摩诃婆罗多 · 章 7.89
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
7.89.1
चोदयाश्वान्हृषीकेश यत्र दुर्मर्षणः स्थितः ।
एतद्भित्त्वा गजानीकं प्रवेक्ष्याम्यरिवाहिनीम् ॥ ७.८९.१ ॥
休舍之主啊,驱马前往杜尔摩沙纳所在之处。我将穿过这象军,进入敌军之中。
7.89.2
एवमुक्तो महाबाहुः केशवः सव्यसाचिना ।
अचोदयद्धयांस्तत्र यत्र दुर्मर्षणः स्थितः ॥ ७.८९.२ ॥
被左手善射者如此请求后,大臂的克沙瓦驱马奔向杜尔摩沙纳所立之处。
7.89.3
स सम्प्रहारस्तुमुलः सम्प्रवृत्तः सुदारुणः ।
एकस्य च बहूनां च रथनागनरक्षयः ॥ ७.८९.३ ॥
那场冲突爆发了,喧嚣而极其惨烈,一人与众多之战车、象与人皆遭毁灭。
7.89.4
ततः सायकवर्षेण पर्जन्य इव वृष्टिमान् ।
परानवाकिरत्पार्थः पर्वतानिव नीरदः ॥ ७.८९.४ ॥
于是普利塔之子以箭雨遍洒敌人,如降雨之云覆盖群山。
7.89.5
ते चापि रथिनः सर्वे त्वरिताः कृतहस्तवत् ।
अवाकिरन्बाणजालैस्तत्र कृष्णधनञ्जयौ ॥ ७.८९.५ ॥
那些战车武士也个个迅捷如熟练的射手,在那里以箭网笼罩了克里希那与达那讷迦耶。
7.89.6
ततः क्रुद्धो महाबाहुर्वार्यमाणः परैर्युधि ।
शिरांसि रथिनां पार्थः कायेभ्योऽपाहरच्छरैः ॥ ७.८९.६ ॥
于是愤怒的大臂普利塔之子,在战场上为敌人所阻,以箭将战车武士的头颅从身上斩落。
7.89.7
उद्धान्तनयनैर्वक्रैः सन्दष्टौष्ठपुटैः शुभैः ।
सकुण्डलशिरस्त्राणैर्वसुधा समकीर्यत ॥ ७.८९.७ ॥
眼睛上翻,面孔歪斜,嘴唇被牙齿咬紧,美丽的头颅戴着耳环和头盔,大地被铺满了。
7.89.8
पुण्डरीकवनानीव विध्वस्तानि समन्ततः ।
विनिकीर्णानि योधानां वदनानि चकाशिरे ॥ ७.८९.८ ॥
战士的面孔四处散落被踩碎,闪耀如莲花丛林。
7.89.9
सुवर्णचित्राभरणाः संसिक्ता रुधिरेण च ।
संसक्ता इव दृश्यन्ते मेघसङ्घाः सविद्युतः ॥ ७.८९.९ ॥
金饰斑斓,浸满鲜血,看起来就像夹着闪电的云团紧紧相连。
7.89.10
शिरसां पततां राजञ्शब्दोऽभूद्वसुधातले ।
कालेन परिपक्वानां तालानां पततामिव ॥ ७.८९.१० ॥
大王啊,头颅落地之声在大地之上响起,犹如被时间催熟的棕榈树倒下。
7.89.11
कबन्ध उत्थितः कश्चिद्विष्फार्य सशरं धनुः ।
किञ्चित्खङ्गं विनिष्कृष्य भुजेनोद्यम्य तिष्ठति।
गृहीत्वाऽन्यस्य केशेषु शिरो नृत्यति चापरः ॥ ७.८९.११ ॥
一具无头的躯干站了起来,拉开弓搭上箭。另一人拔出剑,用手臂高高举起站立。还有一人抓住另一人的头发,挥舞着头颅跳舞。
7.89.12
पतितानि न जानन्ति शिरांसि पुरुषर्षभाः ।
अमृष्यमाणाः सङ्ग्रामे कौन्तेयं जयगृद्धिनः ॥ ७.८९.१२ ॥
那些人中雄牛不知道头颅已经落下,他们在战斗中无法忍受昆提之子,贪求胜利。
7.89.13
हयानामुत्तमाङ्गैश्च हस्तिहस्तैश्च मेदिनी ।
बाहुभिश्च शिरोभिश्च वीराणां समकीर्यत ॥ ७.८९.१३ ॥
大地被马头、象鼻以及勇士的手臂和头颅所覆盖。
7.89.14
अयं पार्थः कुतः पार्थः पार्थोऽयमिति सर्वशः ।
तिष्ठ पार्थेहि मां पार्थ क्व यासीति च जल्पताम्।
तव सैन्येषु योधानां पार्थभूतमिवाभवत् ॥ ७.८९.१४ ॥
四处呼喊:“这是Pārtha,怎么会是Pārtha?这就是Pārtha!”又喊道:“站住,Pārtha!到我这里来,Pārtha!你要去哪里?”——在你的军队中,战士们觉得一切都成了Pārtha。
7.89.15
अन्योन्यमपि चाजघ्नुरात्मानमपि चापरे ।
पार्थभूतममन्यन्त जनाः कालेन मोहिताः ॥ ७.८९.१५ ॥
人们彼此攻击,还有人攻击自己;被时间迷惑的他们,把所有人都当作Pārtha。
7.89.16
निष्टनन्तः सरुधिरा विसंज्ञा गाढवेदनाः ।
शयाना बहवो वीराः कीर्तयन्तः स्वबान्धवान् ॥ ७.८९.१६ ॥
