摩诃婆罗多 · 章 7.86
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
7.86.1
हन्त ते सम्प्रवक्ष्यामि सर्वं प्रत्यक्षदर्शिवान् ।
शुश्रूषस्व स्थिरो भूत्वा तव ह्यपनयो महान् ॥ ७.८६.१ ॥
现在我将把一切告诉你,因为我是亲眼所见。请镇定地听着,这是你巨大过错的结果。
7.86.2
गतोदके सेतुबन्धो यादृक्तादृगयं तव ।
विलापो निष्फलो राजन्मा शुचो भरतर्षभ ॥ ७.८६.२ ॥
如同水已流尽后再去筑坝一样徒劳,你的这番哀叹也是徒劳的。大王,婆罗多族的雄牛,不要悲伤。
7.86.3
अनतिक्रमणीयोऽयं कृतान्तस्याद्भुतो विधिः ।
मा शुचो भरतश्रेष्ठ दिष्टमेतत्पुरातनम् ॥ ७.८६.३ ॥
这是死神不可逾越的奇妙律令。婆罗多族中最优秀的人,不要悲伤;这是自古以来的命运。
7.86.4
यदि त्वं हि पुरा द्यूतात्कुन्तीपुत्रं युधिष्ठिरम् ।
निवर्तयेथाः पुत्रांश्च न त्वां व्यसनमाव्रजेत् ॥ ७.८६.४ ॥
如果你早先就阻止了昆蒂之子坚战赌博,并让你的儿子们也收手,这场灾难就不会降临到你身上。
7.86.5
युद्धकाले पुनः प्राप्ते तदैव भवता यदि ।
निवर्तिताः स्युः संरब्धा न त्वां व्यसनमाव्रजेत् ॥ ७.८६.५ ॥
如果战斗的时刻再次来临时,你当即就让那些愤怒的战士退回,这场灾难就不会降临到你身上。
7.86.6
दुर्योधनं चाविधेयं बध्नीयास्त्वं पुरा यदि ।
अवेक्ष्य कौरवान्राजन्प्राप्स्यसे त्वं महद्यशः ॥ ७.८६.६ ॥
如果你早先就约束了不听话的难敌,并顾及考罗婆族,大王,你本可以获得巨大的荣耀。
7.86.7
तत्ते बुद्धिव्यतीचारमुपलप्स्यन्ति तज्जनाः ।
पाञ्चाला वृष्णयः सर्वे ये चान्येऽपि नराधिपाः ॥ ७.८६.७ ॥
因此,那些人将察觉你判断的过失:般遮罗人、毗湿尼人,所有人,以及其他的国王。
7.86.8
स कृत्वा पितृकर्म त्वं पुत्रं संस्थाप्य सत्पथे ।
वर्तेथा यदि धर्मेण न त्वां व्यसनमाव्रजेत् ॥ ७.८६.८ ॥
若你尽到父亲的职责,使儿子走上正道,依法度而行,灾祸便不会降临于你。
7.86.9
त्वं तु प्राज्ञतमो लोके हित्वा धर्मं सनातनम् ।
दुर्योधनस्य कर्णस्य शकुनेश्चान्वगा मतम् ॥ ७.८६.९ ॥
你原是世上最有智慧的人,却舍弃永恒的法,而随从了难敌、迦尔纳和沙恭尼的意见。
7.86.10
तत्ते विलपितं सर्वं मया राजन्निशामितम् ।
अर्थे निविशमानस्य विषमिश्रं यथा मधु ॥ ७.८६.१० ॥
大王啊,你的那些哀叹我全都听见了,如同人在行事中饮下掺了毒的蜜。
7.86.11
न तथा मन्यते कृष्णो न च राजा युधिष्ठिरः ।
न भीष्मो नैव च द्रोणो यथा त्वं मन्यसे नृप ॥ ७.८६.११ ॥
大王啊,克里希那不像你那样想,国王坚战、毗湿摩,也不像你那样想,德罗纳亦然。
7.86.12
व्यजानीत यदा तु त्वां लुब्धं धर्मप्रवादिनम् ।
