摩诃婆罗多 · 章 7.94
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
7.94.1
ततः प्रविष्टे कौन्तेये सिन्धुराजजिघांसया ।
द्रोणानीकं विनिर्भिद्य भोजानीकं च दुस्तरम् ॥ ७.९४.१ ॥
于是,怀着杀死信度王的意愿,俱卢族之子(阿周那)冲入,突破了德罗纳的军队和难以逾越的婆阇军。
7.94.2
काम्भोजस्य च दायादे हते राजन्सुदक्षिणे ।
श्रुतायुषि च विक्रान्ते निहते सव्यसाचिना ॥ ७.९४.२ ॥
大王啊,憍萨罗之子…,甘博迦的继承人苏达克希那和勇猛的室利多耶斯被善用双手的射手阿周那杀死。
7.94.3
विप्रद्रुतेष्वनीकेषु विध्वस्तेषु समन्ततः ।
प्रभग्नं स्वबलं दृष्ट्वा पुत्रस्ते द्रोणमभ्ययात् ॥ ७.९४.३ ॥
诸军四散溃败,四面皆毁。你的儿子见自己的军队已被击溃,便前往德罗纳处。
7.94.4
त्वरन्नेकरथेनैव समेत्य द्रोणमब्रवीत् ।
गतः स पुरुषव्याघ्रः प्रमथ्यैतां महाचमूम् ॥ ७.९४.४ ॥
他独乘一车急速来到德罗纳前,说道:"那人中之虎已摧毁这支大军,向前去了。"
7.94.5
अथ बुद्ध्या समीक्षस्व किन्नु कार्यमनन्तरम् ।
अर्जुनस्य विघाताय दारुणेऽस्मिञ्जनक्षये ॥ ७.९४.५ ॥
现在请用智慧考虑:在这场可怕的杀戮中,要阻止阿周那,下一步应当做什么?
7.94.6
यथा स पुरुषव्याघ्रो न हन्येत जयद्रथः ।
तथा विधत्स्व भद्रं ते त्वं हि नः परमा गतिः ॥ ७.९४.६ ॥
请安排好,使贤友(胜车)不被那人中之虎杀死。愿你平安;你确实是我们最高的依靠。
7.94.7
असौ धनञ्जयाग्निर्हि कोपमारुतचोदितः ।
सेनाकक्षं दहति मे वह्निः कक्षमिवोत्थितः ॥ ७.९४.७ ॥
这位被愤怒之风驱动的丹阇耶火焰,正烧毁我军的丛林,如同升起的烈焰焚烧干草。
7.94.8
अतिक्रान्ते हि कौन्तेये भित्त्वा सैन्यं परन्तप ।
जयद्रथस्य गोप्तारः संशयं परमं गताः ॥ ७.९४.८ ॥
灭敌者啊,当贡蒂之子冲破军阵而过之后,胜车的护卫者陷入了极大的疑惧。
7.94.9
स्थिरा बुद्धिर्नरेन्द्राणमासीद्ब्रह्मविदां वर ।
नातिक्रमिष्यति द्रोणं जातु जीवन्धनञ्जयः ॥ ७.९४.९ ॥
梵智者中的最优秀者啊,诸王的决心坚定:只要他还活着,丹阇耶便绝不会越过德罗纳。
7.94.10
योऽसौ पाथो व्यतिक्रान्तो मिषतस्ते महाद्युते ।
सर्वं ह्यद्यातुरं मन्ये नेदमस्ति बलं मम ॥ ७.९४.१० ॥
光辉者啊,那位普利塔之子在你眼前已经越过了。我认为今天一切都已混乱,我已没有这份力量。
7.94.11
जानामि त्वां महाभाग पाण्डवानां हिते रतम् ।
ततो मुह्यामि च ब्रह्मन्कार्यवत्तां विचिन्तयन् ॥ ७.९४.११ ॥
