Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 7.82

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

7.82.1

तयोः संवदतोरेव कृष्णदारुकयोस्तथा ।
साऽत्यगाद्रजनी राजन्नथ राजा स्म बोध्यते ॥ ७.८२.१ ॥

大王啊,当克里希那与达鲁卡二人仍在交谈之时,那一夜便过去了;随后国王被唤醒。

7.82.2

पठन्ति पाणिध्वनिका मागधाः स्तवगायकाः ।
वैतालिकाश्च सूताश्च तुष्टुवुः पुरुषर्षभम् ॥ ७.८२.२ ॥

击掌的人、摩揭陀赞者、颂歌歌者、吠陀唱者与御者诗人诵读并赞美那位人中雄牛。

7.82.3

नर्तकाश्चाप्यनृत्यन्त जगुर्गीतानि गायकाः ।
कुरुवंशस्तवार्थानि मधुरं रक्तकण्ठिनः ॥ ७.८२.३ ॥

舞者起舞,声音甜美而饱含情感的歌者唱起赞颂俱卢家族的歌曲。

7.82.4

मृदङ्गा झर्झरा भेर्यः पणवानकगोमुखाः ।
आडम्बराश्च शङ्खाश्च दुन्दुभ्यश्च महास्वनाः ॥ ७.८२.४ ॥

鼓、铙、大鼓、小鼓、腰鼓、牛角号、大号、海螺与战鼓,全都发出巨大的声响。

7.82.5

एवमेतानि सर्वाणि तथान्यान्यपि भारत ।
वादयन्ति स्म संहृष्टाः कुशलाः साधुशिक्षिताः ॥ ७.८२.५ ॥

婆罗多啊,这一切以及其他乐器,都由欢喜、技艺娴熟、训练有素的乐师演奏起来。

7.82.6

स मेघसमनिर्घोषो महाञ्शब्दोऽस्पृशद्दिवम् ।
पार्थिवप्रवरं सुप्तं युधिष्ठिरमबोधयत् ॥ ७.८२.६ ॥

那如云中雷鸣般的巨大声响直达天空,唤醒了沉睡的诸王之首坚战。

7.82.7

प्रतिबुद्धः सुखं सुप्तो महार्हे शयनोत्तमे ।
उत्थायावश्यकार्यार्थं ययौ स्नानगृहं नृपः ॥ ७.८२.७ ॥

国王醒来,在珍贵的上好床榻上安然睡过之后起身,为了必要之事前往浴室。

7.82.8

ततः शुक्लाम्बराः स्नातास्तरुणाः शतमष्ट च ।
स्नापकाः काञ्चनैः कुम्भैः पूर्णैः समुपतस्थिरे ॥ ७.८२.८ ॥

随后,一百零八名身穿白衣、已经沐浴的年轻侍浴者,手持盛满水的金瓶前来侍立。

7.82.9

भद्रासने सूपविष्टः परिधायाम्बरं लघु ।
सस्नौ चन्दनसंयुक्तैः पानीयैरभिमन्त्रितैः ॥ ७.८२.९ ॥

他端坐在吉祥的座位上,穿上轻便的衣服,用掺有檀香并经咒语加持的水沐浴。

7.82.10

उत्सादितः कषायेण बलवद्भिः सुशिक्षितैः ।
आप्लुतः साधिवासेन जलेन ससुगन्धिना ॥ ७.८२.१० ॥

由强壮且训练有素的侍者以香涩膏为他擦身,又用芬芳的香水为他沐浴。

7.82.11

राजहंसनिभं प्राप्य उष्णीषं शिथिलार्पितम् ।
जलक्षयनिमित्तं वै वेष्टयामास मूर्धनि ॥ ७.८२.११ ॥

他取来一条洁白如王家天鹅的头巾,松松地放着让水干,然后缠绕在头上。

7.82.12

हरिणा चन्दनेनाङ्गमुपलिप्य महाभुजः ।
स्रग्वी चाक्लिष्टवसनः प्राङ्मुखः प्राञ्जलिः स्थितः ॥ ७.८२.१२ ॥

