如同两条叹息的毒蛇,都无法入睡。

7.77.2

नरनारायणौ क्रुद्धौ ज्ञात्वा देवाः सवासवाः ।
व्यथिताश्चिन्तयामासुः किंस्विदेतद्भविष्यति ॥ ७.७७.२ ॥

诸神与因陀罗得知那罗与那罗衍那已然震怒,心中忧惧,便思量道:“这将会发生什么?”

7.77.3

ववुश्च दारुणा वाता रूक्षा घोराभिशंसिनः ।
सकबन्धस्तथाऽऽदित्ये परिघः समदृश्यत ॥ ७.७७.३ ॥

可怕而粗厉、预示凶兆的狂风刮起,太阳周围出现了一个带有无头躯干的光环。

7.77.4

शुष्काशन्यश्च निष्पेतुः सनिर्घाताः सविद्युतः ।
चचाल चापि पृथिवी सशैलवनकानना ॥ ७.७७.४ ॥

干雷落下,伴随着轰鸣与闪电,大地连同山岳、森林与园林都为之震动。

7.77.5

चुक्षुभुश्च महाराज सागारा मकरालयाः ।
प्रतिस्रोतःप्रवृत्ताश्च तथा गन्तुं समुद्रगाः ॥ ७.७७.५ ॥

大王啊,作为摩迦罗(海兽)居所的大海连同岸边一同翻腾,流向大海的河流也逆流而动。

7.77.6

रथाश्वनरनागानां प्रवृत्तमधरोत्तरम् ।
क्रव्यादानां प्रमोदार्थं यमराष्ट्रविवृद्धये ॥ ७.७७.६ ॥

战车、战马、士兵与象群的毁灭颠倒着开始了,为了让食肉者欢欣,为了使阎摩之国增长。

7.77.7

वाहनानि शकृन्मूत्रे मुमुचू रुरुदुश्च ह ।
तान्दृष्ट्वा दारुणान्सर्वानुत्पाताँल्लोमहर्षणान् ॥ ७.७७.७ ॥

坐骑排泄粪便与尿液,并且哭泣。看到这一切可怖、令人毛骨悚然的凶兆,

7.77.8

सर्वे ते व्यथिताः सैन्यास्त्वदीया भरतर्षभा ।
श्रुत्वा महाबलस्योग्रां प्रतिज्ञां सव्यसाचिनः ॥ ७.७७.८ ॥

婆罗多族的雄杰啊,你的军士们听到大力的萨维亚萨钦(阿周那)那可怕的誓言,全都惊恐不安。

7.77.9

अथ कृष्णं महाबाहुरब्रवीत्पाकशासनिः ।
आश्वासय सुभद्रां त्वं भगिनीं स्नुषया सह ॥ ७.७७.९ ॥

于是大臂的帝释之子(阿周那)对黑天说:“你去与你的妹妹苏跋陀罗及其儿媳一同安慰她们吧。”

7.77.10

स्नुषां चास्या वयस्याश्च विशोकाः कुरु माधव ।
साम्ना सत्येन युक्तेन वचसाऽऽश्वासय प्रभो ॥ ७.७७.१० ॥

摩陀婆啊,使她的儿媳和女伴们免于悲伤。主啊,用与真理相应的温和言语安慰她们。

7.77.11

ततोऽर्जुनगृहं गत्वा वासुदेवः सुदुर्मनाः ।
भगिनीं पुत्रशोकार्तामाश्वासयत दुःखिताम् ॥ ७.७७.११ ॥

于是,婆苏提婆心中极为忧伤,来到阿周那的家中,安慰因失去儿子而哀痛的妹妹。

7.77.12

मा शोकं कुरु वार्ष्णेयि कुमारं प्रति सस्नुषा ।
सर्वेषां प्राणिनां भीरु निष्ठैषा कालनिर्मिता ॥ ७.७७.१२ ॥

瓦尔什尼的女儿啊,不要为年幼的王子和你的儿媳悲伤。胆怯的人啊,这是一切众生的归宿,乃时间所定。

7.77.13

कुले जातस्य वीरस्य क्षत्रियस्य विशेषतः ।
सदृशं मरणं ह्येतत्तव पुत्रस्य मा शुचः ॥ ७.७७.१३ ॥

对于出身高贵家族的英雄,尤其是刹帝利,这样的死亡是相称的。不要为你的儿子悲伤。

7.77.14

दिष्ट्या महारथो धीरः पितुस्तुल्यपराक्रमः ।
क्षात्रेण विधिना प्राप्तो वीराभिलषितां गतिम् ॥ ७.७७.१४ ॥