大福者啊,我知道你一心为般度之子的利益。然而,婆罗门啊,我思量此事的恰当之处时,心中迷惑。
7.94.12
यथाशक्ति च ते ब्रह्मन्वर्धयन्वृत्तिमुत्तमाम् ।
प्रीणामि च यथाशक्ति तच्च त्वं नावबुध्यसे ॥ ७.९४.१२ ॥
婆罗门啊,我随自己的能力增添你优厚的生计,也随自己的能力让你欢喜;然而你并未察觉。
7.94.13
अस्मान्न त्वं सदा भक्तानिच्छस्यमितविक्रम ।
पाण्डवान्सततं प्रीणास्यास्माकं विप्रिये रतान् ॥ ७.९४.१३ ॥
啊,威力无量者!你从不愿意善待我们的信徒;你常常使般度之子们欢喜,却乐于做令我们不快之事。
7.94.14
अस्मानेवोपजीवंस्त्वमस्माकं विप्रिये रतः ।
न ह्यहं त्वां विजानामि मधुदिग्धमिव क्षुरम् ॥ ७.९४.१४ ॥
你仰赖我们而生,却乐于做令我们不快之事。我看你,就如看一把涂了蜜的剃刀。
7.94.15
नह्यहं त्वां विजानामि सर्वं मण्डूकराविणम् ।
नादास्यच्चेद्वरं मह्यं भवान्पाण्डवनिग्रहे।
नावारयिष्यं गच्छन्तमहं सिन्धुपतिं गृहान् ॥ ७.९४.१५ ॥
你像青蛙一样聒噪,我并不完全了解你。若你不曾在制服般度之子一事上许我恩惠,我也不会阻拦那准备回家的信度王。
7.94.16
मया त्वाशंसमानेन त्वत्तस्त्राणमबुद्धिना ।
आश्वासितः सिन्धुपतिर्मोहाद्दत्तश्च मृत्यवे ॥ ७.९४.१६ ॥
我怀着对你庇护的期望,愚昧地安慰了信度王;因迷惑,他被交付于死亡。
7.94.17
यमदंष्ट्रान्तरं प्राप्तो मुच्येतापि हि मानवः ।
नार्जुनस्य वशं प्राप्तो मुच्येताजौ जयद्रथः ॥ ७.९४.१७ ॥
即便落入阎摩之齿间的人,也可能得以脱身;但落入阿周那掌控的胜军,在战场上是不会得救的。
7.94.18
स तथा कुरु शोणश्व यथा मुच्येत सैन्धवः ।
मम चार्तप्रलापानां माक्रुधः पाहि सैन्धवम् ॥ ७.९४.१८ ॥
因此,啊,红马之主,请使信度王得以脱身。莫因我痛苦的哀叹而愤怒;请护卫信度王。
7.94.19
नाभ्यसूयामि ते वाक्यमश्वत्थाम्नाऽसि मे समः ।
सत्यं तु ते प्रवक्ष्यामि तज्जुषस्व विशाम्पते ॥ ७.९४.१९ ॥
你的话我并不介意,你于我如同阿输婆摩。但我要告诉你真相,人民之主,请听从。
7.94.20
सारथिः प्रवरः कृष्णः शीघ्राश्चास्य हयोत्तमाः ।
अल्पं च विवरं कृत्वा पूर्णं याति धनञ्जयः ॥ ७.९४.२० ॥
克里希那是他的御者,最为优秀;他那上等的良马飞快。留出一小段空隙后,财主(阿周那)全速前进。
7.94.21
किं न पश्यसि बाणौघान्क्रोशमात्रे किरीटिनः ।
पश्चाद्रथस्य पतितान्क्षिप्ताञ्शीघ्रं हि गच्छतः ॥ ७.९४.२१ ॥
你难道没有看见一克罗撒之内,戴冠者的箭雨,落在他疾驰的战车之后,被纷纷射出吗?