这位臂力强大的国王以旃檀涂抹全身,戴着花环,身着洁净的衣服,面向东方,合掌而立。

7.82.13

कृत्वेन्द्रियाणामैकाग्र्यं मनसश्च महामनाः ।
जजाप जप्यं कौन्तेयः सतां मार्गमनुष्ठितः।
तत्राग्निशरणं दीप्तं प्रविवेश विनीतवत् ॥ ७.८२.१३ ॥

大心的昆蒂之子使诸根与心意专一,遵循善人之道,诵念应当诵念的咒语。随后,他谦恭地进入燃烧的火之庇护所。

7.82.14

समिद्भिः स पवित्राभिरग्निमाहुतिभिस्तथा ।
मन्त्रपूताभिरर्चित्वा निश्चक्राम गृहात्ततः ॥ ७.८२.१४ ॥

他以清净的薪柴和供品,同样以咒语净化之,礼拜火神,然后走出了家门。

7.82.15

द्वितीयां पुरुषव्याघ्रः कक्ष्यां निर्गम्य पार्थिवः ।
ततो वेदविदो वृद्धानपश्यद्ब्राह्मणर्षभान् ॥ ७.८२.१५ ॥

那位人中之虎的国王走出第二个庭院,然后看见了通晓吠陀的年长婆罗门,即婆罗门中的雄牛。

7.82.16

दान्तान्वेदव्रतस्नातान्स्नातानवभृथेषु च ।
सहस्रानुचरान्सौरान्सहस्रं चाष्ट चापरान् ॥ ७.८२.१६ ॥

自我克制、以吠陀誓戒沐浴、在终结沐浴中沐浴的人;千名随从,太阳的一千零八人,以及其他人。

7.82.17

अक्षतैः सुमनोभिश्च वाचयित्वा महाभुजः ।
तान्द्विजान्मधुसर्पिर्भ्यां फलैः श्रेष्ठैः सुमङ्गलैः ॥ ७.८२.१७ ॥

这位大臂者让人以完整的米粒和鲜花诵念祝福,并以蜂蜜、酥油及上好的吉祥果实供养那些再生者。

7.82.18

प्रादात्काञ्चनमेकैकं निष्कं विप्राय पाण्डवः ।
अलङ्कृतं चाश्वशतं वासांसीष्टाश्च दक्षिणाः ॥ ७.८२.१८ ॥

般度之子给每位婆罗门一枚金尼什卡,又给予一百匹装饰好的马、衣服和所求的布施。

7.82.19

तथा गाः कपिला दोग्ध्रीः सवत्साः पाण्डुनन्दनः ।
हेमशृङ्गा रौप्यखुरा दत्त्वा तेभ्यः प्रदक्षिणम् ॥ ७.८२.१९ ॥

般度之子同样把带着小牛、金角银蹄的黄褐色产奶母牛施给他们,并向他们右绕行礼。

7.82.20

स्वस्तिकान्वर्धमानांश्च नन्द्यावर्तांश्च काञ्चनान् ।
माल्यं च जलकुम्भांश्च ज्वलितं च हुताशनम् ॥ ७.८२.२० ॥

卍字吉祥符、增益符,金制难陀衍婆多符,花鬘,水瓶,以及熊熊燃烧的祭火。

7.82.21

पूर्णान्यक्षतपात्राणि रुचकं रोचनास्तथा ।
स्वलङ्कृताः शुभाः कन्या दधिसर्पिर्मधूदकम् ॥ ७.८२.२१ ॥

盛满完整谷粒的器皿,饰物与明黄色颜料,盛装打扮的吉祥少女,凝乳、酥油、蜂蜜与水。

7.82.22

मङ्गल्यान्पक्षिणश्चैव यच्चान्यदपि पूजितम् ।
दृष्ट्वा स्पृष्ट्वा च कौन्तेयो बाह्यां कक्ष्यां ततोऽगमत् ॥ ७.८२.२२ ॥

看过并触摸了吉祥的鸟类和其他受敬重之物后,贡蒂之子走向外院。

7.82.23

ततस्तस्यां नहाबाहोस्तिष्ठतः परिचारकाः ।
सौवर्णं सर्वतोभद्रं मुक्तावैदूर्यमण्डितम् ॥ ७.८२.२३ ॥

