Vedyatra वेदयात्रा
検索

マハーバーラタ · 章 7.93

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

語の意味つきで読む

7.93.1

हते सुदक्षिणे राजन्वीरे चैव श्रुतायुधे ।
जवेनाभ्यद्रवन्पार्थं कुपिताः सैनिकास्तव ॥ ७.९३.१ ॥

王よ、スダクシナと英雄シュルタユダが殺されると、怒った汝の兵士たちは速やかにパールタ(アルジュナ)へ突進した。

7.93.2

अभीषाहाः शूरसेनाः शिबयोऽथ वसातयः ।
अभ्यवर्षंस्ततो राजञ्शरवर्षैर्धनञ्जयम् ॥ ७.९३.२ ॥

王よ、そのとき、アビーシャハ族、シューラセーナ族、シビ族、ヴァサーティ族は矢の雨を降らせ、ダナンジャヤ(アルジュナ)を覆った。

7.93.3

तेषां षष्टिशतानन्यान्प्रामथ्नात्पाण्डवः शरैः ।
ते स्म भीताः पलायन्ते व्याघ्रात्क्षुद्रमृगा इव ॥ ७.९३.३ ॥

パーンダヴァは彼らのうち六百人と他の者を矢で倒した。彼らは恐れ、虎から逃げる小さな鹿のように逃げ去った。

7.93.4

ते निवृत्ताः पुनः पार्थं सर्वतः पर्यवारयन् ।
रणे सपत्नान्निघ्नन्तं जिगीषन्तं परान्युधि ॥ ७.९३.४ ॥

彼らは引き返し、再びパールタ(アルジュナ)を四方から取り囲んだ。戦場で敵を打ち倒し、勝利を求める彼を。

7.93.5

तेषामापततां तूर्णं गाण्डीवप्रेषितैः शरैः ।
शिरांसि पातयामास बाहूंश्चापि धनञ्जयः ॥ ७.९३.५ ॥

彼へ突進してくる者たちに対し、ダナンジャヤはガーンディーヴァから放った矢で速やかに頭と腕を落とさせた。

7.93.6

शिरोभिः पातितैस्तत्र भूमिरासीन्निरन्तरा ।
अभ्रच्छायेव चैवासीद्ध्वाङ्क्षगृध्रबलैर्युधि ॥ ७.९३.६ ॥

そこでは倒れた頭で地面が隙間なく覆われ、戦場ではカラスとハゲタカの軍勢によって雲の影のようになった。

7.93.7

तेषु तूत्साद्यमानेषु क्रोधामर्षसमन्वितौ ।
स्रुतायुश्चाश्रुतायुश्च धनञ्जयमयुध्यताम् ॥ ७.९३.७ ॥

彼らが滅ぼされている間、怒りと憤りに満ちたシュルターユとアシュルターユは、ダナンジャヤと戦った。

7.93.8

बलिनौ स्पर्धिनौ वीरौ कुलजौ बाहुशालिनौ ।
तावेनं शरवर्षाणि सव्यदक्षिणमस्यताम् ॥ ७.९३.८ ॥

強力で競い合う、高貴に生まれ腕力を誇る二人の英雄は、左右の手で彼に矢の雨を降らせた。

7.93.9

त्वरायुक्तौ महराज प्रार्थयानौ महद्यशः ।
अर्जुनस्य वधप्रेप्सू पुत्रार्थे तव धन्विनौ ॥ ७.९३.९ ॥

偉大な王よ、焦りに駆られ、大いなる名声を求め、アルジュナの死を望む二人の弓の名手は、あなたの息子のために戦った。

7.93.10

तावर्जुनं सहस्रेण पत्रिणां नतपर्वणाम् ।
पूरयामासतुः क्रुद्धौ तटाकं जलदौ यथा ॥ ७.९३.१० ॥

怒った二人は、節の曲がった数千の矢でアルジュナを満たした。雨雲が池を満たすように。

7.93.11

श्रुतायुश्च ततः क्रुद्धस्तोमरेण धनञ्जयम् ।
आजघान रथश्रेष्ठः पीतेन निशितेन च ॥ ७.९३.११ ॥