7.94.22
न ताबं शीघ्रयानेऽद्य समर्थो वयसान्वितः ।
सेनामुखे च पार्थानामेतद्बलमुपस्थितम् ॥ ७.९४.२२ ॥
今日我因年老,不能胜任这迅疾的战车之行;军阵前方,乃是普利塔之子们的这股力量已经列阵。
7.94.23
युधिष्ठिरश्च मे ग्राह्यो मिषतां सर्वधन्विनाम् ।
एवं मया प्रतिज्ञातं क्षत्रमध्ये महाभुज ॥ ७.९४.२३ ॥
我必须在所有弓箭手注视之下擒获坚战。大臂者啊,我已在刹帝利之中如此立誓。
7.94.24
धनञ्जयेन चोत्सृष्टो वर्तते प्रमुखे नृप ।
तस्माद्व्यूहमुखं हित्वा नाहं यास्यामि फल्गुनम् ॥ ७.९४.२४ ॥
被财主所遣之人,正在前列,大王。因此,我不会离开阵势的前端去找法尔贡。
7.94.25
तुल्याभिजनकर्माणं शत्रुमेकं सहायवान् ।
गत्वा योधय मा भैस्त्वं त्वं ह्यस्य जगतः पतिः ॥ ७.९४.२५ ॥
与出身和功业相当的那一个敌人,携同盟友前去作战吧,不要害怕;你本就是这世界的主宰。
7.94.26
राजा शूरः कृती दक्षो वैरमुत्पाद्य पाण्डवैः ।
वीरः स्वयं प्रयाह्याशु यत्र पार्थो धनञ्जयः ॥ ७.९४.२६ ॥
国王啊,你英勇、精明而能干;既已与般度诸子结下仇怨,英雄啊,你就亲自快速前往,去往普利塔之子财主所在之处。
7.94.27
कथं त्वामप्यतिक्रान्तः सर्वशस्त्रभृतां वरम् ।
धनञ्जयो मया शक्य आचार्य प्रतिबाधितुम् ॥ ७.९४.२७ ॥
老师啊,我怎能阻挡已经超越您——持武器者中最出众之人——的财主呢?
7.94.28
अपि शक्यो रणे जेतुं वज्रहस्तः पुरन्दरः ।
नार्जुनः समरे शक्यो जेतुं परपुरञ्जयः ॥ ७.९४.२८ ॥
即便手持金刚杵的补兰达罗,也可在战中被战胜;但攻陷敌城的阿周那,却不能在战中被战胜。
7.94.29
येन भोजश्च हार्दिक्यो भवांश्च त्रिदशोपमः ।
अस्त्रप्रतापेन जितौ श्रुतायुश्च निबर्हितः ॥ ७.९४.२९ ॥
他凭借武器的威力,战胜了婆陀与哈尔迪基亚,也战胜了如天神般的您;并且杀死了室鲁塔优。
7.94.30
सुदक्षिणश्च निहतः स च राजा श्रुतायुधः ।
श्रुतायुश्चाश्रुतायुश्च भ्लेच्छाश्चायुतशो हताः ॥ ७.९४.३० ॥
善施也被杀死,还有那位国王室鲁塔优陀;室鲁塔优与阿室鲁塔优,以及成万成万的蛮夷都被杀了。
7.94.31
तं कथं पाण्डवं युद्धे दहन्तमिव पावकम् ।
प्रतियोत्स्यामि दुर्धर्षं तन्ममाचक्ष्व सत्तम्। ॥ ७.९४.३१ ॥
我该如何迎战那在战场上如火焚烧、不可战胜的般度之子?善中之最,请告诉我。
7.94.32
क्षमं चेन्मन्यसे युद्धं मम तेनाद्य शाधि माम् ।
परवानस्मि भवतः प्रेष्यवद्रक्ष मे यशः ॥ ७.९४.३२ ॥
如果您认为这场战斗适合我,那么今天请指示我。我依赖于您,如同仆人;请保护我的荣誉。
7.94.33
सत्यं वदसि कौरव्य दुराधर्षो धनञ्जयः ।
अहं तु तत्करिष्यामि यथैनं प्रसहिष्यसि ॥ ७.९४.३३ ॥
