摩诃婆罗多 · 章 7.9
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
7.9.1
किं कुर्वाणं रणे द्रोणं जघ्रुः पाण्डवसृञ्जयाः ।
तथा निपुणमस्त्रेषु सर्वशस्त्रभृतामपि ॥ ७.९.१ ॥
当般度之子和srinjaya族击杀德罗纳时,这位精通武器、即使在所有持械者中也出类拔萃的人正在做什么?
7.9.2
रथः पर्यपतद्वाऽस्य धनुर्वाऽशीर्यतास्यतः ।
प्रमत्तो वाऽभवद्दोणो यथा मृत्युमुपेयिवान् ॥ ७.९.२ ॥
他射箭时,战车是否倾覆,弓是否折断,或是德罗纳变得疏忽,因而遭遇死亡?
7.9.3
कथं नु पार्षतस्तात शत्रुभिर्दुष्प्रधर्षणम् ।
किरन्तमिषुसङ्घातान्रुक्मपुङ्खाननेकशः ॥ ७.९.३ ॥
亲爱的,那位难以被敌人攻破、屡次射出带金羽箭雨的人,是如何被普利沙塔之子击杀的?
7.9.4
क्षिप्रहस्तं द्विजश्रेष्ठं कृतिनं चित्रयोधिनम् ।
दूरेषुपातिनं दान्तमस्त्रयुद्धेषु पारगम् ॥ ७.९.४ ॥
手法敏捷、婆罗门中最优秀、技艺精湛、奇妙的战士、远射者、克己自制、精通兵器之战的人,
7.9.5
पाञ्चालपुत्रो न्यवधीद्दिव्यास्त्रधरमच्युतम् ।
कुर्वाणं दारुणं कर्म रणे यत्तं महारथम् ॥ ७.९.५ ॥
般遮罗王之子击杀了那位持有神兵、不败、在战场上行可怕之事而奋力作战的大车将。
7.9.6
व्यक्तं हि दैवं बलवत्पौरुषादिति मे मतिः ।
यद्द्रोणो निहतः शूरः पार्षतेन महात्मना ॥ ७.९.६ ॥
依我看,显然天命比人力更强大,因为英雄德罗纳被普利沙塔的大德之子所杀。
7.9.7
अस्त्रं चतुर्विधं वीरे यस्मिन्नासीत्प्रतिष्ठितम् ।
तमिष्वस्त्रधराचार्यं द्रोणं शंससि मे हतम् ॥ ७.९.७ ॥
你告诉我,那位确立了四种兵器、精通弓术的老师德罗纳已被杀死。
7.9.8
श्रुत्वा हतं रुक्मरथं वैयाघ्रपरिवारणम् ।
जातरूपपरिष्कारं नाद्य शोकमपानुदे ॥ ७.९.८ ॥
听说那位乘金车、受虎将护卫、身饰黄金的德罗纳已被杀,我今日无法消除我的忧愁。
7.9.9
न नूनं परदुःखेन म्रियते कोऽपि सञ्जय ।
यत्र द्रोणमहं श्रुत्वा हतं जीवामि मन्दधीः।
दैवमेव परं मन्ये नन्वनर्थं हि पौरुषम् ॥ ७.९.९ ॥
桑耶,人并不会因他人的悲痛而死;听闻德罗纳被杀,我这愚钝之人仍然活着。我认为天命至高,因为人力确实是徒劳的。
7.9.10
अश्मसारमयं नूर्न हृदयं सुदृढं मम ।
यच्छ्रुत्वा निहतं द्रोणं शतधा न विदीर्यते ॥ ७.९.१० ॥
我的心想必如铁石般坚硬,听闻德罗纳被杀,它也不会碎裂成百片。
7.9.11
ब्राह्मे दैवे तथेष्वस्त्रे यमुपासन्गुणार्थिनः ।
ब्राह्मणा राजपुत्राश्च स कथं मृत्युना हृतः ॥ ७.९.११ ॥
那位被婆罗门与王子们侍奉、以求梵箭、天箭与投射之术精进的人,怎会为死亡所夺?
7.9.12
शोषणं सागरस्येव मेरोरिव विसर्पणम् ।
पतनं भास्करस्येव न मृष्ये द्रोणपातनम् ॥ ७.९.१२ ॥
犹如大海干涸、须弥山移动、太阳坠落一般难以忍受,我无法忍受德罗纳的陨落。
7.9.13
दुष्टानां प्रतिषेद्धासीद्धार्मिकाणां च रक्षिता ।
योऽहासीत्कृपणस्यार्थे प्राणानपि परन्तपः ॥ ७.९.१३ ॥
他是恶人的遏制者,善人的守护者,甚至为可怜人舍弃性命,是敌人的煎熬者。
7.9.14
मन्दानां मम पुत्राणां जयाशा यस्य विक्रमे ।
बृहस्पत्युशनस्तुल्यो बुद्ध्या स निहतः कथम् ॥ ७.९.१४ ॥
我愚昧的儿子们把胜利的希望寄托于其勇武、智慧堪比布里哈斯帕蒂与乌尚那的人,他究竟怎样被杀了?