すると怒ったシュルターユスは、戦車の戦士の中で最も優れた者として、投槍と黄色い柄の鋭い矢でダナンジャヤを打った。

7.93.12

सोऽतिविद्धो बलवता शत्रुणा शत्रुकर्शनः ।
जगाम परमं मोहं मोहयन्केशवं रणे ॥ ७.९३.१२ ॥

強敵によってひどく傷を負わされたその敵を苦しめる者は、大いなる失神に陥り、戦場でケーシャヴァをさえ惑わせた。

7.93.13

एतस्मिन्नेव काले तु सोऽश्रुतायुर्महारथः ।
शूलेन भृशतीक्ष्णेन ताडयामास पाण्डवम् ॥ ७.९३.१३ ॥

まさにその時、大戦士アシュルターユスは極めて鋭い槍で パーンダヴァを打った。

7.93.14

क्षते क्षारं स हि ददौ पाण्डवस्य महात्मनः ।
पार्थोऽपि भृशसंविद्धो ध्वजयष्टिं समाश्रितः ॥ ७.९३.१४ ॥

彼は高潔なパーンダヴァの傷に苛性の塩を塗った。パールタも重傷を負い、旗竿にすがった。

7.93.15

ततः सर्वस्य सैन्यस्य तावकस्य विशाम्पते ।
सिंहनादो महानासीद्धतं मत्वा धनञ्जयम् ॥ ७.९३.१५ ॥

その時、人の王よ、お前の全軍に大きな獅子吼が起こった。ダナンジャヤが殺されたと思ったのだ。

7.93.16

कृष्णश्च भृशसन्तप्तो दृष्ट्वा पार्थं विचेतनम् ।
आश्वासयत्सुहृद्याभिर्वाग्भिस्तत्र धनञ्जयम् ॥ ७.९३.१६ ॥

クリシュナは意識を失ったパールタを見て深く悲しみ、そこでダナンジャヤを友の言葉で慰めた。

7.93.17

ततस्तौ रथिनां श्रेष्ठौ लब्धलक्षौ धनञ्जयम् ।
वासुदेवं च वार्ष्णेयं शरवर्षैः समन्ततः ॥ ७.९३.१७ ॥

すると、その二人の最も優れた戦車の戦士は目標を得て、ダナンジャヤとヴリシュニ族のヴァースデーヴァに四方から矢の雨を降らせた。

7.93.18

सचक्रकूबररथं साश्वध्वजपताकिनम् ।
अदृश्यं चक्रतुर्युद्धे तदद्भुतमिवाभवत् ॥ ७.९३.१८ ॥

彼らは戦いで、車輪、車軸箱、馬、旗、幟を備えたその戦車を見えなくした。それは不思議なことのようであった。

7.93.19

प्रत्याश्वस्तस्तु बीभत्सुः शनकैरिव भारत ।
प्रेतराजपुरं प्राप्य पुनः प्रत्यागतो यथा ॥ ७.९३.१९ ॥

その時ビーバトゥスは徐々に意識を取り戻し、バーラタよ、死者の王の都に至って戻った者のように再び戻ってきた。

7.93.20

सञ्छन्नं शरजालेन रथं दृष्ट्वा सकेशवम् ।
शत्रू चाभिमुखौ दृष्ट्वा दीप्यमानाविवानलौ ॥ ७.९३.२० ॥

矢の網に覆われた戦車とケーシャヴァを見て、そして前に立つ二人の敵が二つの燃える火のように輝くのを見て——

7.93.21

प्रादुश्चक्रे ततः पार्थः शाक्रमस्त्रं महारथः ।
तस्मादासन्सहस्राणि शराणां नतपर्वणाम् ॥ ७.९३.२१ ॥

その時、大戦車兵パールタは帝釈天の武器を顕現させ、そこから曲がった鏃を持つ何千もの矢が生じた。

7.93.22

ते जघ्नुस्तौ महेष्वासौ ताभ्यां मुक्तांश्च सायकान् ।
विचेरुराकाशगताः पार्थचापविनिःसृताः ॥ ७.९३.२२ ॥