你说得对,俱卢之后;达那阁耶不可战胜。但我会做那件事,使你能够抵挡他。
7.94.34
अद्भुतं चाद्य पश्यन्तु लोके सर्वधनुर्धराः ।
विषक्तं त्वयि कौन्तेयं वासुदेवस्य पश्यतः ॥ ७.९४.३४ ॥
愿今日世上所有的射手都见证这一奇事:俱蒂之子与你交战,而婆苏提婆在旁观看。
7.94.35
एष ते कवचं राजंस्तथा बध्नामि काञ्चनम् ।
यथा न बाणा नास्त्राणि प्रहरिष्यन्ति ते रणे ॥ ७.९४.३५ ॥
大王,我为你系上这副金甲,使你在战场上,箭矢与兵器都不能伤害你。
7.94.36
यदि त्वां सासुरसुराः सयक्षोरगराक्षसाः ।
योधयन्ति त्रयो लोकाः सनरा नास्ति ते भयम् ॥ ७.९४.३६ ॥
即使三界——阿修罗与天神、夜叉、龙与罗刹,连同人类——都与你交战,你也没有恐惧。
7.94.37
न कृष्णो न च कौन्तेयो न चान्यः शस्त्रभृद्रणे ।
शरानर्पयितुं कश्चित्कवचे तव शक्ष्यति ॥ ७.९४.३७ ॥
无论黑天、昆提之子,还是其他任何持械者,在战场上都无法将箭射入你的铠甲。
7.94.38
स त्वं कवचमास्थाय क्रुद्धमद्य रणेऽर्जुनम् ।
त्वरमाणः स्वयं याहि न त्वाऽसौ विषहिष्यति ॥ ७.९४.३८ ॥
因此,你穿上铠甲,今天在战场上亲自快速前往愤怒的阿周那那里;他将无法承受你。
7.94.39
एवमुक्त्वा त्वरन्द्रोणः स्पृष्ट्वाम्भो वर्म भास्वरम् ।
आबबन्धाद्भुततमं जपन्मन्त्रं यथाविधि ॥ ७.९४.३९ ॥
说完这些,德罗纳急忙触水,依照规定诵念咒语,系上了闪耀的、极为奇妙的铠甲。
7.94.40
रणे तस्मिन्सुमहति विजयस्य सुतस्य ते ।
विसिष्मापयिषुर्लोकान्विद्यया ब्रह्मवित्तमः ॥ ७.९४.४० ॥
在那场大战中,为了你儿子的胜利,精通梵的德罗纳想以学问使诸世界惊叹。
7.94.41
करोतु स्वस्ति ते ब्रह्मा स्वस्ति कुर्वन्तु ब्राह्मणाः ।
सरीसृपाश्च ये श्रेष्ठास्तेभ्यस्ते स्वस्ति भारत ॥ ७.९४.४१ ॥
愿梵天赐你平安;愿婆罗门赐你平安。婆罗多之子啊,愿你也从那些优秀的爬行生物获得平安。
7.94.42
ययातिर्नहुषश्चैव धुन्धुमारो भगीरथः ।
तुभ्यं राजर्षयः सर्वे स्वस्ति कुर्वन्तु ते सदा ॥ ७.९४.४२ ॥
愿耶阿提、那呼沙、顿堵摩罗、薄伽罗陀以及所有王仙永远赐你平安。
7.94.43
स्वस्ति तेऽस्त्वेकपादेभ्यो बहुपादेभ्य एव च ।
स्वस्त्यस्त्वपादकेभ्यश्च नित्यं तव महारणे ॥ ७.९४.४३ ॥
愿你在大战中始终得到吉祥,无论来自单足者、多足者,还是无足者。
7.94.44
स्वाहा स्वधा शची चैव स्वस्ति कुर्वन्तु ते सदा ।
लक्ष्मीररुन्धती चैव कुरुतां स्वस्ति तेऽनघ ॥ ७.९४.४४ ॥
愿娑诃、娑陀、舍姬常为你带来吉祥;愿吉祥天女与阿难陀提,无瑕者啊,也为你带来吉祥。
7.94.45
अमितो देवलश्चैव विश्वामित्रस्तथाङ्गिराः ।