7.9.15
गुणानां सर्वयोधानां स्थितिरासीन्महाद्युतिः ।
यं मृत्युर्वशगस्तिष्ठेत्स कथं मृत्युना हतः ॥ ७.९.१५ ॥
诸勇士德行的依靠,光辉赫赫,死亡都受其所制,他怎会被死亡所杀?
7.9.16
ते च शोणा बृहन्तोऽश्वाश्छन्ना जालैर्हिरण्मयैः ।
रथे वातजवा युक्ताः सर्वशस्त्रातिगा रणे ॥ ७.९.१६ ॥
那些红色的高大骏马,覆盖着金网,套在战车上,快如疾风,在战场上超越一切兵器。
7.9.17
बलिनो हेषिणो दान्ताः सैन्धवाः साधुवाहिनः ।
दृढाः सङ्ग्राममध्येषु कच्चिदासन्न विह्वलाः ॥ ७.९.१७ ॥
那些强健、嘶鸣、驯服的信度马,善于驾车,在战斗之中是否坚定,没有惊慌吗?
7.9.18
करिणां बृंहतां युद्धे शङ्खदुन्दुभिनिःस्वनैः ।
ज्याक्षेपशरवर्षाणां शस्त्राणां च सहिष्णवः ॥ ७.९.१८ ॥
在战斗中,它们能否忍受大象的咆哮、海螺与战鼓的声音、拉满弓弦射出的箭雨以及兵器的冲击?
7.9.19
आशंसन्तः पराञ्जेतुं जितश्वासा जितव्यथाः ।
हयाः पराजिताः शीघ्रा भारद्वाजरथोद्वहाः ॥ ७.९.१९ ॥
怀着战胜敌人的希望,控制呼吸,克服痛苦,那些虽已战败却迅捷的马匹仍拉着婆罗堕阇(德罗纳)的战车。
7.9.20
ते स्म रुक्मरथे युक्ता नरवीरसमास्थिताः ।
कथं नाभ्यतरंस्तात पाण्डवानामनीकिनीम् ॥ ७.९.२० ॥
他们套在金色战车上,如英雄般登车,孩子啊,他们怎么竟不能突破般度族的军队?
7.9.21
जातरूपपरिष्करामास्थाय रथमुत्तमम् ।
भारद्वाजः किमकरोद्युधि सत्यपराक्रमः ॥ ७.९.२१ ॥
登上饰以黄金的殊胜战车后,真正勇猛的婆罗堕阇(德罗纳)在战斗中做了什么?
7.9.22
विद्यां यस्योपजीवन्ति सर्वलोकधनुर्धराः ।
स सत्यसन्धो बलवान्द्रोणः किमकरोद्युधि ॥ ७.९.२२ ॥
世界上所有弓箭手都依靠其技艺为生的那位恪守誓言、强大的德罗纳,在战斗中做了什么?
7.9.23
दिवि शक्रमिव श्रेष्ठं महामात्रं धनुर्भृताम् ।
के नु तं रौद्रकर्माणं युद्धे प्रत्युद्ययू रथाः ॥ ७.९.२३ ॥
在战斗中,究竟是哪些战车迎向他——那位在天上如因陀罗、在弓手中最为杰出、行事恐怖的大统帅?