那时,大臂者站在那里,侍从们取来一张镶嵌珍珠与青金石的金制萨尔瓦托跋陀罗座。

7.82.24

परार्ध्यास्तरणास्तीर्णं सोत्तरच्छदमृद्धिमत् ।
विश्वकर्मकृतं दिव्यमुपजह्रुर्वरासनम् ॥ ७.८२.२४ ॥

他们取来由毗首羯摩所造的天界上好座椅,铺着极其贵重的卧具,上有华盖,光彩辉煌。

7.82.25

तत्र तस्योपविष्टस्य भूषणानि महात्मनः ।
उपाजह्रुर्महार्हाणि प्रेप्याः शुभ्राणि सर्वशः ॥ ७.८२.२५ ॥

在那里,为端坐的大德之人,侍从从各方取来贵重而光亮的饰物。

7.82.26

युक्ताभरणवेषस्य कौन्तेयस्य महात्मनः ।
रूपमासीन्महाराज द्विषतां शोकवर्धनम् ॥ ७.८२.२६ ॥

大王,那身披饰物的大德贡蒂之子的形貌,使敌人增加悲伤。

7.82.27

चामरैश्चन्द्ररश्म्याभैर्हेमदण्डैः सुशोभनैः ।
दोधूयमानैः शुशुभे विद्युद्भिरिव तोयदः ॥ ७.८२.२७ ॥

被如月光般明亮、金柄华美的白牦牛尾拂扇扇动,他犹如伴着闪电的云朵般光彩照人。

7.82.28

संस्तूयमानः सूत्रैश्च वन्द्यमानश्च वन्दिभिः ।
उपगीयमानो गन्धर्वैरास्ते स्म कुरुनन्दनः ॥ ७.८२.२८ ॥

受御者赞颂,被颂者致敬,被乾闼婆歌唱,库鲁之子端坐在那里。

7.82.29

ततो मुहूर्तमासीच्च वन्दिनां निनदो महान् ।
रथानां नेमिघोषश्च खुरघोषश्च वाजिनाम् ॥ ७.८२.२९ ॥

随即片刻间,传令者的大声喧闹、战车轮辋的隆隆声和马蹄的嗒嗒声一齐响起。

7.82.30

हादेन गजघण्टानां शङ्खानां निनदेन च ।
नराणां पदशब्दैश्च कम्पतीव स्म मेदिनी ॥ ७.८२.३० ॥

象铃的轰鸣、海螺的响声与众人的脚步声交织,大地仿佛在颤抖。

7.82.31

ततः शुद्धान्तमासाद्य जानुभ्यां भूतले स्थितः ।
शिरसा वन्दनीयं तमभिवाद्य जनेश्वरम् ॥ ७.८२.३१ ॥

随后他到达内室,跪于地上,以头叩拜那值得尊敬的人民之主。

7.82.32

कुण्डली बद्धनिस्त्रिंशः सन्नद्धकवचो युवा ।
अभिप्रणम्य शिरसा द्वास्थो धर्मात्मजाय वै ॥ ७.८२.३२ ॥

那戴着耳环、佩剑披甲的年轻守门人,向法之子深深低头致礼。

7.82.33

न्यवेदयद्धृषीकेशमुपयान्तं महात्मने ।
सोऽब्रवीत्पुरुषव्याघ्रः स्वागतेनैव माधवः ॥ ७.८२.३३ ॥

他向大德者禀报希利施迦(克利须那)正在前来;那人中之虎摩度婆便以欢迎之辞回答。

7.82.34

प्रवेश्यतां समीपं मे किमर्थं प्रविलम्बसे ।
आसनं च मधुघ्नाय दीयतां परमार्चितम्।
ततः प्रवेश्य वार्ष्णेयमुपवेश्य वरासने ॥ ७.८२.३४ ॥

请把他带到我身边,为何迟延?请给杀摩度者以最尊贵的座位。随后,引入伐尔施尼之后裔,请他坐在上好的座位上。

7.82.35

सत्कृत्य सत्कृतस्तेन पर्यपृच्छद्युधिष्ठिरः ॥ ७.८२.३५ ॥

尊敬了他,也受到他的尊敬之后,坚战询问了他的安好。