तदाप्रभृति कृष्मस्त्वां न तथा बहुमन्यते ॥ ७.८६.१२ ॥
自从克里希那看出你贪婪、只是口谈法度,他便不再那样敬重你了。
7.86.13
परुषाण्युच्यमानांश्च यथा पार्थानुपेक्षसे ।
तस्यानुबन्धः प्राप्तस्त्वां पुत्रामां राज्यकामुक ॥ ७.८६.१३ ॥
你曾经忽视针对普利塔之子所说的严厉之言,如今其后果已降临于你,你为儿子们贪求王权。
7.86.14
पितृपैतामहं राज्यमपावृत्तं त्वयाऽनघ ।
अथ पार्थैर्जितां कृत्स्नां पृथिवीं प्रत्यपद्यथाः ॥ ७.८६.१४ ॥
无罪者啊,你失去了父祖的王国;而如今你又重新获得了普利塔之子所征服的整个大地。
7.86.15
पाण्डुना निर्जितं राज्यं कौरवाणां यशस्तथा ।
एतच्चाप्यधिकं भूयः पाण्डवैर्धर्मचाखिभिः ॥ ७.८६.१५ ॥
般度所征服的王国和俱卢的荣耀也是如此;而更胜于此的,是遵循法的般度五子再次赢得的一切。
7.86.16
तेषां तत्तादृशं कर्म त्वामासाद्य सुनिष्फलम् ।
यत्पित्र्याद्धंशिता राज्यात्त्वयेहामिषगृद्धिना ॥ ७.८६.१६ ॥
他们的那番作为,到了你这里便完全落空了;因为你贪图猎物,剥夺了他们祖传的王国。
7.86.17
यत्पुनर्युद्धकाले त्वं पुत्रान्गर्हयसे नृप ।
बहुधा व्याहरन्दोषान्न तदद्योपपद्यते ॥ ७.८६.१७ ॥
君王啊,你在战时曾多方指责儿子们并列举他们的过错,如今这样做已不恰当。
7.86.18
न हि रक्षन्ति राजानो युध्यन्तो जीवितं रणे ।
चमूं विगाह्य पार्थानां युध्यन्ते क्षत्रियर्षभाः ॥ ७.८६.१८ ॥
在战斗中的国王不会在战场上保护自己的性命;冲入普利塔之子的军队,刹帝利中的雄牛们在战斗。
7.86.19
यां तु कृष्णार्जुनौ सेनां यां सात्यकिवृकोदरौ ।
रक्षेरन्को नु तां युध्येच्चमूमन्यत्र कौरवात् ॥ ७.८६.१९ ॥
除了俱卢族人,谁能与克里希纳和阿周那、萨提奇和狼腹所守护的那支军队作战?
7.86.20
येषां योद्धा गुडाकेशो येषां मन्त्री जनार्दनः ।
येषां च सात्यकिर्योद्धा येषां योद्धा वृकोदरः ॥ ७.८६.२० ॥
其战士是古达克沙,其谋士是遮那陀那,其战士是萨提奇,其战士是狼腹,
7.86.21
को हि तान्विषहेद्योद्धुं मर्त्यधर्मा धनुर्धरः ।
अन्यत्र कौरवेयेभ्यो ये वा तेषां पदानुगाः ॥ ७.८६.२१ ॥
除了俱卢之子及其随从,哪位凡人弓手能在战斗中抵挡他们?
7.86.22
यावत्तु शक्यते कर्तुमन्तरज्ञैर्जनाधिपैः ।
क्षत्रधर्मरतैः शूरैस्तावत्कुर्वन्ति कौरवाः ॥ ७.८६.२२ ॥
凡懂得计谋的君王和投身刹帝利法的英雄所能做到的,俱卢族人便做到了那么多。
7.86.23
यथा तु पुरुषव्याघ्रैर्युद्धं परमसङ्कटम् ।
कुरूणां पाण्डवैः सार्धं तत्सर्वं शृणु तत्त्वतः ॥ ७.८६.२३ ॥
请如实听取俱卢族人与般度之子——人中猛虎——那场极其危险的战斗是如何发生的。