Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 7.88

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

7.88.1

व्यूढेषु तव सैन्येषु समुत्क्रुष्टेषु मारिष ।
ताड्यमानासु भेरीषु मृदङ्गेष्वानकेषु च ॥ ७.८८.१ ॥

陛下,当您的军队列阵而立、高声呼喊,战鼓、鼓瑟与大鼓被敲响之时,

7.88.2

अनीकानां च संह्रादे वादित्राणां च निःस्वने ।
प्रध्मापितेषु शङ्खेषु सन्नादे रोमहर्षणे ॥ ७.८८.२ ॥

在军队的喧嚣与乐器的声响中,当海螺被吹响时,发出了令人毛骨悚然的巨响。

7.88.3

प्रगृहीतेषु शस्त्रेषु भारतेषु युयुत्सुषु ।
रौद्रे मुहूर्ते सम्प्राप्ते सव्यसाची व्यदृश्यत ॥ ७.८८.३ ॥

当婆罗多的战士们渴望交战、高举兵器,凶险的时刻来临之际,左手神射手(阿周那)出现了。

7.88.4

बलानां वायसानां च पुरस्तात्सव्यसाचिनः ।
पिशितासृग्भुजां सङ्घाः प्रलीयन्ते सहस्रशः ॥ ७.८८.४ ॥

在左手神射手面前,在士兵与乌鸦之中,以肉和血为食的群聚成千上万地聚集。

7.88.5

मृगाश्च घोरसन्नादः शिवाश्चाशिवदर्शनाः ।
दक्षिणेन प्रयातानामस्माकं नेदुरध्वनि ॥ ७.८८.५ ॥

在向右方行进的我军路上,鹿与面目不祥的豺狼发出了可怖的嚎叫。

7.88.6

लोकक्षये महाराज यादृशास्तादृशा हि ते ।
अशिवा धार्तराष्ट्राणां शिवाः पार्थस्य संयुगे ॥ ७.८८.६ ॥

大王啊,这些征兆正如世界毁灭时的征兆一样。对持国之子不祥,而在战斗中对普利塔之子(阿周那)则吉祥。

7.88.7

सनिर्घाता ज्वलन्त्यश्च पेतुरुल्काः सहस्रशः ।
चचाल च मही कृत्स्ना भये घोरे समुत्थिते ॥ ७.८८.७ ॥

伴随雷鸣,成千上万颗燃烧的流星坠落,当可怖的恐惧升起时,整个大地都在震动。

7.88.8

विष्वग्वाताः सनीहारा रूक्षाः शर्करकर्षिणः ।
ववुरायाति कौन्तेये सङ्ग्रामे समुपस्थिते ॥ ७.८८.८ ॥

当昆提之子逼近、战斗临近时,带着雾气的猛烈狂风从四面八方吹来,卷起砂石。

7.88.9

नाकुलिश्च शतानीको धृष्टद्युम्नश्च पार्षतः ।
पाण्डवानामनीकानि प्राज्ञौ तौ व्यूहतुस्तदा ॥ ७.८८.९ ॥

那卡拉、沙塔尼迦,以及普利沙塔之子德里什塔笃姆那——这两位智者当时将般度军队排成了阵型。

7.88.10

ततो रथसहस्रेण द्विरदानां शतेन च ।
त्रिभिरश्वसहस्रैश्च पदातीनां शतैः शतैः ॥ ७.८८.१० ॥

于是,带着一千辆战车、一百头象、三千匹马,以及成百上千的步兵。

7.88.11

अध्यर्धमात्रे धनुषां सहस्रे तनयस्तव ।
अग्रतः सर्वसैन्यानां स्थित्वा दुर्मर्षणोऽब्रवीत् ॥ ७.८८.११ ॥

你的儿子杜尔马尔沙那站在所有军队的前面,相距一又半张弓之远,说道。

7.88.12

अद्य गाण्डीवधन्वानं तपन्तं युद्धदुर्मदम् ।
अहमावारयिष्यामि वेलेव मकरालयम् ॥ ७.८८.१२ ॥

今日我将阻挡手持甘狄拔弓、炽烈且沉醉于战斗的阿周那,如同海岸阻挡大海。

7.88.13

अद्य पश्यन्तु सङ्ग्रामे धनञ्जयममर्षणम् ।
विषक्तं मयि दुर्धर्षं भिन्नं कुम्भमिवाश्मनि ॥ ७.८८.१३ ॥

愿今日众人在战场上看到那不可宽恕的达难闍耶,与我纠缠,难以制服,如同陶罐撞碎在石头上。

7.88.14

तिष्ठध्वं रथिनो यूयं सङ्ग्राममभिकाङ्क्षिणः ।
युध्यामि संहतानेतान्यशो मानं च वर्धयन् ॥ ७.८८.१४ ॥

诸车战士,你们渴望战斗,且坚定站立;我与这些聚集的敌人作战,以增添荣誉与声名。

7.88.15

एवं ब्रुवन्महाराज महात्मा स महीपतिः ।
महेष्वासैर्वृतो राजन्महेष्वासो व्यवस्थितः ॥ ७.८८.१५ ॥

大王啊,那位大度的地主如此说着,被众多大弓手环绕,国王啊,他作为大弓手列阵而立。

7.88.16

ततोऽर्जुनो महाराज महात्मा महतां पतिः ।
महारथसमाख्यातो महेष्वासो व्यवस्थितः ॥ ७.८८.१६ ॥