7.9.24
ननु रुक्मरथं दृष्ट्वा प्राद्रवन्ति स्म पाण्डवाः ।
दिव्यमस्त्रं विकुर्वाणं रणे तस्मिन्महाबलम् ॥ ७.९.२४ ॥
的确,般度族人看见那金色战车便逃走了,因为在那场战斗中,那位大力者正在施展神圣的武器。
7.9.25
उताहो सर्वसैन्येन धर्मराजः सहानुजः ।
पाञ्चालप्रग्रहो द्रोणं सर्वतः समवारयत् ॥ ७.९.२५ ॥
或者,法王与其诸弟率全军,般遮罗之主从四面阻挡了德罗纳。
7.9.26
नूनमावारयत्पार्थो रथिनोऽन्यानजिह्मगैः ।
ततो द्रोणं समहरत्पार्षतः पापकर्मकृत् ॥ ७.९.२६ ॥
毕竟,般度之子以笔直的箭阻挡了其他车战士;然后作恶的般力沙塔之子将德罗纳引开。
7.9.27
नह्यहं परिपश्यामि वधे कञ्चन शुष्मिणः ।
धृष्टद्युम्नादृते रौद्रात्पाल्यमानात्किरीटिना ॥ ७.९.२७ ॥
除了被戴冠者(阿周那)护持的凶猛的德里斯塔德尤姆纳,我在杀戮中再看不到任何有力的战士。
7.9.28
उताहो सर्वसैन्येन धर्मराजः सहानुजः ।
उत्सृज्य सर्वसैन्यानि द्रोणं तमभिदुद्रुवे ॥ ७.९.२८ ॥
或者,法王与其诸弟舍弃所有军队,向那位德罗纳冲去。
7.9.29
तैर्वृतः सर्वतः क्षुद्रैः पाञ्चालापशदैस्ततः ।
केकयैश्चेदिकारूशैर्मत्स्यैरन्यैश्च भूमिपैः ॥ ७.९.२९ ॥
被他们从四面包围——般遮罗的卑贱之徒,继而是迦竭耶、遮提与迦卢沙人、摩蹉人以及其他国王。
7.9.30
व्याकुलीकृतमाचार्यं पिपीलैरुरगं यथा ।
कर्मण्यसुकरे सक्तं जघानेति मतिर्मम ॥ ७.९.३० ॥
如同蚂蚁侵扰蛇,他们使专注于艰难之事的师尊陷入混乱而杀害了他——这是我的看法。
7.9.31
योऽधीत्य चतुरो वेदान्साङ्गानाख्यानपञ्चमान् ।
ब्राह्मणानां प्रतिष्ठासीत्स्रोतसामिव सागरः ॥ ७.९.३१ ॥
他曾学习四部吠陀及其支分与第五部历史传说,乃婆罗门的依靠,犹如大海之于江河。
7.9.32
क्षत्रं च ब्रह्म चैवेह योऽभ्यतिष्ठत्परन्तपः ।
दृप्तानां प्रतिषेद्धा च चक्षुरासीदचक्षुषाम् ॥ ७.९.३२ ॥
他在刹帝利与婆罗门两种身份中皆出类拔萃,乃焚烧敌人者,抑制骄傲者,为盲人之眼。
7.9.33
अमर्षी चावलिप्तेषु धार्मिकेषु च धार्मिकः ।
स कथं ब्राह्मणो वृद्धः शस्त्रेण वधमाप्तवान् ॥ ७.९.३३ ॥
那位不能忍受不义、对奸佞者严厉而对正直者自身亦正直的年迈婆罗门,究竟如何死于兵刃?
7.9.34
अमर्षिणा मर्षितवान्क्लिश्यमानान्सदा मया ।
अनर्हमाणान्कौन्तेयान्कर्मणस्तस्य तत्फलम् ॥ ७.९.३४ ॥
我虽不能容忍,却常常容忍那些受苦、本不应当如此的贡蒂之子;这是他行为的果报。
7.9.35
यस्य कर्मानुजीवन्ति लोके सर्वधनुर्भृतः ।
स सत्यसन्धः सुकृती श्रीकामैर्निहतः कथम् ॥ ७.९.३५ ॥
世间一切执弓者皆赖其功业而生存,此守信誓、有德之人,竟如何被那些贪求财富之人所杀?
7.9.36
दिवि शक्र इव श्रेष्ठो महासत्वो महाबलः ।
स कथं निहतः पार्थैः क्षुद्रमत्स्यैर्यथा तिमिः ॥ ७.९.३६ ॥
他如天上的因陀罗般最为卓越,心胸广大,力量强盛,却如何被普利塔之子所杀,犹如小鱼杀死大鱼提米?
7.9.37
क्षिप्रहस्तश्च बलवान्दृढघन्वारिमर्दनः ।
न यस्य विजयाकाङ्क्षी विषयं प्राप्य जीवति ॥ ७.९.३७ ॥
手快、有力、弓坚,能摧毁敌人;怀着求胜之心来到战场并遇到他的人,无一能活命。
7.9.38
यं द्वौ न जहतः शब्दौ जीवमानं कदाचन ।
ब्राह्मश्च वेदकामानां ज्याघोषश्च धनुष्मताम् ॥ ७.९.३८ ॥
他活着时,从未离开他的两种声音:渴求吠陀者的婆罗门诵读,以及善射者弓弦的嗡鸣。
7.9.39
अदीनं पुरुषव्याघ्रं हीमन्तमपराजितम् ।
तमिष्वासवराचार्ये द्रोणं जघ्नुः कथं रथाः ॥ ७.९.३९ ॥
那位无畏的人中之虎、知耻、不败的弓手之最——师尊德罗纳——怎样被车兵们杀死的?
7.9.40
नाहं मन्ये हतं द्रोणं स हि लोकमयोत्स्यत ।
को हि शक्तो रणे जेतुमनाधृष्ययशोबलम् ॥ ७.९.४० ॥
我不认为德罗纳已被杀死;他即使面对诸世界也会作战。谁能在战场上战胜名声与力量无可撼动的人?