वसिष्ठः कश्यपश्चैव स्वस्ति कुर्वन्तु ते नृप ॥ ७.९४.४५ ॥
愿阿弥多与提婆罗、毗奢蜜多罗与安吉罗、婆私吒与迦叶,都为你带来吉祥,王啊。
7.94.46
धाता विधाता लोकेशो दिशश्च सदिगीश्वराः ।
स्वस्ति तेऽद्य प्रयच्छन्तु कार्तिकेयश्च षण्मुखः ॥ ७.९४.४६ ॥
愿创造者、安排者、世界之主、诸方及诸方护神今日赐予你吉祥;六面的迦尔铁啊也赐予吉祥。
7.94.47
येन देवाः सकृद्भग्नाः सङ्ग्रमे तारकामये ।
धृताः स च हतः शूरो ह्यवध्यो देवतागणैः ॥ ७.९४.४७ ॥
在陀罗迦之战中,众神曾一度被他击溃;那位英雄先被扶持,后被杀死,即便众神之军也无法杀他。
7.94.48
विवस्वान्कुरुतां स्वस्ति तथा वैवस्वतो यमः ।
पार्षिदा वशगा यस्य स्वस्ति तुभ्यं प्रयच्छतु ॥ ७.९४.४८ ॥
愿毗婆娑瓦特为你带来吉祥,毗婆娑瓦特之子阎摩也一样;愿那随从都受他驾驭的阎摩赐予你吉祥。
7.94.49
दिग्गजाश्चैव चत्वारः क्षितिश्च गगनं ग्रहाः ।
दिशश्च विदिशश्चैव सिद्धा लोकहिते रताः।
स्वस्ति कुर्वन्तु ते नित्यं मन्त्रेणानेन रस्तुताः ॥ ७.९४.४९ ॥
四方象王、大地、天空、星辰、方位与隅方,以及乐于世界福祉的悉陀,受此咒语赞颂,愿他们常为你带来吉祥。
7.94.50
अधस्ताद्धरणीं योऽसौ सदा धारयते नृप ।
शेषश्च पन्नगश्रेष्ठः स्वस्ति तुभ्यं प्रयच्छतु ॥ ७.९४.५० ॥
大王啊,愿那从下方常持大地者,以及蛇中之王舍沙,赐予你吉祥。
7.94.51
गान्धारे युधि विक्रम्य निर्जिते पाकशासनेः ।
पुरा वृत्रेण दैत्येन भिन्नदेहाः सहस्रशः ॥ ७.९४.५१ ॥
往昔在犍陀罗之地的战斗中,帕卡之摧者因陀罗虽以勇力取胜却遭败绩,成千上万的天神之身被提坦魔弗栗多撕裂。
7.94.52
हृततेजोबलाः स्रवे तदा सेन्द्रा दिवौकसः ।
ब्रह्माणं शरणं जग्मुर्वृत्राद्भीतां महासुरात् ॥ ७.९४.५२ ॥
那时,天界诸神与因陀罗一同失去光辉与力量,逃亡途中因畏惧大阿修罗弗栗多而前往梵天处寻求庇护。
7.94.53
प्रमार्दितानां वृत्रेण देवानां देवसत्तम ।
गतिर्भव सुरश्रेष्ठ त्राहि नो महतो भयात् ॥ ७.९४.५३ ॥
诸神中最殊胜者啊,请成为被弗栗多碾压的诸神的依归。诸神之首啊,请救护我们脱离这大恐惧。
7.94.54
अथ पार्श्वे स्थितं विष्णुं शक्रादींश्च सुरोत्तमान् ।
प्राह पथ्यमिदं वाक्यं विषण्णान्सुरसत्तमान् ॥ ७.९४.५४ ॥
那时,他对站在身旁的毗湿奴,以及沉溺于忧伤的帝释天等诸神之首,说出了这句有益的话。
7.94.55
रक्ष्या मे सततं देवाः सहेन्द्राः सद्विजातयः ।
त्वष्टुः सुदुर्धरं तेजो येन वृत्रो विनिर्मितः ॥ ७.९४.५५ ॥
愿诸天与因陀罗及再生者常护佑我,那难以承受的陀湿多之威力,由此而造出了弗栗多。
7.94.56
त्वष्ट्रा पुरा तपस्तप्त्वा वर्षायुतशतं तदा ।