それらの矢は二人の大弓士を打ち、彼らが放った矢もまた、パールタの弓から放たれて空を駆け巡った。

7.93.23

प्रतिहत्य सरांस्तूर्णं शरवेगेन पाण्डवः ।
प्रतस्थे तत्रतत्रैव योधयन्वै महारथान् ॥ ७.९३.२३ ॥

パーンダヴァは自らの矢の勢いでそれらの矢を速やかに退け、あちこちで大戦車兵と戦いながら前進した。

7.93.24

तौ च फल्गुनबाणौघैर्विबाहुशिरसौ कृतौ ।
वसुधामन्वपद्येतां वातनुन्नाविव द्रुमौ ॥ ७.९३.२४ ॥

パルグナの矢の奔流によって二人とも腕と頭を断たれ、風に倒された木々のように大地に倒れた。

7.93.25

श्रुतायुषश्च निधनं वधश्चेवाश्रुतायुषः ।
लोकविस्मापनमभूत्समुद्रस्येव शोषणम् ॥ ७.९३.२५ ॥

シュルターユスの死とアシュルターユスの殺害は世界を驚愕させた。まるで海が干上がったかのようであった。

7.93.26

तयोः पदानुगान्हत्वा पुनः पञ्चशतं रथान् ।
प्रत्यगाद्भारतीं सेनां निघ्नन्पार्थो वरान्वरान् ॥ ७.९३.२६ ॥

二人に従う歩兵を殺し、さらに五百の戦車を倒したのち、パールタは最良の戦士たちを打ち倒しながらバーラタの軍へ戻った。

7.93.27

श्रुतायुषं च निहतं प्रेक्ष्य चैवाश्रुतायुषम् ।
नियतायुश्च सङ्क्रुद्धो दीर्घायुश्चैव भारत ॥ ७.९३.२७ ॥

バーラタよ、シュルターユスとアシュルターユスが殺されたのを見て、ニヤターユスとディールガーユスは激怒した。

7.93.28

पुत्रौ तयोर्नरश्रेष्ठौ कौन्तेयं प्रति जग्मतुः ।
किरन्तौ विविधान्बाणान्पितृव्यसनकर्शितौ ॥ ७.९३.२८ ॥

その二人の息子、人中の最良の者たちは、叔父の不幸に打ちひしがれ、種々の矢を放ちながらクンティーの子へ向かった。

7.93.29

तावर्जुनो मुहूर्तेन शरैः सन्नतपर्वभिः ।
प्रैषयत्परमक्रुद्धो यमस्य सदनं प्रति ॥ ७.९३.२९ ॥

アルジュナは一瞬のうちに、激しく怒って、節の曲がった矢で二人をヤマの住処へ送った。

7.93.30

लोडयन्तमनीकानि द्विपं पद्मसरो यथा ।
नाशक्नुवन्वारयितुं पार्थं क्षत्रियपुङ्गवाः ॥ ७.९३.३० ॥

象が蓮の池をかき乱すように、軍勢をかき乱すパールタを、クシャトリヤの勇者たちは止めることができなかった。

7.93.31

अङ्गास्तु गजसङ्घैश्च पाण्डवं पर्यवारयन् ।
क्रुद्धाः सहस्रशो राजञ्शिक्षिता हस्तिसादिनः ॥ ७.९३.३१ ॥

アンガの人々は象の群れとともにパーンドゥの子を取り囲み始めた。おお王よ、怒り、幾千もの訓練された象乗りたち。

7.93.32

दुर्योधनसमादिष्टाः कुञ्जरैः पर्वतोपमैः ।
प्राच्याश्च दाक्षिणात्याश्च कलिङ्गप्रमुखा नृपाः ॥ ७.९३.३२ ॥