7.9.41
ब्रह्मकल्पो भवेद्ब्राह्मे क्षात्रे नारायणोपमः ।
ब्रह्मक्षत्रे च यस्यास्तां वशे स्थाणोरिवाखिले ॥ ७.९.४१ ॥
在婆罗门之学上他如梵天,在武力上他如那罗延;婆罗门与刹帝利之力都在他掌控之中,正如整个世界都在湿婆(斯塔努)掌控之中。
7.9.42
सर्वान्हि मामकान्वीरान्सहाश्वरथकुञ्जरान् ।
युधिष्ठिरस्य तपसा हतान्मन्यामहे कुरून् ॥ ७.९.४२ ॥
实在说来,我以为我的所有勇士——连同马匹、战车与象群——都被坚战的苦行之力所杀,我们如此看待俱卢族。
7.9.43
कथं सञ्जय दुर्धर्षमनाधृष्ययशोबलम् ।
पश्यतां पुरुषेन्द्राणां समरे पार्षतोऽवधीत् ॥ ७.९.४३ ॥
桑闪雅啊,那位不可战胜、名声与力量不可侵犯的英雄,在诸位人中之主观看之时,于战场上如何被般遮罗之子所杀?
7.9.44
के पुरस्तादयुध्यन्त रक्षन्तो द्रोणमन्तिकात् ।
के नु पश्चादवर्तन्त गच्छतो दुर्गमां गतिम् ॥ ७.९.४४ ॥
谁在前方近身守护德罗纳而战斗?又有谁在他走上艰难之路时从后方撤退?
7.9.45
केऽरक्षन्दक्षिणं चक्रं सव्यं के च महात्मनः ।
पुरस्तात्के च वीरस्य युध्यमानस्य संयुगे ॥ ७.९.४५ ॥
谁守卫着那位大德者的右翼与左翼?又谁站在那位正在战斗的英雄前方?
7.9.46
के च तस्मिंस्तनूस्त्यक्त्वा प्रतीपं मृत्युमाव्रजन् ।
द्रोणस्य समरे वीराः केऽकुर्वन्त परां धृतिम् ॥ ७.९.४६ ॥
谁在那里舍弃身躯,迎面赴死?又有哪些英雄在德罗纳的战斗中展现了最高的坚忍?
7.9.47
कच्चिन्नैनं भयान्मन्दाः क्षत्रिया व्यजहन्रणे ।
रक्षितारस्ततः शून्ये कच्चित्तैर्न हतः परैः ॥ ७.९.४७ ॥
难道那些愚蠢的刹帝利不是出于恐惧而在战场上抛弃了他吗?那时守护者在空隙中难道没能保护他免遭敌人杀害吗?
7.9.48
न स पृष्ठमरेस्त्रासाद्रणे शौर्यात्प्रदर्शयेत् ।
परामप्यापदं प्राप्य स कथं निहतः परैः ॥ ७.९.४८ ॥
他在战场上从不因惧怕敌人而背向敌人,只显示勇武。即使陷入大难,他又如何被敌人杀害?
7.9.49
एतदार्येण कर्तव्यं कृच्छ्रास्वापत्सु सञ्जय ।
पराक्रमेद्यथा शक्त्या तच्च तस्मिन्प्रतिष्ठितम्।
यो यथाशक्ति युद्ध्येत द्विषद्भिःस्वांश्च पालयन् ॥ ७.९.४९ ॥
萨阇耶啊,高尚之人在困厄的灾难中应当这样做:依其力量展现勇武;那勇武就稳固地存在于他之中。
7.9.50
कच्चिन्नैनं भयात्क्षुद्राः पार्थेभ्यः प्रददू रणे ।
गोप्तृभिस्तैः समुत्सृष्टः कच्चिन्नैष परैर्हतः ॥ ७.९.५० ॥
那些卑劣之人是否因恐惧,在战场上把他交给了般遮的儿子们?还是保护他的人弃他而去,他被敌人杀死了?
7.9.51
धृष्टद्युम्नं प्रपश्यामि निघ्नन्तमिव ब्राह्मणम् ।
वार्यमाणं रणे तात द्रौणिनाऽमिततेजसा ॥ ७.९.५१ ॥
孩子啊,我看见德里湿陀尤摩那仿佛在击打婆罗门,却在战场上被德罗纳之子阻拦,那人有无限光辉。
7.9.52
मुह्यते मे मनस्तात कथा तावन्निवार्यताम् ।
भूयस्तु लब्धसंज्ञस्त्वां परिपृच्छामि सञ्जय ॥ ७.९.५२ ॥
孩子啊,我的心神迷乱;暂且停止这段叙述吧。待我恢复神志,萨阇耶啊,我会再问你。