वृत्रो विनिर्मितो देवाः प्राप्यानुज्ञां महेश्वरात् ॥ ७.९४.५६ ॥
往昔陀湿多修苦行十万年,于是造出弗栗多,诸天啊,他是得到大自在天的许可的。
7.94.57
शंकरस्य प्रसादाद्वै हन्याद्देवरिपुर्बली ।
नागत्वा शंकरस्थानं भगवान्दृश्यते हरः ॥ ७.९४.५७ ॥
唯蒙湿婆之恩,诸天之敌方可被杀;若不到湿婆之处,尊贵的哈罗便不可见。
7.94.58
दृष्ट्वा जेष्यथ वृत्रं तं क्षिप्रं गच्छत मन्दरम् ।
यत्रास्ते तपसां योनिर्दक्षयज्ञविनाशनः ॥ ७.९४.५८ ॥
见到他,你们便能迅速战胜弗栗多;快去曼达拉山,那里住着苦行的源头、毁灭达刹祭祀者。
7.94.59
पिनाकी सर्वभूतेशो भगनेत्रनिपातनः ।
ते गत्वा सहिता देवा ब्रह्मणा सह मन्दरम् ॥ ७.९४.५९ ॥
持弓者(湿婆)、一切众生之主、击落薄伽眼睛者。诸天与梵天一同前往曼达拉山。
7.94.60
अपश्यंस्तेजसां राशिं सूर्यकोटिसमप्रभम् ।
सोऽब्रवीत्स्वागतं देवा ब्रूत किं करवाण्यहम् ॥ ७.९४.६० ॥
他们看见一团光辉,如千万个太阳般照耀。他说:“诸天欢迎;请告诉我,我该做什么?”
7.94.61
अमोघं दर्शनं मह्यं कामप्राप्तिरतोऽस्तु वः ।
एवमुक्तास्तु ते सर्वे प्रत्युचूस्तं दिवौकसः ॥ ७.९४.६१ ॥
"愿我的显现不会徒然;愿你们得偿所愿。"众天界居民听罢,都向他作了回答。
7.94.62
हृतौजसां नो वृत्रेण गतिर्भव दिवौकसाम् ।
मूर्तीरीक्षस्व नो देव प्रहारैर्जर्जरीकृताः।
शरणं त्वां प्रपन्नाः स्म गतिर्भव महेश्वर ॥ ७.९४.६२ ॥
我们的力量已被弗栗多夺走;愿你成为我们天界居民的依靠。神啊,请看看我们被打击得支离破碎的形体。我们已投奔你的庇护;大自在天啊,愿你成为我们的依靠。
7.94.63
विदितं वो यथा देवाः कृत्येयं सुमहाबला। ॥ ७.९४.६३ ॥
诸神啊,你们知道这个 kṛtyā 是何等强大。
7.94.64
त्वष्टुस्तेजोभवा घोरा दुर्निवार्याऽकृतात्मभिः ।
अवश्यं तु मया कार्यं साह्यं सर्वदिवौकसाम्। ॥ ७.९४.६४ ॥
此物生于特瓦希陀的光辉,可怖,心未成熟者难以抵挡。我必须援助所有天界的居民。
7.94.65
ममेदं गात्रजं शक्र कवचं गृह्य भास्वरम् ।
बधानानेन मन्त्रेण मानसेन सुरेश्वर। ॥ ७.९४.६५ ॥
帝释啊,取此从我身中生出的光明铠甲吧;诸神之主啊,以此心念咒语把它束好。
7.94.66
वधायासुरमुख्यस्य वृत्रस्य सुरघातिनः ।
इत्युक्त्वा वरदः प्रादाद्वर्म तन्मन्त्रमेव च।
स तेन वर्मणा गुप्तः प्रायाद्वृत्रचमूं प्रति ॥ ७.९४.६६ ॥
"为诛杀阿修罗之首、诸神的杀戮者弗栗多。"说罢,赐予者便授予了那副铠甲和那道咒语。他被那副铠甲护佑,向弗栗多的军队进发而去。
7.94.67
नानाविधैश्च शस्त्रौघैः पात्यमानैर्महारणे ।
न सन्धिः शक्यते भेत्तुं वर्मबन्धस्य तस्य तु ॥ ७.९४.६७ ॥