ドゥルヨーダナの命により、山のような象とともに、東方と南方の王たちがカリンガを筆頭に。

7.93.33

तेषामापततां शीघ्रं गाण्डीवप्रेषितैः शरैः ।
निचकर्त शिरांस्युग्रो बाहूनपि सुभूषणान् ॥ ७.९३.३३ ॥

彼らが素早く突進してくると、猛将はガーンディーヴァから放った矢で、彼らの首と、見事に飾られた腕をも切り落とした。

7.93.34

तैः शिरोभिर्मही कीर्णा बाहुभिश्च सहाङ्गदैः ।
बभौ कनकपाषाणा भुजगैरिव संवृता ॥ ७.९३.३४ ॥

その頭と腕飾りを付けた腕に覆われた大地は、蛇に巻かれた黄金の岩のように輝いた。

7.93.35

बाहवो विशिखैश्छिन्नाः शिरांस्युन्मथितानि च ।
पतमानान्यदृश्यन्त द्रुमेभ्य इव पक्षिणः ॥ ७.९३.३५ ॥

矢に切られた腕と引きちぎられた頭が、木から落ちる鳥のように落ちていくのが見えた。

7.93.36

शरैः सहस्रशो विद्धा द्विपाः प्रसृतशोणिताः ।
अदृश्यन्ताद्रयः काले गैरिकाम्बुस्रवा इव ॥ ७.९३.३६ ॥

何千もの矢に貫かれ、血を流す象たちは、季節になると赤土の水を流す山々のように見えた。

7.93.37

निहताः शेरते स्मान्ये बीभत्सोर्निशितैः शरैः ।
गजपृष्ठगता म्लेच्छा नानाविकृतदर्शनाः ॥ ७.९३.३७ ॥

ビーバツ(アルジュナ)の鋭い矢に倒れた他の者たちも横たわっている──象の背に乗っていた蛮族たち、さまざまに醜く変わった姿の者たちである。

7.93.38

नानावेषधरा राजन्नानाशस्त्रौघसंवृताः ।
रुधिरेणानुलिप्ताङ्गा भान्ति चित्रैः शरैर्हताः ॥ ७.९३.३८ ॥

王よ、さまざまな装束をまとい、多くの種々の武器に覆われ、血に塗れた体で、色とりどりの矢に倒れた彼らは輝いている。

7.93.39

शोणितं निर्वमन्ति स्म द्विपाः पार्थशराहताः ।
सहस्रशश्छिन्नगात्राः सारोहाः सपदानुगाः ॥ ७.९३.३९ ॥

パールタ(アルジュナ)の矢に射られた象たちは血を吐いていた;幾千もの体が切断され、乗り手や随行する歩兵とともに。

7.93.40

चुक्रुशुश्च निपेतुश्च बभ्रमुश्चापरे दिशः ।
भृशं त्रस्ताश्च बहवः स्वानेव ममृदुर्गजाः ॥ ७.९३.४० ॥

それらは叫び声をあげて倒れ、他のものは四方へさまよった。極度に怯えた多くの象が、自軍の者たちを踏みにじった。

7.93.41

सोत्तरायुधिनश्चैव द्विपास्तीक्ष्णविषोपमाः ।
विदन्त्यसुरमायां ये सुघोरा घोरचक्षुषः ॥ ७.९३.४१ ॥

上衣と武器を備えたそれらの象は鋭い毒のようであり、阿修羅の幻術を知っていた——極めて恐ろしく、恐ろしい目を持つ。

7.93.42

यवनाः पारदाश्चैव शकाश्च सह बाह्लिकैः ।
काकवर्णा दुराचाराः स्त्रीलोलाः कलहप्रियाः ॥ ७.९३.४२ ॥

ヤヴァナ、パーラダ、シャカ、そしてバーリカたち——烏のような肌の色、悪しき行いをし、女に貪欲で、争いを好む者たち。

7.93.43

द्राविडास्तत्र युध्यन्ते मत्तमातङ्गविक्रमाः ।
गोयोनिप्रभवा म्लेच्छाः कालकल्पाः प्रहारिणः ॥ ७.९३.४३ ॥