幸运的是,那位大车战士,坚毅且勇力与父亲相等,依刹帝利之法,到达了英雄所向往的归宿。

7.77.15

जित्वा सुबहुशः शत्रून्प्रेषयित्वा च मृत्यवे ।
गतः पुण्यकृतां लोकान्सर्वकामदुहोऽक्षयान् ॥ ७.७७.१५ ॥

他多次战胜敌人并将他们送往死亡,如今已前往行善者所居、满足一切愿望的不灭世界。

7.77.16

तपसा ब्रह्मचर्येण श्रुतेन प्रज्ञयापि च ।
सन्तो यां गतिमिच्छन्ति तां प्राप्तस्तव पुत्रकः ॥ ७.७७.१६ ॥

善人通过苦行、梵行、学识与智慧所希求的归宿,你的儿子已经到达了。

7.77.17

वीरसूर्वीरपत्नी त्वं वीरजा वीरबान्धवा ।
मा शुचस्तनयं भद्रे गतःस परमां गतिम् ॥ ७.७७.१७ ॥

你是英雄之母,英雄之妻,出身英雄之家,也是英雄的亲人。善良的女子啊,不要为你的儿子悲伤;他已到达了至高的归宿。

7.77.18

शूरं सूते त्वद्विधा राजपुत्री ॥ ७.७७.१८ ॥

像你这样的王女,能生育英雄。

7.77.19

प्राप्स्यते चाप्यसौ पापः सैन्धवो बालघातकः ।
अधर्मस्यास्य तु फलं ससुहृद्गणबान्धवः ॥ ७.७७.१९ ॥

这个杀害孩童的罪人信度王,也将承受这不义的果报,连同他的朋友、随从和亲属。

7.77.20

व्युष्टायां तु वरारोहे रजन्यां पापकर्मकृत् ।
न हि मोक्ष्यति पार्थात्स प्रविष्टोऽप्यमरावतीम् ॥ ७.७७.२० ॥

美腰的女子啊,夜过天明之时,这作恶之人也逃不过普利塔之子,即使他进入了因陀罗之城阿摩罗婆提。

7.77.21

श्वः शिरः पादमूलं ते सैन्धवस्याहृतं ध्रुवम् ।
पद्ध्यां प्रमथितासि त्वं विशोका भव मा रुदः ॥ ७.७७.२१ ॥

明天,信度王的头颅和脚底必定会被带来给你;你将用脚踩踏它们。去除悲伤,不要哭泣。

7.77.22

क्षत्रधर्मं पुरस्कृत्य गतः शूरः सतां गतिम् ।
वयं च प्राप्नुयामेह ये चान्ये शस्त्रजीविनः ॥ ७.७७.२२ ॥

这位英雄以刹帝利之法为先,已踏上善人的归途。愿我们以及其他以武器为生的人,也能在此获得这样的归宿。

7.77.23

व्यूढोरस्को महाबाहुरनिवर्ती रिपुव्रजात् ।
गतस्तव वरारोहे पुत्रः स्वर्गं ज्वरं जहि ॥ ७.७७.२३ ॥

美腰的女子啊,你那宽阔胸膛、双臂有力的儿子,未曾从敌军中退缩,已升往天界。请舍去这悲痛的热病。

7.77.24

अनुयातश्च पितरं मातृपक्षं च वीर्यवान् ।
सहस्रशो रिपून्हत्वा हतः शूरो महारथः ॥ ७.७७.२४ ॥

那位勇猛的英雄,追随父亲与母族亲人,斩杀了成千上万的敌人,而后战死,这位大战车武士。

7.77.25

आश्वासय स्नुषां राज्ञि मा शुचः क्षत्रिये भृशम् ।
श्वः प्रियं सुमहच्छ्रुत्वा विशोका भव नन्दिनि ॥ ७.७७.२५ ॥

王后啊,安慰你的儿媳,不要为勇士如此悲痛。明天听到极其令人欣喜的消息,喜悦的女子啊,从忧伤中解脱吧。

7.77.26

यत्पार्थेन प्रतिज्ञातं तत्तथा न तदन्यथा ।
चिकीर्षितं हि ते भर्तुर्न भवेज्जातु निष्फलम् ॥ ७.७७.२६ ॥

普利塔之子所发的誓言,必定如此实现,而不会有别的结果。你丈夫所立志要做的事,绝不会徒劳无功。

7.77.27

यदि च मनुजपन्नगाः पिशाचा ।
रजनिचचाराः पतगाः सुरासुराश्च।
रणगतमभियान्ति सिन्धुराजं ।
न स भविता सह तैरपि प्रभाते ॥ ७.७७.२७ ॥

即便人类、蛇族、毗舍遮、夜行者、飞鸟、天神与阿修罗都攻击那前往战场的信度王,到了黎明,他也不会与他们同在。