Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 7.83

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

7.83.1

सुखेन रजनी व्युष्टा कच्चित्ते मधुसूदन ।
कच्चिज्ज्ञानानि सर्वाणि प्रसन्नानि तवाच्युत ॥ ७.८३.१ ॥

摩豆须陀啊,你的夜晚过得安好吗?阿周陀啊,你的诸根是否都清明安宁?

7.83.2

वासुदेवोऽपि तद्युक्तं प्रत्युवाच युधिष्ठिरम् ।
दर्शनादेव ते सौम्य न किञ्चिदशुभं मम ॥ ७.८३.२ ॥

婆苏提婆也恰当地回答了坚战:“善良的人啊,仅仅见到你,对我就没有任何不祥。”

7.83.3

ततश्च प्रकृतीः क्षत्ता न्यवेदयदुपस्थिताः ।
अनुज्ञातश्च राज्ञा स प्रावेशयत तं जनम् ॥ ७.८३.३ ॥

于是 kṣattā 通报了前来的臣民,经国王允许,便让那些人进入。

7.83.4

विराटं भीमसेनं च धृष्टद्युम्नं च सात्यकिम् ।
चेदिपं धृष्टकेतुं च द्रुपदं च महारथम् ॥ ७.८३.४ ॥

毗罗吒、怖军、猛光与萨提奇,车底国王 Dhṛṣṭaketu,以及大车战士德鲁帕达。

7.83.5

शिखण्डिनं यमौ चैव चेकितानं सकेकयम् ।
युयुप्सुं चैव कौरव्यं पाञ्चाल्यं चोत्तमौजसम् ॥ ७.८३.५ ॥

尸犍底、双生子无种与偕天、与迦伽耶人同来的 Cekitāna、俱卢族的 Yuyutsu,以及般遮罗的 Uttamaujas。

7.83.6

युधामन्यु सुबाहुं च द्रौपदेयांश्च सर्वशः ।
एतांश्च सुहृदश्चान्यान्दर्शयामास पाण्डवम् ॥ ७.८३.६ ॥

优陀曼尤、苏跋呼,以及德罗波蒂所有的儿子,连同这些人和其他朋友,他都展示给了般度之子。

7.83.7

अनुज्ञाताश्च पार्थेन स्वासीना आसनेषु ते ।
सर्वेष्वथ परार्ध्येषु यथार्हं वन्द्य पाण्डवम् ॥ ७.८३.७ ॥

得到般度之子的允许后,他们都舒适地坐在最好的座位上;般度子按礼节向他们致敬。

7.83.8

एकस्मिन्नासने वीरावुपविष्टौ महाबलौ ।
कृष्णश्च युयुधानश्च वेद्यामिव हुताशनौ ॥ ७.८३.८ ॥

两位大力勇士克里希那与尤尤丹纳同坐于一座位上,如祭坛上燃烧的两团火。

7.83.9

ततो युधिष्ठिरस्तेषां शृण्वतां मधुसूदनम् ।
अब्रवीत्पुण्डरीकाक्षमाभाष्य मधुरं वचः ॥ ७.८३.९ ॥

于是,坚战在众人聆听之中,以温柔的话语向莲花眼的摩陀夫苏陀那说道:

7.83.10

एकं त्वां वयमाश्रित्य सहस्राक्षमिवामराः ।
प्रार्थयामो जयं युद्धे शाश्वतानि सुखानि च ॥ ७.८३.१० ॥

如诸天依托千眼因陀罗,我们唯独依靠你,在战斗中祈求胜利与永恒的快乐。

7.83.11

त्वं हि राज्यविनाशं च द्विषद्भिश्च निराक्रियाम् ।
क्लेशांश्च विविधान्कृष्ण सर्वांस्तानपि वेत्थ नः ॥ ७.८३.११ ॥

克里希那啊,你知道一切:我们王国的毁灭,被敌人所凌辱,以及我们所遭受的种种苦难。

7.83.12

त्वयि सर्वेश सर्वेषामस्माकं भक्तवत्सल ।
सुखमायत्तमत्यर्थं यात्रा च मधुसूदन ॥ ७.८३.१२ ॥

众生之主啊,敬爱虔诚者的摩陀夫苏陀那!我们的幸福与此次出征的成败,全都系于你一身。

7.83.13

स तथा कुरु वार्ष्णेय यथा त्वयि मनो मम ।
अर्जुनस्य यथा सत्या प्रतिज्ञा स्याच्चिकीर्षिता ॥ ७.८३.१३ ॥

瓦尔希尼之后啊,依我心所向于你的那样去做,使阿周那的真实誓言得以实现,那是人们所愿完成的。

7.83.14

स भवांस्तारयत्वस्माद्दुःखामर्षमहार्णवात् ।
परां तितीर्षतामद्य प्लुवो नो भव माधव ॥ ७.८३.१४ ॥

摩陀婆啊,愿你把我们从这悲愤的大海中渡过;今日为想要抵达彼岸的我们做一艘船吧。

7.83.15

नहि तत्कुरुते योधः कार्तवीर्यसमोऽपि यः ।
युधि यत्कुरुषे कृष्ण सारथ्यं त्वं समास्थितः ॥ ७.८३.१५ ॥