そこでドラヴィダの人々が戦っていた、狂った象のような勇猛さで;牛の胎から生まれた蛮族、死のように打ちかかる者たち。

7.93.44

दार्वातिसारा दरदाः पुण्ड्राश्चैव सहस्रशः ।
ते न शक्याः स्म सङ्ख्यातुं व्राताः शतसहस्रशः ॥ ७.९३.४४ ॥

ダールヴァ、アティサーラ、ダラダ、プンドラ、幾千もの;数えることはできず、幾十万の群れであった。

7.93.45

अभ्यवर्षन्त ते सर्वे पाण्डवं निशितैः शरैः ।
अवाकिरंश्च ते म्लेच्छा नानायुद्धविशारदाः ॥ ७.९३.४५ ॥

彼らは皆、鋭い矢をパーンダヴァに浴びせた;様々な戦術に熟練したそのミレッチャたちも矢を撒き散らした。

7.93.46

तेषामपि ससर्जाशु शरवृष्टिं धनञ्जयः ।
सृष्टिस्तथाविधा ह्यासीच्छलभानामिवायतिः ॥ ७.९३.४६ ॥

彼らに対しても、ダナンジャヤは速やかに矢の雨を放った;その放たれた矢は流星の広がりのようであった。

7.93.47

अभ्रच्छायामिव शरैः सैन्ये कृत्वा धनञ्जयः ।
मुण्डार्धमुण्डाञ्जटिलानशुचीञ्जटिलाननान्।
म्लेच्छानशातयत्सर्वान्समेतानस्त्रतेजसा ॥ ७.९३.४७ ॥

矢で軍の上に雲の影のような天蓋を作り、ダナンジャヤは、集まっていた半ば剃髪し、もつれた髪を持ち、不浄で、顔もまたもつれた蛮族をすべて、武器の威力によって射倒した。

7.93.48

शरैश्च शतशो विद्धास्ते सङ्घा गिरिचारिणः ।
प्राद्रवन्त रणे भीता गिरिगह्वरवासिनः ॥ ७.९३.४८ ॥

数百の矢に射抜かれ、その群れ——山を歩く者、山の洞窟に住む者——は戦いで怯えて逃げ去った。

7.93.49

गजाश्वसादिम्लेच्छानां पतितानां शितैः शरैः ।
बकाः कङ्का वृका भूमावपिबन्रुधिरं मुदा ॥ ७.९३.४९ ॥

鋭い矢に射られて倒れたムレッチャの象・馬・騎士たち、その血を、サギやカンカ鳥や狼が地上で喜んで飲んでいた。

7.93.50

पत्त्यश्वरथनागैश्च प्रच्छन्नकृतसङ्क्रमाम् ।
शरवर्षप्लवां घोरां केशशैवलशाद्वलाम्।
प्रावर्तयन्नदीमुग्रां शोणितौघतरङ्गिणीम् ॥ ७.९३.५० ॥

歩兵・馬・戦車・象が隠れた渡し場を成し、矢の雨を筏とし、髪を藻や草とし、血の奔流の波を立てる、恐ろしく猛々しい川を彼らは流れさせた。

7.93.51

छिन्नाङ्गुलीक्षुद्रमत्स्यां युगान्ते कालसन्निभाम् ।
प्राकरोद्गजसम्बाधां नदीमुत्तरशोणिताम् ॥ ७.९३.५१ ॥

切り落とされた指が小魚となり、世の終わりの時のようで、象に満ち、上を血が流れる川を彼は作り出した。

7.93.52

देहेभ्यो राजपुत्राणां नागाश्वरथसादिनाम् ।
यथा स्थलं च निम्नं च न स्याद्वर्षति वासवे।
तथाऽऽसीत्पृथिवी सर्वा शोणितेन परिप्लुता ॥ ७.९३.५२ ॥

王子たちと象・馬・戦車の騎士たちの体から、インドラが雨を降らせた時のように高低の区別もなく、大地全体が血に浸された。

7.93.53

षट्सहस्रान्हयान्वीरान्पुनर्दशशतान्वरान् ।
प्राहिणोन्मृत्युलोकाय क्षत्रियान्क्षत्रियर्षभः ॥ ७.९३.५३ ॥