许多勇士躺着呻吟,浑身是血,失去知觉,痛苦万分,呼喊着自己的亲人。
7.89.17
सभिण्डिपालाः सप्रासाः सशक्त्यृष्टिपरश्वथाः ।
सनिर्व्यूहाः सनिस्त्रिंशाः सशरासनतोमराः ॥ ७.८९.१७ ॥
带着投枪、长矛、标枪、短矛与战斧;带着阵列、宝剑、弓和铁矛。
7.89.18
सबाणवर्माभरणाः सगदाः साङ्गदा रणे ।
महाभुजगसङ्काशा बाहवः परिघोपमाः ॥ ७.८९.१८ ॥
带着箭矢、铠甲与饰物;带着铁锤与臂钏,在战场上——手臂如大蛇,如铁闩。
7.89.19
उद्वेष्टन्ति विचेष्टन्ति सञ्चेष्टन्ति च सर्वशः ।
वेगं कुर्वन्ति संरब्धा निकृत्ताः परमेषुभिः ॥ ७.८९.१९ ॥
他们翻滚挣扎,四面颤动;愤怒之中,被至上之箭射断,他们疾速冲来。
7.89.20
यो यः स्म समरे पार्थं प्रतिसञ्चरते नरः ।
तस्यतस्यान्तको बाणः शरीरमुपसर्पति ॥ ७.८९.२० ॥
战场上,凡是迎战般度之子的人,死亡之箭便朝他的身体爬去。
7.89.21
नृत्यतो रथमार्गेषु धनुर्व्यायच्छतस्तथा ।
न कश्चित्तत्र पार्थश्च ददृशेऽन्तरमण्वपि ॥ ७.८९.२१ ॥
他在战车道上翻飞,将弓拉满,其间竟看不到丝毫空隙,哪怕细如微尘。
7.89.22
यत्तस्य घटमानस्य क्षिप्रं विक्षिपतः शरान् ।
लाघवात्पाण्डुपुत्रस्य व्यस्मयन्त परे जनाः ॥ ७.८९.२२ ॥
般度之子奋力迅疾地射出箭矢,其敏捷令其余之人惊叹。
7.89.23
हस्तिनं हस्तियन्तारमश्वमाश्विकमेव च ।
अभिनत्फल्गुनो बाणै रथिनं च ससारथिम् ॥ ७.८९.२३ ॥
频伽那以箭矢射穿了象及象夫、马及骑手,以及战车武士连同他的御者。
7.89.24
आवर्तमानमावृत्तं युध्यमानं च पाण्डवः ।
प्रमुखे तिष्ठमानं च न कञ्चिन्न निहन्ति सः ॥ ७.८९.२४ ॥
那位般度之子无人幸免:无论盘旋的、转身的、正在交战的,还是挺立在前的,他没有一个不杀。
7.89.25
यथोदयन्वै गगने सूर्यो हन्ति महत्तमः ।
तथाऽर्जुनो गजानीकमवधीत्कङ्कपत्रिभिः ॥ ७.८९.२५ ॥
如同升起于天空的太阳驱散巨大的黑暗,阿周那以鹤羽箭射杀了象军。
7.89.26
हस्तिभिः पतितैर्भिन्नैस्तव सैन्यमदृश्यत ।
अन्तकाले यथा भूमिर्व्यवकीर्णा महीधरैः ॥ ७.८९.२६ ॥
您的军队,被倒下和破碎的象群所覆盖,看起来就像末日之时被山岳散落的大地。
7.89.27
यथा मध्यंदिने सूर्यो दुष्प्रेक्ष्यः प्राणिभिः सदा ।
तथा धनञ्जयः क्रुद्धो दुष्प्रेक्ष्यो युधि शत्रुभिः ॥ ७.८९.२७ ॥
正午的太阳总是令众生难以直视,愤怒的达南遮耶在战场上也令敌人难以直视。
7.89.28
तत्तथा तव पुत्रस्य सैन्यं युधि परन्तप ।
प्रभग्नं द्रुतमाविग्नमतीव शरपीडितम् ॥ ७.८९.२८ ॥
啊,敌人的烧灼者,您儿子的军队在战斗中如此溃败,很快惊恐万分,被箭矢深深折磨。
7.89.29
मारुतेनेव महता मेघानीकं व्यदीर्यत ।
प्रकाल्यमानं तत्सैन्यं नाशकत्प्रतिवीक्षितुम् ॥ ७.८९.२९ ॥
如同大风撕裂云团,那支被驱散的军队连回头看一眼都做不到。
7.89.30
प्रतोदैश्चापकोटीभिर्हुंकारैः साधुवाहितैः ।
कशापार्ष्ण्यभिघातैश्च वाग्भिरुग्राभिरेव च ॥ ७.८९.३० ॥
用刺棒、弓梢、呼喊、驾驭得当的战车、鞭打和脚跟的踢打,以及严厉的言辞(驱赶着军队)。
7.89.31
चोदयन्तो हयांस्तूर्णं पलायन्ते स्म तावकाः ।
सादिनो रथिनश्चैव पत्तयश्चार्जुनार्दिताः ॥ ७.८९.३१ ॥
你的部众急速驱赶马匹而逃——骑兵、车兵与步卒,皆为阿周那所困扰。
7.89.32
पार्ष्ण्यङ्गुष्ठाङ्कुशैर्नागं चोदयन्तस्तथाऽपरे ।
शरैः सम्मोहिताश्चान्ये तमेवाभिमुखा ययुः ॥ ७.८९.३२ ॥
有人以脚跟、脚趾和象钩驱策大象;另有人被箭所迷惑,径直迎面朝他而去。
7.89.33
तव योघ हतोत्साहा विभ्रान्तमनसस्तदा ॥ ७.८९.३३ ॥
那时你的战士们,斗志已被摧毁,心神迷乱。