即使在大战中投掷各种各样的兵器洪流,也无法破坏那护甲绑缚的接缝。
7.94.68
स तेन वर्मणा गुप्तो वृत्रं देवरिपुं तदा ।
जघान समरेऽभीतः शक्रो देवाग्रणीस्तदा ॥ ७.९४.६८ ॥
受那护甲保护的无畏之神中的领袖帝释,当时在战场上杀死了诸神之敌弗栗多。
7.94.69
तं च मन्त्रमयं बन्धं वर्म चाङ्गिरसे ददौ ।
अङ्गिराः प्राह पुत्रस्य मन्त्रज्ञस्य बृहस्पतेः।
बृहस्पतिरथोवाच अग्निवेश्याय धीमते ॥ ७.९४.६९ ॥
他将那由咒语构成的束缚与护甲交给了安吉罗。安吉罗对通晓咒语的儿子布利哈斯帕提说;布利哈斯帕提随即对聪慧的阿耆尼韦希雅说道。
7.94.70
अग्निवेश्यो मम प्रादात्तेन बध्नामि वर्म ते ।
तवाह्य देहरक्षार्थं मन्त्रेण नृपसत्तम ॥ ७.९४.७० ॥
阿耆尼韦希雅将它给了我。以此,诸王中最优秀的人啊,我以咒语为你缚上护甲,以保护你的身体。
7.94.71
एवमुक्त्वा ततो द्रोणस्तव पुत्रं महाद्युतिम् ।
पुनरे वचः प्राह शनैराचार्यपुङ्गवः ॥ ७.९४.७१ ॥
说完这话,师尊中最杰出的德罗纳又缓缓地对你那极具光辉的儿子说了这番话。
7.94.72
ब्रह्मसूत्रेण बध्नामि कथचं तव भारत ।
हिरण्यगर्भेण यथा बद्धं विष्णोः पुरा रणे ॥ ७.९४.७२ ॥
婆罗多啊,我以梵线为你缚上护甲,正如往昔金胎神在战斗中缚住毗湿奴一般。
7.94.73
यथा च ब्रह्मणा बद्धं सङ्ग्रामे तारकामये ।
शक्रस्य कवचं दिव्यं तथा बध्नाम्यहं तव ॥ ७.९४.७३ ॥
正如梵天在与多罗伽的战斗中为因陀罗系上神圣的铠甲,我也这样为你系上。
7.94.74
बद्धा तु कवचं तस्य मन्त्रेण विधिपूर्वकम् ।
प्रेषयामास राजानं युद्धाय महते द्विजः ॥ ७.९४.७४ ॥
以咒语和依仪轨为他系好铠甲后,这位婆罗门便送国王去参加大战。
7.94.75
स सन्नद्धो महाबाहुराचार्येण महात्मना ।
प्रस्थितः सहसा राजन्यत्र यातो धनञ्जयः ॥ ७.९४.७५ ॥
大王啊,这位大臂者在伟大的师尊为他披甲后,立即向达那闍耶所去之处出发。
7.94.76
रथानां च सहस्रेण त्रिगर्तानां प्रहारिणाम् ।
तथा दन्तिसहस्रेण मत्तानां वीर्यशालिनाम् ॥ ७.९४.७६ ॥
还有一千辆进攻的三营战车,以及一千头狂怒而勇猛的大象。
7.94.77
अश्वानां नियुतेनैव तथाऽन्यैश्च महारथैः ।
वृतः प्रायान्महाबाहुरर्जुनस्य रथं प्रति ॥ ७.९४.७७ ॥
被一尼优多的马匹及其他大战车武士环绕,这位大臂者朝阿周那的战车而去。
7.94.78
नानावादित्रघोषेण यथा वैरोचनिस्तथा ॥ ७.९४.७८ ॥
伴随着众多乐器的轰鸣,正如毗卢遮那之子(钵利)前行那样,他也前行而去。
7.94.79
ततः शब्दो महानासीत्सैन्यानां तव भारत ।
अगाधं प्रस्थितं दृष्ट्वा समुद्रमिव कौरवम् ॥ ७.९४.७९ ॥
婆罗多啊,那时你的军队中响起了巨大的喧嚣,他们看见俱卢军如大海般浩瀚无际地推进。