克里希那啊,即便是与迦尔塔维利耶相等的勇士,也做不到你在战场上所做的事,因为你担任了御者之职。

7.83.16

यथैव सर्वास्वापत्सु पासि वृष्णीञ्जनार्दन ।
तथैवास्मान्महाबाहो वृजिनात्त्रातुमर्हसि ॥ ७.८३.१६ ॥

生主啊,正如你在一切灾难中护佑瓦尔希尼族人,大臂者啊,你也理应把我们从这苦难中救出。

7.83.17

त्वमगाधेऽप्लवे मग्नान्पाण्डवान्कुरुसागरे ।
समुद्धर प्लुवो भूत्वा शङ्खचक्रगदाधर ॥ ७.८३.१७ ॥

执螺、轮、杵者啊,请化作一艘船,救起沉没在无底无舟的俱卢之海中的般度诸子。

7.83.18

नमस्ते देवदेवेश सनातन विशातन ।
विष्णो जिष्णो हरे कृष्ण वैकुण्ठ पुरुषोत्तम ॥ ७.८३.१८ ॥

敬礼你,诸神之主,永恒者,毁灭者,毗湿奴,胜者,哈利,克里希那,吠古恩塔,人中至尊。

7.83.19

नारदस्त्वां समाचख्यौ पुराणमृषिसत्तमम् ।
वरदं शार्ङ्गिणं श्रेष्ठं तत्सत्यं कुरु माधव ॥ ७.८३.१९ ॥

那罗陀宣称你是古老仙人中最卓越者、赐予恩惠者、持沙尔格弓者、至上者。摩陀婆啊,请使其成真。

7.83.20

इत्युक्तः पुण्डरीकाक्षो धर्मराजेन संसदि ।
तोयमेघस्वनो वाग्मी प्रत्युवाच युधिष्ठिरम् ॥ ७.८३.२० ॥

法王在会上如此相问,莲花眼者——声如雷云、善于辞令——回答了坚战。

7.83.21

सामरेष्वपि लोकेषु सर्वेषु न तथाविधः ।
शरासनधरः कश्चिद्यथा पार्थो धनञ्जयः ॥ ७.८३.२१ ॥

即便在诸天与一切世界中,也没有像普利塔之子、Pārtha Dhanañjaya(阿周那)那样的持弓者。

7.83.22

वीर्यवानस्त्रसम्पन्नः पराक्रान्तो महाबलः ।
युद्धशौण्डः सदामर्षी तेजसा परमो नृणाम् ॥ ७.८३.२२ ॥

他威力强大,精通兵器,勇猛,力量巨大,善战,永不忍受侮辱,在人中光辉最为卓越。

7.83.23

स युवा वृषभस्कन्धो दीर्घबाहुर्महाबलः ।
सिंहर्षभगतिः श्रीमान्द्विषतस्ते हनिष्यति ॥ ७.८३.२३ ॥

他年轻,肩如公牛,臂膀修长,力量强大,步伐如狮子或公牛,光荣显赫;他将杀死你的敌人。

7.83.24

अहं च तत्करिष्यामि तथा कुन्तीसुतोऽर्जुनः ।
धार्तराष्ट्रस्य सैन्यानि धक्ष्यत्यग्निरिवेन्धनम् ॥ ७.८३.२४ ॥

我也会那样做,贡蒂之子阿周那同样会做;他将焚烧持国之子的军队,如同火焚烧柴薪。

7.83.25

अद्य तं पापकर्माणं क्षुद्रं सौभद्रघातिनम् ।
अपुनर्दर्शनं मार्गमिषुभिः क्षेप्स्यतेऽर्जुनः ॥ ७.८३.२५ ॥

今日阿周那将以箭把那作恶的卑劣之人、杀害娑帝婆陀罗之子者,送上一条永不再见的道路。

7.83.26

तस्याद्य गृध्राः श्येनाश्च चण्डगोमायवस्तथा ।
भक्षयिष्यन्ति मांसानि ये चान्ये पुरुषादकाः ॥ ७.८३.२६ ॥

今日,秃鹫、鹰隼、凶猛的豺狼以及其他食人肉者,都将吞食他的血肉。

7.83.27

यद्यस्य देवा गोप्तारः सेन्द्राः सर्वे तथाऽप्यसौ ।
राजधानीं यमस्याद्य हतः प्राप्स्यति दुर्मतिः ॥ ७.८३.२७ ॥

即便诸天神与因陀罗都来护佑他,这个恶念之人今日被杀,也必将抵达阎摩的王城。

7.83.28

निहत्य सैन्धवं जिष्णुरद्य त्वामुपयास्यति ।
विशोको विज्वरो राजन्भव शान्ति पुरस्कृतः ॥ ७.८३.२८ ॥

杀死信度王之后,胜利者阿周那今日将来到您面前。大王啊,请免除忧愁与烦热,以和平为先而安住吧。