于是,大王啊,那位大度的诸大人之主,以大车战士之名闻名的大弓手阿周那列阵而立。

7.88.17

कक्षाग्निरिव दुःस्पर्शः सवज्र इव वासवः ।
दण्डपाणिरिवासह्यो मृत्युः कालेन चोदितः ॥ ७.८८.१७ ॥

如林中之火难以触碰,如持金刚的因陀罗,如执杖者难以忍受,如被时间驱使的死亡。

7.88.18

शूलपाणिरिवाक्षोभ्यो वरुणः पाशवानिव ।
युगान्ताग्निरिवार्चिष्मान्दिधक्षुः स्थास्नुजङ्गमम् ॥ ७.८८.१८ ॥

如持三叉戟者般不可动摇,如持索的婆楼那,如劫末燃烧的火焰,欲焚尽静止与运动之物。

7.88.19

क्रोधामर्षबलोद्धूतो निवातकवचान्तकः ।
युद्धे जेता स्थितः सत्ये पारयिष्यन्महाव्रतम् ॥ ७.८८.१९ ॥

被愤怒与不忍之力激动,摧毁尼婆多迦伐者,战场上的胜利者,安住于真理,即将完成大誓。

7.88.20

आमुक्तकवचः खङ्गी जाम्बूनदकिरीटभृत् ।
शुभ्रमाल्याम्बरधरः स्वङ्गदश्चारुकुण्डलः ॥ ७.८८.२० ॥

身穿铠甲,佩剑,戴金冠,披白色花环与衣袍,佩臂钏与美丽耳环。

7.88.21

रथप्रवरमास्थाय नरो नारायणानुगः ।
विधुन्वन्गाण्डिवं सङ्ख्ये बभौ सूर्य इवोदितः ॥ ७.८८.२१ ॥

登上最佳战车,那罗(阿周那)随从那罗延(黑天),于战中挥动甘提婆弓,光辉如初升的太阳。

7.88.22

अग्रानीकस्य सोऽध्यर्ध इषुपाते धनञ्जयः ।
व्यवस्थाप्य रथं राजञ्शङ्खं दध्मौ प्रतापवान् ॥ ७.८८.२२ ॥

财富征服者(阿周那)将战车停在军阵前方一又半箭之地,王啊,他威势赫赫,吹响了法螺。

7.88.23

अथ कृष्णोऽप्यसम्भ्रान्तः पार्थेन सह मारिष ।
प्राध्मापयत्पाञ्चजन्यं शङ्खप्रवरमोजसा ॥ ७.८८.२३ ॥

此时黑天亦泰然不乱,与普塔之子一同,以力吹响了法螺中最上者——般遮若那耶。

7.88.24

तयोः शङ्खप्रणादेन तव सैन्ये विशाम्पते ।
आसन्संहृष्टरोमाणः कम्पिता गतचेतसः ॥ ७.८८.२४ ॥

二人的法螺声响起,人主啊,你军中的士卒毛发竖立,颤抖不已,神志昏乱。

7.88.25

यथा त्रस्यन्ति भूतानि सर्वाण्यशनिनिःस्वनात् ।
तथा शङ्खप्रणादेन वित्रेसुस्तव सैनिकाः ॥ ७.८८.२५ ॥

如同众生听到霹雳之声而战栗,你的士兵也因海螺的吹响而惊恐。

7.88.26

प्रसुस्रुवुः शकृन्मूत्रं वाहनानि च सर्वशः ।
एवं सवाहनं सर्वमाविग्नमभवद्बलम् ॥ ७.८८.२६ ॥

坐骑四处屙尿;如此,全军连同坐骑都陷入了惊乱。

7.88.27

सीदन्ति स्म नरा राजञ्शङ्खशब्देन मारिष ।
विसंज्ञाश्चाभवन्केचित्केचिद्राजन्वितत्रसुः ॥ ७.८८.२७ ॥

大王啊,尊者啊,人们因海螺之声而萎靡;有的失去知觉,有的则惊恐不已。

7.88.28

ततः कपिर्महानादं सहभूतैर्ध्वजालयैः ।
अकरोद्व्यादितास्यश्च भीषयंस्तव सैनिकान् ॥ ७.८८.२८ ॥

此时,旗上的猴子与栖居于旗上的众生一同张口发出巨吼,使你的士兵惊骇。

7.88.29

ततः शङ्खाश्च भेर्यश्च मृदङ्गाश्चानकैः सह ।
पुनरेवाभ्यहन्यन्त तव सैन्यप्रहर्षणाः ॥ ७.८८.२९ ॥

于是海螺、大鼓、mṛdaṅga鼓与ānaka鼓再次齐鸣,令你的军队欢欣鼓舞。

7.88.30

नानावादित्रसंहादैः क्ष्वेडितास्फोटिताकुलैः ।
सिंहनादैः समुत्क्रुष्टैः समाधूतैर्महारथैः ॥ ७.८८.३० ॥

在众多乐器的轰鸣、狮吼、大声呼喊、嘘声与拍击声中,以及大车战士们挥舞兵器之际,军队陷入了混乱。

7.88.31

तस्मिंस्तु तुमुले शब्दे भीरूणां भयवर्धने ।
अतीव हृष्टो दाशार्हमब्रवीत्पाकशासनिः ॥ ७.८८.३१ ॥

在那喧嚣的声响之中,它增添了怯懦者的恐惧,因陀罗之子极为欢喜,对达莎尔哈(黑天)说道。