クシャトリヤの中の牡牛は、六千の騎馬の勇士と、さらに千の優れた勇士を死者の国へ送った。

7.93.54

शरैः सहस्रशो विद्धा विधिवत्कल्पिता द्विपाः ।
शेरते भूमिमासाद्य शैला वज्रहता इव ॥ ७.९३.५४ ॥

矢に幾千度も貫かれ、作法どおり飾られた象たちが地に伏している — ヴァジュラに打たれた山々のように。

7.93.55

स वाजिरथमातङ्गान्निघ्नन्व्यचरदर्जुनः ।
प्रभिन्न इव मातङ्गो मृद्गन्नलवनं यथा ॥ ७.९३.५५ ॥

アルジュナは馬と戦車と象を打ち倒しながら動き回った。あたかも発情した象が蓮の茂みを踏み荒らすように。

7.93.56

भुरिद्रुमलतागुल्मं शुष्केन्धनतृणोलपम् ।
निर्दहेदनलोऽरण्यं यथा वायुसमीरितः ॥ ७.९३.५६ ॥

風に煽られた火が、木々・蔓草・茂みに満ち、乾いた薪や草のある森を焼き尽くすように。

7.93.57

सेनारण्यं तव तथा कृष्णानिलसमीरितः ।
शरार्चिरदहत्क्रुद्धः पाण्डवोऽग्निर्धनञ्जयः ॥ ७.९३.५७ ॥

同様に、あなたの軍という森は、クリシュナという風に煽られ怒れるパーンダヴァ、ダナンジャヤという火が矢の炎で焼き尽くした。

7.93.58

शून्यान्कुर्वन्रथोपस्थान्मानवैः संस्तरन्महीम् ।
प्रानृत्यदिव सम्बाधे चापहस्तो धनञ्जयः।
वज्रकल्पैः शरैर्भूमिं कुर्वन्नुत्तरशोणिताम् ॥ ७.९३.५८ ॥

戦車の座席を空にし、人々で大地を覆い、弓を手にしたダナンジャヤは、混戦の中で舞うかのように、雷のような矢で大地を血で満たした。

7.93.59

ततः प्रावर्तत नदी शोणितौघतरङ्गिणी ।
नराश्वद्विपकायेभ्यः पर्वतेभ्य इवापगा ॥ ७.९३.५९ ॥

そのとき、人・馬・象の身体から、血の奔流の波をたてる川が生じた。山から川が流れ出るように。

7.93.60

अस्थिशर्करसम्बाधा ध्वजवृक्षा रथहदा ।
सञ्छिन्नशीर्षपाणाणा हस्तिहस्तमहाग्रहा ॥ ७.९३.६० ॥

(それは川であった)骨と砂利に満ち、旗竿の木々があり、戦車の池があり、切られた頭と手が石となり、象の鼻が大きな鰐となっていた。

7.93.61

मांसमज्जास्थिपङ्काढ्यां हताश्वमकराकुला ।
उष्णीषफेनसञ्छन्ना शरघोरझषाकुला ॥ ७.९३.६१ ॥

肉と骨髄と骨の泥に満ち、死んだ馬という鰐に覆われ、頭巾の泡に包まれ、矢という恐ろしい魚に満ちた。

7.93.62

रुद्रस्याक्रीडसदृशीं भूमिं कुर्वन्विभीषणाम् ।
प्राविशद्भारतीं सेनां सङ्क्रुद्धो वै धनञ्जयः ॥ ७.९३.६२ ॥

ルドラの遊び場のように恐ろしい大地を作り、怒れるダナンジャヤはバーラタの軍勢に突入した。

7.93.63

तं श्रुतायुस्तथाम्बष्ठो व्रजमानं न्यवारयत् ॥ ७.९३.६३ ॥

進んでくる彼を、シュルターユスとアンバシュタもまた阻んだ。

7.93.64

तस्यार्जुनः शरैस्तीक्ष्णैः कङ्कपत्रपरिच्छदैः ।
न्यपातयद्धयाञ्शीघ्रं यतमानस्य मारिष।
धनुश्चास्यापरैश्छित्त्वा शरैः पार्थो विचक्रमे ॥ ७.९३.६४ ॥

ああ尊き者よ、彼が奮闘する間に、アルジュナは鷺の羽で飾った鋭い矢で速やかに彼の馬を倒し、他の矢で弓を断ち切り、プリター の子は動き回った。

7.93.65

अम्बष्ठस्तु गदां गृह्य क्रोधपर्याकुलेक्षणः ।
आससाद रणे पार्थं केशवं च महारथम् ॥ ७.९३.६५ ॥

しかしアンバシュタは棍棒を取り、怒りに目をかき乱して、戦場でプリターの子とケーシャヴァと大車夫に近づいた。

7.93.66

ततः सम्प्रहरन्वीरो गदामुद्यम्य भारत ।
रथमावार्य गदया केशवं समताडयत् ॥ ७.९३.६६ ॥

そしてバーラタよ、英雄は打撃を加えつつ棍棒を振り上げ、戦車を遮り、棍棒でケーシャヴァを強く打った。

7.93.67

गदया ताडितं दृष्ट्वा केशवं परवीरहा ।
अर्जुनोऽथ भृशं क्रुद्धः सोऽम्बष्ठं प्रति भारत ॥ ७.९३.६७ ॥

ケーシャヴァが棍棒で打たれたのを見て、敵の英雄を倒すアルジュナは激しく怒った。バーラタよ、彼はアンバシュタに向かった。

7.93.68

ततः शरैर्हेमपुङ्खैः सगदं रथिनां वरम् ।
छादयामास समरे मेघः सूर्यमिवोदितम् ॥ ७.९३.६८ ॥

そして金羽の矢で、戦場において棍棒を持つ戦車兵の中の最上の者を覆った。雲が昇った太陽を覆うように。

7.93.69

अथापरैः शरैश्चापि गदां तस्य महात्मनः ।
अचूर्णयत्तदा पार्थस्तिदद्भुतमिवाभवत् ॥ ७.९३.६९ ॥

そしてプリター子は別の矢で、その大いなる魂の持つ棍棒を粉々にした。それはまるで驚異のようであった。

7.93.70

अथ तां पतितां दृष्ट्वा गृह्यान्यां च महागदाम् ।
अर्जुनं वासुदेवं च पुनः पुनरताडयत् ॥ ७.९३.७० ॥

その棍棒が落ちたのを見ると、彼は別の大きな棍棒を取り、アルジュナとヴァースデーヴァを何度も打った。

7.93.71

तस्यार्जुनः क्षुरप्राभ्यां सगदावुद्यतौ भुजौ ।
चिच्छेदेन्द्रध्वजाकारौ शिरश्चान्येन पत्रिणा ॥ ७.९३.७१ ॥

アルジュナは、棍棒とともに高く掲げられたその両腕を、インドラの旗のような形をしたものを、二本の剃刀の刃の矢で切断し、さらに別の羽根の矢で頭も切った。

7.93.72

स पपात हतो राजन्वसुधामनुनादयन् ।
इन्द्रध्वज इवोत्सृष्टो यन्त्रनिर्मुक्तबन्धनः ॥ ७.९३.७२ ॥

王よ、彼は殺されて地面に響きを立てて倒れた。機械の束縛から解き放たれて落ちるインドラの旗のように。

7.93.73

अम्बष्ठे तु तदा भग्ने तव सैन्यमभज्यत ॥ ७.९३.७३ ॥

その時、アンバシュタの部隊が破られ、あなたの軍も崩れた。

7.93.74

रथानीकावगाढश्च वारणाश्वशतैर्वृतः ।
अदृश्यत पदा पार्थो घनैः सूर्य इवावृतः ॥ ७.९३.७४ ॥

戦車の群れに突入し、数百の象と馬に囲まれたパールタ(アルジュナ)は徒歩で見えた。雲に覆われた太陽のように。